मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 180, कुल 672 में से
संदर्भ में पढ़ें58 मानमेयरहस्यश्लोकवार्तिके
स एष नेति नेत्यात्मेति होवाचेति, तस्य तु ।
अयमर्थः-इदंरूप इत्यादेष्टुं न शक्यते ॥
परः पश्यति यद्रूपं तद्रूपं प्रतिषिध्यते ।
तस्योपदेशोपायोऽयं तत्प्रकारोऽवधार्यताम् ॥
शरीरं दृश्यतेऽन्येन तेनात्माऽत्रोपदिश्यते ।
नात्मा शरीरं अन्योऽस्ति शरीरादिति युक्तितः ॥
शरीरप्रतिषेधेन शारीर उपदिश्यते ।
प्राणादिप्रतिषेधेन तेभ्योऽप्यन्योऽवगम्यते ॥
तथा परगताः दुःखसुखाद्या अपि लिङ्गतः ।
परेण ह्युपलभ्यन्ते तेऽपि नात्मान इत्यपि ॥
तेषां तु प्रतिषेधेन तदन्योऽत्रोपदिश्यते ।
स एष नेतिनेत्यादेः अर्थ एषोऽवधारितः ॥
किंच स्वयं पश्यति यं न ततोऽन्यः पुमानिह ।
इत्येतदपि चात्मीयप्रवृत्त्यैवानुमीयते ॥
किंचासौ पुरुषः पूर्वमर्थानां सामिकल्पितम् ।
ततः प्रतिसमाधत्ते शेषांशं चानुतिष्ठति ॥
एवं प्रवृत्त्याऽप्येषोऽर्थो ज्ञायते सूक्ष्मदर्शिभिः ।
नूनं नित्यमनित्यानप्यवगच्छत्यसाविति ॥
10 किंचोपदिश्यते चोपमानादात्मा यथापुनः ।
भवान् यादृशमात्मानं स्वयं पश्यति तादृशम् ।