मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 235, कुल 377 में से
संदर्भ में पढ़ेंदशमोऽङ्कः । २४१
कामन्दकी—(सविशेषखेदम् ।) हा वत्सौ,
अभिनवरागरसोऽयं भवतोः कृतकौतुकः परिष्वङ्गः ।
लवलीलवङ्गयोरिव नियतिमहावात्यायाभिहतः ॥ ३ ॥
लवङ्गिका—(सोद्वेगम् ।) हंदास, वज्जमअहिअअ, सव्वहा णि-
संसेसि । (इति हृदयमाहत्य पतति ।)
मदयन्तिका—सहि लवङ्गिए, णं भणामि खणमेत्तं वि दाव
समस्सस ।
लवङ्गिका—मैदअन्तिए, किं करेमि । दिढवज्जलेवपडिवद्धाणि-
च्चलं विअ जीविदं मं ण परिच्चअदि ।
कामन्दकी—वत्से मालति, जन्मनः प्रभृति वल्लभतरा ते लव-
ङ्गिका । तत्किमुज्जिहानजीवितां नानुम्पसे । इयं हि
उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ४ ॥
१. हताश, वज्रमयहृदय, सर्वथा नृशंसमसि ।
२. सखि लवङ्गिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि ।
३. मदयन्तिके, किं करोमि दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं मां
परित्यजति ।
हा प्रियसखि, सुप्रसन्नमुखचन्द्रसुन्दरि, क्व गतासि । कस्ते शरीरस्य दैवदुर्विलास-
परिणाम एकाकिन्या उपनतः । हा महाभाग माधव, उदितास्तमितमहोत्सवो जीव-
लोकः संवृत्तः। कामन्दकी। वत्सा च वत्सश्च वत्सौ । मालतीमाधवावित्यर्थः । अ-
भिनवेति । भवतोराश्लेषो नियतिरूपया दैवरूपया वात्या पवनमण्डलेन निरस्तः।
कीदृशः परिष्वङ्गः । नूतनो रागो रसो यत्र । 'रागोद्वेगः समाप्तिः' इति कामसूत्र-
दर्शनात् । राग एव रसः । रस्यत इति व्युत्पत्त्या रसः शृङ्गार इत्यन्ये । कृतकौ-
तुकः कृतमङ्गलः । उपमानमाह—यथा लवलीलवङ्गयोरुद्याने विदग्धमायिकाना-
यकाभ्यामुत्पाद्यत्वेन कल्पितविवाहाभाससमये कृतकौतुकयोः परिष्वङ्गो वात्या-
ऽभिहत इत्यर्थः ॥३॥ लवङ्गिका । हताश, वज्रमयहृदय, सर्वथा नृशंसमसि ॥
मदयन्तिका। सखि लवङ्गिके, ननु भणामि क्षणमात्रमपि तावत्समाश्वसिहि ॥
लवङ्गिका । मदयन्तिके, किं करोमि । दृढवज्रलेपप्रतिबद्धनिश्चलमिव जीवितं
मां न परित्यजति । कामन्दकी । उज्जिहानजीविता निःसरत्प्राणा । उज्ज्व-
लेति । इयं लवङ्गिका त्वयि स्निग्धा स्नेहवती त्वद्वियोगदुःखादेव म्लानमुखी
त्वयोज्ज्वलदर्शनया परित्यक्ता न शोभते । यथोज्ज्वलोद्योततया दीपशिखया त्यक्ता
मा० २१