मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 122, कुल 141 में से
संदर्भ में पढ़ेंषोडशोऽध्यायः । ७७
पादौ चलौ च विषमे लीनाङ्गस्थानमेव च ।
वृषस्यापि करस्थानमङ्गुष्ठस्थानमेव च ॥ २४ ॥
सिंहेन सह वृषभो उद्यमेवं समाचरत् ।
तदा लाग ऊर्द्ध्वस्थोपि घातयत्यपि वा पुनः ॥ २५ ॥
पक्षद्वयेपि सिंहेन पात्यते वृषभस्तथा ।
ऊर्द्ध्वस्थोपि तथा चार्थं कथं च त्रोटिको भवेत् ॥ २६ ।
तदा सिंहो वृषेणापि पात्यते नात्र संशयः ।
यथा युद्धं भवत्येव कथं च मृगसिंहयोः ॥ २७ ॥
सिंहस्यापि तथा लीनं करास्फोटनमिष्यते ।
लीनाङ्गस्थानमपि च चलनं विषमं बलम् ॥ २८ ॥
मृगस्य बलिनश्चैव बाहास्फालनमिष्यते ।
अङ्गानामथ घटनं भ्रमणं पार्श्वतोपि च ॥ २९ ॥
दूरात्प्रसरणं प्रोक्तं करस्य स्पर्शने तथा ।
अतो वेगाग्रहणं च पातनापातनं तथा ॥ ३० ॥
एवंप्रकारेण मृगः समं सिंहेन युद्धयति ।
गजसिंहे समुत्साहे बलैर्विविधचेष्टितैः ॥ ३१ ॥
कुर्वन् परं जयत्येव विपरीतं विनश्यति ।
बलेनाप्यबलेनापि योद्धव्यं विजयैषिणा ॥ ३२ ॥
गजस्यैव मृगस्यैव यदि युद्धं परस्परम् ।
उन्नताङ्गं गदस्थानं समपादं तथैव च ॥ ३३ ॥
चलाङ्गं चलपादं च मृगस्यैव भवत्यपि ।
गजो गन्तुं प्रविष्टश्च मृगस्य कुशलं ततः ॥ ३४ ॥
अतो मृगेण योद्धव्यं चलपादं यदान्तरम् ।
पुण्यावर्त्य जयो युद्धयेत्क्वापि कस्यापि जायते ॥ ३५ ॥