मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 14, कुल 377 में से
संदर्भ में पढ़ें६ | मालतीमाधवे
नटः—(प्रविश्य ।) भाव, कतमे ते गुणा यानुदाहरन्त्यार्य-
मिश्रा भगवन्तो भूमिदेवाः ।
सूत्रधारः—
भूम्ना रसानां गहनाः प्रयोगाः
सौहार्दहृद्यानि विचेष्टितानि ।
औद्धत्यमायोजितकामसूत्रं
चित्राः कथा वाचि विदग्धता च ॥ ६ ॥
नटः—भाव, कस्मिन्प्रकरणे ।
आर्या इति सर्वविद्यास्थानवेदिनः । मिश्रा इति पूज्यनिर्देशः । भूमिदेवा
इति तत्प्रधानत्वात्, सभाया गुणदोषविवेचनस्य तदधीनत्वात्, देवतात्मकत्वेन
तेषामाराधनीयत्वाच्च । अनेन सभाप्रशंसा कृता ॥ एते यानुदाहरन्ति त एते
गुणाः क इति नटस्य प्रश्नः । तानेव गुणानाह—भूम्नेति । भूम्ना प्राचु-
र्येण रसानामङ्गाङ्गिभावेन निविष्टानां शृङ्गारादीनां प्रयोगा अभिनया गहनाः
स्थूलदर्शिभिर्भावयितुमशक्याः । रसनां हि व्यञ्जनेन विषयाणामगूढतवे गुणीभावप्र-
सङ्गात्, गूढतयैव कामिनीकुचकलशवदिति भावनाचर्वणादौ सूक्ष्ममतय एव
सहृदयाः समर्थाः । न तु पदपदार्थज्ञानकृतार्थाः पण्डितंमन्याः । यदाह ध्वनिकृत्—
'शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते । वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् ॥'
इति । अनेन रसैकप्रवणत्वं प्रबन्धस्य जीवितभूतो गुणो दर्शितः । तथा सौहार्देन
निरुपाधिकस्नेहेन हृद्यानि मनोहराणि विचेष्टितानि नायकतन्मित्रादीनां व्यापाराः ।
अनेन धीरप्रशान्तनायकोपेतत्वं नाम गुणो दर्शितः । तथा औद्धत्यं शृङ्गाररसप्र-
धानस्यापि नायकस्य तद्विरोधिबीभत्साद्भुतरौद्ररसालम्बनत्वम् । तथा आयोजि-
तमानुकूल्येन संघटितं कामसूत्रं नायिकानायकयोरन्योन्यानुरागबीजं येन तादृशम् ।
कामोऽनुरागः । स एव वर्तिष्यमाणसर्वकार्यबीजभूतत्वात्सूत्रमिव सूत्रम् । अयं
भावः—महामांसविक्रयाघोरघण्टादौ यद्वीभत्सरौद्रशृङ्गारविरोधिरसोपादानं तदपि
प्रधानमालतीलाभलक्षणप्रयोजनानुगुण्येन शृङ्गाराङ्गभावपत्त्या विरोधपरिहारेणौ-
चित्यमेव संपादयतीति । तदुक्तम्—'विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् ।
भावानामाङ्गभावं वा प्राप्तानामुकिरच्छला ॥' इति । अत्र खल्ववधानवता कविना
भवितव्यम् । यद्विरोधिरसोपादानेऽप्यनौचित्यलेशोऽपि नास्पदं लभते । यदा-
ह—'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्यो-
पनिषत्परा ॥' इति । अनेनौचित्यशालित्वं नाम गुणो दर्शितः । कथाश्चित्राः ।
वस्तु पुनराश्चर्यजनकमिति वृत्तवैचित्र्यं गुणः । वाचि विदग्धता उक्तौ चातुर्यम् ।
निर्दोषगुणालंकारयोगोऽनेन दर्शितः । ईदृशगुणगरिष्ठप्रबन्धप्रयोगार्थमादिष्टोऽस्मीति
भावः ॥ ६ ॥ कस्मिन्निति । नैतादृशः प्रबन्धः प्रायेण लक्ष्यत इत्याशयः ॥