मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 227, कुल 377 में से
संदर्भ में पढ़ेंतदेहि । तूर्णं संभावयावः ।
(त्वरितं परिक्रामतः ।)
मकरन्दः—(विलोक्य ।) दिष्ट्या प्रत्यापन्नचेतनो वयस्यः ।
सौदामिनी—संवदत्युभयोर्मालतीनिवेदितः शरीराकारः ।
माधवः—(आश्वस्य ।) अये, प्रतिबोधितवानसि केनापि ।
(विचिन्त्य ।) नूनमस्यायं नवजलधरप्रभञ्जनस्यानवेक्षितासदवस्थो व्या-
पारः । भगवन् पौरस्त्य वायो,
भ्रमय जलदानम्भोगर्भान्प्रमोदय चातका-
न्कलय शिखिनः केकोत्कण्ठान्कठोरय केतकान् ।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा-
मकरुण पुनः संज्ञाव्याधिं विधाय किमीहसे ॥ ४२ ॥
मकरन्दः—सुविहितमनेनाखिलजन्तुजीवनेन मातरिश्वना ।
अपि च ।
एते केतकसूनसौरभजुषः पौरप्रगल्भाङ्गना-
व्यालोलालकवल्लरीविलुठनव्याजोपभुक्ताननाः ।
किंचोन्निद्रकदम्बकुड्मलपुटीधूलीलुठत्षट्पद-
व्यूहव्याहृतिहारिणो विरहिणः कर्षन्ति वर्षानिलाः ॥ ४३ ॥
रन्दः । प्रमुग्धं प्रकृष्टमोहग्रस्तम् । प्रलयावस्थागतमिति यावत् । मकरन्दः ।
प्रत्यापन्नचेतनः प्रादुर्भूतसंज्ञः॥ सौदामिनी पूर्वमदृष्टमाधवमकरन्दशरीराकारा संप्रति
द्वावपि विलोक्याह-संवदतीति । मालत्या यादृश्याकृतिः कथिता तादृश्येव द्वयो-
रपीत्यर्थः ॥ माधवः। नूनं शङ्के निश्चितं वा । व्यापारो मन्मोहच्छेदनानुगुणं कर्म ।
प्रभञ्जनस्य महतोऽस्यामवस्थायां मोह एव चरमदशानुभवप्रतिपक्ष इत्याशयः ।
स्वमोहविच्छेदनहेतुं प्रभञ्जनमवधार्य तमेवोपालम्भवचोभिर्वाक्यैराह-भ्रमयेति ।
इतस्ततो मेघान्भ्रमय । जलदानां भ्रमणेन संतापशान्तिर्भविष्यति । अम्भोगर्भ-
त्वेन च संपूर्णकामाञ्जरामरणरहितवारिपिपासादितांश्चातकान्प्रमोदय । तथा मयूरा-
नेतेनैव हेतुना केकाविषये सामिलाषान्कुरु । तथा केतकान्कठोरय जलसेकव्यतिक-
रेण प्रौढान्कुरु । मादृशविरहिणि जने पुनर्दैवान्मूर्च्छां लब्ध्वा तद्वाराप्यात्मव्यथां
विनोदयति निराकुर्वाणे । संज्ञारूपं चैतन्यरूपं व्याधिं