मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 25, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । ३७
अवलोकिता—माहवो वि कोऊहलं उप्पादिअ मए पउत्तम-
णमहोत्सवं मअणुज्जाणं पहादे अणुप्पेसिदो। तत्थ किल मालदी
गमिस्सदि। तदो अण्णोण्णदंसणं होदिति।
कामन्दकी—साधु वत्से, साधु। अनेन मत्प्रियाभियोगेन
स्मारयसि मम पूर्वशिष्यां सौदामिनीम्।
अवलोकिता—भअवदि, सा दाणिं सोदामिणी समासादिअ-
अच्छरिअमन्तसिद्धिप्पहावा सिरिपव्वदे कावालिअव्वदं धारेदि।
कामन्दकी—कुतः पुनरियं वार्ता।
अवलोकिता—अत्थि एत्थ णअरीए महामसाणप्पदेसे कराला
नाम चामुण्डा।
कामन्दकी—अस्ति। या किल विविधजीवोपहारप्रियेति साह-
सिकानां प्रवादः।
अवलोकिता—तँस्सिं क्खु सिरिपव्वदादो आअदत्स इदो
१. माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं मदनोद्यानं
प्रभातेऽनुप्रेषितः। तत्र किल मालती गमिष्यति। ततोऽन्योन्यदर्शनं भवि-
ष्यतीति।
२. भगवति, सेदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीप-
र्वते कापालिकव्रतं धारयति।
३. अस्त्यत्र नगर्यो महाश्मशानप्रदेशे कराला नाम चामुण्डा।
४. तस्मिन्खलु श्रीपर्वतादागतस्येतो नातिदूरश्मशानवासिनः साधकस्य
इदं तात्पर्यं मन्दारिकाहस्ते चित्रफलकनिधानस्येत्यर्थः ॥ अवलोकिता । स्वानु-
ष्ठितं कार्यानन्तरमाह—अत्र माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं
मदनोद्यानं प्रभातेऽनुप्रेषितः। किमर्थम्। तत्र किल मालती गमिष्यति। ततोऽन्यो-
न्यदर्शनं भविष्यतीति हेतोः ॥ कामन्दकी। साध्वित्यादि । मत्प्रिये मद-
भिलषितसंपादनेऽभियोगोऽत्यन्ताभिनिवेशस्तेन ॥ अवलोकिता—भगवति,
सेदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीपर्वते कापालिकव्रतं धार-
यति ॥ कामन्दकी । कुत इति । कस्मादुपलब्धेत्यर्थः ॥ अवलोकिता—
अस्त्यत्र नगर्यां महाश्मशानप्रदेशे कराला नाम चामुण्डा ॥ कामन्दकी ।
अस्तीति । अस्ति। प्रसिद्धैव सा श्रूयत इत्यर्थः। विविधानां मनुष्यपशुप्रभृतीनां
जीवानामुपहारे प्रिया । अनेन पञ्चमाङ्के मालत्युपहारप्रदर्शनं सूचितम्। साह-
सिकानां साहसशीलानाम् ॥ अवलोकिता—तस्मिन्खलु श्रीपर्वतादागतस्येतो-