मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 20, कुल 377 में से
संदर्भ में पढ़ेंकामन्दकी—वत्से, मा मैवम् ।
यन्मां विधेयविषये स भवान्नियुङ्क्ते
स्नेहस्य तत्फलमसौ प्रणयस्य सारः ।
प्राणैस्तपोभिरथवाभिमतं मदीयैः
कृत्यं घटेत सुहृदो यदि तत्कृतं स्यात् ॥ १२ ॥
किं न वेत्सि । यदैव नो विद्यापरिग्रहाय नानादिगन्तवाससाहच-
र्यमासीत्तदैवास्मत्सौदामिनीसमक्षमनयोर्भूरिवसुदेवरातयोः प्रवृत्तेयं प्र-
गिजनोचितद्यूत्यादिकृत्येष्वमात्यभूरिवसुर्नियोजयतीति तस्य तावत्कार्यप्रस्तावाद-
न्येन वास्य दुष्करत्वादनुचितेऽपि व्यापारे भगवतीं नियोजयतु नाम । तस्मिंश्चायासा-
उत्खण्डित उच्छिन्नः संसार एवावग्रहो निःश्रेयसामृतवर्षप्रतिबन्धः । मोक्षान्तराय
इति यावत् । स यस्य आत्मा युष्माभिरपि निक्षिप्यत इति यदेतत्सर्वमाश्चर्यमिति
योजना ॥ कामन्दकी । वत्से इति । नैवं वक्तव्यमित्यर्थः ॥ यन्मामिति । स पू-
ज्यो भवान्भूरिवसुर्मां विधेयविषये कृत्यविषये नियुङ्क्त इति यत्तत्स्नेहस्य प्रेम्णः फलम् ।
असौ विश्रम्भयोग्यं प्रेमैव प्रणय इ