मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
१२२ मालतीमाधवे
आ जन्मनः सह निवासितया मयैव
मातुः पयोधरपयोऽपि समं निपीय ।
त्वं पुण्डरीकमुखबन्धुतया निरस्त-
मेको निवापसलिलं पिवसीत्ययुक्तम् ॥ ४० ॥
(सकरुणं विमुच्य । परिक्रम्य ।) इयमघस्तात्पाटलावती । भगवत्यापगे,
प्रियस्य सुहृदो यत्र मम तत्रैव संभवः ।
भूयादमुष्य भूयोऽपि भूयासमनुसंचरः ॥ ४१ ॥
(इति पतितुमिच्छति ।)
सौदामिनी—(प्रविश्य सहसा वारयित्वा ।) वत्स, कृतं साहसेन ।
मकरन्दः—(विलोक्य ।) अम्ब, कासि । किमर्थं त्वयाहं
प्रतिषिद्धः ।
सौदामिनी—आयुष्मन्, किं त्वं मकरन्दः ।
मकरन्दः—मुञ्च । स एवास्मि मन्दभाग्यः ।
सौदामिनी—वत्स, योगिन्यस्मि । मालतीप्रत्यभिज्ञानं च
धारयामि । (बकुलमालां दर्शयति ।)
मकरन्दः—(सोच्छ्वासं सकरुणम् ।) अपि जीवति मालती ।
सौदामिनी—अथ किम् । वत्स, किमत्याहितं माधवस्य ।
यदनिष्ठं व्यवसितोऽसीत्याकम्पितास्मि ।
मकरन्दः—आर्ये, तमहं प्रमुग्धमेव वैराग्यात्परित्यज्यागतः ।
विप्रप्रतीकारः कृतः क्रियते वेति प्राप्याकिंचित्कारित्वाद्विधेय इत्याशयः । अपश्चिम
आद्यः । पुनर्मालिङ्गनाभावाद्यमेवापश्चिमो दुर्लभः । पश्चिमावस्थान्त्यावस्था ।
आ जन्मन इति । जन्मप्रभृति सहचरतयाभिन्नजननीस्तन्यमपि पीत्वा संप्रति
बन्धुतया बन्धुसमूहेन निरस्तं दत्तं निवापमेक एव पिबसि मकरन्दं विहायेल्य-
युक्तम् । निवापः पितृतर्पणम् ॥ ४० ॥ प्रियस्येति । यत्र स्थाने प्रियस्य म-
त्प्रीतिस्थानस्य सुहृदो यत्र देशे संभवो जन्म स्यात्, तत्रैव ममापि संभवो भू-
यात् । तथामुत्र परलोके तस्यैवानुचरो भूयासमिति प्रार्थनाद्वयम् ॥ ४१ ॥ मक-
रन्दः । कामन्दकीसदृशवेशसौहार्दवयोदर्शनादम्बेत्युक्तिः । प्रतिषिद्धो निवारितः ।
तस्यैवानुसंचरो भूयासमिति प्रार्थनावचो दूरादाकर्ण्य सौदामिनी पृच्छति । किं मक-
रन्द इति ॥ सौदामिनी। अथ किम्। जीवतीत्यर्थः । अत्याहितं महाभीतिः। किं
विनाशो जातो माधवस्येत्याशयः । अनिष्ठं खशरीरत्यागरूपं व्यवसितोऽसि ॥मक-
तदेहि । तूर्णं संभावयावः ।
(त्वरितं परिक्रामतः ।)
मकरन्दः—(विलोक्य ।) दिष्ट्या प्रत्यापन्नचेतनो वयस्यः ।
सौदामिनी—संवदत्युभयोर्मालतीनिवेदितः शरीराकारः ।
माधवः—(आश्वस्य ।) अये, प्रतिबोधितवानसि केनापि ।
(विचिन्त्य ।) नूनमस्यायं नवजलधरप्रभञ्जनस्यानवेक्षितासदवस्थो व्या-
पारः । भगवन् पौरस्त्य वायो,
भ्रमय जलदानम्भोगर्भान्प्रमोदय चातका-
न्कलय शिखिनः केकोत्कण्ठान्कठोरय केतकान् ।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा-
मकरुण पुनः संज्ञाव्याधिं विधाय किमीहसे ॥ ४२ ॥
मकरन्दः—सुविहितमनेनाखिलजन्तुजीवनेन मातरिश्वना ।
अपि च ।
एते केतकसूनसौरभजुषः पौरप्रगल्भाङ्गना-
व्यालोलालकवल्लरीविलुठनव्याजोपभुक्ताननाः ।
किंचोन्निद्रकदम्बकुड्मलपुटीधूलीलुठत्षट्पद-
व्यूहव्याहृतिहारिणो विरहिणः कर्षन्ति वर्षानिलाः ॥ ४३ ॥
रन्दः । प्रमुग्धं प्रकृष्टमोहग्रस्तम् । प्रलयावस्थागतमिति यावत् । मकरन्दः ।
प्रत्यापन्नचेतनः प्रादुर्भूतसंज्ञः॥ सौदामिनी पूर्वमदृष्टमाधवमकरन्दशरीराकारा संप्रति
द्वावपि विलोक्याह-संवदतीति । मालत्या यादृश्याकृतिः कथिता तादृश्येव द्वयो-
रपीत्यर्थः ॥ माधवः। नूनं शङ्के निश्चितं वा । व्यापारो मन्मोहच्छेदनानुगुणं कर्म ।
प्रभञ्जनस्य महतोऽस्यामवस्थायां मोह एव चरमदशानुभवप्रतिपक्ष इत्याशयः ।
स्वमोहविच्छेदनहेतुं प्रभञ्जनमवधार्य तमेवोपालम्भवचोभिर्वाक्यैराह-भ्रमयेति ।
इतस्ततो मेघान्भ्रमय । जलदानां भ्रमणेन संतापशान्तिर्भविष्यति । अम्भोगर्भ-
त्वेन च संपूर्णकामाञ्जरामरणरहितवारिपिपासादितांश्चातकान्प्रमोदय । तथा मयूरा-
नेतेनैव हेतुना केकाविषये सामिलाषान्कुरु । तथा केतकान्कठोरय जलसेकव्यतिक-
रेण प्रौढान्कुरु । मादृशविरहिणि जने पुनर्दैवान्मूर्च्छां लब्ध्वा तद्वाराप्यात्मव्यथां
विनोदयति निराकुर्वाणे । संज्ञारूपं चैतन्यरूपं व्याधिं
२२४ मालतीमाधवे
माधवः—देव वायो, तथापि भवन्तमेव प्रार्थये ।
विकसत्कदम्बनिकुरुम्बपांसुना
सह जीवितं घटय मे प्रिया यतः ।
अथवा तदङ्गपरिवासशीतलं
मयि किंचिदर्पय भवांस्तु मे गतिः ॥ ४४ ॥
(कृताञ्जलिः प्रणमति ।)
सौदामिनी—सुसमाहितः खल्वभिज्ञानार्पणस्यावसरः । (अञ्-
लौ बकुलमालामर्पयति ।)
माधवः—(साकूतं सहर्षं सविस्मयं च ।) कथमियमस्मद्विरचिता
प्रियास्तनोन्नाहदुर्ललितमूर्तिरनङ्गमन्दिराङ्गणबकुलपादपकुसुममाला ।
(सम्यङ्निरूप्य ।) कः संदेहः । तथा हि स एवायमस्याः
मुग्धेन्दुसुन्दरतदीयमुखावलोक-
हेलाविशृङ्खलकुतूहलनिह्नवाय ।
दुर्न्यस्तपुष्परचितोऽपि लवङ्गिकाया-
स्तोषं ततान विषमग्रथितो विभागः ॥ ४५ ॥
(सहर्षोन्मादमुत्थाय ।) चण्डि मालति, इयं विलोक्यसे । (सकोपमिव ।)
अयि मदवस्थानभिज्ञे
व्याजेन परिभुक्तप्रगल्भपुरन्ध्रीमुखाः तथा विकचकदम्बकोशरजोऽभ्रभृङ्गसमूहसङ्गशा-
रमनोहराः ॥ ४३ ॥ माधवः । यद्यपि त्वया संज्ञारूपव्याधिर्जनितः, तथापि
त्वामेव प्रार्थये देवत्वादेव । विकसदिति । यत्र मे प्रिया वर्तते तत्र परागैः सह
मत्प्राणाञ्छ्रय । सप्तम्यर्थे सार्वविभक्तिकस्तसिः । तदङ्गसङ्गशीतलं वा किंचिद्वस्तु प्रेरय
यत्राहं तिष्ठामि । त्वां विना वने क इदानीं गतिरित्याशयः ॥ ४४ ॥ सुसमाहितः
सुष्ठु भद्रः । य एवाञ्जलिः प्रथमप्रणामाञ्जलिर्माधवेन बद्धस्तत्रैवाभिज्ञानस्रजमर्प-
यति ॥ माधवः । उन्नाहेनोपरिवर्तनेन दुर्ललितमूर्तिः । उन्नाह उत्सेध इत्यन्ये ।
मदनमन्दिराजिरकेसरस्रक् । अनङ्गमन्दिरपदमत्र घृणावदर्थे । कः संदेहः । सैवेय-
मित्यर्थः । तथा हि स एवास्याः स्रजो विभागः । मुग्धेति । दुर्न्यस्तान्यभद्रीकृत्य
निवेशितानि पुष्पाणि तै रचितोऽपि लवङ्गिकायास्तोषं ततान विस्तारयामास । दु-
र्न्यस्तपुष्परचितत्वेनैव विषमग्रथितः। दुर्न्यस्तत्वे हेतुमाह—मुग्धेन्दुवत्सुन्दरं यत्त-
दीयं मुखं तदवलोकने हेला शृङ्गारजो भावविशेषस्तेन विशृङ्खलमुद्भूतं माधवे
यत्कुतूहलं तस्य निह्नवाय । मालतीपरिजनेभ्यो गोपनायेत्यर्थः ॥४५॥ अथासाधा-
रणाभिज्ञानलाभेन संनिहितप्रच्छन्नां मालतीं मन्यमानोऽकालव्यसनोन्मादः सको-
पमिवाह—स्वस्थदशायां हि परिहासः क्रियते । त्वं पुनरेतर्हि मम दशानभिज्ञा ।
नवमोऽङ्कः । २२५
प्रयान्तीव प्राणाः सुतनु हृदयं ध्वंसत इव
ज्वलन्तीवाङ्गानि प्रसरति समन्तादिव तमः ।
त्वराप्रस्तावेऽयं न खलु परिहासस्य विषय-
स्तदक्षणोरानन्दं वितर मयि मा भूरकरुणा ॥ ४६ ॥
(सर्वतो दृष्ट्वा सनिर्वेदम् ।) कुतोऽत्र मालती ! (बकुलमालां प्रति ।) अये
प्रियाप्रणयिनि, परमोपकारिण्यसि ।
निष्प्रत्यूहाः प्रियसखि यदा दुःसहाः संबभूवु-
र्मोहोद्दामव्यसनगुरवो मन्मथोन्मादवेगाः ।
तस्मिन्काले कुवलयदृशस्त्वत्समाशलेषणं वा
प्राणत्राणं प्रगुणमभवन्मत्परिष्वङ्गकल्पः ॥ ४७ ॥
(सकरुणं निःश्वस्य ।)
आनन्दनानि मदनज्वरदीपनानि
गाढानुरागरसवन्ति तदा तदा च ।
स्नेहाकराणि मम मुग्धदृशश्च कण्ठे
कष्टं स्मरामि तव तानि गतागतानि ॥ ४८ ॥
(हृदये निधाय मूर्च्छति ।)
मकरन्दः—(उपसृत्य ।) सखे, समाश्वसिहि ।
माधवः—(समाश्वस्य ।) मकरन्द, किं न पश्यसि कुतोऽपि स-
हसैव मालतीस्नेहस्वहस्तस्य लाभः । तत्कथं मन्यसे किमेतदिति ।
तथा हि । प्रयान्तीति । प्राणा निःसरन्तीव । हृदयं स्फुटतीव । अङ्गानि ज्व-
लन्तीव । तमो मोहः प्रसरतीव । तन्मम जीवितरक्षणाय त्वरया प्रस्तावेऽयम् ।
न पुनः स्वशरीरप्रच्छादनरूपस्य परिहासस्य विषयः । तवात्ममूर्तिप्रकटनेन मे नय-
नयोरानन्दं देहि । निर्माया भवेत्यर्थः ॥ ४६ ॥ अथ मालतीमपश्यन्केसरस्रजमु-
न्मादाच्चेतनामिव मन्यमानः प्राह—निष्प्रत्यूहा इति । यथा तस्या मन्मथोन्मा-
दवेगाः संबभूवुः समुद्भूतास्तस्मिन्काले प्राणत्राणमेव यथा स्यादेवं मत्परिष्वङ्गकल्प
आश्लेष इव समभवत् । कीदृग्भूता मन्मथोन्मादवेगा इत्यपेक्षायां निष्प्रत्यूहा नि-
र्विघ्नाः । अप्रतिहता इत्यर्थः । तथा देहव्यथनेन गुरवः । तदयमाशयः । यत्तदा
तत्प्राणहेतुस्तस्यास्त्वमासीस्तदिदानीं त्वयापि त्यक्ता न जीवतीति ॥४७॥ आन-
न्दनानीति । हे बकुलमाले, मम कण्ठे तव गतागतानि कष्टं यथा स्यादेवं स्म-
रामि । गतागतविशेषणान्याह—आनन्दनानि कामज्वरोत्तेजनानि । तथा गाढा-
नुरागो यो रस आसक्तिस्तद्वन्ति तथा स्नेहनिबिडानि ॥ ४८ ॥ स्वहस्तलाभो मा-
लत्यासाधारणाभिज्ञानलाभः । तत्कथं मन्यस इति पदस्याशयः । तत्किल जीवन्त्यां
२२६ मालतीमाधवे
मकरन्दः—इयमार्या योगीश्वरस्य मालत्यभिज्ञानस्योपनेत्री।
माधवः—(सकरुणं कृताञ्जलिः।) आर्ये, प्रसीद। कथय, जीवति
मे प्रिया सा।
सौदामिनी—वत्स, समाश्वसिहि। जीवति सा कल्याणी।
माधवमकरन्दौ—(समुच्छ्वास्य।) आर्ये, यद्येवं कथय क एष
वृत्तान्त इति।
सौदामिनी—अस्ति पुरा करालायतनेऽघोरघण्टः कृपाणपा-
णिर्व्यापादितः।
माधवः—(सावेगम्।) आर्ये, विरम। ज्ञातो वृत्तान्तः।
मकरन्दः—सखे, क इव।
माधवः—किमन्यत्। सकामा कपालकुण्डला।
मकरन्दः—आर्ये, अप्येवम्।
सौदामिनी—एवं यथा निवेदितं वत्सेन।
मकरन्दः—भोः, कष्टम्।
कुमुदाकरेण शरदिन्दुचन्द्रिका
यदि रामणीयकगुणाय संगता।
तस्यां तत्कथमस्यास्तत्कण्ठाद्विश्लेषः संभाव्यते ॥ मकरन्दः। अथ मकरन्दः कथं
मन्यस इति माधवाधिगमतात्पर्यमाह—यदुपनेत्रीति। सौदामिनी। जीवति
न मृता। क्वापि प्राप्तेत्याशयः। माधवमकरन्दौ। अथैष वृत्तान्तः। क्वापि व-
र्तते। तदीया चेदं स्रगधिगतेत्येवंरूपः॥ माधवः। अथ पुरा कापालिकोऽघोरघण्टो
माधवेन व्यापादित इत्युदन्तदर्शनात्सौदामिनीवाक्यसंपूर्तिमपेक्ष्य तदवश्यमनु-
भवसि कपालकुण्डलाकोपस्य फलमिति विघटितस्मृतकपालकुण्डलाप्रतिज्ञो माधवो
वदति—आर्ये, विरमेति। अलं प्रयासेन। ज्ञातो मालतीवृत्तान्तः॥ मकरन्दः।
अथ मकरन्दोऽश्रुतकपालकुण्डलाप्रतिज्ञः पृच्छति—क इवेति॥ मकरन्दः।
सकामा कपालकुण्डलेति वचसो मालतीविनाशप्रतिपादनपरत्वं निश्चित्य जीवति
मालतीति दत्ताश्वासां सौदामिनीं पृच्छति—आर्ये, अप्येवमिति। सौदामि-
नी। सौदामिनी तु सकामा मालतीहरणेन, न तु व्यापादनेनेत्यभिप्रायेणाह—एवं
यथा निवेदितं वत्सेनेति॥ मकरन्दः। अथ मकरन्दो यथानिवेदितं वत्से-
नेत्यस्य वचसो मालती नास्तीति संमतिपरत्वमवधार्य भोः, कष्टमित्याह। कुमुदेति।
यदि चन्द्रिका रामणीयकगुणार्थं कुमुदसमूहेन सह दैवात्सङ्गता मिलिता, तदा तदसु-
नवमोऽङ्कः। २२७
सुकृतं तदस्तु कतमस्त्वयं विधि-
र्यदकालमेघविततिर्व्ययूयुजत् ॥ ४९ ॥
माधवः—हा प्रिये मालति, कथमतिबीभत्समापन्नासि ।
कथमपि तदाभवस्त्वं कमलमुखि कपालकुण्डलाग्रस्ता ।
उत्पातधूमरेखाक्रान्तेव कला शशधरस्य ॥ ५० ॥
भगवति कपालकुण्डले,
निर्माणमेव हि तदा तव लालनीयं
मा पूतनात्वमुपगाः शिवतातिरेव ।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न मुसलैर्बत कुट्टनानि ॥ ५१ ॥
सौदामिनी—वत्स, अलमावेगेन ।
अकरिष्यदसौ पापमतिदुष्करुणैव सा ।
नाभविष्यमहं तत्र यदि तत्परिपन्थिनी ॥ ५२ ॥
उभौ—(प्रणम्य ।) अतिप्रसन्नमार्यापादैः । तत्कथय का पुनस्त्व-
मस्माकमेवंविधो बन्धुः ।
कृतं भद्रमेव चन्द्रिकया कृतमित्यर्थः । अयं पुनः कतमो विधिरकालजलदवितति-
र्विस्तारः कुमुदाकरेण व्ययूयुजद्वियुक्तं चकार । अत्र चन्द्रिका मालती, कुमुदाकरो
माधवः, अकालमेघविततिः कपालकुण्डलेत्याशयः ॥ ४९ ॥ अथ माधवो मालती-
व्यापादनावस्थां चिन्तयन्नाह—अतिबीभत्समसदृशहिंसनेनातिगर्हितम् । कथ-
मपीति । अपिशब्द इवार्थे । कपालकुण्डलया ग्रासीकृता त्वं कीदृश्यसीति भावः ।
यदि कदाचिदप्युत्पातधूमरेखया चन्द्रकलैका ग्रस्यते तदोपमा तव सा स्यादि-
त्यर्थः॥५०॥ भगवतीति । भगवच्छब्दो ज्ञानातिशयवति । तेन प्रकृष्टज्ञानवतीति ।
निर्माणमिति । मालतीशरीरस्य महता प्रयत्नेन लालनीयमाधुर्यत्वमतिक्रूरस्य
राक्षसादेर्लालनीयमाधुर्यस्वभावम् । त्वं पूतनात्वं राक्षसीत्वं मोपगाः । अयमर्थः ।
अत्र रमणीयत्वं लालने हेतुर्दृष्टान्तमाह—नैसर्गिकीति । सुरभिणः कुसुमस्य स्वाभा-
विकी स्थितिः प्रसिद्धा शिरस्येव । ननु बत कष्टं मुसलैर्न तु कुट्टनानि । अत्र तु
कपालकुण्डलायाः प्रकृष्टज्ञानत्वेन संबन्धादयमाशयः । यत्किल त्वं तादृक्प्रकृष्ट-
ज्ञानतया विचारयसि न तावन्मालती तव साक्षादपकारिणी । न च ते गुरुर्वध्यते,
यदर्थं सा व्यापादिता । निर्वापणीयवैरा स्यान् मालती ते । तदर्थतामधिगम्याय-
मिविकलो वर्तते । तदाश्वासयेत्याशयः ॥ ५१ ॥ अकरिष्यदिति । असौ क-
पालकुण्डला मालतीमरणरूपं कर्म पापमकरिष्यदितिनिष्करुणैव सा । तत्र स्थाने
३५८ मालतीमाधवे
सौदामिनी—ज्ञास्यथ खल्वेतत् । (उत्थाय ।) इयमिदानीमहं
गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम् ।
इमामाकर्षिणीं सिद्धिमातनोमि शिवाय वः ॥ ५३ ॥
(समाधवा निष्क्रान्ता ।)
मकरन्दः—आश्चर्यम् ।
व्यतिकर इव भीमस्तामसोवैद्युतश्च
क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः ।
(विलोक्य । सभयम् ।)
कथमिव न वयस्यस्तत्किमेतत्किमन्यत्
(विचिन्त्य ।)
प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥ ५४ ॥
(सवितर्कम् ।) किमयनर्थ इति संप्रति मूढोऽस्मि । अपि च ।
अस्तोकविस्मयमविस्मृतपूर्ववृत्त-
मुद्भूतनूतनभयज्वरजर्जरं नः ।
यदि तत्परिपन्थिनी विरोधिनी नाहमभविष्यम् । एतेन हतवत्येव परं न तु व्यापा-
दितवतीत्याश्वासयति ॥ ५२ ॥ सौदामिनी । ज्ञास्यथ फलेनैव याहं भवतोरित्या-
शयः । गुर्विति । गुरुचर्याविशिष्टमनुष्ठानम्, तपश्चान्द्रायणादि, तन्त्रं मण्डलवर्त-
नादि, मन्त्रस्ताराप्रभृतिदेवीनां तन्त्रस्य वागमस्य वा मन्त्रः, योगः समाधिः एष्वभि-
योगादभ्यासाज्जातामिमामाकर्षिणीं सिद्धिंयुष्माकं कल्याणाय विस्तारयामि ॥५३॥
मकरन्देनानुपलक्षिता समाधवा ॥ व्यतिकर इति । व्यतिकरो विवर्तः, मिश्री-
भावो वा । भीमो भयंकरः । तमोमयो विद्युन्मय इवोपहतचक्षुर्वृत्तिर्निरस्ततद्विष-
यनिरूपणशक्तिः । क्षणमात्रमुत्पात्यास्तमितः । विद्याप्रभावादेवं महान्धतमसं महा-
प्रकाशश्चासीदित्यर्थः । प्रशान्ते व्यतिकरे माधवमपश्यन्कथमिह न वयस्यः ।
कपालकुण्डलाप्रेरिता माधवं श्रीपर्वतं नीतवतीति सभयत्वे बीजम् । किमन्यदिति
योगीश्वरीत्वेन योगसिद्धिरूपेण माहात्म्येन प्रभवति । माधवमपहर्तुं कृतवतीत्येवमा-
शयः ॥ ५४ ॥ किमयं माधवापहरणरूपो व्यापारो मालतीसमागमरूपत्वेनानुरूपः
किमप्यसदृशकर्मप्रतिपादकत्वेनानुरूप इत्यर्थः । अस्तोकेति । आनन्दशो-
काभ्यां शबलत्वमसंभिन्नत्वं च गच्छति । अस्तीवाश्चर्यं तावद्व्यतिकरदर्शनेन तथा
तादृगाश्चर्यप्रभावादविस्मृतमालतीव्यापादादिरूपानुभूतवृत्तम्, तथोत्पन्नप्रत्यग्रमाध-
वानिष्टशङ्काजनितभयसंतापज्वरम्, तदेकास्मिन्नेव क्षणे पूर्वं सौदामिन्या वाक्यदाने-
नवमोऽङ्कः । २२९
एकक्षणत्रुटितसंघटितप्रमोह-
मानन्दशोकशबलं समुपैति चेतः ॥ ५५ ॥
तदत्र कान्तारावसाने सहास्मद्वर्गेण प्रविष्टां भगवतीमनुसृत्य
वृत्तान्तमेनं कथयामि ।
(इति निष्क्रान्ताः सर्वे ।)
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे नवमोऽङ्कः ।
न त्रुटितो मालतीविपज्जः पश्चान्माधवादर्शनसंघटितो मोहो यत्र मनसि
तत्तादृक् ॥ ५५ ॥ कामन्दक्येवातीन्द्रियार्थदर्शिनीदृगपूर्वाश्चर्यविचारक्षमेति तस्यै
निवेदयामि ॥
शबरस्वामिप्रीत्या प्रकरणरत्नाकरेऽत्र भवभूतेः ।
सारोद्धारे मन्दरमकृत कृती व्याकृतिं नान्यः ॥
इति श्रीनान्यदेवस्य कृतौ विबुधरत्नावल्यां मालतीमाधव-
टीकायां नवमाङ्कविवरणम् ॥
दशमोऽङ्कः।
(ततः प्रविशति कामन्दकी मदयन्तिका लवङ्गिका च।)
कामन्दकी—(सकरुणं साश्रम्।) हा वत्से मालति, मदङ्कालङ्-
कारिणि, कासि। देहि मे प्रतिवचनम्।
आ जन्मनः प्रतिमुहूर्तविशेषरम्य-
ण्याचेष्टितानि तव संप्रति तानि तानि।
चाटूनि चारुमधुराणि च संस्मृतानि
देहं दहन्ति हृदयं च विदारयन्ति ॥ १ ॥
अपि च। पुत्रि,
अनियतरुदितस्मितं विराज-
त्कतिपयकोमलदन्तकुङ्मलाग्रम्।
वदनकमलकं शिशोः स्मरामि
स्खलदसमञ्जसमुग्धजल्पितं ते ॥ २ ॥
इतरे—(साश्रम्।) हों पिअसहि, सुप्पसण्णमुहचन्दसुन्दरि,
कहिं गदासि। को दे सरीरस्स देवदुविलासपरिणामो एका-
किणीए उवणदो।
दशमोऽङ्कः । २४१
कामन्दकी—(सविशेषखेदम् ।) हा वत्सौ,
अभिनवरागरसोऽयं भवतोः कृतकौतुकः परिष्वङ्गः ।
लवलीलवङ्गयोरिव नियतिमहावात्यायाभिहतः ॥ ३ ॥
लवङ्गिका—(सोद्वेगम् ।) हंदास, वज्जमअहिअअ, सव्वहा णि-
संसेसि । (इति हृदयमाहत्य पतति ।)
मदयन्तिका—सहि लवङ्गिए, णं भणामि खणमेत्तं वि दाव
समस्सस ।
लवङ्गिका—मैदअन्तिए, किं करेमि । दिढवज्जलेवपडिवद्धाणि-
च्चलं विअ जीविदं मं ण परिच्चअदि ।
कामन्दकी—वत्से मालति, जन्मनः प्रभृति वल्लभतरा ते लव-
ङ्गिका । तत्किमुज्जिहानजीवितां नानुम्पसे । इयं हि
उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ४ ॥
१. हताश, वज्रमयहृदय, सर्वथा नृशंसमसि ।
२. सखि लवङ्गिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि ।
३. मदयन्तिके, किं करोमि दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं मां
परित्यजति ।
हा प्रियसखि, सुप्रसन्नमुखचन्द्रसुन्दरि, क्व गतासि । कस्ते शरीरस्य दैवदुर्विलास-
परिणाम एकाकिन्या उपनतः । हा महाभाग माधव, उदितास्तमितमहोत्सवो जीव-
लोकः संवृत्तः। कामन्दकी। वत्सा च वत्सश्च वत्सौ । मालतीमाधवावित्यर्थः । अ-
भिनवेति । भवतोराश्लेषो नियतिरूपया दैवरूपया वात्या पवनमण्डलेन निरस्तः।
कीदृशः परिष्वङ्गः । नूतनो रागो रसो यत्र । 'रागोद्वेगः समाप्तिः' इति कामसूत्र-
दर्शनात् । राग एव रसः । रस्यत इति व्युत्पत्त्या रसः शृङ्गार इत्यन्ये । कृतकौ-
तुकः कृतमङ्गलः । उपमानमाह—यथा लवलीलवङ्गयोरुद्याने विदग्धमायिकाना-
यकाभ्यामुत्पाद्यत्वेन कल्पितविवाहाभाससमये कृतकौतुकयोः परिष्वङ्गो वात्या-
ऽभिहत इत्यर्थः ॥३॥ लवङ्गिका । हताश, वज्रमयहृदय, सर्वथा नृशंसमसि ॥
मदयन्तिका। सखि लवङ्गिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि ॥
लवङ्गिका । मदयन्तिके, किं करोमि । दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं
मां न परित्यजति । कामन्दकी । उज्जिहानजीविता निःसरत्प्राणा । उज्ज्व-
लेति । इयं लवङ्गिका त्वयि स्निग्धा स्नेहवती त्वद्वियोगदुःखादेव म्लानमुखी
त्वयोज्ज्वलदर्शनया परित्यक्ता न शोभते । यथोज्ज्वलोद्योततया दीपशिखया त्यक्ता
मा० २१
Here is the complete and accurate line-by-line transcription of the provided page in Devanagari Markdown:
२३२ मालतीमाधवे
कथं त्वं कल्याणि, कामन्दकीं त्यजसि । नन्वकरुणे, मदीयचीवरा-
ञ्चलोष्मणैव ते प्रगुणितान्यङ्गानि ।
स्तन्यत्यागात्प्रभृति सुमुखि दन्तपाञ्चालिकेव
क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च ।
लोकश्रेष्ठे गुणवति वरे स्थापिता त्वं मयैव
स्नेहो मातुर्मयि समधिकस्तेन युक्तस्तवापि ॥ ५ ॥
(सवैक्लव्यम् ।) हा चन्द्रमुखि, संप्रति निराशास्मि संवृत्ता ।
अकारणस्मेरमनोहराननः
शिखाललाटार्पितगौरसर्षपः ।
तवाङ्कशायी परिवृत्तभाग्या
मया न दृष्टस्तनयः स्तनंधयः ॥ ६ ॥
लवङ्गिका—भअवदि, पसीद । णिस्सहाम्हि जीविदुव्वहणे । साहं
इमादो गिरिप्पपादादो अत्ताणं अव
कामन्दकी—ननु लवङ्गिके, कामन्दक्यपि नातः परं वत्सा-
वियोगेन जीविष्यति । समश्चायमुत्कण्ठावेग आवयोः । किंच,
संगमः कर्मणां भेदाद्यदि न स्यान्न नाम सः ।
प्राणानां तु परित्यागे संतापोपशमः फलम् ॥ ७ ॥
लवङ्गिका—जहाँ तुम्हे आणवेत्थ । (इत्युत्तिष्ठति ।)
कामन्दकी—(सदयं वीक्ष्य ।) वत्से, मदयन्तिके ।
मदयन्तिका--किं२ आणवेध । अग्गेसरीहोहि त्ति । अवहिदह्मि ।
लवङ्गिका—सँहि, पसीद । विरम एत्तो अत्तणो वावादणादो ।
मा अ एणं जणं विसुमरेसि ।
मदयन्तिका—(सकोपमिव ।) ॲपेहि । णह्मि दे वसंवदा ।
कामन्दकी—हन्त, निश्चितं वराकया ।
१. यथा यूयमाज्ञापयथ ।
२. किमाज्ञापयथ, अग्रेसरीभवेति । अवहितास्मि ।
३. सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात् । मा चैनं जनं
विस्मारिष्यसि ।
४. अपेहि । नास्मि ते वशंवदा ।
करोतु, येन जन्मान्तरेऽपि तावत्प्रियसखीं प्रेक्षिष्ये । संगम इति। मरणचि-
न्तायाः संगमो भविष्यतीत्याशङ्क्य यद्यपि शुभाशुभकर्मणां भिन्नलोकप्राप्तिहेतूनां
भेदात्कदाचित्संगमः स्यान्न वा स्यान्नाम । तत्फलं मरणफलं भवतु । मालती-
मरणरूपदुःखोपशमरूपं भविष्यतीत्यर्थः ॥ ७ ॥ लवङ्गिका । यथा यूयमाज्ञाप-
यथ । उत्तिष्ठति पतनायेति शेषः ॥ कामन्दकी । सदयं लवङ्गिकां वीक्ष्य ।
लवङ्गिकां धारयेति वक्तुमक्षमा मदयन्तिकामाकारयति । मदयन्तिका तु मालती-
वियोगदुःखमसहमाना लवङ्गिकाविनाशमपि द्रष्टुमसमर्थाह—मदयन्तिका । कि-
माज्ञापयेथेति । लवङ्गिकायास्त्वम्रेसरीभवेति । अवहितास्मि सावधानास्मि तथा
व्यापारे ॥ लवङ्गिका । सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात् । आत्मा-
नमुद्दिश्य—मा चैनं जनं विस्मारिष्यसि ॥ मदयन्तिका । शिखरात्पतितुं कृत-
निश्चया लवङ्गिकां सकोपमिवाह—अपेहि । नास्मि ते वशंवदा । अवश्यं मरिष्या-
मीत्याशयः । वशंवदा या भवत्याः सैव स्मरिष्यतीत्याशयः ॥ कामन्दकी ।
निश्चितं शरीरपातनकर्मांनया । वराकीत्यनुकम्पायाम् । मदयन्तिका मकरन्दपरा-
क्रमक्रीतमात्मनो जीवितं तदायत्तं त्यक्तुं मनसा मकरन्दं जीवितेश्वरं प्रणमति ॥
२३४ मालतीमाधवे
मदयन्तिका—(स्वगतम् ।) १णाह मअरन्द, णमो दे ।
लवङ्गिका—भअवदि, अअं एव्व महुमदीसोत्तसंदाणिदपवि-
त्तमेहलो महीहरविटङ्को ।
कामन्दकी—कृतमिदानीं प्रस्तुतान्तरायेण ।
(सर्वाः पतितुमिच्छन्ति ।)
(नेपथ्ये ।)
आश्चर्यम्,
व्यतिकर इव भीमस्तामसो वैद्युतश्च
क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः ।
कामन्दकी—(विलोक्य साद्भुतहर्षम् ।)
कथमिह मम वत्सस्तत्किमेतत्
मकरन्दः—(प्रविश्य ।)
किमन्य-
त्प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥ ८ ॥
१. नाथ मकरन्द, नमस्ते ।
२. भगवति, अयमेव मधुमतीस्रोतस्संदानितपवित्रमेखलो महीधरवि-
टङ्कः ।
मदयन्तिका । नाथ मकरन्द, नमस्त इति ॥ लवङ्गिका । भगवति, अयमेव
मधुमतीस्रोतसः संदानितत्वेन पवित्रमेखलो महीधरविटङ्कः । 'कपोतपालिकायां
तु विटङ्कं पुंनपुंसकम्' इत्यमरः । मधुमती नदी ॥ कामन्दकी । प्रकृतमत्र
मरणम् । तदन्तरायः कालक्षेपरूपः ॥ व्यतिकर इति श्लोको व्याख्यातपूर्वः ॥
कामन्दकी । साश्चर्यं सहर्षं च । वदतीति शेषः । अयमीदृशो व्यतिकरः सं-
प्रदायोपदेशपरम्परापरिपक्वसमाधिप्रभवप्रकृष्टाभ्युदयसूचकः कथमन्यत्र संभाव्यते
मदन्तेवासिव्यतिरेकेण । तद्व्यतिकरदर्शनमद्भुतहर्षयोर्निमित्तमिति भावः । तत्कथं
मम वत्सो मकरन्दो दृश्यत इति शेषः । तद्दर्शितफलं तावद्व्यतिकररूपेण शुभ-
निमित्तेन व्यतिकरनिदानमप्यस्मादेव ज्ञातव्यमित्याशयः । तत्किमेतदिति का-
मन्दकीप्रश्नवाक्यैकदेशं प्रति कथाजिज्ञासापरमवगम्य मकरन्दः प्रविश्य व-
दति—किमन्यदिति । इयं कापि योगीश्वरी प्रकृष्टयोगर्द्धिः । तत्प्रभावादयं
व्यतिकर इत्यभिप्रायः । कामन्दकीप्रभृतिभिश्च प्रकृष्टहर्षपूर्यमाणमकरन्दनयनचे-
ष्टाभिः कुशलिनी मालती समास्तेति निर्णीतमिति प्रतीयमानोऽर्थः । अत एव
दशमोऽङ्कः । २३५
(नेपथ्ये *)
कथमतिदारुणो जनावमर्दः संवर्त्तते ।
मालत्यपायमधिगम्य विरक्तचेताः
सांसारिकेषु विषयेषु च जीविते च ।
निश्चित्य वह्निपतनाय सुवर्णबिन्दु-
मभ्येति भूरिवसुरित्यधुना हताः स्मः ॥ ९ ॥
मदयन्तिकालवङ्गिके—झत्ति मालदीमाहवाणं दंसणब्भुदओ
झत्ति अव्वाहिदं अ ।
कामन्दकीमकरन्दौ—दिट्ठ्या । कष्टं भोः आश्चर्यम् ।
किमयमसिपत्रचन्दनरसच्छटासारयुगपदवपातः ।
अनलस्फुलिङ्गकलितः किमयमभ्रः सुधावर्षः ॥ १० ॥
संजीवनौषधिविषव्यतिकरमालोकतिमिरसंभेदम् ।
अद्य विधिरशनिशशधरमयूखसंवलनमनुकुरुते ॥ ११ ॥
(नेपथ्ये ।)
हौ ताद, विरम । उत्सुअम्हि ते वदनकमलदंसणस्स पसीद ।
१. झटिति मालतीमाधवयोर्दर्शनाभ्युदयो झटित्यत्याहितं च ।
२. हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । सं-
पतनाद्विरताः सर्वोः ॥८॥ नेपथ्य इति । दारुणदुःखजनकत्वात्सत्पतनस्य द्रष्टॄणां
संमर्दः । मालतीति । पुनरपि तथैवापहृतेति सामान्यतोऽधिगम्य ज्ञात्वा सांखा-
रिकेषु संसारभूतेषु विषयेषु जीवितेषु चोपरतमनाः पुनश्च तमेवापायं निश्चित्य
वह्निप्रवेशनाय सुवर्णबिन्दुसंज्ञकं शिवायतनमभ्येतीति हताः स्म इति परिजनवचः
॥९॥ मदयन्तिकालवङ्गिके । झटिति मालतीमाधवयोर्दर्शनाभ्युदयो जातप्राय
इव जातः। झटित्यत्याहितं महाभीतिश्च भूरिवसुविनाशशङ्कया ॥कामन्दकीमक-
रन्दौ । मालतीमाधवयोरभ्युदयेन सहर्षो,भूरिवसुदहनप्रवेशाच्च सखेदौ । किमिय-
मिति । किमयं भूरिवसुदहनप्रवेशश्रवणमालतीमाधवप्रत्यासन्नदर्शनव्यतिकरोऽसि-
पत्रचन्दनरसच्छटासारत्वमुभयेम् । एवमुत्तरार्धेऽपि युज्यते । किमयं व्यतिकरो
मेघं विना देहदहनकरणादमृतवर्षः ॥ १० ॥ संजीवनेति । अद्य विधिर्भाग्यम-
स्माकं कर्तृ द्वयोरत्यन्तविपरीतक्रिययोर्दुःखसुखनिमित्तयोर्वस्तुनोरुद्वेगानन्दजनक-
त्वेन मेलनमनुकुरुते । तथथा संजीवनौषधिविषयोर्व्यतिकरो मिश्रणं तथा प्रका-
शतिमिरयोः संभेदः संगमः । तथा वज्रचन्द्रकरयोः संमेलनमिति ॥ ११ ॥
नेपथ्ये । हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । संभा-
२३६ मालतीमाधवे
संभावेहि मं। कहं मम कारणादो समत्थलोआलोअन्तरालविक्खम्भ-
णिम्मलेकमङ्गलप्पदीपभूदं अत्ताणं परिच्चअसि । मए उण अलज्जाए
णिरणुकोसाए तुह्मे परिच्चत्ता ।
कामन्दकी—हा वत्से, मालति ।
जन्मान्तरादिव पुनः कथमपि लब्धासि यावदयमपरः ।
उपराग इव शशिकलां कवलयितुमुपस्थितोऽनर्थः ॥ १२ ॥
इतरे—हा पियसहि ।
(ततः प्रविशति मुग्धां मालतीं धारयन्माधवः ।)
माधवः — कष्टं भोः ।
एषा प्रवासं कथमप्यतीत्य
याता पुनः संशयमन्यथैव ।
को नाम पाकाभिमुखस्य जन्तो-
रद्वाराणि दैवस्य पिधातुमीष्टे ॥ १३ ॥
मकरन्दः—सखे, अथ क सा योगिनी ।
माधवः—
श्रीपर्वतादिहाहं सत्वरमपतं तयैव सह सद्यः ।
करुणवनेचरवचनादन्तरितां तां न पश्यामि ॥ १४ ॥
भावय माम् । कथं मम कारणात्समस्तलोकालोकान्तरालविष्कम्भनिर्मलैकम्-
ङ्गलप्रदीपभूतमात्मानं परित्यजसि । मया पुनरलज्जया निरनुक्रोशया यूयं
परित्यक्ताः ।
१. हा प्रियसखि ।
वय माम् । कथं मम कारणात्समस्तलोकालोकान्तरालविष्कम्भनिर्मलैक मङ्गलप्र-
दीपभूतमात्मानं परित्यजसि । मया पुनरलज्जया निरनुक्रोशया यूयं परित्यक्ताः ॥
कामन्दकी। जन्मेति। अपरोऽनर्थो भूरिवसुविनाशहेतुरनलप्रवेशरूपः कपाल-
कुण्डलामिव त्वां कवलयितुमुपस्थितः । कापालिकाभिभवक्लेशैः क्षीणत्वेन शशि-
कलामात्रसमानामनर्थ उपराग इवेत्यर्थः ॥ १२ ॥ माधवः । एषेति । जन्तोः
प्राणिनो दैवस्य भाग्यस्य । पुराकृतस्य कर्मण इति यावत् । पाकाभिमुखस्य संनि-
हितसुखदुःखादिरूपफलदानप्रवणस्य द्वाराणीव द्वाराणि दुःखानुत्पत्तिनिमित्तान्तरा-
णि पुराकृतकर्माव्यतिरिक्तानि परिदृश्यमानानि निराकर्तुमीष्टे । प्रभवतीत्यर्थः ॥१३॥
मकरन्दः । या त्वामादाय निष्क्रान्ता सा क गता ॥ श्रीपर्वतादिति । श्री-
पर्वतात्तयैव योगिन्या सह सत्वरं यथा स्यादेवमत्रापतमागतोऽस्मि । वनेचरस्य
दशमोऽङ्कः । २३७
कामन्दकीमकरन्दौ—महाभागे, पुनः परित्रायस्व नः ।
किमर्थमन्तर्हितासि ।
मदयन्तिकालावङ्गिके—सँहि मालदि, णं भणामि सहि मा-
लदि त्ति । (सोत्कम्पम् ।) भअवदि, परित्ताहि । चिरणिरुद्धणिस्सास-
णिच्चलं से हिअअं । हा अमच्च, हा पिअसहि, तुह्मे दुवे वि पर-
प्परावसाणस्स कारणं जादा ।
कामन्दकी—हा वत्से मालति ।
माधवः— हा प्रिये मालति ।
मकरन्दः—हा प्रियसखि ।
(सर्वे मोहमुपगम्य पुनः संज्ञां लभन्ते ।)
कामन्दकी—तत्किमेष झटिति पाट्यमानादिवाम्बुदादम्बुनि-
वहः परिस्खलन्नस्मान्प्रीणयति ।
माधवः—(सोच्छ्वासम् ।) अये, प्रत्यापन्नचेतनेव मालती । तथा-
ह्यस्याः
भवति विततश्वासोन्नाहप्रणुन्नपयोधरं
हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् ।
१. सखि मालति, ननु भणामि सखि मालतीति । भगवति, परित्रा-
यस्व । चिरनिरुद्धनिःश्वासनिश्चलमस्या हृदयम् । हा अमात्य, हा प्रिय-
सखि, युवां द्वावपि परस्परावसानस्य कारणं जातौ ।
वचनं भूरिवसुर्वह्निपतनाय सुवर्णबिन्दुमभ्येतीत्येवंरूपम् । तस्मादनन्तरमन्तर्हितां
न पश्यामि ॥ १४ ॥ कामन्दकीमकरन्दौ । किमर्थं तिरोहितासि । मालतीविप-
न्निराकरणद्वारेदानीमपि भूरिवसुविनाशरुपमालतीविपत्तित्रासेन पुनर्नोऽस्मान्परि-
त्रायस्वेत्यर्थः । मदयन्तिकालावङ्गिके । सखि मालति, ननु भणामि सखि
मालतीति । विलापोक्तिप्रभेदोऽयम् । भगवति, परित्रायस्व । चिरनिरुद्धनिःश्वासनिश्च-
लमस्या हृदयम् । हा अमात्य, हा प्रियसखि, युवां द्वावपि परस्परावसानस्य
कारणं जातौ । द्वयोरपि विनाशहेतुरित्याशयः ॥ कामन्दकी । पाट्यमानादिवेति
स्वाभाविकवर्षविलक्षणाकाण्डप्रवृत्तारम्भः पतननिमित्तकोकिरियम् । प्रीणयति संतर्प-
यति । जीवयतीत्यर्थः ॥ माधवः । प्रत्यापन्नचेतनेव प्रत्यापन्नजीवितेव । तल्लिङ्गा-
न्याह—भवतीति । प्रथमं निरुद्धः पश्चाद्विततो विस्तारितो यः श्वासोन्नाहस्तेन
प्रणुन्नौ पयोधरौ यत्र हृदये तत्तादृक् । उन्नाह उच्छ्रायः । चक्षुरपि च यन्मोहप्र-
भावादस्निग्धमासीत्तत्प्रकृतौ तत्स्वभावे स्थितं मुग्धमभूदित्यर्थः । अत्र निजेति
? No, it has a vertical line and a hook, like 'ति'!
Wait, let's look at the letters after 'जलदाम्बु':
- ध
- ?
- ?
Wait, count:
ज (1) ल (2) दा (3) म्बु (4) धै (5) ति (6) नौ (7) य (8) स्याः (9) ।
Wait, "जलदाम्बुधैति नौ यस्याः" has 9 aksharas.
Let's count:
सा (1) यो (2) गि (3) नी (4) य (5) म (6) ति (7) र (8) य (9) वि (10) घ (11) टि (12) त (13) ज (14) ल (15) दा (16) म्बु (17) ...
Wait! What meter is verse 17?
Let's check line 11:
वा-ग-मृ-त-ज-ल-सा-रो (8 syllables)
ज-ल-द-ज-ला-सा-र-म-ति-शे-ते (11 syllables)
Total = 19 syllables? No, line 11 is:
"वागमृतजलसारो जलदजलासारमतिशेते ॥ १७ ॥"
Wait, how many syllables?
वा (1) ग (2) मृ (3) त (
दशमोऽङ्कः । २३९
अङ्गकैस्तुहिनसङ्गशीतलैः
पुत्रि मां प्रियसखीं च जीवय ॥ १८ ॥
माधवः—वयस्य मकरन्द, संप्रत्युपादेयो माधवस्य जीवलोकः
संवृत्तः ।
मकरन्दः—(सहर्षम् ।) एवमेवैतत् ।
इतरे—पिअसहि, मणोरहातिकान्तदंसणे, संभावेहि अम्हे परि-
स्सङ्गेण ।
मालती—हा २ पिअसहिओ । (इत्युभे आलिङ्गति ।)
कामन्दकी—वत्सौ, किमेतत् ।
माधवमकरन्दौ—भगवति,
कपालकुण्डलाकोपदुर्जातजनितापदः ।
वयमभ्युद्धृताः कृच्छ्रान्निर्वन्धादार्ययानया ॥ १९ ॥
कामन्दकी—कथमघोरघण्टवधविजृम्भितमेतत् ।
लवङ्गिकामदयन्तिके—३अहो अच्चरिअं । पुणरुत्तदारुणस्स
परिणामरमणिज्जत्तणं विहिणो ।
सौदामिनी—(प्रविश्य ।) भगवति, स एष चिरंतनोऽन्तेवासी
जनः प्रणमति ।
१. प्रियसखि, मनोरथातिक्रान्तदर्शने, संभावयास्मान्परिष्वङ्गेण ।
२. हा प्रियसख्यौ ।
३. अहो आश्चर्यम् । पुनरुक्तदारुणस्य परिणामरमणीयत्वं विधेः ।
जीवतु। हिमसङ्गशीतलैस्तवावयवैर्मां प्रियसखीं च जीवयेत्यर्थः। आलिङ्गनदानादिति
भावः ॥ १८ ॥ इतरे । प्रियसखि, मनोरथातिक्रान्तदर्शने संभावयास्मान्परिष्वङ्गेण॥
मालती । हा प्रियसख्यौ ॥ कामन्दकी । किमेतदिति माधवमकरन्दौ प्रति
प्रश्नः। अथ तयोरिदमुत्तरम्—भगवति, कपालकुण्डलेति। दुर्जातं मालत्य-
पहरणवृत्तान्तरूपं तज्जनितापदो वयं कृच्छ्रादपायान्निर्वन्धादतिप्रयत्नादुद्धृताः
॥ १९ ॥ कामन्दकी। अघोरघण्टे माधवेन निहते सति यत्तदन्तेवासिन्या माधवं
प्रत्यपकाररूपो मालतीहरणद्वारा व्यापारस्तत्किलाघोरघण्टवधविजृम्भितमिति ॥
लवङ्गिकामदयन्तिके। अहो आश्चर्यम्। पुनरुक्तदारुणस्य परिणामरमणीयत्वं
विधेः । पुनरुक्तमिव पुनरुक्तं पुनःपुनर्मालतीहरणम् । परिणामरमणीयत्वं चान्ते-
ऽक्षतमालतीलाभेन ॥ सौदामिनी । अन्तेवासी जन इत्यात्मनः पुँल्लिङ्गनिर्देशा-
२४० मालतीमाधवे
कामन्दकी—अये, भद्रम्। सौदामिनि।
माधवमकरन्दौ—कथमियं सा भगवत्याः पक्षपातस्थानमाद्य-
शिष्या सौदामिनी। यतः सर्वमधुना संगच्छते।
कामन्दकी—
एह्येहि भूरिवसुजीवितदानपुण्य-
संभारधारिणि चिरादसि हन्त दृष्टा।
दत्तप्रमोदमभिनन्दय मे शरीर-
मालिङ्ग्य सौहृदनिधे विरम प्रणामात् ॥ २० ॥
अपि च।
वन्द्या त्वमेव जगतः स्पृहणीयसिद्धि-
र्देवंविधैर्विलसितैरतिबोधिसत्त्वैः।
यस्याः पुरा परिचयप्रतिबद्धबीज-
मुद्भूतभूरिफलशालि विजृम्भितेन ॥ २१ ॥
मदयन्तिकालवङ्गिके—१ईअं सा अज्जा सौदामिणी।
१. इयं सार्या सौदामिनी।
त्कपालकुण्डलागृहीतमालतीपरित्राणरूपमात्मनः पुरुषार्थसाधकत्वं सूचयति। चि-
रंतनः प्रथमाप्तदीक्षः सिद्धमन्त्रेणाचार्येण प्रथमप्रकृष्टमन्त्रः प्रकृष्टशिष्यभावादि-
त्याशयः॥ माधवमकरन्दौ। कथंशब्द आश्चर्य। पक्षपातस्थानं स्मारयति पू-
र्वशिष्या सौदामिनीति। स्वतन्त्रेषु स्थानेषु सौदामिनीस्मरणात्सत्सर्वमिदं मालती-
विपत्प्रतीकारव्यापाररूपमेतत्सर्वं संगच्छते संगतं भवति। युज्यत इत्यर्थः। ए-
ह्येहीति। भूरिवसुजीवितदानेन यः पुण्यसंभारस्तद्धारेण। जीवितदानं च माल-
तीभूरिवसुविपन्निवारणद्वारम्। हन्त हर्षे। तदीदृगत्यन्ताभीष्टद्वयसंपादनेन दत्त-
प्रमोदमपि मद्वपुरालिङ्गनेनानन्दय। प्रणामाद्विरम। त्वमेव जीवितदायित्वेनानुगु-
णोत्कर्षेण च प्रणम्या मयेत्याशयः। 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च
वयः' इत्यादिवचनात् ॥ २० ॥ एतदेवोत्तरश्लोकेन व्यक्तीकरोति-वन्द्येति।
एवंविधैः परोपकारफलैर्विलसितैर्व्यापारैरतिबोधिसत्त्वैरतिक्रान्तबोधिसत्त्वैः। मनो-
गतागमेषु ब्रह्ममायापीह बोधसङ्ख्येन कथिता(?)जीवितव्ययेनापि परार्थसाधनैक-
व्यापारैर्विलसितैस्त्वमेव वन्द्या जगतः। तन्मम वन्दनाद्विरमेत्यर्थः। स्पृहणीया
सिद्धिर्यस्याः सा तादृशी मन्त्रसिद्धिरस्माकमपि स्पृहणीया। यस्यास्तव विजृम्भि-
तेनेदृशव्यापारेण तद्बीजं मालतीमाधवतत्प्रताननिधानमद्भुतप्रचुरफलशाल्यभूदि-
दशमोऽङ्कः । २४१
मालती—बोढम् । इमाए क्खु भववदीसंबन्धपक्खवादिणीए णि-
ब्भच्छिअ कवालकुण्डलं अत्तणो आवसहं उवणिज आसासिदम्हि । किं
अ केसरावलीसाभिण्णाणहत्थाए इह आगत्तूण सब्वे तुम्हे संधारिदा ।
इतराः—सुँप्पसण्णा णो कणिठ्ठा भववदी ।
मकरन्दमाधवौ—अहो नु खलु भोः ।
अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते ।
इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ॥ २२ ॥
सौदामिनी—(स्वगतम् ।) हन्त, लज्जयति मामत्यन्तसौजन्यमे-
तेषाम् । (प्रकाशम् ।) भगवति, एतत्प्रहृष्टनन्दनाभिनन्दितेन राज्ञा प-
द्मावतीश्वरेण भूरिवसोः प्रत्यक्षमभिलिख्य पत्रमायुष्मतो माधवस्य प्रे-
षितम् । (लेखमर्पयति