मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 171, कुल 672 में से
संदर्भ में पढ़ें[Header] नैयायिकात्मा 129
क्रियाकरणयोः कर्त्रा संबन्धस्यानुकीर्तनम् ।
व्यपदेशस्स द्विविधः प्रथमोऽयं निशम्यताम् ॥
प्रासादो ध्रियते स्तम्भैः वृक्षो मूलैश्च तिष्ठति ।
इत्यत्र समुदायस्यावयवेनानुकीर्तनम् ॥
तथैवान्येन चान्यस्य व्यपदेशोऽपि दृश्यते ।
प्रपश्यति प्रदीपेन कुठारेण प्रवृश्चति ॥
अत्रास्ति व्यपदेशोऽयं यथा पश्यति चक्षुषा ।
मनसा च विजानाति बुद्ध्या मीमांसते पुनः ॥
शरीरेण सुखं दुःखं तथाऽनुभवतीत्यपि ।
व्यपदेशस्योभयथा सिद्धेः तन्नावधार्यते ॥
किमत्रावयवेन स्यात् संघातस्यानुकीर्तनम् ।
अथवाऽन्येन चान्यस्येत्येवं संशयसंभवे ॥
2 यद्दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति ।
न्यायाचार्यकृतं सूत्रं तद्भाष्यमिह वर्ण्यते ॥
दर्शनेन गृहीतोऽर्थः स्पर्शनेनापि गृह्यते ।
यमद्राक्षं चक्षुषा तं स्पर्शनेन स्पृशाम्यहम् ॥
यं चास्पार्शं स्पर्शनेन तं पश्यामीह चक्षुषा ।
इत्येकविषयावेतौ प्रत्ययावेककर्तृकौ ॥
प्रतिसंधानविषयौ नच संघातकर्तृकौ ।
तथैव प्रत्ययावेतौ नेन्द्रियेणैककर्तृकौ ॥
[Footer] M.R. 17.