सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 175, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 175

मीमांसकात्मा 133
शरीरगुणवैधर्म्यात् प्राणाद्याः न शरीरगाः ।
अयावद्द्रव्यभावित्वात् रूपाद्याः यावदाश्रयाः ॥
एवं देहात्मवादोऽयं चार्वाकाणां विदूषितः ।
२ अथ विज्ञानात्मवादः सौगतानां अनूद्यते ॥
एष संप्रत्ययः कस्मात् सुखादन्योऽवसीयते ।
सुखमेवात्मनो रूपं तद्वान् शशविषाणवत् ॥
अथोच्यते विना तेन सुखं कस्येति चेन्न तत् ।
न कस्यापीति वक्ष्यामः न तत्सप्रतियोगिकम् ॥
यथा सूर्यस्य चन्द्रस्य संबन्ध्यन्वेषणा वृथा ।
तथा सुखादेरन्योऽस्ति तद्वानिति न शोभनम् ॥
अथोपलब्धस्यावश्यं संबन्ध्यन्तरकल्पना ।
आत्मनः कल्पितस्यापि संबन्ध्यन्यः प्रसज्यते ॥
अव्यवस्थेति विज्ञाने विरन्तुं तदिहार्हसि ।
अथान्यो नास्ति विज्ञानात् जानातीत्युच्यते च कः॥
जानातिशब्दो ज्ञानस्य कर्तारमभिधित्सति ।
शब्दोऽर्थवान् स कर्तव्यः इति विज्ञानवानसौ ॥
बहवो नन्विह जनाः अस्त्यात्मेत्यादिवादिनः ।
सन्ति प्रत्यक्षवक्तारः न सिद्धिस्तावताऽऽत्मनः ॥
जानातीति परोक्षोऽयं शब्दः किं कल्पयिष्यति ।
३ इति चेदिच्छयैवोपलभामह इतीर्यते ॥