मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 241, कुल 377 में से
संदर्भ में पढ़ेंदशमोऽङ्कः । २३७
कामन्दकीमकरन्दौ—महाभागे, पुनः परित्रायस्व नः ।
किमर्थमन्तर्हितासि ।
मदयन्तिकालावङ्गिके—सँहि मालदि, णं भणामि सहि मा-
लदि त्ति । (सोत्कम्पम् ।) भअवदि, परित्ताहि । चिरणिरुद्धणिस्सास-
णिच्चलं से हिअअं । हा अमच्च, हा पिअसहि, तुह्मे दुवे वि पर-
प्परावसाणस्स कारणं जादा ।
कामन्दकी—हा वत्से मालति ।
माधवः— हा प्रिये मालति ।
मकरन्दः—हा प्रियसखि ।
(सर्वे मोहमुपगम्य पुनः संज्ञां लभन्ते ।)
कामन्दकी—तत्किमेष झटिति पाट्यमानादिवाम्बुदादम्बुनि-
वहः परिस्खलन्नस्मान्प्रीणयति ।
माधवः—(सोच्छ्वासम् ।) अये, प्रत्यापन्नचेतनेव मालती । तथा-
ह्यस्याः
भवति विततश्वासोन्नाहप्रणुन्नपयोधरं
हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् ।
१. सखि मालति, ननु भणामि सखि मालतीति । भगवति, परित्रा-
यस्व । चिरनिरुद्धनिःश्वासनिश्चलमस्या हृदयम् । हा अमात्य, हा प्रिय-
सखि, युवां द्वावपि परस्परावसानस्य कारणं जातौ ।
वचनं भूरिवसुर्वह्निपतनाय सुवर्णबिन्दुमभ्येतीत्येवंरूपम् । तस्मादनन्तरमन्तर्हितां
न पश्यामि ॥ १४ ॥ कामन्दकीमकरन्दौ । किमर्थं तिरोहितासि । मालतीविप-
न्निराकरणद्वारेदानीमपि भूरिवसुविनाशरुपमालतीविपत्तित्रासेन पुनर्नोऽस्मान्परि-
त्रायस्वेत्यर्थः । मदयन्तिकालावङ्गिके । सखि मालति, ननु भणामि सखि
मालतीति । विलापोक्तिप्रभेदोऽयम् । भगवति, परित्रायस्व । चिरनिरुद्धनिःश्वासनिश्च-
लमस्या हृदयम् । हा अमात्य, हा प्रियसखि, युवां द्वावपि परस्परावसानस्य
कारणं जातौ । द्वयोरपि विनाशहेतुरित्याशयः ॥ कामन्दकी । पाट्यमानादिवेति
स्वाभाविकवर्षविलक्षणाकाण्डप्रवृत्तारम्भः पतननिमित्तकोकिरियम् । प्रीणयति संतर्प-
यति । जीवयतीत्यर्थः ॥ माधवः । प्रत्यापन्नचेतनेव प्रत्यापन्नजीवितेव । तल्लिङ्गा-
न्याह—भवतीति । प्रथमं निरुद्धः पश्चाद्विततो विस्तारितो यः श्वासोन्नाहस्तेन
प्रणुन्नौ पयोधरौ यत्र हृदये तत्तादृक् । उन्नाह उच्छ्रायः । चक्षुरपि च यन्मोहप्र-
भावादस्निग्धमासीत्तत्प्रकृतौ तत्स्वभावे स्थितं मुग्धमभूदित्यर्थः । अत्र निजेति