मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
DevanagariHindipublished377 पृष्ठ
पृष्ठ 9, कुल 377 में से
संदर्भ में पढ़ेंपृष्ठ 9
॥ श्रीः ॥
मालतीमाधवम् ।
प्रथमोऽङ्कः ।
चूडापीडकपालसंकुलगलन्मन्दाकिनीवारयो
विद्युत्प्रायललाटलोचनशिखिज्वालाविमिश्रत्विषः ।
भावप्रदीपिका ।
ऐन्द्व्या कलयावतंसितकचं सौन्दर्यसारास्पदं
कारुण्यामृतपूरपूरितलसल्लीलाकटाक्षाङ्कुरम् ।
उद्यत्कोटिदिनेशमण्डलरुचिन्यक्कारिभाभासुरं
वन्दे पाशसृणीक्षुचापसुमनोबाणापहं तन्महः ॥
यत्तुण्डमण्डलगलन्मदवारिधाराः कर्णद्वयव्यजनवातविधूतशीर्णाः ।
भक्तान्तरायनिवहा इव सार्यमाणा भान्ति द्विपेन्द्रवदनं तमुपाश्रयामः ॥
एकाग्रमूलनिलयकरिभूधरनायकौ ।
काञ्चीपुरीश्वरौ वन्दे कामितार्थप्रसिद्धये ॥
पदवाक्यप्रमाणज्ञो भवभूतिर्महाकविः ।
मालती