मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 174, कुल 672 में से
संदर्भ में पढ़ें132 | मानमेयरहस्यश्लोकवार्तिके
अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः ।
अशेषदुःखोपरमस्त्वपवर्गोऽभिधीयते ॥
स चेतनश्चिता योगात् तद्योगेन विना जडः ।
नार्थावभासादन्यद्धि चैतन्यं नाम विद्यते ॥
अधिकांशो मोक्षहेतुजिज्ञासायां निरूपितः ।
आम्रेडनं हि विदुषां भवेदालस्यकारणम् ॥
(32) मीमांसकात्मा.
1 अथ शाबरभाष्योक्तमात्मतत्त्वं विचिन्त्यते ।
यदेवचोपवर्षेण शारीरकनिरूपितम् ॥
नैरात्म्येनात्र चाक्षिप्ताः सर्वा एवहि चोदनाः ।
वेदप्रामाण्यसिद्धयर्थमात्माऽत्र प्रतिपाद्यते ॥
यजमानः स्वर्गलोकं याति यज्ञायुधीति वाक् ।
एतच्छरीरं यस्यासावात्मा तत्परतामियात् ॥
परैरभिहितान् पूर्वमात्महेतून्निरस्यति ।
न चेदहंप्रत्यये स्युर्दिश्यास्सामान्यदृष्टयः ॥
आह कोऽसावन्य आत्मा नैनं ह्युपलभामहे ।
एनं प्राणादिभिरुपलभामह इतीर्यते ॥
प्राणापानोच्छासनिमेषादिचेष्टितवांस्तु यः ।
शरीरे सोऽत्र यज्ञायुध्यादिशब्दैः विवक्षितः ॥