मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 123, कुल 141 में से
संदर्भ में पढ़ें७८ | मल्लपुराणे
तस्मादोजो न प्रोक्तव्यो गजेनापि गजाह्वये ।
ऊर्द्धस्यापि कथा वापि त्रोटितस्तु भवेद्यदि ॥ ३६ ॥
तदाङ्गं प्रविश्य मृगो गजं घातयति ध्रुवम् ।
स्थानं किंच प्रविश्याथ विज्ञानं गन्तुमिष्यति ॥ ३७ ॥
सदा परस्परं युद्धं कथितं कैटभारिणा ।
एवं कुर्वन् सदा मल्लो नियुद्धविजयी भवेत् ॥ ३८ ॥
गजस्य वृषभस्यापि युद्धं तत्कथितं पुरा ।
श्रमणेनाङ्गसङ्गेन करमुत्पादयत्यपि ॥ ३९ ॥
उत्पाद्य शीघ्रं वृषभो गजं घातयति ध्रुवम् ।
प्रस्थानं चैव विज्ञानं सदृशं दृढमेव च ॥ ४० ॥
गृह्यात्येवं प्रकुर्वाणो मल्लस्तु विजयी भवेत् ।
वृषभस्य मृगस्यापि यदि युद्धं भवेत्तदा ॥ ४१ ॥
वृषभस्य समानं च करास्फोटनमेव च ।
विषमं पादस्थानं च समागः स्थानमुत्तमम् ॥ ४२ ॥
वृषभस्य भवेद्युद्धं कथितं कैटभारिणा ।
तालवितालघातश्च वेगघातस्तथैव च ॥ ४३ ॥
समतालेन तालश्च तथा च परिवर्तनम् ।
उभयोर्दण्डहननं स्कन्धाघातनमेव च ॥ ४४ ॥
बाहुघातः पांशुघातो दृष्टिघातस्तथैव च ।
यो येन पात्यते चैवं स तेन पातितो भवेत् ॥ ४५ ॥
भवत्येवंविधं युद्धं गजस्य वृषभस्य च ।
इति श्रीमल्लपुराणे गजसिंहमृगवृषभयुद्धं नाम त्रयोदशोऽध्यायः [ षोडशोऽध्यायः ]