मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 181, कुल 672 में से
संदर्भ में पढ़ेंपश्याम्यहमपीत्येवमुपमानेन गम्यते ।
यथाच काश्चिदात्मीयां वेदनां संप्रचक्षते ॥
दह्यमानस्येव मे स्यात् यात्यमानस्य वा पुनः ।
रुद्ध्यमानस्येव मेऽद्य भवतीति विकल्प्यते ॥
अतः स्वेनैवावगम्यमानत्वादस्ति पूरुषः ।
अतिरिक्तो वेदनाभ्यः तस्मादात्मा स्वयंप्रभः ॥
11 यदुच्यते च विज्ञानमपास्यैतन्निदर्शयताम् ।
इति तच्चेदुपायस्य निषेधो न स युज्यते ॥
विनोपायमुपेयं तूपेतुं नैव हि शक्यते ।
ज्ञातव्यानामथार्थानामभ्युपायोऽयमेव हि ॥
यो यथा ज्ञायते सोऽसौ तथेत्यपिच तद्यथा ।
कश्शुक्लो नाम यत्रास्ति शुक्लत्वं शुक्लता च का ॥
शुक्लशब्दप्रवृत्तिस्स्याद्यत्र सा शुक्लता ह्यसौ ।
क्व वा तस्य प्रवृत्तिस्स्यात् यस्तच्छब्दात्प्रतीयते ॥
तत्प्रत्याख्याय विज्ञानं रूपं कस्यापि वस्तुनः ।
न निदर्शयितुं शक्यं ज्ञानात्सर्वं हि सिद्ध्यति ॥
प्रत्ययेऽथ प्रतीतेऽपि प्रत्ययार्थो नियोगतः ।
नच प्रतीतो भवति तस्मात् ज्ञानविलक्षणः ॥
प्रत्यये ह्यप्रतीतेऽपि प्रत्ययार्थः प्रतीयते ।
प्रत्यक्षं तन्न विज्ञानं ज्ञेयोऽध्यक्ष इतीर्यते ॥