मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 243, कुल 377 में से
संदर्भ में पढ़ेंदशमोऽङ्कः । २३९
अङ्गकैस्तुहिनसङ्गशीतलैः
पुत्रि मां प्रियसखीं च जीवय ॥ १८ ॥
माधवः—वयस्य मकरन्द, संप्रत्युपादेयो माधवस्य जीवलोकः
संवृत्तः ।
मकरन्दः—(सहर्षम् ।) एवमेवैतत् ।
इतरे—पिअसहि, मणोरहातिकान्तदंसणे, संभावेहि अम्हे परि-
स्सङ्गेण ।
मालती—हा २ पिअसहिओ । (इत्युभे आलिङ्गति ।)
कामन्दकी—वत्सौ, किमेतत् ।
माधवमकरन्दौ—भगवति,
कपालकुण्डलाकोपदुर्जातजनितापदः ।
वयमभ्युद्धृताः कृच्छ्रान्निर्वन्धादार्ययानया ॥ १९ ॥
कामन्दकी—कथमघोरघण्टवधविजृम्भितमेतत् ।
लवङ्गिकामदयन्तिके—३अहो अच्चरिअं । पुणरुत्तदारुणस्स
परिणामरमणिज्जत्तणं विहिणो ।
सौदामिनी—(प्रविश्य ।) भगवति, स एष चिरंतनोऽन्तेवासी
जनः प्रणमति ।
१. प्रियसखि, मनोरथातिक्रान्तदर्शने, संभावयास्मान्परिष्वङ्गेण ।
२. हा प्रियसख्यौ ।
३. अहो आश्चर्यम् । पुनरुक्तदारुणस्य परिणामरमणीयत्वं विधेः ।
जीवतु। हिमसङ्गशीतलैस्तवावयवैर्मां प्रियसखीं च जीवयेत्यर्थः। आलिङ्गनदानादिति
भावः ॥ १८ ॥ इतरे । प्रियसखि, मनोरथातिक्रान्तदर्शने संभावयास्मान्परिष्वङ्गेण॥
मालती । हा प्रियसख्यौ ॥ कामन्दकी । किमेतदिति माधवमकरन्दौ प्रति
प्रश्नः। अथ तयोरिदमुत्तरम्—भगवति, कपालकुण्डलेति। दुर्जातं मालत्य-
पहरणवृत्तान्तरूपं तज्जनितापदो वयं कृच्छ्रादपायान्निर्वन्धादतिप्रयत्नादुद्धृताः
॥ १९ ॥ कामन्दकी। अघोरघण्टे माधवेन निहते सति यत्तदन्तेवासिन्या माधवं
प्रत्यपकाररूपो मालतीहरणद्वारा व्यापारस्तत्किलाघोरघण्टवधविजृम्भितमिति ॥
लवङ्गिकामदयन्तिके। अहो आश्चर्यम्। पुनरुक्तदारुणस्य परिणामरमणीयत्वं
विधेः । पुनरुक्तमिव पुनरुक्तं पुनःपुनर्मालतीहरणम् । परिणामरमणीयत्वं चान्ते-
ऽक्षतमालतीलाभेन ॥ सौदामिनी । अन्तेवासी जन इत्यात्मनः पुँल्लिङ्गनिर्देशा-