मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 239, कुल 377 में से
संदर्भ में पढ़ेंदशमोऽङ्कः । २३५
(नेपथ्ये *)
कथमतिदारुणो जनावमर्दः संवर्त्तते ।
मालत्यपायमधिगम्य विरक्तचेताः
सांसारिकेषु विषयेषु च जीविते च ।
निश्चित्य वह्निपतनाय सुवर्णबिन्दु-
मभ्येति भूरिवसुरित्यधुना हताः स्मः ॥ ९ ॥
मदयन्तिकालवङ्गिके—झत्ति मालदीमाहवाणं दंसणब्भुदओ
झत्ति अव्वाहिदं अ ।
कामन्दकीमकरन्दौ—दिट्ठ्या । कष्टं भोः आश्चर्यम् ।
किमयमसिपत्रचन्दनरसच्छटासारयुगपदवपातः ।
अनलस्फुलिङ्गकलितः किमयमभ्रः सुधावर्षः ॥ १० ॥
संजीवनौषधिविषव्यतिकरमालोकतिमिरसंभेदम् ।
अद्य विधिरशनिशशधरमयूखसंवलनमनुकुरुते ॥ ११ ॥
(नेपथ्ये ।)
हौ ताद, विरम । उत्सुअम्हि ते वदनकमलदंसणस्स पसीद ।
१. झटिति मालतीमाधवयोर्दर्शनाभ्युदयो झटित्यत्याहितं च ।
२. हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । सं-
पतनाद्विरताः सर्वोः ॥८॥ नेपथ्य इति । दारुणदुःखजनकत्वात्सत्पतनस्य द्रष्टॄणां
संमर्दः । मालतीति । पुनरपि तथैवापहृतेति सामान्यतोऽधिगम्य ज्ञात्वा सांखा-
रिकेषु संसारभूतेषु विषयेषु जीवितेषु चोपरतमनाः पुनश्च तमेवापायं निश्चित्य
वह्निप्रवेशनाय सुवर्णबिन्दुसंज्ञकं शिवायतनमभ्येतीति हताः स्म इति परिजनवचः
॥९॥ मदयन्तिकालवङ्गिके । झटिति मालतीमाधवयोर्दर्शनाभ्युदयो जातप्राय
इव जातः। झटित्यत्याहितं महाभीतिश्च भूरिवसुविनाशशङ्कया ॥कामन्दकीमक-
रन्दौ । मालतीमाधवयोरभ्युदयेन सहर्षो,भूरिवसुदहनप्रवेशाच्च सखेदौ । किमिय-
मिति । किमयं भूरिवसुदहनप्रवेशश्रवणमालतीमाधवप्रत्यासन्नदर्शनव्यतिकरोऽसि-
पत्रचन्दनरसच्छटासारत्वमुभयेम् । एवमुत्तरार्धेऽपि युज्यते । किमयं व्यतिकरो
मेघं विना देहदहनकरणादमृतवर्षः ॥ १० ॥ संजीवनेति । अद्य विधिर्भाग्यम-
स्माकं कर्तृ द्वयोरत्यन्तविपरीतक्रिययोर्दुःखसुखनिमित्तयोर्वस्तुनोरुद्वेगानन्दजनक-
त्वेन मेलनमनुकुरुते । तथथा संजीवनौषधिविषयोर्व्यतिकरो मिश्रणं तथा प्रका-
शतिमिरयोः संभेदः संगमः । तथा वज्रचन्द्रकरयोः संमेलनमिति ॥ ११ ॥
नेपथ्ये । हा तात, विरम । उत्सुकास्मि ते वदनकमलदर्शनस्य । प्रसीद । संभा-