मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
त्रयोदशोऽध्यायः।
मल्लयुद्धं सविज्ञानं विशेषं कथितं तव ।
इदानीमुपयोगः स्यात्तस्य विस्तारयाम्यहम् ॥ १ ॥
द्रष्टव्यं सततं राज्ञा शास्त्रेण च विवेकिना ।
संग्रामरसिकेनैव नित्यं विविधबुद्धिना ॥ २ ॥
युद्धमुत्साहजननं दुःखहन्तृ विनोदनम् ।
मल्लयुद्धसमं नास्ति तेन युद्धं समारभेत् ॥ ३ ॥
जित्वा च सकलान् रिपून प्रायो निष्कण्टका मही ।
दाविनियाश्च युद्धेन राज्ञां नान्य(द्) विनोदनम् ॥ ४ ॥
अतो रङ्गं समाहूय चतुरैर्नागरैः परैः ।
कलाविद्भिरमात्यैश्च सुहृद्भिश्चैव उत्सवैः ॥ ५ ॥
आहारारोग्यसंपन्नाः श्रमोत्साहसमन्वितः(ताः) ।
संमतं मध्यमं ज्ञेयं सिंहमानं तथाऽधमम् ॥ ६ ॥
इति ज्ञात्वा विधानेव(नेन) देशकालविशेषि(ष)तः ।
कदाचित्कालयोगेन विशेषो भवति श्रमे ॥ ७ ॥
आरोग्यस्य समर्थं च कथं त्राणसमुद्भवः ।
यावत्संख्या पालिता तु श्रमविघ्नः प्रजायते ॥ ८ ॥
ततो द्विगुणाभिरभ्यस्तं प्राप्यते त्राणमुत्तमम् ।
श्रमेण मध्यमं तद्वत् हानाभिरधमं मतम् ॥ ९ ॥
एवं श्रमेण पुष्ट्या च पालिकापिसुखेन च ।
येन केन प्रकारेण त्राणमेवं विवर्द्धयेत् ॥ १० ॥
नियुद्धविद्याबीजमत्राणादपरं वरम् ।
हस्तमेलापकं (:) कार्यो यो येन सदृशो भवेत् ॥ ११ ॥
त्रयोदशोऽध्यायः । ६१
गजो गजेन संयोज्यो प्राणः प्राणवता सह ।
ज्येष्ठिना च समं ज्येष्ठि नियुद्धे विजयो भवेत् ॥ १२ ॥
अन्तरज्येष्ठिनासार्द्धमन्तरज्येष्ठिनं न्यसेत् ।
समं गोपकुलेनैव तथा गोपकुलोपि च ॥ १३ ॥
वृद्धो वृद्धेन संयोज्यो बालकेन तु बालकः ।
भविष्योपि भविष्येण यो यःस्यादपि धर्मतः ॥ १४ ॥
युद्धमेतत्सममात्रेषु कृष्णेन प्रतिपादितम् ।
दातव्यो ज्येष्ठिना ज्येष्ठि प्रतियोद्धा न लभ्यते ॥ १५ ॥
अन्तरज्येष्ठिनौ द्वौ तु योधयेतां परस्परम् ।
कथमप्यन्तरज्येष्ठी प्रतियोद्धा च नो भवेत् ॥ १६ ॥
तदा गोपकुलौ द्वौ च ताभ्यां चैव नियुद्धयेत् ।
भविष्योपि श्रमे पूर्वं सहायो न भवेद्यदि ॥ १७ ॥
समं गोपकुलेनासौ योधयेदविलम्बयेत् ।
वृत्ते गोपकुले द्वन्द्वे भविष्यो बलसंयुतः ॥ १८ ॥
अन्तरज्येष्ठिना सार्धं तथा गोपकुलेन च ।
अन्तरज्येष्ठिनं जित्वा भविष्येण योजयेत्पुनः ॥ १९ ॥
तस्मिन् द्वये पातिते च भविष्येण समं ततः ।
अन्तरज्येष्ठिनौ द्वौ च योज्यौ बलसमन्वितौ ॥ २० ॥
अधमज्येष्ठिना सार्द्धं भविष्यो युद्धमर्हति ।
उत्तमे ज्येष्ठिना जिते सर्वोपि परमं पदम् ॥ २१ ॥
देवकीपालितं पुत्रैर्मल्लवत्परमाप्नुयात् ।
एवं यत्र यस्य येन स तेन तत्र योधयेत् ॥ २२ ॥
हस्तमेलापकं कृत्वा दत्वा योग्यं यथार्थतः ।
मदेन युध्यते हस्ती मल्लश्लाघेण युद्धयति ॥ २३ ॥
६२ मल्लपुराणे
वर्द्धनीयं द्वयं चैव मल्ले त्राणं गजे मदम् ।
मल्लानामनुकथ्यन्ते त्रयोविंशतिसंयमाः ॥ २४ ॥
चेतसा संयमश्चादौ तस्यादौ वाक्यसंयमः ।
दृष्टिसंयम एतस्य तथा वस्तुनि संयमः ॥ २५ ॥
मुखस्य संयमोप्यत्र नीतिसंयम एव च ।
भवस्य संयमः कार्यो मायायाः संयमोपि च ॥ २६ ॥
कामस्य संयमः पश्चात्कर्मणोपि च संयमः ।
अपत्यसंयमो नायमाहारस्य च संयमः ॥ २७ ॥
आसने संयमोप्यस्ति श्रमे वान्योस्ति संयमः ।
श्वासस्य संयमो दृष्टः शयने संयमस्तथा ॥ २८ ॥
पानेपि संयमस्तद्वत्तथा वातस्य संयमः ।
निद्रायाः संयमो यद्वदन्योन्यं सत्यसंयमः ॥ २९ ॥
दानस्य संयमो जातो दुर्लभो धर्मसंयमः ।
एते मल्लैः सदा कार्याः संयमास्त्वेकविंशतिः ॥ ३० ॥
एतैः कृतैः सदा मल्लो जयमाप्नोति निश्चितः ।
अन्नैरूत्पद्यते कामः कामाद्वेगा भवन्ति हि ॥ ३१ ॥
अतो मध्यं सेव्यं च मल्लैरेतच्चतुष्टयम् ।
वेगक्षुत्पिपासाश्च निद्रा चैव तथा पुनः ॥ ३२ ॥
असेवितास्ताडयन्ति प्रकुप्यन्ति हि सेविताः ।
अतो यथाक्षणं सेव्या कदर्पहर्षशान्तये ॥ ३३ ॥
बलहानिर्महान् रोगो नाहारात्कामसंक्षयः ।
तेनाहारः समास्थेयो योगक्षेमाय सर्वदा ॥ ३४ ॥
अपानाज्जायते शोषो ह्यग्निनाशोतिपानतः ।
अतो मुहुर्मुहुः सेव्यमल्पाम्भश्च प्रयत्नतः ॥ ३५ ॥
त्रयोदशोऽध्यायः । ६३
असेवितेङ्गजाड्यं च मोहं च कुरुते परम् ।
मेदोवृद्धिं करोत्यत्राङ्गानि(न)श्चैनाति(तानि) सेवते ॥ ३६ ॥
अतो मल्लैः सावधानैरङ्गसौख्यविवृद्धये ।
यथाक्षणमियं निद्रासेवनातिशयेन च ॥ ३७ ॥
असेविता पीडयन्ति(ति) नाशयत्यतिसेविता ।
अतो यथार्थतः सेव्यमन्नाद्येतच्चतुष्टयम् ॥ ३८ ॥
मलमूत्रमरुच्छुक्रवेगान् कापि न धारयेत् ।
भगन्दराश्मरीगुल्मगुदजानां प्रबोधयेत् ॥ ३९ ॥
जितेऽजितेन्द्रियग्रामे जितं तेन चराचरम् ।
अतश्च कामकं ज्ञेयं येन स्याद्विजितेन्द्रियः ॥ ४० ॥
मल्लैःसह शरीराणि मनसा गन्तुं दूषणम् ।
न बाध्योयं च सर्वेषां तस्मादेतत्समभ्यसेत् ॥ ४१ ॥
अभ्यासः क्रियते यस्मात्तस्मादध्यात्ममुच्यते ।
शब्दस्पर्शरूपरसगन्धाः पञ्च तथैव च ॥ ४२ ॥
आत्मबुद्धीन्द्रियाण्यर्था बहिः करणमुच्यते ।
एते बुद्धीन्द्रियाण्यत्र विषयाः परिकीर्तिताः ॥ ४३ ॥
उत्सर्गः खादनं चैव ग्रहणं लपनं गतिः ।
कर्मेन्द्रियाणामेते हि विषयाः परिकीर्तिताः ॥ ४४ ॥
आत्मा मनश्च बुद्धिश्च अन्तःकरणमुच्यते ।
आत्माबुद्धीन्द्रियाण्यर्था बहिः करणमुच्यते ॥ ४५ ॥
शब्दान्मृगो गजः स्पर्शात्पतङ्गो रूपतस्तथा ।
रसा(स)न्नलिर्गन्धान्मत्स्यो विषपंचे(षे पञ्च) पतन्ति च ॥ ४६ ॥
तस्माद्देशं च कालं च ज्ञात्वा विभवमात्मनः ।
अनासक्तैश्च सेव्यन्ते विषयान्भोगमात्मनः ॥ ४७ ॥
दोषसहस्रशरीरैर्मनसा च सहैन्द्रियैः ।
एवमध्यात्मशुद्धात्मा न मल्लः परिभूयते ॥ ४८ ॥
सजनाक्षुत्पिपासेच्छा वातपित्तकफोद्भवः ।
शरीरजस्तथा व्याधिर्मानं च कथितं बुधैः ॥ ४९ ॥
शीतोष्णवर्षसंभवं दोषमागन्तुकं विदुः ।
इत्याध्यात्मयुतो मल्लो न दोषोपि च पीड्यते ॥ ५० ॥
कामक्रोधस्तथा लोभो हर्षश्चैव तथा परः ।
मानस्तथा मदश्चैव शत्रवश्चातिसेविताः ॥ ५१ ॥
इति श्रीमल्लपुराणे अध्यात्मप्रकरणं नाम दशमोऽध्यायः ( त्रयोदशोऽध्यायः )
चतुर्दशोऽध्यायः ।
जयश्च सर्वमल्लानां युद्धे द्वादशधा भवेत् ।
उद्यमे विजयः कोपि व्यायामे विजयस्तथा ॥ १ ॥
अग्निजयस्तथाहारपरिणामजयस्तथा ।
बलजयः प्राणजयः पराक्रमजयोपि च ॥ २ ॥
तथा जयश्च क्रमणे लाघवेपि जयस्तथा ।
जयोपि सर्वसामान्यः ख्यातः सर्वजयोपि च ॥ ३ ॥
उद्यमो मानसो जातो व्यायामोप्युन्मदाद्भवेत् ।
व्यायामादग्निसंपत्तिरग्निराहारसंभवः ॥ ४ ॥
आहारात्परिणामस्तु परिणामाद्बलं तथा ।
बलादपि भवेत्प्राणः प्राणादपि पराक्रमः ॥ ५ ॥
पराक्रमादर्थक्रमः क्रमाल्लाघववानपि ।
लाघवाज्जायते त्राणं त्राणात्सर्वजयो भवेत् ॥ ६ ॥
अतो मल्लैः प्रयत्नेन त्याज्या एव दश स्त्रियः ।
द्विजपत्नी परपत्नी गुरुपत्नी च सर्वदा ॥ ७ ॥
राजपत्नी कुमारी च गोत्रिणी च व्रते स्थिता ।
अर्धशूरस्तथोर्ध्वं च प्राणशूरस्तथाधिकः ॥ ८ ॥
अप्राणशूर एवान्याः शूराः सर्वे भवन्त्यपि ।
तथावासिकशूरा यैर्वीरो भग्नशूरकः ॥ ९ ॥
अभग्नशूरकोप्यन्यः श्रमशूरस्तथा परः ।
तथा चाश्रमशूरोपि युद्धशूरपरोपि च ॥ १० ॥
अयुद्धशूरः कोपि स्यात् शूरोपि सहजेन च ।
गर्भशूरा भवन्त्येते द्वात्रिंशत्संख्यया स्फुटम् ॥ ११ ॥
९
६६ मल्लपुराणे
उत्तमाः कथिताश्चैवं कथयामि च मध्यमाः ।
षट्त्रिंशन्मध्यमाश्च कथ्यन्ते क्रमशो गताः ॥ १२ ॥
श्वेतशूरो भवेत्कश्चिद् दृष्टिभीरुस्तथा परः ।
सभाशूरोपि भवति कोपि दैवात्स्वभावतः ॥ १३ ॥
अज्ञाने भीरुकः कश्चिद्भवेदपि यथा तथा ।
वाक्यशूरस्तथा हस्तमेलने भीरुरेव च ॥ १४ ॥
अङ्गशूरकः कश्चिद्बाहोः स्फालनभीरुकः ।
स्थानशूरो भवेद्दन्यो आस्थाने भीरुरेव च ॥ १५ ॥
अङ्गभीरुस्तथा कोपि तथा शूरस्तथैव च ।
स्थानके शूर एव स्याद्भीरुर्विज्ञानकेपि च ॥ १६ ॥
विज्ञानशूरो भीरुश्च कोप्यविज्ञानकर्मणि ।
प्राणशूरो रक्षाभीरुश्चलेन भीरुरेव च ॥ १७ ॥
अधश्चालनभीरुश्च ऊर्ध्वभीरुस्तथैव च ।
अधोभीरूक्षणशूरोप्प्राणे भीरुकस्तथा ॥ १८ ॥
अशीके शूर एव स्यादाशीके भीरुरेव च ।
अभग्नशूरकोपि स्याद्भग्नो भीरुस्तथैव च ॥ १९ ॥
रोपणे च भीरु युद्धे युद्धे च भीरुरेव च ।
युद्धे भीरुः सदैव स्याद्युद्धे शूर एव च ॥ २० ॥
सहजे च तथा भीरुः सभाभीरुस्तथैव च ।
स्थानभीरुस्तथान्यश्च वाक्यभीरुस्थानपरः ॥ २१ ॥
हस्तमेलापके भीरू रङ्गभीरुस्तथापरः ।
अरङ्गभीरुकः कश्चित्पतने कोपि भीरुकः ॥ २२ ॥
स्थानके भीरुरन्योपि कथाभीरुस्तथैव च ।
अर्धभीरुरधोभीरुर्ज्ञाने च भीरुकस्तथा ॥ २३ ॥
चतुर्दशोऽध्यायः । ६७
बालत्वे भीरुकः कोपि लागभीरुस्तथापरः ।
अलेण भीरुकश्चान्यो भग्नभीरुस्तथापरः ॥ २४ ॥
अभग्नभीरुकः कोपि तथैवाशार्किभीरुकः ।
प्राणे भीरुः परप्राणे भीरुको युद्धभीरुकः ॥ २५ ॥
अयुद्धभीरुकः कश्चिद्विज्ञानिनि भीरुकः ।
सहने च गर्भभीरूरगर्भे भीरुरेव च ॥ २६ ॥
अधमाः कथिताश्चैते चतुस्त्रिंशदिमे गुणाः ।
आहूय सकलान् मल्लन् सर्वं च पालिकादिने ॥ २७ ॥
यस्य प्राणं च प्राणं च सामर्थ्यं च दृढं बलम् ।
यस्यास्ति सदृशं धैर्यं यस्य स्यात्सदृशं बलम् ॥ २८ ॥
यस्य प्राणं च संपूर्णं ज्ञायते न च शोधयेत् ।
कृते मल्ले समर्थे च यस्य स्याद्भीमदर्शनम् ॥ २९ ॥
प्रातर्योधनमित्येवमुक्त्वा सर्वान् विसर्जयेत् ।
प्रभाते युद्धमस्तीति रात्रौ दिव्याश्च ततः ॥ ३० ॥
कर्पूरादिसुगन्धैश्च पुष्पधूपादिमङ्गलैः ।
नीराजनैश्च नैवेद्यैरर्घ्यदानैः प्रमाणभिः ॥ ३१ ॥
सन्तुष्टः स्याद्यथा कृष्णो मल्लानां च जयप्रदः ।
राजा च प्रातरुत्थाय मल्लानुत्थापयेत्पुनः ॥ ३२ ॥
तथा चन्दनकर्पूरकस्तूरी कुङ्कुमादिकम् ।
करेणुकं वाद्यानि बहून्युत्सवहेतवे ॥ ३३ ॥
राजा सर्वान् समाहर्तुं कर्माधिकृतपूरुषान् ।
आज्ञापयेन्मृत्तिकाया आनयनाय सत्वरः ॥ ३४ ॥
सामग्रीं कारयेत्पश्चाद्यथोक्तं विधिवत्ततः ।
मल्लयुद्धविधानाय रङ्गभूमिं तु विस्तराम् ॥ ३५ ॥
६८ मल्लपुराणे
प्रपूज्यां सुदृशां चैव सुवर्तुलाममां नवाम् ।
एकविंशतिहस्तैश्च विस्तीर्णां च प्रमाणतः ॥ ३६ ॥
हस्तेनोच्चामनीरक्षामतिमन्द्रा(म)निन्दिताम् ।
बीजपातक्षेत्रमिव कोमलां च मनोरमाम् ॥ ३७ ॥
रक्षा सन्तापयेन्म्लान् शोषं च कुरुते परम् ।
कण्टकाः कर्कराश्चैव वर्जनीयाः प्रयत्नतः ॥ ३८ ॥
छिद्राणि चैव रन्ध्राणि पूरयित्वा विशोधनैः ।
शोधयित्वा प्रपूज्या च बहुपुष्पाक्षतैः किल ॥ ३९ ॥
तत्र जयस्य प्राप्त्यर्थं हरिं संस्थापयेत्परम् ।
बीजपूरकमप्यत्र रङ्गमध्ये निवेशयेत् ॥ ४० ॥
एतलक्षणसंयुक्तं कारयेद्रङ्गमुत्तमम् ।
आयुरारोग्यदं सौख्यं श्रीकरं च यशस्करम् ॥ ४१ ॥
सुखं ददाति परमं रङ्गमेवंविधं परम् ।
अथ संपूज्य गोविन्दं सभामाक्रम्य पुष्कलाम् ॥ ४२ ॥
चतुरैः सहितो राजा पश्येद्युद्धं समाहितः ।
अथ व्यवस्थिते युद्धे सर्वसंपत्तिसंभवे ॥ ४३ ॥
मल्लानां परीक्षणाय श्रावयेत्प्रतिमान्दिरम् ।
नियुद्धमद्य चास्तीति कर्तव्यं दधिमण्डलम् ॥ ४४ ॥
ततो व च(वचनं) संस्कारवस्तूनि प्रतिपादयेत् ।
राजा भुक्त्वोत्तरं चैव विधिवत्क्रम्य तां सभाम् ॥ ४५ ॥
आहूय तान् जनेनैव मल्लान् शीघ्रं समाहितः ।
महादेव्या देवकुमारी तथामाल्यैः सकौतुकीम् ॥ ४६ ॥
विलासिनीभिः सहितो रङ्गं गच्छेत्समाहितः ।
स्थित्वा स्वस्थः सभां कृत्वा मल्लानां ज्ञापयेत्परम् ॥ ४७ ॥
योद्धव्याः सर्वमल्लास्तु द्वन्द्वशोथ यथाबलम् ।
मल्लैस्तु सावधानैश्च कर्तव्यं युद्धमुत्तमम् ॥ ४८ ॥
कराङ्गुलिषु संवेश्य सूत्रग्रन्थितमायुधम् ।
तेन सूत्रमयेनाथ जयमन्त्रकृतेन वा ॥ ४९ ॥
शत्रुभङ्गे भवेन्मल्लो जयश्रीः प्राप्यतेऽचिरात् ।
तेन बाणप्रहारस्तु मेल्लाङ्गेषु प्रजायते ॥ ५० ॥
चरणेन प्रहारस्तु प्रहारो जानुभिस्तथा ।
कटिप्रहार उरसा पृष्ठनाथ करेण च ॥ ५१ ॥
मुष्टिप्रहार इतरः शिरसा च ललाटये(के) ।
राजा च जयिनं मल्लं कुर्याच्छृङ्गारसंयुतम् ॥ ५२ ॥
गजारोहणकं कृत्वा वादित्रैश्चैव संयुतम् ।
पुष्पवस्त्रसमायुक्तं कुङ्कुमारक्तचन्दनैः ॥ ५३ ॥
अलंकृतं गजारूढं भ्रामयेत्प्रतिमन्दिरम् ।
लोकानां कौतुकार्थाय जयशब्दैश्च वाचयेत् ॥ ५४ ॥
पुरः प्रदक्षिणां कृत्वा प्रत्यागत्य सभां पुनः ।
ततोवतीर्य मल्लो वै गजाद्रङ्गं प्रविश्यति ॥ ५५ ॥
नारायणं नमस्कृत्य प्रणम्य च गुरूनपि ।
राजाग्रे च समागच्छेत् करास्फोटनपूर्वकम् ॥ ५६ ॥
प्रणम्य राजानमितो महादेवीं प्रणम्य च ।
कृतवारङ्गं नमस्कृत्य पुष्पप्रकरसंयुगे ॥ ५७ ॥
सोमेश्वर समस्तानां कलाश्च कथयाम्यहम् ।
आदौ करणकला ॥ १ ॥ तर्ककला ॥ २ ॥ विद्याकला ॥ ३ ॥ काव्यकला
॥ ४ ॥ धर्मकला ॥ ५ ॥ कामकला ॥ ६ ॥ या(का)चकला ॥ ७॥ पुराणकला ॥ ८ ॥
पाषाणकला ॥ ९ ॥ काष्ठकला ॥ १० ॥ चित्रविचित्रकला ॥:११॥ स्त्रीकला ॥ १२ ॥
गजकला ॥ १३ ॥ वाजिकला ॥ १४ ॥ ज्ञानकला ॥ १५ ॥ लक्षणकला ॥ १६ ॥
युद्धकला ॥ १७ ॥ ताम्रचूडकला ॥ १८ ॥ मेषकला ॥ १९ ॥ पक्षिकला ॥ २० ॥
रणकला ॥ २१ ॥ मण्डनकला ॥ २२ ॥ वस्त्रकला ॥ २३ ॥ नीतिकला ॥ २४ ॥
सर्वशास्त्रकला ॥ २५ ॥ लेखनकला ॥ २६ ॥ गन्धकला ॥ २७ ॥ ज्योतिःशास्त्रकला
॥ २८ ॥ वैद्यकला ॥ २९ ॥ विषकला ॥ ३० ॥ भूतकला ॥ ३१ ॥ मन्त्रकला ॥ ३२ ॥
तन्त्रकला ॥ ३३ ॥ नियुद्धकला ॥ ३४ ॥ इन्द्रकला ॥ ३५ ॥ वृक्षकला ॥ ३६ ॥
धातुकला ॥ ३७ ॥ व्यापारकला ॥ ३८ ॥ शिल्पकला ॥ ३९ ॥ भूमिकला ॥ ४० ॥
कर्मकला ॥ ४१ ॥ स्वेदकला ॥ ४२ ॥ भुजकला ॥ ४३ ॥ वाद्यकला ॥ ४४ ॥
स्थैर्यकला ॥ ४५ ॥ शौर्यकला ॥ ४६ ॥ मणिकला ॥ ४७ ॥ परहि(चि)त्तरञ्जनकला ॥ ४८ ॥
परचित्तज्ञानकला ॥ ४९ ॥ शत्रुकला ॥ ५० ॥ रथकला ॥ ५१ ॥ आयुधकला ॥ ५२ ॥
मृगकला ॥ ५३ ॥ दानकला ॥ ५४ ॥ ग्रहणकला ॥ ५५ ॥ दूतकला ॥ ५६ ॥
नाटककला ॥ ५७ ॥ पलायनकला ॥ ५८ ॥ क्रीडाकला ॥ ५९ ॥ शयनकला ॥ ६० ॥
आसनकला ॥ ६१ ॥ मानकला ॥ ६२ ॥ परीक्षाकला ॥ ६३ ॥ सैन्यकला ॥ ६४ ॥
इति चतुःषष्टिकलाः ।
सूतकाधिकृतश्चैव अन्तःपुरनिवारणम् ॥ ५८ ॥
यानीयरक्षकाःस्कन्धधराश्चेटकवेदिनः ।
वणिका व्यवहारज्ञा ज्ञेया रत्नपरीक्षकाः ॥ ५९ ॥
वेश्याश्चैव विलासिन्यो लेखका दूतकारकाः ।
दासाश्चैव तु भृत्याश्च गजवैद्यास्तथापरे ॥ ६० ॥
कौतूहलकराः प्रोक्ता रसवाक्यविदस्तथा ।
इति युक्तिविदश्चैव गन्धयुक्तिविदस्तथा ॥ ६१ ॥
हास्यकाराः कथाकारा युद्धेषु कुशलास्तथा ।
देशमायाविदश्चैव काव्यादिकुशलास्तथा ॥ ६२ ॥
अनेकभाषाकुशलाः कवितायां तथैव च ।
क्रीडायां कुशलाश्चैव धूर्तकर्मविदस्तथा ॥ ६३ ॥
धातुवादविदः केचिन्नौकाकर्मविदस्तथा ।
अग्निस्तम्भो जलस्तम्भो मन्त्रवादस्तथापरः ॥ ६४ ॥
चतुर्दशोऽध्यायः । ७१
नापिताश्च बन्दिनश्च सङ्केतज्ञास्तथैव च ।
विनोदकराश्च विज्ञेयाः सभासंपत्तिहेतवे ॥ ६५ ॥
एतैः पात्रै राजसभा नियुद्धालोकनोनमुखैः ।
शोभिता शुद्धधर्मज्ञै रत्नसंपत्तिमण्डितैः ॥ ६६ ॥
इति श्रीमल्लपुराणे युद्धसमये राजसभावर्णनं नामैकादशोऽध्यायः [ चतुर्दशोऽध्यायः ] ।
पञ्चदशोऽध्यायः।
चतुर्विधं नियुद्धं तु शृणु मतिमन्तां वर ।
आद्यं धरणिपातं च आसुरं च द्वितीयकम् ॥ १ ॥
तृतीयं नारमित्युक्तं युद्धं पुनश्चतुर्थकम् ।
तेषां धरणिपातस्य भेदः पञ्चविधो भवेत् ॥ २ ॥
तलप्रहारः प्रथमः करप्रहार एव च ।
निपत्य चात्मना भूमौ परं पातयति ध्रुवम् ॥ ३ ॥
पातितस्य स्फुटं हारनिरुद्धे विजयो भवेत् ।
ज्ञात्वैवं बलबुद्धिभ्यां युद्धमेतत्समाचरेत् ॥ ४ ॥
अथैतद्भासुरं युद्धं द्वात्रिंशद्भेदभीषणम् ।
केषाकर्षणपीडा च कर्णस्फोटनमेव च ॥ ५ ॥
नासिकास्फोटनं चैव तथा चर्वणमेव च ।
दन्तपातनमेव स्यान्मुखे पांशुनिपातनम् ॥ ६ ॥
अथ पांशौ परिक्षेपो नखैरेव विदारणम् ।
नाडिकापीडनं चैव ग्रीवाग्रहणकं तथा ॥ ७ ॥
एकाङ्गुलीमोडनं वा तथा द्व्यङ्गुलिमोडनम् ।
अङ्गुलीत्रितयस्यापि मोडनं कथितं क्वचित् ॥ ८ ॥
कराङ्गुष्ठमोडनं च पादाङ्गुष्ठस्य मोडनम् ।
समग्राङ्गुलिभङ्गो वा फणग्रहणमेव च ॥ ९ ॥
भारेण च प्रहारेण विज्ञानेन पुनस्तथा ।
वाल्केन प्रकारेण मारयुद्धमथापि च ॥ १० ॥
प्राणेन चौजसा चैव तथा वह्णिनापि च ।
येन केन प्रकारेण मारयुद्धं समागताः ॥ ११ ॥
१०
पञ्चदशोऽध्यायः । ७३
स एव मर्मो मल्लानां पातनं च महीतले ।
भारं च भारभङ्गं च वितरं समरे त्यजेत् ॥ १२ ॥
येनाषाढकमध्ये तु जीवितं च विमुञ्चति ।
इदानीं धर्मयुद्धस्य द्वात्रिंशत्कथिता गुणाः ॥ १३ ॥
तानहं कथयिष्यामि यथा विक्रमणागताः ।
केशानांकर्षयति च कर्णौ च त्रोटयत्यपि ॥ १४ ॥
अक्षिणी न स्फोटयत्यपि मुखं च स्फोटयत्यपि ।
नासिकां च त्रोटयति नन्दाति सर्वयत्यति ॥ १५ ॥
न दन्तान् पातयति च पांशुक्षेपो न वै मुखे ।
नाक्ष्णोः पांशुपातनं च विदारयति नो नखैः ॥ १६ ॥
न नालिका पीडयति ग्रीवां चैव न पीडयेत् ।
न कच्छछोटनं कुर्याद्दण्डं गृह्णाति नैव हि ॥ १७ ॥
शिरसो घातनं नैव मर्मभङ्गं च वर्जयेत् ।
प्रकाशयन् धर्मयुद्धं यशोहर्षविवर्धनम् ॥ १८ ॥
धरणीपातितस्याथ मत्सरं परिवर्जयेत् ।
यः कश्चिद्दर्पसंयोगादासुरं युद्धमारेभेत् ॥ १९ ॥
भग्ने वापि मृते तस्मिन् राजा च दोषभागभवेत् ।
इत्यङ्गसङ्गरे मल्लं ज्ञात्वा यत्नेन भूपतिः ॥ २० ॥
निवारयति यो भूयः संप्राप्नोति परं यशः ।
पक्षपातो न कर्तव्यः सर्वत्र समतां वरः ॥ २१ ॥
समेन पालयेद्राजा यशः प्राप्नोति निश्चितम् ।
धर्मयुद्धे कृते मल्लो मल्ल मारयते यदि ॥ २२ ॥
राजा चोपेक्षते चैव तदा दोषो महान् भवेत् ।
प्रमदा (मादान्) म्रियते वापि न दोषो राजमल्लयोः ॥ २३ ॥
१०
७४ मल्लपुराणे
घाताश्चैवोपघाताश्च विज्ञाताश्चैव विक्रमाः ।
इत्येते धर्मयुद्धस्य द्वात्रिंशत्कथिता गुणाः ॥ २४ ॥
इति श्रीमल्लपुराणे युद्धप्रकरणं नाम द्वादशोऽध्यायः [ पञ्चदशोऽध्यायः ] ।
षोडशोऽध्यायः ।
गजेनैव यथा युध्येच्छृणु ते कथयाम्यहम् ।
बाह्वोः स्फालनमित्येव सुस्थानाचालनं ततः ॥ १ ॥
पादयोश्च समं स्थानं निष्ठं वाल्पताडनम् ।
कण्ठरा( रो )धो दण्डघातो हस्ताभ्यां स्कन्धधारणम् ॥ २ ॥
कराकर्षणमन्योन्यं शिरसोन्योन्यधारणम् ।
उरोधारणमुरसा प्रह ( र )णं चोरस्येव कक्षाविदारणम् ॥ ३ ॥
यो येन यथा वापि प्रविश्य स्थानकेऽपि च ।
करबले वाथ शीर्षं ततो मुहुडकेन वा ॥ ४ ॥
बाहूबलेन बलवान् बलहस्तेन वा पुनः ।
गजस्य युद्धे कथितं वृषभस्य तु कथ्यते ॥ ५ ॥
वृषभस्य वृषभेण यथा युद्धं तथा शृणु ।
बाह्वोरास्फालनं चैव समं समाग( म )मेव च ॥ ६ ॥
सतलहस्तप्रमाणं हननं बाहुना तथा ।
चरणाघर्षणं चैव बलमन्योन्यमेव च ॥ ७ ॥
स्थानके च प्रवेशं च शीर्षेण देहलेपनम् ।
पृष्ठे वाप्युदरे वापि स्थानावेज्ञानमेव च ॥ ८ ॥
अथ सिंहस्य सिंहेन युद्धं भवेद्यथा पुनः ।
उभयोश्चैव नान्योपि अमणं आमणं तथा ॥ ९ ॥
करचालनके दण्डो पञ्च वाल्लोनकं तथा ।
प्रशब्दाश्च तथैवान्ये तथा चोत्पतनं परम् ॥ १० ॥
बलाबलं च विज्ञेयं चतुःस्थानप्रवेशनम् ।
नितम्बेन कर्षणं च विज्ञानं स्थानकेन च ॥ ११ ॥
७६ मल्लपुराणे
शोषणं शोणितस्यापि तथा च छेदनं परम्
तेजोज्वलनतापेन वेगैश्च प्रपदेन च ॥ १२ ॥
ताडनेन तपोप्राप्ते तत्र भीषणसागरे ।
सोनेन पतितस्येव कृष्णेन कथितं पुरा ॥ १३ ॥
मृगस्य च मृगेणाथ युद्धं तथा शृणुष्व तत् ।
बालकास्तालनं प्रोक्तं समं च तलचेष्टितम् ॥ १४ ॥
समं च शौर्यमुभयोस्तथाङ्गावर्तनं द्वयोः ।
दुरागत्य समारम्भात्पार्श्वे च भ्रमणं तथा ॥ १५ ॥
शीघ्राघातः समुत्थानं लघूकरणमेव च ।
लघुकत्वस्थानकं चैव विविधं युद्धमेव च ॥ १६ ॥
अधोनिःसरणं चैव बहुदृश्यकरं तथा ।
उरुपादं च संधानं कक्षायाःस्थानघातनम् ॥ १७ ॥
तक्रणं रक्षणं केगान् मृगयुद्धं च गुल्मनि ।
एवंविधानि युद्धानि कथितानि मुरारिणा ॥ १८ ॥
ज्ञात्वा चैव बलज्ञानआत्मनस्य ( श्व) परस्य च ।
योद्धव्यं मुच्यते पापैः प्रतिकुर्वन् परस्परम् ॥ १९ ॥
स्वजातियुद्धं कथितं विजाति कथयाम्यहम् ।
गजसिंहकयोरेव संग्रामस्य प्रसूयते ॥ २० ॥
समपादमुन्नताङ्गं गजस्थानमितीष्यते ।
सिंहस्येव परं स्थानं लागाङ्गं भीमदर्शनम् ॥ २१ ॥
ओजसाश्चै (चै)व वेगेन प्राणेनैव परस्परम् ।
विज्ञानमायिग्रहणं रङ्गमूमौ विनिश्चितम् ॥ २२ ॥
सिंहस्यापि वशेन स्याद् द्वयोर्युद्धं भवेद्यदि ।
सिंहस्यापि भवेल्लीलं बाह्वास्फालनमिष्यते ॥ २३ ॥
षोडशोऽध्यायः । ७७
पादौ चलौ च विषमे लीनाङ्गस्थानमेव च ।
वृषस्यापि करस्थानमङ्गुष्ठस्थानमेव च ॥ २४ ॥
सिंहेन सह वृषभो उद्यमेवं समाचरत् ।
तदा लाग ऊर्द्ध्वस्थोपि घातयत्यपि वा पुनः ॥ २५ ॥
पक्षद्वयेपि सिंहेन पात्यते वृषभस्तथा ।
ऊर्द्ध्वस्थोपि तथा चार्थं कथं च त्रोटिको भवेत् ॥ २६ ।
तदा सिंहो वृषेणापि पात्यते नात्र संशयः ।
यथा युद्धं भवत्येव कथं च मृगसिंहयोः ॥ २७ ॥
सिंहस्यापि तथा लीनं करास्फोटनमिष्यते ।
लीनाङ्गस्थानमपि च चलनं विषमं बलम् ॥ २८ ॥
मृगस्य बलिनश्चैव बाहास्फालनमिष्यते ।
अङ्गानामथ घटनं भ्रमणं पार्श्वतोपि च ॥ २९ ॥
दूरात्प्रसरणं प्रोक्तं करस्य स्पर्शने तथा ।
अतो वेगाग्रहणं च पातनापातनं तथा ॥ ३० ॥
एवंप्रकारेण मृगः समं सिंहेन युद्धयति ।
गजसिंहे समुत्साहे बलैर्विविधचेष्टितैः ॥ ३१ ॥
कुर्वन् परं जयत्येव विपरीतं विनश्यति ।
बलेनाप्यबलेनापि योद्धव्यं विजयैषिणा ॥ ३२ ॥
गजस्यैव मृगस्यैव यदि युद्धं परस्परम् ।
उन्नताङ्गं गदस्थानं समपादं तथैव च ॥ ३३ ॥
चलाङ्गं चलपादं च मृगस्यैव भवत्यपि ।
गजो गन्तुं प्रविष्टश्च मृगस्य कुशलं ततः ॥ ३४ ॥
अतो मृगेण योद्धव्यं चलपादं यदान्तरम् ।
पुण्यावर्त्य जयो युद्धयेत्क्वापि कस्यापि जायते ॥ ३५ ॥
७८ | मल्लपुराणे
तस्मादोजो न प्रोक्तव्यो गजेनापि गजाह्वये ।
ऊर्द्धस्यापि कथा वापि त्रोटितस्तु भवेद्यदि ॥ ३६ ॥
तदाङ्गं प्रविश्य मृगो गजं घातयति ध्रुवम् ।
स्थानं किंच प्रविश्याथ विज्ञानं गन्तुमिष्यति ॥ ३७ ॥
सदा परस्परं युद्धं कथितं कैटभारिणा ।
एवं कुर्वन् सदा मल्लो नियुद्धविजयी भवेत् ॥ ३८ ॥
गजस्य वृषभस्यापि युद्धं तत्कथितं पुरा ।
श्रमणेनाङ्गसङ्गेन करमुत्पादयत्यपि ॥ ३९ ॥
उत्पाद्य शीघ्रं वृषभो गजं घातयति ध्रुवम् ।
प्रस्थानं चैव विज्ञानं सदृशं दृढमेव च ॥ ४० ॥
गृह्यात्येवं प्रकुर्वाणो मल्लस्तु विजयी भवेत् ।
वृषभस्य मृगस्यापि यदि युद्धं भवेत्तदा ॥ ४१ ॥
वृषभस्य समानं च करास्फोटनमेव च ।
विषमं पादस्थानं च समागः स्थानमुत्तमम् ॥ ४२ ॥
वृषभस्य भवेद्युद्धं कथितं कैटभारिणा ।
तालवितालघातश्च वेगघातस्तथैव च ॥ ४३ ॥
समतालेन तालश्च तथा च परिवर्तनम् ।
उभयोर्दण्डहननं स्कन्धाघातनमेव च ॥ ४४ ॥
बाहुघातः पांशुघातो दृष्टिघातस्तथैव च ।
यो येन पात्यते चैवं स तेन पातितो भवेत् ॥ ४५ ॥
भवत्येवंविधं युद्धं गजस्य वृषभस्य च ।
इति श्रीमल्लपुराणे गजसिंहमृगवृषभयुद्धं नाम त्रयोदशोऽध्यायः [ षोडशोऽध्यायः ]
सप्तदशोऽध्यायः ।
त्रीण्येव जययुद्धानि भवन्ति मल्लसङ्गरे ।
अप्राणयतना चैव तथैव श्रमपातना ॥ १ ॥
ज्येष्ठो च ज्येष्ठिना चैव योधयेद् विचारयेत् ।
अन्तरज्येष्ठिना सार्धमन्तरज्येष्ठिनं न्यसेत् ॥ २ ॥
गोपकुलो योजनीयः समं गोपकुलेन च ।
भविष्यश्च भविष्येण बालको बालकेन च ॥ ३ ॥
वृद्धो वृद्धेन सार्धं च योजयेद्ध्यायतो नृपः ।
यो येन संहतस्तस्य करोति धारणं यथा ॥ ४ ॥
स तथा तेन संयोज्यस्ततो युद्धं प्रवर्त्तते ।
ततश्च कौतुकं राजा राजभृत्यकुमारकाः ॥ ५ ॥
अमात्याः सर्वलोकाश्च पश्यन्ति युद्धकौतुकम् ।
जिते प्रसादे द्विगुणं हरिते च तदर्धकम् ॥ ६ ॥
उभयोः सदृशं युद्धं प्रसादं सदृशं ददेत् ।
सन्तोषसदृशं वापि दत्त्वा मल्लांश्च विस्तरान् ॥ ७ ॥
राजापि च ततो गच्छेत्स्वकीयं मन्दिरं वरम् ।
अनेन विधिना सर्वमेकादशाहयो धृयात् ॥ ८ ॥
मासप्रभातसल्लानां शक्तिः संजायते दृढम् ।
राजा चैव छडकी तथा ।
करडक्की च विख्याता अधोमुखछडक्यपि ॥ ३३ ॥
करचरणछडकी विख्याता कथिता बुधैः ।
या छडकी विख्याता कृष्णेन परमेष्ठिना ॥ ३४ ॥
*These Ślokas are not found in the text.