सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

अस्य प्रकरणस्य प्रणेतुः श्रीमद्भवभूतिकवेरितिवृत्तं न कापि विस्तरेण लभ्यते ।
अनेन स्वविरचितमहावीरचरित-मालतीमाधव-उत्तररामचरिताख्यरूपकत्रयस्य
प्रस्तावनासु किंचित्स्ववंशादिवर्णनं कृतमस्ति । तद्यथा—आसीद्दक्षिणापथे विद्-
र्भेषु पद्मपुरं नाम नगरम् । तत्र केचित्तैत्तिरीयाः काश्यपा उदुम्बरोपाभिधाना
ब्रह्मवादिनो द्विजा वसन्ति स्म । तेषां वंशे महाकविर्नाम कश्चिद्वाजपेययाजी
विप्रो बभूव । अस्मात्पञ्चमः पुरुषो भवभूतिः । भवभूतेः पिता नीलकण्ठः, जननी
जतुकर्णी, पितामहो भट्टगोपालः, गुरुश्च ज्ञाननिधिः । अधीतवानयं तर्कव्याकरण-
पूर्वोत्तरमीमांसादीनि शास्त्राणि । अस्य पितृकृतं नाम श्रीकण्ठ इति । ‘तपस्वी
कां गतोऽवस्थामिति स्मेराननाविव । गिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ ॥’
इति पद्यकरणोत्तरं तस्यैव भवभूतिरिति नामान्तरं जातम् । अनेनैव च नाम्नायं
कविर्लोके प्रसिद्धो बभूवेति ।
कान्यकुब्जाधिपतेर्यशोवर्मणः सभायां भवभूतिरासीदिति राजतरङ्गिणीतो
ज्ञायते । यशोवर्मसमयश्च ख्रिस्तवर्षीयसप्तमशतकपूर्वार्धे बभूव । अतो भवभूतेरपि
समयो निरुक्तसप्तमशतकमित एवेत्यर्वाचीनपण्डितानामूहः ।
भवभूतिकृतिषु महावीरचरित-मालतीमाधवउत्तररामचरिताख्यं रूपकत्रयमप-
हाय नान्यः कोऽपि प्रबन्धः प्राप्यते । तथापि शार्ङ्गधरपद्धतौ—
‘निरवद्यानि पद्यानि यदि नाट्यस्य का क्षतिः ।
भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥’
इति पद्यम्, गदाधरभट्टसंकलिते रसिकजीवने च—
‘अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
मृगमदपरिमललहरीं समीर किं पामरेषु रे किरसि ॥’
र. जी. प्र. ३।२२
१ ‘जातुकर्णी’ इत्यपि रूपान्तरम् ।
२ आर्यासप्तशत्या अनन्तपण्डितकृतटीकायां ‘भवभूतेः संबन्धात्’ इत्याद्यार्या-
व्याख्याने द्रष्टव्यम् । वीरराघवविरचितायां महावीरचरितटीकायामप्येवमेवोक्तम् ।
परंतु तत्र ‘साम्बा पुनातु भवभूतिपवित्रमूर्तिः’ इत्यादि पद्यं निर्मितमिति प्रोक्तम् ।
३ मालतीमाधवावतरणिकायां श्रीमद्भिर्डाक्टरभाण्डारकरैरुक्तम् । एतद्विष-
यको राजतरङ्गिणीस्थः श्लोकस्त्वयम्—
‘कविवाक्पतिराजश्रीभवभूत्यादिसेवितः ।
जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥’
राज. ४।१४५

२
'किं चन्द्रमाः प्रत्युपकारलिप्सया
करोति गोभिः कुमुदावबोधनम् ।
स्वभाव एवोन्नतचेतसां सतां
परोपकारव्यसनं हि जीवितम् ॥'
र. जी. प्र. ३१९५
इति पद्यद्वयं च भवभूतिनाम्ना समुद्धृतं लभ्यते । अतो भवभूतिना विरचितोऽन्यः
कोऽपि प्रबन्ध आसीत्, उत तत्कृतानि सुभाषितान्येवैतानि, आहोस्विदेतत्पृथक्क-
र्तान्यः कोऽपि भवभूतिर्बभूवेति निश्चेतुं नैव शक्यते ।
अत्र प्रकाशितयोर्मालतीमाधवटीकयोः प्रथमा भावप्रदीपिकाख्या दाक्षिणात्येन
पर्वतनाथतनयत्रिपुरारिसूरिणा विरचिता । इयं सप्तमाङ्कपर्यन्तमेव लब्धा । अव-
शिष्टाङ्कत्रयस्य टीका विबुधरत्नावल्याख्या नान्यदेवेन पूरिता । द्वितीया श्रीरत्न-
धरात्मजजगद्धरपण्डितविरचिता पाठान्तरैः सह पुस्तकान्ते निवेदिता । एवं
टीकाद्वयसंवलितमेतन्मालतीमाधवं प्रकरणं प्रकाशितं चेन्नितरां रसिकजनहृदया-
ह्लादकं स्यादिति समालोच्य कृतोऽयं प्रकृतो यत्नः । अत्र च मुद्रणादिष्वनवधा-
नतयापतितं दोषजातं क्षन्तव्यं सदयैः सद्द्भिरिति विज्ञापयति
विद्वदनुचरो
मङ्गेशशर्मा ।

॥ श्रीः ॥
मालतीमाधवम् ।
प्रथमोऽङ्कः ।
चूडापीडकपालसंकुलगलन्मन्दाकिनीवारयो
विद्युत्प्रायललाटलोचनशिखिज्वालाविमिश्रत्विषः ।
भावप्रदीपिका ।
ऐन्द्व्या कलयावतंसितकचं सौन्दर्यसारास्पदं
कारुण्यामृतपूरपूरितलसल्लीलाकटाक्षाङ्कुरम् ।
उद्यत्कोटिदिनेशमण्डलरुचिन्यक्कारिभाभासुरं
वन्दे पाशसृणीक्षुचापसुमनोबाणापहं तन्महः ॥
यत्तुण्डमण्डलगलन्मदवारिधाराः कर्णद्वयव्यजनवातविधूतशीर्णाः ।
भक्तान्तरायनिवहा इव सार्यमाणा भान्ति द्विपेन्द्रवदनं तमुपाश्रयामः ॥
एकाग्रमूलनिलयकरिभूधरनायकौ ।
काञ्चीपुरीश्वरौ वन्दे कामितार्थप्रसिद्धये ॥
पदवाक्यप्रमाणज्ञो भवभूतिर्महाकविः ।
मालती

-like shape below, typical of 'दु' in older fonts, which can resemble 'खु', but it is clearly 'दु').
Wait, look at 'खलाः' at the end of the line: the 'ख' has a completely different shape (round loop connected to vertical line with loop inside). The letter in 'विदुरन्ये' is clearly 'दु'!
So it is "विदुरन्ये".

Let's check line 10:
"अथ तत्रभवान्भवभूतिः कीर्त्यादिसत्काव्यनिर्माणप्रयोजनप्राप्तये प्रेक्ष्यप्रबन्धभे-"
Yes, "प्रेक्ष्यप्रबन्धभे-"

Line 11:
"-दानां प्रधानं प्रकरणं साङ्गं मालतीमाधवं नाम रूपकमततान । तत्र प्रकरणलक्षणं"

Line 12:
"भरते—'तत्र कविराजबुद्ध्या वस्तुशरीरं च नायकं चैव । स्वयमुत्पाद्य विरचयेत्स ज्ञेयं"

Line 13:
"प्रकरणं नाम ॥' इति । दशरूपकेऽपि—'अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् ।"

Line 14:
"अमात्यविप्रवणिजामेकं कुर्यात्तु नायकम् ॥ धीरप्रशान्तं सोपायं धर्मकामार्थतत्प-"

Line 15:
"रम् । शेषं नाटकवत्संधिप्रवेशकरसादिकम् ॥' इति

वृत्तम् ।
सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि-
त्रासान्नासामरन्ध्रं विशति फणिपतौ भोगसंकोचभाजि ।
गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे-
र्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ २ ॥
भुशिरोगङ्गाया वारिधारा यासु ताः । तडिद्वत्येनालिकनेत्रतेजसा साक्षात्तादृशे-
षेण मिश्रीभूता दीप्तियोगां ताः । कीदृश्या केतकर्यास्तोमेश्या सह संदिग्धाः समा-
नाकृतिवर्णत्वात्किं केतकशिखेयमुत शशिरेखेति संदेहगोचरो मुग्धो मनोहर
इन्दुर्यासु ताः । जटीकृता बद्धासु जूटीकृतासु विप्रकीर्णासु । एकस्याश्चन्द्रकलाया-
स्तिरोधानप्रसङ्गेन केतकर्याशखासंशयजनकत्वायोगात् । भुजङ्गा एव वलयो लतास्ता-
भिरेव वलयैर्बलयीकृतैः । लतासदृ

अपि च ।
दन्तश्रेणिषु संगलत्कलकलव्यावर्तनव्याकुला
नासालोचनकर्णकुञ्जकुहरेषूद्गद्गदध्वानिनः ।
गण्डग्रन्थ्यभिघातशीर्णकणिकाश्चूडास्रवन्त्युर्मयः
शंभोर्ब्रह्मकपालकंदरपरिस्पन्दोल्वणाः पान्तु वः ॥ ३ ॥
अन्यच्च ।
पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो
यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव ।
अर्चिर्निष्टप्तचूडाशशिगलितसुधासारशात्कारिकोर्णं
तार्तीयीकं पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥ ४ ॥
(नान्द्यन्ते ।)
सूत्रधारः—अलमलम् । उदितभूयिष्ठ एव भगवानशेषभुवन-
द्वीपदीपः । तदुपतिष्ठे । (प्रणम्य ।)
दौ पन्थाः ॥२॥ दन्तश्रेणिष्वित्यादि श्लोकद्वयं प्रक्षिप्तमिति पूर्वैर्व्याकृतमपि क्वचि-
त्पुस्तकेषु दृष्टत्वादस्माभिर्व्याख्यायते—दन्तेति । चूडास्रवन्त्युर्मयः शिरोनदीतर-
ङ्गा वः पान्तु । ब्रह्मकपालकंदरपरिस्पन्दोल्वणा विधिशिरःकरोटिपरिखलनप्रभूताः
दन्तपङ्क्तिषु संगलन्त्यः क्षरन्त्यः कलकलसहितेन व्यावर्तनेन परिश्र मणेन व्याकुलाः।
नासादिषुषि रप्रदेशेषु बुद्बुदशब्दवत्यः । गण्डस्थलाभिघाताद्विशीर्णा अत्युन्नतप्रदेशा-
दधो विषमस्थले पतन्त्यो निर्भरवारिधारा यासां ताः । स्वभावोक्तिरलंकारः ॥ ३॥
पक्ष्मेति । तृतीयमेव तार्तीयीकम् । 'तीयादीकक् खार्थे वक्तव्यः' इतीकक् ।
मदनप्लोषणं स्मरदाहि लोचनं वोऽवतु। कीदृक्। यत्पक्ष्मपङ्क्तिपिङ्गलतयाः सर्वोऽपि
तडित्संघो लेशः । कालो मृत्युरेव यज्वा। ईषद्विघटितमुकुले किंचिदुन्मीलिते
यस्मिन्नाहवनीयस्थाने जगद्धुतवान् । ज्वालासंतापितशिरश्चन्द्रकलासुधाधारानि-
पातेन प्रतप्तायसि जलबिन्दुसेचनेनेव शात्कारिप्रीन्तम् । उदात्तालंकारः ॥४॥ अथ
प्रस्तावनां विवक्षुस्तदङ्गतयोः प्ररोचनामुखयोः प्रथमं प्ररोचनां प्रस्तौति—नान्द्यन्त
इति । कृतपूर्वरङ्गे प्रथमप्रविष्टे सूत्रधारे नान्दीं पठित्वावशिष्टं च प्रत्याहारमार्जनाद्ये-
षनादिपूर्वरङ्गाङ्गकलापं निष्पाद्य विनिर्गते तत्सदृशोऽन्यः सूत्रधारः प्रविश्य प्रस्ताव-
यतीत्यर्थः । तदुक्तं दशरूपके—'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य
तद्वदपरः काव्यमाख्यापयेन्नटः ॥' इति । प्ररोचनामुखलक्षणं तु—'निवेदनं प्रयो-
ज्यस्य निर्देशो देशकालयोः । काव्यार्थसूचकैः शब्दैः सभायाश्चित्तरञ्जनम् ॥ कवि-
काव्यनटादीनां प्रशंसा च प्ररोचना ॥' आदिशब्देन सभावस्तुनायकानां ग्रहणम् ।
'सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् । स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदा-
मुखम् ॥' इति । अलमिति । अनेकनान्दीश्लोकपाठकं पूर्वसूत्रिणं प्रति विलम्ब-

प्रथमोऽङ्कः । ६
कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते
धुर्यां लक्ष्मीमिह मयि भृशं धेहि देव प्रसीद ।
यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे
भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ॥ ५ ॥
(नेपथ्याभिमुखमवलोक्य ।) मारिष, सुविहितानि रङ्गमङ्गलानि ।
संनिपतितश्च भगवतः कालप्रियनाथस्य यात्राप्रसङ्गेन नानादिगन्त-
वास्तव्यो जनः । तत्किमित्युदासते भरताः । आदिष्टोऽस्मि विद्वत्प-
रिषदा यथा—अद्य त्वयाऽपूर्ववस्तुप्रयोगेण वयं विनोदयितव्या
इति । तत्परिषदं निर्दिष्टगुणप्रबन्धेनोपतिष्ठामः ।
मसहमानस्योक्तिः । प्रभातकालं निर्दिशति—उदितेति । भूयसा मण्डलेन भा-
गेनोदितः । उदितकल्प इति भावः । उपतिष्ठे स्तोत्रेणाराधयामि । ‘पथ्याराधन-
योश्च

६ | मालतीमाधवे

नटः—(प्रविश्य ।) भाव, कतमे ते गुणा यानुदाहरन्त्यार्य-
मिश्रा भगवन्तो भूमिदेवाः ।
सूत्रधारः—
भूम्ना रसानां गहनाः प्रयोगाः
सौहार्दहृद्यानि विचेष्टितानि ।
औद्धत्यमायोजितकामसूत्रं
चित्राः कथा वाचि विदग्धता च ॥ ६ ॥
नटः—भाव, कस्मिन्प्रकरणे ।


आर्या इति सर्वविद्यास्थानवेदिनः । मिश्रा इति पूज्यनिर्देशः । भूमिदेवा
इति तत्प्रधानत्वात्, सभाया गुणदोषविवेचनस्य तदधीनत्वात्, देवतात्मकत्वेन
तेषामाराधनीयत्वाच्च । अनेन सभाप्रशंसा कृता ॥ एते यानुदाहरन्ति त एते
गुणाः क इति नटस्य प्रश्नः । तानेव गुणानाह—भूम्नेति । भूम्ना प्राचु-
र्येण रसानामङ्गाङ्गिभावेन निविष्टानां शृङ्गारादीनां प्रयोगा अभिनया गहनाः
स्थूलदर्शिभिर्भावयितुमशक्याः । रसनां हि व्यञ्जनेन विषयाणामगूढतवे गुणीभावप्र-
सङ्गात्, गूढतयैव कामिनीकुचकलशवदिति भावनाचर्वणादौ सूक्ष्ममतय एव
सहृदयाः समर्थाः । न तु पदपदार्थज्ञानकृतार्थाः पण्डितंमन्याः । यदाह ध्वनिकृत्—
'शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते । वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् ॥'
इति । अनेन रसैकप्रवणत्वं प्रबन्धस्य जीवितभूतो गुणो दर्शितः । तथा सौहार्देन
निरुपाधिकस्नेहेन हृद्यानि मनोहराणि विचेष्टितानि नायकतन्मित्रादीनां व्यापाराः ।
अनेन धीरप्रशान्तनायकोपेतत्वं नाम गुणो दर्शितः । तथा औद्धत्यं शृङ्गाररसप्र-
धानस्यापि नायकस्य तद्विरोधिबीभत्साद्भुतरौद्ररसालम्बनत्वम् । तथा आयोजि-
तमानुकूल्येन संघटितं कामसूत्रं नायिकानायकयोरन्योन्यानुरागबीजं येन तादृशम् ।
कामोऽनुरागः । स एव वर्तिष्यमाणसर्वकार्यबीजभूतत्वात्सूत्रमिव सूत्रम् । अयं
भावः—महामांसविक्रयाघोरघण्टादौ यद्वीभत्सरौद्रशृङ्गारविरोधिरसोपादानं तदपि
प्रधानमालतीलाभलक्षणप्रयोजनानुगुण्येन शृङ्गाराङ्गभावपत्त्या विरोधपरिहारेणौ-
चित्यमेव संपादयतीति । तदुक्तम्—'विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् ।
भावानामाङ्गभावं वा प्राप्तानामुकिरच्छला ॥' इति । अत्र खल्ववधानवता कविना
भवितव्यम् । यद्विरोधिरसोपादानेऽप्यनौचित्यलेशोऽपि नास्पदं लभते । यदा-
ह—'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्यो-
पनिषत्परा ॥' इति । अनेनौचित्यशालित्वं नाम गुणो दर्शितः । कथाश्चित्राः ।
वस्तु पुनराश्चर्यजनकमिति वृत्तवैचित्र्यं गुणः । वाचि विदग्धता उक्तौ चातुर्यम् ।
निर्दोषगुणालंकारयोगोऽनेन दर्शितः । ईदृशगुणगरिष्ठप्रबन्धप्रयोगार्थमादिष्टोऽस्मीति
भावः ॥ ६ ॥ कस्मिन्निति । नैतादृशः प्रबन्धः प्रायेण लक्ष्यत इत्याशयः ॥

An exact line-by-line transcription of the Sanskrit text from the image into Unicode Devanagari:

प्रथमोऽङ्कः ।
सूत्रधारः—(विचिन्त्य ।) स्मृतम् । अस्ति दक्षिणापथे पद्मपुरं नाम
नगरम् । तत्र ब्राह्मणाः केचित्तैत्तिरीयाः पङ्क्तिपावनाः काश्यपाः पञ्चा-
ग्नयः सोमपीथिनो धृतव्रता उदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति ।
ते श्रोत्रियास्तत्त्वविनिश्चयाय
भूरिश्रुतं शाश्वतमाद्रियन्ते ।
इष्टाय पूर्ताय च कर्मणेऽर्था-
न्दारानपत्याय तपोऽर्थमायुः ॥ ७ ॥
तदामुष्यायणस्य तत्रभवतो भट्टगोपालस्य पौत्रः पवित्रकीर्तेर्नील-
कण्ठस्य पुत्रः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूतिर्नाम
**कविर्निसर्गसौहृदेन भरतेषु वर्तमानः स्वकृतिमैवंगुणभूय

८ मालतीमाधवे
उत्पत्स्यते मम तु कोऽपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ ८ ॥
तदुच्यन्तां तत्प्रस्थापनाय सर्वे कुशीलवा यथा—स्वसंगीतकप्रयोगे
वर्णिकापरिग्रहे च त्वर्यतामिति । कविवर्णनां प्रति तेनैवमुक्तम् ।
गुणैः सतां न मम को गुणः प्रख्यापितो भवेत् ।
यथार्थनामा भगवान्यस्य ज्ञाननिधिर्गुरुः ॥ ९ ॥
अपि च ।
यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च
ज्ञानं तत्कथनेन किं नहि ततः कश्चिद्गुणो नाटके ।
अत्र प्रमुखे विनयप्रदर्शनं कवित्वगर्वोद्धत्यप्रकटनं च । नामेति प्रसिद्धौ । मदपे-
क्षयापि प्रसिद्धा ये केचिन्महात्मानो नोऽस्माकमवज्ञां प्रथयन्ति कियदेतदित्यव-
जानन्ति, ते हि विवेकसलिलसंक्षालितसंसारवासनापङ्ककलङ्के मनसि प्रत्यगात्म-
वस्त्वेव परिभावयन्तस्तृणमिव जगदशेषमवलोकयन्तः किमपि रहस्यमुपनिषदेक-
गम्यं वस्तु जानन्त इति युक्तैव तेषामस्मद्विद्यापरतन्त्रेष्ववज्ञा । अत एव
तानुद्दिश्य नायं यत्नः । किं तर्ह्यतीतानामनेन प्रयोजनाभावाद्वर्तमानानामप्युत्त-
माधमानांमत्राप्रवृत्तेः सदृशस्य चैवंविधग्रन्थनिर्माणदक्षस्यैतदनुपादानात् । यो
मत्सदृश उत्पत्स्यते तं प्रतीति यत्तदोरनुपादानेऽपि सामर्थ्यात्तदुभयलाभः ।
तादृशस्योत्पत्तिः संभाव्यत इत्यत आह-काल इति । निरवधिरनन्तः । विपुला
विस्तीर्णा । अतः कस्मिंश्चिद्देशे कस्मिंश्चित्काले मत्सदृशोऽपि कचिदेतदुपादायी
जनिष्यत इति संभाव्यत इत्यर्थः । अथवा नामेति किलार्थे । ये केचिद्यादृशास्तादृशा
नोऽवज्ञां किल प्रथयन्ति स्वमहिम्ना जगत्सर्वमभिभवतामस्माकमपि । उडुभिरिव
भानोः क्षुद्रैः काचिदवज्ञावार्तेति चित्रमिति भावः । ते किं जानन्ति । न किमपीत्यर्थः।
अज्ञत्वान्न तदवज्ञयास्माकं काचित्क्षतिरिति भावः । अपिशब्दो भिन्नक्रमः । एष
यत्नोऽपि तान्प्रति न । तेषामलक्ष्यत्वात् । कं प्रति तर्हि । अतीतः प्रयोजनभा-
वाद्वर्तमानस्य च मत्सदृशस्याभावाद्यः कश्चिन्मादृश उत्पत्स्यते तं प्रति । कथ-
मिदानीमेतावति प्रपञ्चेऽप्यविद्यमानस्त्वादृश इतः परमुत्पत्स्यत इति संभावनेत्यत
आह— अनवधौ कालेऽप्यपरिच्छिन्ने देशे यथाहमेक एतावतः कालस्योत्पन्नस्तद्देव
को जानीते कदा वा कुत्र वा तादृशः कश्चिदुत्पद्येतापीत्यर्थः । हेत्वलंकारः ॥८॥
गुणैरित्यादि । सतामस्मद्गुरूणां गुणैः प्रख्याप्यमानैः । तच्छिष्यस्य मम को गुणो न
प्रकटीकृतः तादृशैर्गुरुभिः शिक्षितत्वादेव स्वस्मिन्सर्वे संभाव्यन्त इत्यर्थः । तमेव गुरुं
निदर्शयति—यथार्थेति ॥९॥ यद्वेदेति । उपनिषदां वेदशिरसां सांख्यस्य कापि-
लस्य योगस्य पातञ्जलस्य च मोक्षशास्त्रस्य । नहीति । तत्परिज्ञानं न काव्यनिर्माणेनै-
पुण्योपयोगमित्यर्थः । किं तर्हि नाटकरचनोपयुक्तमत आह-वचसां यत्प्रौढित्वं विव-

प्रथमोऽङ्कः। ९
यत्प्रौढित्वमुदारता च वचसां यच्चार्थतो गौरवं
तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः ॥ १० ॥
नटः—तावद्भूमिकाम्तथैव भावेन सर्वे वर्गाः पाठिताः। सौग-
तजरत्प्रव्राजिकायाः कामन्दक्यास्तु प्रथमां भूमिकां भाव एक एवा-
धीते। तदन्तेवासिन्यास्त्वहमवलोकितायाः।
सूत्रधारः—ततः किम्।
नटः—प्रकरणनायकस्य मालतीवल्लभस्य माधवस्य वर्णिकापरि-
ग्रहः कथम्।
सूत्रधारः—कलहंसमकरन्दयोः प्रवेशावसरे तत्सुविहितम्।
नटः—तेन हि तत्प्रबन्धप्रयोगादेवात्रभवतः सामजिकानु-
पासहे।
क्षितार्थसमर्पणप्रावीण्यम्। ‘विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता’ इति वच-
नात्। ‘पदे वाक्यार्थरचना वाक्यार्थे च पदामिधा। प्रौढिर्व्याससमासौ च साभिप्राय-
त्वमस्य च ॥’ इत्येवंरूपं वैचित्र्यं वा। उदारता प्रबन्धसौन्दर्यं श्लाघ्यार्थत्वं वा। अर्थतो
गौरवमनेकार्थप्रतिपादनसामर्थ्यं गाम्भीर्यरूपं तदेतच्चेदस्ति, तदेव पाण्डित्यस्य
व्युत्पत्तेर्वैदग्ध्यस्य कविताशक्तेश्च गमकं ज्ञापकम्। प्रबन्धगुणान्दृष्ट्वा स्वयमेव वि-
द्वांसो मम वैदग्ध्यं ज्ञास्यन्ति। नत्वेतन्मया स्वकण्ठेन वक्तव्यमित्यर्थः॥१०॥एतावता
कविकाव्यप्रशंसा कृतेति प्ररोचनां निर्वर्त्यामुखं प्रस्तौति—तावदित्यादि।
वीथ्यङ्गानामामुखे विकल्पितत्वान्नात्र तेषामुपादानमिति मन्तव्यम्। तावत्साकल्येन
भूमिकास्तत्तदभिनयकार्यं प्रति जनोचितवर्णवेषभाषामिनयादिपरिग्रहान्स्ववर्गान्त-
र्गताः पाठिताः शिक्षिताः। सौगतजरत्प्रव्राजिकाया बौद्धवृद्धसंन्यासिन्याः प्रथमामा-
दितः प्रवेशनीयाम् ॥ ततः किम्। ब्रूहीति शेषः। तत इति। आवाभ्यां तावत्काम-
न्दक्या अवलोकितायाश्च भूमिकाद्वयं प्रथममेव गृहीतम्। प्रधाननायकभूमिकापरि-
ग्रहस्तु कथं केन वा कर्तव्य इत्यर्थः। उत्तरमाह—कलहंसेति। कलहंसो माधवस्य
चेटः, मकरन्दो मित्रम्, तत्प्रवेशावसर एवैतन्माधवभूमिकापरिग्रहणं भविष्यतीति
नेदानीं तच्चिन्तनीयम्। तेन सर्वं सुष्ठु विहितम्, न किंचिदपि कर्तव्यमवशिष्टमि-
त्यर्थः। तदनेन प्रथमं कामन्दक्यवलोकिताप्रवेशः सूचितः। केचित्तु यावन्त्यत्र
प्रकरणे पात्राणि तेषां सर्वेषामपि प्रथमतः प्रवेशः सूचित इति व्याचक्षते। तदसं-
गतम्। तत्प्रवेशावसर एव प्रवेशस्य सूचनीयत्वात्। न तु कृत्स्नप्रकरणपात्रप्रवेशः
प्रथमतः सूचनीय इति प्रकरणलक्षणत्वे न क्वचिदपि ग्रन्थे दृश्यते। तत्तत्पात्रप्रवे-
शसमये तत्तत्सूचनं स्फुटमेवाग्रे दृश्यत इत्यलम् ॥ तेनेति। सामाजिकनिर्दिष्ट-
गुणयोगित्वेन वगैैरधीतत्वेन चेत्यर्थः। समाजे समवेतान्सामाजिकान्। 'पशूनां स-

१० मालतीमाधवे
सूत्रधारः—बाढम् । एषोऽस्मि कामन्दकी संवृत्तः ।
नटः—अहमप्यवलोकिता ।
(इति निष्क्रान्तौ ।)
प्रस्तावना ।
(परिवृत्य रक्तपटिकानेपथ्य उभावुपविष्टौ प्रविशतः ।)
कामन्दकी—वत्से अवलोकिते ।
अवलोकिता—आणवेदु भअवदी ।
कामन्दकी—अपि नाम कल्याणिनोर्भूरिवसुदेवरातपत्यो-
१. आज्ञापयतु भगवती ।
मजोऽन्येषां समाजोऽथ सधर्मिणाम्' इत्यमरः ॥ बाढमिति । तथा कुर्म इत्य-
र्थः । एष इति । सूत्रधाररूपपरित्यागेन कामन्दकीभूतोऽस्मि ॥ अहमप्यवलो-
किता संवृत्तेत्येतदामुखाङ्गं प्रयोगातिशयः । तदुक्तम्—'एषोऽयमित्युपक्षेपात्सूत्र-
धारप्रयोगतः । पात्रप्रवेशो यत्त्रायं प्रयोगातिशयो मतः ॥' इति । अन्यस्य पात्रस्य
प्रवेश एषोऽयमित्युपक्षेपः । सूत्रधारस्यैव समनन्तरपात्रत्व एषोऽहमित्युपक्षेप इति
नातीव भेदः ॥ इति प्रस्तावना ॥ परिवृत्य निर्गमनं नाटयित्वा । काषायशाटीविर-
चितवेषावुपविष्टौ कामन्दक्यवलोकितावेषधारिणौ प्रविशतः । इत्येवं प्रस्तावनां परि-
समाप्य सूचनीयकथांशसूचनार्थं मिश्रविष्कम्भमारभते—कामन्दकीत्यादि ।
वदतीति शेषः । विष्कम्भलक्षणं तु—'वृत्तवर्तिष्यमाणानां कथांशानां निद-
र्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥' इति । 'शुद्धः संकीर्णो वा
द्विविधो विष्कम्भकोऽपि वक्तव्यः । मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यमकृत ॥'
इति । शेषं नाटकवदित्यतिदेशात्प्रकरणेऽपि विष्कम्भकनिवेशः । तथा चाहुः—
'प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः । विष्कम्भकस्तु कार्यो नाटकयोगे प्रकरणे
च ॥' इति ॥ अवलोकितेति । आज्ञापयतु भगवती ॥ अपि नामेति । कल्या-
णिनोः कल्याणं मङ्गलमन्योन्यानुरूपं वयोरूपभाग्यसौभाग्यादिकमनयोरस्तीति तौ
तयोक्तौ । अनेन चान्योन्यानुगुणयोगान्मालत्येव माधवस्य योग्या वधूः, स एव
तस्याः समुचितो वर इति सूचितम् । भूरिति श्लाघ्यवंशप्रसूतत्वेन कुलतत्संबन्धा-
र्हत्वं ध्वनितम् । मालतीमाधवयोरितरेतरयोगद्वन्द्वनिर्देशेन साहित्यप्रतीतेः तद्धेतु-
रन्योन्यानुरागोऽस्तीति द्योत्यते । अभिमतम् । तयोर्बन्धूनामन्येषां च सहृदयानाम-
भिलषितमित्यर्थः । तदनेन मालतीमाधवयोरन्योन्यानुरागोऽत्र प्रकरणे बीजभूत-
सूचितो भवति । यथा—'स्तोकोद्दिष्टः कार्यहेतुर्बीजं विस्तार्यनेकधा' इति । प्रथमं
स्वल्पमेवोद्दिष्टः पश्चादनेकधा विस्तारी यः कार्यस्य प्रयोजनस्य हेतुः सोऽर्थो बी-
जमित्युच्यते । अत्र च प्रकरणे मालतीप्राप्तिर्माधवस्य प्रधानं कार्यम् । तद्धेतुश्च

? No.
Let's look at the strokes of that glyph:
Horizontal top bar.
Short vertical stroke down.
Then it turns right, loops, comes down-left, and hooks down-right.
That is precisely the letter ह!
With a top slant: े = हे.
Then the next letter:
Vertical bar, loop to the left with a horizontal connection: that is precisely न!
With a top slant: े = ने.
So it is unmistakably "हेने"!
Then व with ा: वा.
Then स्मि: स्मि.
So it is printed as: "आन्तरहेनेवास्मि-"!
Even if it's an error for आन्तरस्नेहेनेव or आन्तरङ्गेणेव, the print clearly says "आन्तरहेनेवास्मि-".
Wait, could it be "आन्तरङ्गेनैवास्मि-"?
Wait, where would the ङ् and ग be? If ङ् and ग were there, it wouldn't look like ह at all.
So it is printed as "आन्तरहेनेवास्मि-".

Wait, let's look at line 2 again:
The first word of line 2:
रनयोर्मावती... or रनयोर्माळती... or रनयोर्माध... wait!
Let's look at the very first word of line 2:
र न यो र्मा ल ती मा ध व यो र भि म तं

कामन्दकी—वत्से, मा मैवम् ।
यन्मां विधेयविषये स भवान्नियुङ्क्ते
स्नेहस्य तत्फलमसौ प्रणयस्य सारः ।
प्राणैस्तपोभिरथवाभिमतं मदीयैः
कृत्यं घटेत सुहृदो यदि तत्कृतं स्यात् ॥ १२ ॥
किं न वेत्सि । यदैव नो विद्यापरिग्रहाय नानादिगन्तवाससाहच-
र्यमासीत्तदैवास्मत्सौदामिनीसमक्षमनयोर्भूरिवसुदेवरातयोः प्रवृत्तेयं प्र-
गिजनोचितद्यूत्यादिकृत्येष्वमात्यभूरिवसुर्नियोजयतीति तस्य तावत्कार्यप्रस्तावाद-
न्येन वास्य दुष्करत्वादनुचितेऽपि व्यापारे भगवतीं नियोजयतु नाम । तस्मिंश्चायासा-
उत्खण्डित उच्छिन्नः संसार एवावग्रहो निःश्रेयसामृतवर्षप्रतिबन्धः । मोक्षान्तराय
इति यावत् । स यस्य आत्मा युष्माभिरपि निक्षिप्यत इति यदेतत्सर्वमाश्चर्यमिति
योजना ॥ कामन्दकी । वत्से इति । नैवं वक्तव्यमित्यर्थः ॥ यन्मामिति । स पू-
ज्यो भवान्भूरिवसुर्मां विधेयविषये कृत्यविषये नियुङ्क्त इति यत्तत्स्नेहस्य प्रेम्णः फलम् ।
असौ विश्रम्भयोग्यं प्रेमैव प्रणय इ

१. अङ्क १-३: पद्मावती नगरी, कामन्दकी योजना, माधव-मालती प्रथम दर्शन व मकरन्द-मदयन्तिका अनुराग

प्रथमोऽङ्कः । १३
तिज्ञा अवश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इति । तदिदानीं वि-
दर्भराजस्य मन्त्रिणा सता देवरातेन माधवं पुत्रमान्वीक्षिकीश्रवणाय
कुण्डिनपुरादिमां पद्मावतीं प्रहिण्वता सुविहितम् ।
अपत्यसंबन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिं च ।
अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च ॥ १३ ॥
अवलोकिना—किंति मालदिं अमच्चो माहवस्स अप्पणा ण
प्पडिवादेइ । जेण चोरिअविआहे भअवदी तुवरावेदि ।
कामन्दकी—
तां याचते नरपतेर्नर्मसुहृन्नन्दनो नृपमुखेन ।
तत्साक्षात्प्रतिषेधः कोपाय शिवस्त्वयमुपायः ॥ १४ ॥
१. किमिति मालतीममात्यो माधवस्यात्मना न प्रतिपादयति । येन
चौर्यविवाहे भगवती त्वरयति ।
वितिवत् 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषप्रसङ्गात् । द्विपर्यन्तानामेवत्यदादित्व-
मिति तु त्यदायत्वमात्रनिरासार्थम् । तदिदानीमिति । तत्प्रतिज्ञातम् । मन्त्रिणे-
तिपदं बहुप्रयोजनोद्देशेन पुत्रमत्र प्रेषितवानिति तस्य बुद्धिकौशलं प्रकटयितुम् ।
आन्वीक्षिकी न्यायशास्त्रम् । नीतिशास्त्रस्यापि न्यायमूलकत्वात्तदन्तर्गतिः । सुविहितं
साधु संपादितम् । सुविधाने युक्तिमाह—अपत्येति । पूर्वमेव संबन्धस्य प्रतिज्ञात-
त्वात्स्वयमेव भूरिवसुः सुतां माधवाय दास्यतीति यदि तमत्र देवरातो न प्रेषयेत्तदा
स्मारकाभावात्कालविप्रकर्षाच्च भूरिवसुः प्रतिज्ञां विस्मरेदपि । तदनेन पुत्रप्रेषणेन
सुहृदः प्रतिज्ञा स्मृतिविषयं प्रापिता । यदि वा कदाचिद्दृष्टवशात्स्मरणेपि वरगुण-
परिज्ञानादतिलोकलावण्यशालिनीं सुतां दातुं संशयीत, तदपि निराकृतम् । यतः
प्ररोचनार्थं संबन्धेच्छोत्पादनार्थं यूनोरन्योन्यानुरागजननार्थं चानितरसाधारणगु-
णस्तनूजः प्रकटीकृतश्चेति युक्तिद्वयात्प्रतिज्ञातं सुतप्रेषणेन सुविहितमित्यर्थः ॥ १३ ॥
अवलोकिता—किमिति मालतीममात्यो माधवस्यात्मना न प्रतिपादयति ।
येन चौर्यविवाहे भगवती त्वरयति । माधवस्येति चतुर्थ्यर्थे षष्ठी ॥ स्वयमप्रदाने
निमित्तमाह—कामन्दकी । तामिति । नरपतेर्नर्मसुहृत्क्रीडासचिवो नन्दनस्तां
मालतीं नृपमुखेन याचते । नन्दनाय प्रयच्छेति राज्ञा याचयतीत्यर्थः । राज-
गुणेन याचते न तु श्लाघ्यवरगुणेनेति भावः । तस्या नरपतिप्रार्थनायाः साक्षा-
न्मुखतो न प्रयच्छामीत्येव निषेधो राज्ञः कोपाय स्यात् । अयं तु चौर्यविवाहरूप
उपायः शिवः शोभनः । अभिमतसुहृत्संबन्धनृपद्वेषलक्षणेष्टानिष्टप्राप्तिपरिहारहेतु-

१४ | मालतीमाधवे
अवलोकिता—अच्चरिअं अच्चरिअं । ण क्खु अमच्चो माहवस्स
णामं वि जाणादित्ति णिरवेक्खदा लक्खिअदि ।
कामन्दकी—वत्से, संवरणं तत् ।
विशेषतस्तु बालत्वात्तयोर्विवृतभावयोः ।
तेन माधवमालत्योः कार्यः स्वमतिनिह्नवः ॥ १५ ॥
अपि च—
अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः ।
श्रेयो ह्यस्माकमेवं हि प्रतार्यौ राजनन्दनौ ॥ १६ ॥
१. आश्चर्यमाश्चर्यम् । न खल्वमात्यो माधवस्य नामापि जानातीति नि-
रपेक्षता लक्ष्यते ।
लात् ॥१४॥ अवलोकिता—आश्चर्यमाश्चर्यम् । न खल्वमात्यो माधवस्य नामापि
जानातीति माधवे निरपेक्षता लक्ष्यते । कथं तस्मै सुतां प्रदित्सुस्तं माधवमप्यजा-
नान इव तस्मिन्नैस्पृह्यमाचरतीत्यर्थः ॥ कामन्दकी—संवरणं तत् , राजभयेनाका-
रगोपनं तत् । अज्ञाननटनमित्यर्थः । इतोऽप्यज्ञानं नटनीयमित्याह—विशेषत-
स्त्विति । बाल्यानन्तरभावित्वाद्वयसः। तद्धर्मानुवृत्तेश्च । बाल्यमिह प्रथमयौवन-
मुच्यते । तेन युक्तायुक्तविचारविधुरे, आकारगोपनानभिज्ञे, मदनाज्ञैकवशंवदे, गुरु-
जनसुलक्ष्यापि मनोरथं संपादयितुमुद्युञ्जाने, प्रथमयौवने वर्तमानत्वाद्विवृतभावयोः
प्रकटीभूतान्योन्यानुरागकुण्ठीभावपरिहारार्थं विशेषतः स्वमतेस्तदन्योन्यानुरागवि-
षयाया निह्नवः कार्यः प्रच्छादनं कर्तव्यम् । मालत्यपि माधवानुरक्तां मां तातो
न जानातीति यथा मन्यते, माधवोऽपि खसुतानुरक्तं माममात्यो न वेत्तीति यथा
प्रत्येति, तथा तदज्ञानं नाटयितव्यम् । तथा सति, अकुण्ठितोत्साहयोस्तयोः स्वत
एवाभिमतसंघटनं सिध्येत् । अन्यथा गुरुजनेन विदितमस्मच्चापलमिति लज्जया
तदुद्योगभङ्गादभिलषितः कृतकपरिणयो न निष्पद्येतेति भावः । अत्र नायकयोर-
न्योन्यानुरागस्य बीजस्योपन्यासादुपक्षेपो नाम मुखसंधेरङ्गमुक्तं भवति । यथा—
‘बीजन्यास उपक्षेपः’ इति ॥१५॥ **अनुरागेति—**अमात्यो माधवस्य नामापि न
जानातीत्येतत्संवरणमात्रमिति किं वक्तव्यम् । यतः वत्सयोरुभयोरपि, कामन्दकीं
प्रति प्रियसुहृदपत्यत्वाद्वत्सयोरिति निर्देशः । अनुरागप्रवादः सार्वलौकिकः सर्वलो-
कविदितः ‘लोकसर्वलोकाभ्याम्—’ इति ठञ् । अनुशतिकादित्वाद्युभयपदवृद्धिः ।
पामरा अपि जानन्ति किमुतामात्य इति भावः । अनेन बीजस्य बहुलीकरणात्परि-
करो नाम संध्यङ्गमुक्तं भवति । यथा—‘तद्बाहुल्यं परिकरः’ इति । एवं च सत्य-
स्माकं श्रेयो भवति । कुतः । हि यस्माद्राजनन्दनौ प्रतार्यौ वञ्चयितुं शक्यौ स्याताम्।
यदि कृतकपरिणये वृत्ते राजा नन्दनो वा कुप्येत् कथमनया वराक्या भिक्षुकया-
स्मद्विरोध आचरित इति, तदा न ममात्र दोषः तावन्योन्यानुरागवशेन स्वत
एव संमिलितौ । स चानुरागः सर्वलोकप्रसिद्ध इत्यस्माकं तद्वचनं सुलभमित्यर्थः ।

प्रथमोऽङ्कः । १५
पश्य ।
बहिः सर्वाकारप्रवणरमणीयं व्यवहर-
न्पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति ।
जनं विद्वान्नेकः सकलमतिसंधाय कपटै-
स्तटस्थः स्वानर्थान्घटयति च मौनं च भजते ॥ १७ ॥
अवलोकिता—मए वि तुम्ह वअणादो तेण तेणोवण्णासेण
भूरिवसुमन्दिरासण्णतरराअमग्गेण माहवो सञ्चारिअदि ।
कामन्दकी—कथितमेव नो मालतीधात्रेय्या लवङ्गिकया ।
भूयोभूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।


१. मयापि युष्मद्वचनात्तेन तेनोपन्यासेन भूरिवसुमन्दिरासन्नतरराजमा-
र्गेण माधवः संचार्यते ।


॥ १६ ॥ एवमेव च विदग्धाः स्वयमुदासीनवद्वर्तमानास्तद्वार्तामप्यजानाना इव
परैः प्रतीयमाना बुद्धिकौशलेनैव कार्याणि निर्वहन्तो दृश्यन्त इत्याह—बहिरिति ।
विद्वान्कार्यविदेकोऽनेकाप्तवर्गविक्षिप्तकार्यभारोऽप्यन्यैरेकवत्प्रतीयमानः सन् बहिः
स्वकीयवास्तवव्यापारप्रच्छादनेन लोकं वञ्चयितुमेव केवलमारब्धे स्वाभिलषितरह-
स्यकार्याद्बहिर्भूतेऽन्यस्मिन्मनःपूर्वेऽपि व्यापारे सर्वस्याकारस्य वेषभाषाव्यवहर-
णादेरनुभावस्य प्रावण्येन । भावप्रधानो निर्देशः । तदेकपरत्वेन रमणीयं लोकस्य
चित्तरञ्जनं यथा भवति तथा व्यवहरन्नयमहर्निशमेतदेकपरो वर्तते । न ह्यसाव-
न्यकार्यवार्तामपि जानातीति यथा रन्ध्रान्वेषिणामपि प्रतीतिस्तथा व्यवहरन्नित्यर्थः ।
परेषां शत्रूणामभ्यूहस्य रहस्योत्प्रेक्षणस्य समुचितानि स्थानानि छिद्राणि तनुतराण्य-
प्यतिसूक्ष्माण्यपि स्थगयति पिधत्ते, एवं सकलसूक्ष्मदर्शिनमपि जनं कपटैर्वञ्च-
नाव्यापारैरतिसंधाय विश्वासजननेन वञ्चयित्वा स्वयं तटस्थ उदासीन इव प्रतिभा-
समान एव स्वानर्थान्घटयति संपादयति । मौनं च भजते । अभिमतकार्यविषये
वाङ्मात्रमपि बहिर्न वदतीत्यर्थः । विदग्धजनस्वभावोक्तिः ॥ १७ ॥ इदानीमव-
लोकिता स्वानुष्ठितकार्यमाह—अवलोकिता । मयेति । स च मयापि
युष्माकं वचनात्तेन तेनोपन्यासेन बहुविधानाशङ्कनीयव्याज्योक्तिप्रयोगेण भूरिवसुम-
न्दिरस्यासन्नतरराजमार्गेण माधवः संचार्यते । यथा मालतीनयनगोचरोऽसौ भवति
तथा कृतमित्यर्थः । आसन्नत्वेन सर्वावयवसौष्ठवस्य सम्यग्विभाव्यता सूचिता ।
बहुशः संचरणेऽप्यनाशङ्कनीयत्वं राजमार्गपदेन सूचितम् ॥ तत्प्रयुक्तोपायस्य फल-
मस्माभिरधिगतमित्याह—कामन्दकी । कथितमिति । धात्र्याः सुता धात्रेयी
‘स्त्रीभ्यो ढक्’ । तेन तस्याः सह स्तन्यपानसहपांसुक्रीडादिनातिविस्रम्भस्थानत्वात्स-
र्वमपि तन्मनोगतं वेत्तीति सूचितम् । किमिति कथितमत आह—भूय इति ।
३ माल०

१६ मालतीमाधवे
साक्षात्कामं नवमिव रतिर्मालती माधवं य-
द्गाढोत्कण्ठा लुलितलुलितैरङ्गकैस्ताम्यतीति ॥ १८ ॥
अवलोकिता—बाढम् । तदो ताए उव्वेअविणोअणं माहवपडि-
च्छन्दं अभिलिहिअं लवङ्गिआए मन्दारिआहत्थे अज्ज णिक्खित्तं
दाव ।
कामन्दकी—(विचिन्त्य ।) सुविहितं लवङ्गिकया । माधवानुचरः
कलहंसो नाम विहारदासीं मन्दारिकां कामयते । तदनेन तीर्थेन
तत्प्रतिच्छन्दकमुपोद्घाताय माधवान्तिकमुपेयादित्यभिप्रायः ।
१०. बाढम् । ततस्तयोद्वेगविनोदनं माधवप्रतिच्छन्दकमभिलिखितं लव-
ङ्गिकया मन्दारिकाहस्तेऽद्य निक्षिप्तं तावत् ।
स्वमन्दिरासन्नपुरवीथ्यां बहुशो गतागतानि कुर्वाणं माधवं क्रीडासौधशिखरगोपा-
नसीसंनिहिततुङ्गगवाक्षमार्गस्थिता मालती प्रत्यक्षं नूतनं दाहानन्तरोत्पन्नं कामं
रतिरिव नूतनोत्पन्ना सतीत्वेन तस्मिन्नेव स्वभर्तरि बद्धानुरागा दृष्ट्वा सामिलाषं पुनः
पुनर्विलोक्य गाढोत्कण्ठा तत्तदनुभावव्यज्यमानप्रवृद्धरणरणिकालुलितलुलितैर्मदन-
संतापेनात्यन्तकल्लुषितैः । कामावस्थानिमित्तकमनीयवर्णान्तरशालिभिरङ्गकैरिति
यावत् । ताम्यति म्लायतीति कथितमित्यन्वयः । अत्रोत्कण्ठास्वरूपं तदनुभावा-
श्च भावप्रकाशिकायाम्—सर्वैन्द्रियसुखास्वादो यत्रास्तीति मनःश्रियः(?) । तत्प्रा-
प्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः॥ अन्तःसंभोगसंकल्पस्तत्तदाशावलोकनम्।
अङ्गग्लानिर्मनोरक्तिर्मनोरथविचिन्तनम् ॥ अधिजानुभुजालम्बिकपोलतलमासनम्।
प्रसन्नमुखरागश्च खेदोष्मा गद्गदा च वाक् ॥ उत्कण्ठानुभवा भावाः कथ्यन्ते भाव-
कोविदैः ॥' इति । अत्र मालत्या माधवविषयोऽभिलाषः प्रथमावस्थेति मन्तव्यम् ।
यथा—'अभिलाषमनःसङ्गौ संकल्पो गुणनुतिः क्रियाद्वेषः । तापो मानत्यागोन्मा-
दौ मूर्च्छा मृतिर्दशावस्थाः ॥' अत्र च 'अभिलाषस्पृहा रम्ये दृष्टे चालम्बने स्मृते ।
औत्सुक्यस्वेदरूमाञ्चहर्षविस्मयसाध्वसैः॥ चापलस्तम्भलज्जाद्यैरनुभावैश्च भाव्यते ॥'
इति ॥ १८ ॥ अवलोकिता—बाढम् । यल्लवङ्गिकया कथितं तद्दृढमित्यर्थः। दृढत्वे
युक्त्यन्तरमाह-ततस्तया मालत्योद्वेगविनोदनं माधवप्रतिच्छन्दकं तत्सदृशी प्रतिमा-
मभिलिखितं यत्प्रतिच्छन्दकं लवङ्गिकया मन्दारिकाहस्तेऽद्य निक्षिप्तं तावत् । क्रमेण
माधवहस्तं प्राप्स्यतीति तावच्छब्दार्थः ॥ कामन्दकी । विचिन्त्येति । मन्दा-
रिकाहस्ते चित्रफलकनिधानस्य तात्पर्यं विचार्य तद्विवृणोतीति शेषः। सुविहितमि-
त्यादि । अनुचरश्चेटः । विहारदासीं बौद्धालयापरिचारिकां तां मन्दारिकाम् । तीर्थे-
नावतरणमार्गेण । उपोद्घाताय प्रकृतकार्यसिद्धिहेतुभूतायार्थाय । स चायं मयीयमनु-
रक्तेति माधवस्य प्रत्ययः । सत्येव तस्मिंस्तस्य प्रकृतकार्ये प्रवृत्तिसिद्धेरित्यभिप्रायः ।

प्रथमोऽङ्कः । ३७
अवलोकिता—माहवो वि कोऊहलं उप्पादिअ मए पउत्तम-
णमहोत्सवं मअणुज्जाणं पहादे अणुप्पेसिदो। तत्थ किल मालदी
गमिस्सदि। तदो अण्णोण्णदंसणं होदिति।
कामन्दकी—साधु वत्से, साधु। अनेन मत्प्रियाभियोगेन
स्मारयसि मम पूर्वशिष्यां सौदामिनीम्।
अवलोकिता—भअवदि, सा दाणिं सोदामिणी समासादिअ-
अच्छरिअमन्तसिद्धिप्पहावा सिरिपव्वदे कावालिअव्वदं धारेदि।
कामन्दकी—कुतः पुनरियं वार्ता।
अवलोकिता—अत्थि एत्थ णअरीए महामसाणप्पदेसे कराला
नाम चामुण्डा।
कामन्दकी—अस्ति। या किल विविधजीवोपहारप्रियेति साह-
सिकानां प्रवादः।
अवलोकिता—तँस्सिं क्खु सिरिपव्वदादो आअदत्स इदो
१. माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं मदनोद्यानं
प्रभातेऽनुप्रेषितः। तत्र किल मालती गमिष्यति। ततोऽन्योन्यदर्शनं भवि-
ष्यतीति।
२. भगवति, सेदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीप-
र्वते कापालिकव्रतं धारयति।
३. अस्त्यत्र नगर्यो महाश्मशानप्रदेशे कराला नाम चामुण्डा।
४. तस्मिन्खलु श्रीपर्वतादागतस्येतो नातिदूरश्मशानवासिनः साधकस्य
इदं तात्पर्यं मन्दारिकाहस्ते चित्रफलकनिधानस्येत्यर्थः ॥ अवलोकिता । स्वानु-
ष्ठितं कार्यानन्तरमाह—अत्र माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं
मदनोद्यानं प्रभातेऽनुप्रेषितः। किमर्थम्। तत्र किल मालती गमिष्यति। ततोऽन्यो-
न्यदर्शनं भविष्यतीति हेतोः ॥ कामन्दकी। साध्वित्यादि । मत्प्रिये मद-
भिलषितसंपादनेऽभियोगोऽत्यन्ताभिनिवेशस्तेन ॥ अवलोकिता—भगवति,
सेदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीपर्वते कापालिकव्रतं धार-
यति ॥ कामन्दकी । कुत इति । कस्मादुपलब्धेत्यर्थः ॥ अवलोकिता—
अस्त्यत्र नगर्यां महाश्मशानप्रदेशे कराला नाम चामुण्डा ॥ कामन्दकी ।
अस्तीति । अस्ति। प्रसिद्धैव सा श्रूयत इत्यर्थः। विविधानां मनुष्यपशुप्रभृतीनां
जीवानामुपहारे प्रिया । अनेन पञ्चमाङ्के मालत्युपहारप्रदर्शनं सूचितम्। साह-
सिकानां साहसशीलानाम् ॥ अवलोकिता—तस्मिन्खलु श्रीपर्वतादागतस्येतो-

१८ मालतीमाधवे
णादिदूरमसाणवासिणो साधअस्स मुण्डंधारिणो अघोरघण्टणामहेअस्स
अन्तेवासिणी महापहावा कवालकुण्डला णाम अणुसंज्झं आगच्छइ ।
तदो इअं पउत्ति ।
कामन्दकी—सर्वं हि सौदामिन्यां संभाव्यते ।
अवलोकिता—१अलं दाव एदिणा । भअवदि, सो वि पासअरो
माहवस्स बालमित्तं मअरन्दो णन्दणस्स भइणिं मदअन्तिअं जइ
समुव्वहइ तं वि माहवस्स दुइअं पिअं होदि ।
कामन्दकी—नियुक्तैव तत्र मया प्रियसखी बुद्धरक्षिता ।
अवलोकिता—२सुविहिदं भअवदीए ।
कामन्दकी—तदुत्तिष्ठ । माधवप्रवृत्तिमुपलभ्य मालतीमेव पश्यावः।
(इत्युत्तिष्ठतः ।)
कामन्दकी—(विचिन्त्य ।) अत्युदारप्रकृतिर्मालती नाम । निपुणं
निसृष्टार्थदूतीकल्पस्तन्त्रयितव्यः । सर्वथा
मुण्डधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामा-
नुसंध्यमागच्छति । तत इयं प्रवृत्तिः ।
१. अलं तावदेतेन । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं
मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति तदपि माधवस्य
द्वितीयं प्रियं भवति ।
२. सुविहितं भगवत्या ।
नातिदूरश्मशानवासिनः साधकस्य मन्त्रसाधनोद्यतस्य मुण्डधारिणो नरशिरःकपा-
लधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामानुसं-
ध्यमागच्छति । तत इयं प्रवृत्तिर्वार्ता । मया श्रुतेति शेषः ॥ कामन्दकी ।
सर्वमिति । संभाव्यत इति । अनेनोत्तरत्र सौदामिनीसाध्यान्यद्भुतानि सूचि-
तानि ॥ अवलोकिता—अलं तावदेतेनालं तावदनुपयुक्तेनाघोरघण्टवृत्ता-
न्तकथनेनेत्यर्थः । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो
नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति तदपि माधवस्य द्वितीयं प्रियं
भवति । अनेनोपनायकस्य मकरन्दस्य गर्भसंधौ पताकावृत्तान्तः सूचितो भवति ॥
कामन्दकी । नियुक्तेति । तदपि मया पूर्वमेवानुसंहितमित्यर्थः । अवलो-
किता—सुविहितं भगवत्या ॥ कामन्दकी । तदिति । माधवप्रवृत्तिमुपलभ्य किं
मदनोद्याने तयोरन्योन्यदर्शनमभून्न वेति वार्तां ज्ञात्वेत्यर्थः । मालतीमेव पश्यावः।
कुलकुमारीजनानुचिते ह्यस्मदुपदिष्टे स्वयमात्मप्रदानसाहसे यथासौ नाशङ्कते तथा
नैवातिपरिचयेन वशीकर्तव्येति भावः ॥ कामन्दकी । विचिन्त्येति । कीदृशं