मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 23, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । १५
पश्य ।
बहिः सर्वाकारप्रवणरमणीयं व्यवहर-
न्पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति ।
जनं विद्वान्नेकः सकलमतिसंधाय कपटै-
स्तटस्थः स्वानर्थान्घटयति च मौनं च भजते ॥ १७ ॥
अवलोकिता—मए वि तुम्ह वअणादो तेण तेणोवण्णासेण
भूरिवसुमन्दिरासण्णतरराअमग्गेण माहवो सञ्चारिअदि ।
कामन्दकी—कथितमेव नो मालतीधात्रेय्या लवङ्गिकया ।
भूयोभूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
१. मयापि युष्मद्वचनात्तेन तेनोपन्यासेन भूरिवसुमन्दिरासन्नतरराजमा-
र्गेण माधवः संचार्यते ।
॥ १६ ॥ एवमेव च विदग्धाः स्वयमुदासीनवद्वर्तमानास्तद्वार्तामप्यजानाना इव
परैः प्रतीयमाना बुद्धिकौशलेनैव कार्याणि निर्वहन्तो दृश्यन्त इत्याह—बहिरिति ।
विद्वान्कार्यविदेकोऽनेकाप्तवर्गविक्षिप्तकार्यभारोऽप्यन्यैरेकवत्प्रतीयमानः सन् बहिः
स्वकीयवास्तवव्यापारप्रच्छादनेन लोकं वञ्चयितुमेव केवलमारब्धे स्वाभिलषितरह-
स्यकार्याद्बहिर्भूतेऽन्यस्मिन्मनःपूर्वेऽपि व्यापारे सर्वस्याकारस्य वेषभाषाव्यवहर-
णादेरनुभावस्य प्रावण्येन । भावप्रधानो निर्देशः । तदेकपरत्वेन रमणीयं लोकस्य
चित्तरञ्जनं यथा भवति तथा व्यवहरन्नयमहर्निशमेतदेकपरो वर्तते । न ह्यसाव-
न्यकार्यवार्तामपि जानातीति यथा रन्ध्रान्वेषिणामपि प्रतीतिस्तथा व्यवहरन्नित्यर्थः ।
परेषां शत्रूणामभ्यूहस्य रहस्योत्प्रेक्षणस्य समुचितानि स्थानानि छिद्राणि तनुतराण्य-
प्यतिसूक्ष्माण्यपि स्थगयति पिधत्ते, एवं सकलसूक्ष्मदर्शिनमपि जनं कपटैर्वञ्च-
नाव्यापारैरतिसंधाय विश्वासजननेन वञ्चयित्वा स्वयं तटस्थ उदासीन इव प्रतिभा-
समान एव स्वानर्थान्घटयति संपादयति । मौनं च भजते । अभिमतकार्यविषये
वाङ्मात्रमपि बहिर्न वदतीत्यर्थः । विदग्धजनस्वभावोक्तिः ॥ १७ ॥ इदानीमव-
लोकिता स्वानुष्ठितकार्यमाह—अवलोकिता । मयेति । स च मयापि
युष्माकं वचनात्तेन तेनोपन्यासेन बहुविधानाशङ्कनीयव्याज्योक्तिप्रयोगेण भूरिवसुम-
न्दिरस्यासन्नतरराजमार्गेण माधवः संचार्यते । यथा मालतीनयनगोचरोऽसौ भवति
तथा कृतमित्यर्थः । आसन्नत्वेन सर्वावयवसौष्ठवस्य सम्यग्विभाव्यता सूचिता ।
बहुशः संचरणेऽप्यनाशङ्कनीयत्वं राजमार्गपदेन सूचितम् ॥ तत्प्रयुक्तोपायस्य फल-
मस्माभिरधिगतमित्याह—कामन्दकी । कथितमिति । धात्र्याः सुता धात्रेयी
‘स्त्रीभ्यो ढक्’ । तेन तस्याः सह स्तन्यपानसहपांसुक्रीडादिनातिविस्रम्भस्थानत्वात्स-
र्वमपि तन्मनोगतं वेत्तीति सूचितम् । किमिति कथितमत आह—भूय इति ।
३ माल०