ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
सौभाग्यभास्करव्याख्या । ३
ललितानामसहस्रे छलार्णसूत्रानुयायिन्यः ।
परिभाषा भाष्यन्ते संक्षेपात्कौलिकप्रमोदाय ॥ २ ॥
पञ्चाशदेक आदौ नामसु सार्धद्व्यशीतिशतम् ।
षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः ॥ ३ ॥
दशभूः सार्धनृपाला अध्युष्टं सार्धनवषडध्युष्टम् ।
मुनिसूतरह्याश्वाश्वाम्बाश्वोक्तिर्ध्यानमेकेन ॥ ४ ॥
अगस्त्य उवाच ।
अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।
कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥ १ ॥
द्विचत्वारिंशत् महालावण्येत्यारभ्य महेश्यन्तानि ॥ १ ॥ छलाक्षरनामसूत्रेभ्यो
नामविभागादेर्विलम्बेन क्लिष्टतया ज्ञायमानत्वात्तत्रत्या एव परिभाषाः सुलभोपायेन
सुबोधा इति विद्योपासकानां तोषाय कथ्यन्त इत्यर्थः । छलाक्षरसूत्राणां विलम्बितार्थ-
बोधजनकत्वं तत्रतत्र प्रकटीकरिष्यामः ॥ २ ॥ आदौ प्रथमभागे पञ्चाशदेकश्च ।
एकपञ्चाशच्छ्लोका इत्यर्थः । वक्ष्यमाणस्य सहस्रभोजनप्रयोगस्य बहुदिनक्रियमाणत्व-
पक्षे प्रथमदिन एकपञ्चाशच्छ्लोकपाठः । ध्यानश्लोकस्तु प्रत्यहं पठनीय इति वैषम्य-
ध्वननाय विभज्य कथनम् । नामसु विषये द्व्यशीत्युत्तरं शतमर्धश्लोकश्च अन्ते
फलश्रुत्यादिप्रकरणे । संहत्य तु त्रीणि शतानि विंशतिश्च श्लोका इत्यर्थः ॥ ३ ॥ अथ
प्रथमभागं विभज्य दर्शयति—भूः एकः । नृपालाः षोडश । अध्युष्टं सार्धत्रयम् ।
मुनिरगस्त्यः । हयाश्वपदानि हयग्रीवपराणि । दशश्लोका अगस्त्योक्तिरूपा इत्यादिरीत्या
यथाक्रममन्वयः । अगस्त्याह्वयो हि महामुनिः श्रीविद्योपासकाग्रेसरस्तत्रभगवतो
हयग्रीवस्य देशिकेन्द्रस्य मुखाद्ब्रह्माण्डपुराणीयैर्मन्त्रन्यासपूजापुरश्चरणहोमरहस्यस्तोत्राद्यैः
सप्तभिः खण्डैः श्रीमातुः प्रादुर्भावादिरहस्यजातमाकर्ण्यंतोपि परमरहस्यं नामसहस्र-
मस्तीति तपोबलादेव निश्चित्य तद्भक्तायापि मह्यं किमिति गुरुभिर्न दत्तमित्यनुपदेश-
निमित्तांशे संदिहानः पृच्छतीत्याह भगवान् सूतः ॥ ४ ॥ न गच्छतीत्यगः पर्वतस्तं
विन्ध्यनामानं स्त्यायतीत्यगस्त्यः । स्त्यानं स्तम्भनम् । साच कथा काशीखण्डे द्रष्टव्या ।
असंगतलापनोदाय पूर्वकथाप्रसङ्गं सामान्येन स्मारयति—अश्वेति । देवीभागवते
प्रथमस्कन्धे तावदियं कथा स्मर्यते । पुरा किल भगवान् विष्णुर्यज्ञसंरक्षणादिघनतर-
कार्यार्थं कृतबहुजागरः श्रान्तः शार्ङ्गधनुषः कोटिं ग्रीवायावलम्ब्य निद्राणोऽभूत् ।
तदा ब्रह्मारुद्रादयः कार्यविशेषसिषाधयिषया तज्जागरणाय वम्रिनामककृमिभ्यो यज्ञ-
भागमिच्छद्भ्यो दत्त्वा तन्मुखात्प्रत्यञ्चामत्रोटयन् । तेन कोटेरुच्चलनाच्छिरोत्पुडिनं
क्वापि गतमभूत् । ततः शोकाविष्टाः सुरास्तच्छीर्षमलभमानास्त्रिपुरसुन्दरीं तुष्टुवुः ।
सा तुष्टा सती हयशिरोयोजनेनैनं जीवयतेत्याज्ञाप्य भगवत्यन्तरधत्त । ततस्तथा
जीवितो विष्णुर्हयग्रीवो भूत्वा हयग्रीवाख्यं दैत्यं हतवान् । रहस्यजातमखिलं
४
ललितासहस्रनाम ।
पूर्वं प्रादुर्भावो मातुस्ततः पट्टाभिषेचनम् ।
भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥ २ ॥
वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।
श्रीमत्पञ्चदशाक्षर्या महिमा वर्णितस्तथा ॥ ३ ॥
देवीमुखादेव लब्धवानित्यादि । सोऽयमश्वाननो विष्णुरेव । तदिदं विशेष्यमुक्तवृत्तान्त-
स्मारेण देव्यनुगृहीतत्वाभिप्रायगर्भम् । अतएव महाबुद्ध इत्यादिविशेषणद्वयं न
स्तुतिमात्रं । ललितेति । पद्मपुराणे हि 'लोकानतीत्य ललते ललिता तेन चोच्यते'
इति निर्वचनश्लोके चकारादन्यदपि संभवं निर्वचनमनुमतम् । पराशक्तिसदाशिवादि-
रूपाणि शक्तिशिवयोरुत्तरोत्तरापकर्षवन्ति बहूनि सन्ति । तेषां च लोका अपि बहु-
विधाः । परशिवाभिन्नमहाशक्तिस्तु सर्वलोकातीता महाकैलासापराजितादिपदवाच्ये
सर्वलोकोत्तमे लोके तिष्ठति । तस्याश्च शरीरं घनीभूतघृतवद्रजस्तमःसंपर्कशून्यशुद्ध-
सत्वघनीभावरूपम् । अन्यासां शिवशक्तीनां कतिपयानां सात्विकशरीराण्यपि सला-
क्षिक्यगुणान्तराल्पत्वयुक्तानि न पुनः शुद्धसत्वानि । अतः सर्वोत्तमत्वात् परब्रह्ममूर्तिः ।
अस्या अपि सन्ति रहस्यभूता बहवो भेदास्तेषु कामेश्वर्यात्मकमूर्तिरेवेह ग्रन्थे प्रतिपाद्येति
ललितापदेन सूचितम् । ललितं शृङ्गारहावजन्यः क्रियाविशेषः तद्वती ललिता । तेन
शृङ्गाररसप्रधानेयं मूर्तिरिति सूचितम् । सैव देवी क्रीडाविजिगीषादिशीलत्वात् । तस्या-
श्चरितं प्रादुर्भावादिस्तोत्रसमुदयान्तं कथितं भवतेति शेषः । परमाद्भुतं अत्युत्त-
मत्वात्पूर्वमश्रुतचरत्वादनुपमत्वाच्चेत्यर्थः ॥ १ ॥ अथैतदेव विशिनष्टि सप्तभिः पूर्व-
मित्यादिभिः । प्रादुर्भावः । 'असद्वा इदमग्र आसीत्' । 'सदेव सोम्येदमग्र आसीत्' ।
'नासदासीन्नो सदासीदि'त्यादिश्रुत्येकवाक्यतया निर्णीतस्य सृष्टिप्राक्कालिकस्य निर्वि-
शेषचिन्मात्रस्य प्राथमिकः कामकलारूपपरिणामो गुरुमुखैकवेद्यः । सच पूर्वं इतः प्राक्,
पट्टाभिषेकादिभ्यः प्रथमं वा । त्वयोदित इति सर्वत्रान्वेति । अग्निकुण्डात्समुद्भवरूपो
वाऽवतारविशेषात्मा प्रादुर्भावः । पट्टं सकलभुवनसाम्राज्याधिकारस्तस्य विषयेऽभिषेचनं
स्वायत्तीकरणेतिकर्तव्यतारूपोऽङ्गविशेषः । उदितमिति तु नपुंसकत्वेन परिणमनीयम् ।
भण्डाख्योऽसुरो ललितोपाख्याने यो विस्तरेण वर्णितस्तस्य वधो युद्धे हननं विस्तरेण
बहुना शब्दराशिना । 'प्रथनेवावशब्दे' इति पर्युदासाच्छब्दभिन्न एव विस्तार इति
रूपम् ॥ २ ॥ निरुपपदस्य पुरपदस्य । प्रवृत्तिनिमित्तभूतधर्माणां पौष्कल्याद्देव्याः पुरमेव
मुख्यं पुरपदवाच्यम् । अभियुक्तानां नाम श्रीपदपूर्वं प्रयुञ्जीतेति वचनाच्छ्रीकारपूर्वकमिह
प्रयुक्तम् । तच्च रुद्रयामले 'अनन्तकोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः' इत्यादिना पञ्चविं-
शतिप्राकारैरनन्तयोजनविस्तृतैः परिवेष्टितत्वेन वर्णितमेकम् । मेरुरुपरि तत्समानयो-
गक्षेमं संक्षिप्तं ललितास्तवरत्ने भगवता दुर्वाससा देशिकेन्द्रेण वर्णितमपरम् । क्षीर-
समुद्रमध्ये तृतीयमिति तु विद्यारत्नभाष्यकाराः । महाविभवविषयकः शब्दराशिरित्येति
तु वर्णनक्रियाया विशेषणम् । श्रीबीजयुक्ता या पञ्चदशाक्षरी पञ्चदशानां स्वराणां
षोढान्यासादयो न्यासा न्यासखण्डे समीरिताः ॥ ४ ॥
अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ।
महायागक्रमश्चैव पूजाखण्डे प्रकीर्तितः ॥ ५ ॥
पुरश्चरणखण्डे तु जपलक्षणमीरितम् ।
होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ॥ ६ ॥
चक्रराजस्य विद्यायाः श्रीदेव्या देशिकात्मनोः ।
रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ॥
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ ७ ॥
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।
नतु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ ८ ॥
समाहारः कादिविद्या हादिविद्या वा तस्याः । तस्यां श्रीबीजयोगस्तु 'चत्वार ईं बिभ्रति
क्षेमयन्तः' इति श्रुतिसिद्धो रहस्यतरः सांप्रदायिकैकवेद्योऽस्तीति कश्चित् । तत्तन्त्रेषु क्वाप्य-
दर्शनात्प्रामाणिका न मन्यन्ते । उक्तश्रुतिस्तु 'कामराजाख्यमन्त्रान्ते श्रीबीजेन सम-
न्विता । षोडशाक्षरविद्येयं श्रीविद्येति प्रकीर्तिते' ति हयग्रीवोद्धृतमन्त्रान्तरपरैत्याहुः ।
तेन श्रीशब्दः शोभादिपरः । वक्ष्यमाणव्याडिकोशेन बह्वर्थत्वावगमात् ॥ ३ ॥
षोढेति । गणेशग्रहनक्षत्रयोगिनीराशिपीठाख्यन्यासषट्कजन्यावान्तरापूर्वषट्कपरमापूर्व-
साधनीभूतो न्यासः षोढान्यास उच्यते । सच भूषणमाल्यादिभेदादनेकविधः ।
आदिना चक्रन्यासादिपरिग्रहः । न्यासखण्डे समस्तन्यासैकप्रतिपादके ग्रन्थशकले ।
न्यासो नाम तत्तद्देवतानां तत्तदवयवेष्ववस्थापनम् । अवस्थितत्वेन भावनेति यावत्
॥ ४ ॥ अन्तरिति । अन्तर्यागो नामाधाराद्राजदन्तान्तं तेजस्तन्तोर्विभावनम्, मान-
सी देवपूजा वा तस्य क्रम इतिकर्तव्यता । बहिर्यागः पात्रासादनादिशान्तिस्तवान्तः
कर्मसमूहः । सएवाष्टाष्टकादिघटितो महायागः । एते चास्माभिर्वरिवस्याप्रकाशे पूजा-
प्रकरण एव निरूपिताः ॥ ५ ॥ पुरश्चरणेति । पुरः मन्त्रोपास्तेरादौ दीक्षोत्तरकालं
चरणं परिचर्या । जपस्य लक्षणमवस्थापञ्चकशून्यषड्विषुवत्सप्तकचक्रनवकविभाव-
नादिरूपं चिह्नम् । तच्चास्माभिर्वरिवस्यारहस्ये प्रथमंश एवोक्तम् । होमेति ।
होमानां तद्द्रव्याणां च तद्विधीनां द्रव्यपरिमाणादिरूपाणां च क्रमः शब्दमध्ये पादविक्षेपो
निबन्धनमिति यावत् ॥ ६ ॥ चक्रराजस्येति तच्छप्रत्ययान्तम् । बिन्द्वादिनवचक्रात्मकस्येति
तदर्थः । विद्यायाः पञ्चदश्याः षोडश्या वा । श्रीदेव्याः त्रिपुरसुन्दर्याः । देशिकात्मनोः
गुरुशिष्ययोः तादात्म्यं तद्ब्रह्मैव आत्मा स्वरूपं यस्य तत्तदात्म 'ॐ तत्सदिति
निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति वचनात् । तस्य भाव इत्यर्थे ब्राह्मणादित्वात्ष्यञ् ।
सर्वेषामेकब्रह्मरूपता । अभेद इति यावत् । मन्त्रस्य निगमार्थवर्णनावसरे वरिवस्या-
रहस्येऽस्माभिरुक्तोऽय प्रकारः । स्तोत्रेति । बहुविधाः पञ्चमीस्तवराजादिरूपाः ॥ ७ ॥
मन्त्रिणी मन्त्रो राजाधिकारोपयोगिनी मननक्रिया सास्यास्तीत्यर्थे इनिः । नान्त-
उदासीन? Look at the letters after मित्र: शत्रु Then:भृ! Wait, is it भृत्य? Look at line 6: मि त्र श त्रु भृ त्यो दा सी न भे दे न! YES!भृत्योदासीनभेदेन! Look at that glyph: It is भृ+त्यो! भृis a bit squished, thenत्यो: त्यwithोmatra! मित्रशत्रुभृत्योदासीनभेदेन! Brilliant! Mitra, Shatru, Bhritya, Udasina! Exactly 4 kinds (चतुर्विधेषु जीवेषु)! And then line 7 starts with: भृत्यकोटिप्राविष्टस्य`!
It matches 100% perfectly!
- Let's verify line 7:
भृत्यकोटिप्राविष्टस्य शिष्यस्योदासीनत्वायोगाद् भक्तिजिज्ञासितार्थोपेक्षायां देशिकेन्द्रस्य कृ-
Wait, look at the end of line 7:
कृ-(kṛ-) followed by hyphen!
Wait, let's checkभक्तिजिज्ञासितार्थोपेक्षायां:
सौभाग्यभास्करव्याख्या । ७
सूत उवाच ।
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टो वचनं प्राह तापसं कुम्भसंभवम् ॥ ११ ॥
लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु ।
नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ १२ ॥
सूतः—इति पृष्ट इति । चतुर्थकोटिविषयकप्रश्नकर्मीभूत इत्यर्थः । प्रच्छधातोर्द्वि-
कर्मकतया कोटिद्वयोरपि कर्मत्वात् । प्रहृष्टः विलम्बापगमादिति शेषः । तपोभिर्य-
ज्ञादिभिः पापक्षये सत्यङ्कुरितविविदिषाकत्वादस्ति श्रद्धेति योग्यतां प्रदर्शयति—तापस-
मिति । चित्तवृत्तिनिरोधकारणीभूतवायुवृत्तिनिरोधशीलत्वादपि योग्यतामाह—कुम्भ-
संभवमिति । कुम्भस्य कुम्भकस्य सम्यक् चिरकालं भवः स्थितैर्यस्मिंस्तमित्यर्थः ।
रेचकपूरकयोः सार्वजनीनतया सुलभत्वान्निरोधपदवाच्यत्वाभावाच्च तत्परित्यागेन कुम्भ-
कस्यैव ग्रहणम् ॥ ११ ॥ अथ सार्धैः षोडशभिः श्लोकैर्हयग्रीवोक्तिः । पूर्वश्लोक एव
हयग्रीवः प्राहैत्युक्तत्वान्नैतदारम्भे हयग्रीव उवाचेत्युक्तिः । एवमम्बावचनेऽप्युत्तरत्र
ज्ञेयम् । भर्त्रभिमतदेव्याराधनं गृहिण्या क्रियमाणमप्यनुकूलदांपत्यघटकं सत्पत्या
उपास्तियोग्यतापादकमिति व्यञ्जयन् विवक्षितमर्थं प्रतिजानीते—लोपामुद्रापत
इति । अतएव भगवत्यैव त्रिशत्यां वक्ष्यते 'पत्यस्य लोपामुद्राख्या मामुपास्तेऽति-
भक्तिः । अयं च नितरां भक्तस्तस्मादस्य वदस्व त'दिति । अत्र भर्तृनिष्ठभक्तेः पत्न्या-
नुकूल्यस्य समुच्चयार्थकश्चकार इति तत्रैव वक्ष्यामः । अथवा न केवलं भक्तिप्रश्नावेव
योग्यतावच्छेदकौ । विद्योपास्तिविरहे तयोः सत्त्वेऽपि उपदेष्टुर्योगिनीशापापत्त्याम्नानात् । अत-
स्तत्साहित्यद्योतनायेदं विशेषणम् । अथवा लोपामुद्राशब्दस्तद्विद्यापरस्त्रिपुरसुन्दरीपरो
वा । सैव पतिरुपास्या यस्येत्यर्थः । नचागस्त्यविद्योपासकस्य कथं तथात्वव्यपदेशः ।
शाखान्तराधिकरणन्यायेन विद्योरभेदाभिप्रायेणोपपत्तेः । नच विद्यापदवाच्ययोरुपा-
स्ययोरभेदेऽप्यगस्त्यलोपामुद्रासंज्ञयोर्मन्त्रयोर्भेद एवेति वाच्यम् । अगस्त्योपासितेत्यादि-
यौगिकशब्दैकदेशानां तेषां संज्ञात्वाभावेन भेदकतायोगात् । नचाक्षरन्यूनाधिक-
भावाभ्यां सुषिसुषिरयोरिव भेदः । तयोः पदभेदकत्वेऽपि मन्त्रभेदकत्वाभावात् । अतएव
'अप्स्वन्तरमृत'मितिमन्त्रस्य याजुषाथर्वणबह्वृचैर्भिन्नछन्दस्कत्वेन पाठेऽपि भेदानङ्गीकार-
स्तान्त्रिकाणां संगच्छते । अतएव च भूतशुद्ध्यन्तर्गतजलमण्डलशोधने विकल्पेन विनि-
योगो न्यायसिद्धः । तदुक्तम् । 'अप्स्वन्तरिति मन्त्रेण शोधयेदम्बुमण्डलम् । आर्ष्योष्णि-
हा पुरस्ताच्च बृहत्या पुर उष्ण्हे'ति । एवं 'युञ्जन्ति हरी इषिरस्ये'ति मन्त्रो बह्वृचच्छान्दो-
ग्याभ्यां छन्दोभेदेन पठ्यमानोऽपि न भिद्यते । अनेनैवाशयेन नामैधाख्यसामाधिकारे
'अथ पुर उष्णिक्पुष्टसेनानुष्टुभो नयन्ती'तिश्रुतौ द्वयोरपि छन्दसोल्लेखः । तेन तन्त्रराज-
हादिविद्याधिकारे पठितानां कालनित्यामन्त्राणां पारायणानां च कादिविद्याङ्गत्वेनापि
Here is the line-by-line transcription of the page:
८ ललितासहस्रनाम ।
रहस्यमिति मत्वाऽहं नोक्तवांस्ते न चान्यथा ।
पुनश्च पृच्छसे भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ १३ ॥
ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।
भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ १४ ॥
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ।
श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥ १५ ॥
लेखः पद्धतिकाराणां संगच्छत इति दिक् । अवधानं विषयान्तरसंचाराभावस्तत्सहितं
मनो यस्य तादृशः सन् । इतरकोटीनां तेष्वक्षराणां च तत्रैव स्फुरितत्वेऽपि तद्विलक्ष-
णायाः कोटेर्विवक्षिताया झटिति लघुबुद्धौ स्फुरणायोग्यत्वादिति भावः । यत् येन
कारणेन 'निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शन'मिति वार्तिके सर्वविभक्तीनां साधुत्वा-
भिधानात् ॥ १२ ॥ प्रकटार्थस्यो
सौभाग्यभास्करव्याख्या । ९
उपासकाय शुद्धाय देयं नामसहस्रकम् ।
यानि नामसहस्राणि सद्यःसिद्धिप्रदानि वै ॥ १६ ॥
तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने ।
श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथापरा ॥ १७ ॥
र्नाहित्याय । अथैतदुपदेशे ईदृशो निर्बन्धोऽस्य रहस्यत्वात्तच्च मुख्यत्वात्तच्च देवताप्रीति-
करत्वेनावश्यकत्वादिति प्रदर्शयितुमुत्तरो ग्रन्थसंदर्भों नामारम्भावधिकः—यानीति ।
यानि कोटिसंख्याकानि तेषु यानि सद्यःसिद्धिप्रदानि दशसंख्याकानि 'एते दश
स्तवा गङ्गाश्यालकावालरासभे'ति संगृहीतानि ॥ १६ ॥ ललितादेव्या नामसहस्राणि
तन्त्रेषु चतुःषष्टिसंख्याकेषु पुराणेषु च कथितानि तेष्वपीदं ललितानामसहस्रं मुख्यतममिति
योजनार्थः । 'देवीनामसहस्राणि कोटिशः सन्ति कुंभजे'त्युत्तरग्रन्थानुसारात् । पुंदेवत्या
मन्त्राः स्त्रीदेवत्या विद्या इति मन्त्रविद्योर्लक्षणभेदेऽप्यस्याः शिवशक्तिसामरस्यरूपत्वा-
दुभयात्मतेति द्योतनाय मन्त्राणां मध्ये विद्येत्युक्तम् । अतएव देवताध्याने ऐच्छिको
विकल्पः स्मर्यते । 'पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् । अथवा निष्कलं ध्याये-
त्सच्चिदानन्दलक्षण'मिति मालामन्त्रेपि स्त्रीपुंसभेदेन भेदः । एतदभिप्रायेणैव गुण-
निधिः श्रीमाता परंज्योतिरित्यादीनि नामानि त्रिलिङ्गकानि संभवन्त्यन्ते । अथवा कूट-
त्रयात्मकत्वेऽपि पञ्चदशाक्षरघटितत्वात्पञ्चदशाक्षरशालित्वसूचनाय मन्त्राणामित्युक्तम् ।
पिण्डकर्तरीबीजमन्त्रमालाभेदेन पञ्चविधेषु मन्त्रेषु पञ्चदशाक्षराणां मन्त्ररूपत्वात् । तदुक्तं
नित्यातन्त्रे । 'मन्त्रा एकाक्षराः पिण्डाः कर्तयों द्वयक्षरा मताः । वर्णत्रयं समारभ्य
नवार्णा विधिवीजकाः । ततो दशार्णमारभ्य यावद्विंशति मन्त्रकाः । तत ऊर्ध्वं गता
मालास्तासु भेदो न विद्यते' इत्यादि । कादिः ककार आदिर्यस्यां सा कादिः काली-
शक्तिः । त इति तन्त्रराजप्रसिद्धकादिनामकशक्त्यभिन्ना वा । अतएव 'कादिसंज्ञा भवरूपा
सा शक्तिः सर्वसिद्धये' इत्यादि तत्रैव देवींप्रति शिववाक्यम् । सा च 'कामो योनिः
कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरुच्येषा
विश्वमातादिविद्या' इत्याथर्वणैः पठ्यमानत्रैपुरसूक्तस्थायामृच्युद्धृता । तत्तन्त्रभेदेनोद्धृतानां
विद्यानां सर्ववेदान्तप्रत्ययन्यायेनैक्येप्युपासकरुच्यनुसारेण कल्पितं तारतम्यमप्यस्ती-
त्याह—परेति । भावार्थप्रभृत्यर्थानां सर्वेषां तत्रैव सामञ्जस्यात् । सप्तत्रिंशदक्षरैः षट्-
त्रिंशत्तत्त्वातीतरूपायाः कादिविद्यातिरिक्तासंभवाच्चेति भावः । तदिदमस्माभिर्व-
रिवस्यारहस्य एव विद्यान्तरेषु तदसामञ्जस्यप्रदर्शनपूर्वं निरूपितम् 'अज्व्यञ्जन-
बिन्दुत्रयनादत्रितयैर्विभाविताकारा । षट्त्रिंशत्तत्त्वात्मा तत्वातीता च केवला विद्या'
इति । किंच 'यदक्षरैकमात्रेपि संसिद्धे स्पर्धते नरः । रवितार्क्ष्यन्दुकंदर्पशंकरानलवि-
ष्णुभिः । यदेकादशमाधारं बीजं कोणत्रयात्मकम् । ब्रह्माण्डादिकटाहान्तं जगद्व्यापि
दृश्यते' इत्यादिर्गुरुमुखैकवेद्यो रहस्यार्थो न हादिविद्यासु समञ्जसः । 'चत्वार ईं बिभ्रति
क्षेमयन्त' इत्यत्रापि कादिपक्ष एव खरसेयेके । हादिपक्षेपि तुल्येति तु रहस्यम् ।
१० ललितासहस्रनाम ।
पुराणां श्रीपुरमिव शक्तीनां ललिता यथा ।
श्रीविद्योपासकानां च यथा देवो वरः शिवः ॥ १८ ॥
तथा नामसहस्रेषु वरमेतत्प्रकीर्तितम् ॥ १९ ॥
यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ।
अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।
श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ २० ॥
बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् ।
पद्मैर्वा तुलसीपत्रैरेभिर्नामसहस्रकैः ॥ २१ ॥
किंच । त्रिपुरोपनिषद्यपि 'अथैतस्य परं गहरं व्याख्यास्यामः' इत्यादिना गायत्रीपञ्चद-
श्योरेकरूपत्वं वक्तुं तत्पदककारयोरेवैकार्थत्वमुक्तम् । तन्मूलकत्वेनैवान्या उद्धृताः । त्रि-
शत्यां कामेश्वराभ्यामप्यस्या एवादरः क्रियमाणो दृश्यते । तन्त्रराजे तु तृतीयकूटस्यैव प्र-
थममुद्धारेण तत्रैकैकाक्षरनिवेशेनान्ययोः कूटयोर्लाघवेनोद्धाराय हादिविद्यैवाहृतेति ज्ञेयम् ।
अतएव त्रैपुरसूक्ते 'षष्ठं सप्तममथ वह्निसारथिम्' इत्यृचा कादेः पश्चादेव हादेरुद्धारः
कृतः । 'शिवः शक्तिः कामः' इति सौन्दर्यलहरीस्थश्लोकद्वयं द्वेधापि व्याख्यायत
इति दिक् ॥ १७ ॥ उपासकानामित्यन्ताश्चतस्रो निर्धारणे षष्ठ्यः । उपास्तेः परमं फल-
मुपास्याभेदः । सच परशिवे सार्वकालिक एवास्तीत्युपासकत्वं तस्याप्यविशिष्टम् । कथ-
मन्यथा तस्यादिनाथत्वं तदभेदानुसंधानमस्मदादीनां च संगच्छते । देव्यभेदानुसंधान-
दार्ढ्यबललब्धाभेदेन गुरुणा सह शिष्यस्याप्यभेदानुसंधानाद्देव्यभेदलाभस्य नायैकद्वारक-
तायाः सिद्धान्तरहस्यत्वादित्याशयेनाह—वरः शिव इति । परमशिव इत्यर्थः । तेन
गुणिरुद्रादिनिरासः ॥ १८ ॥ स्पष्टम् । अर्धश्लोकोयम् ॥१९॥ मुख्यत्वे हेतुमाह—यथा-
स्येति । यथा निरवधिकमित्यर्थः । अन्येषां शिवविष्ण्वादीनां नामसहस्रमन्वर्थं तन्नाम-
सहस्रं च तस्येति वा । अथैतत्पाठं विधत्ते । प्रीतय इति तादर्थ्यचतुर्थ्या सर्वेभ्यः कामेभ्य
इत्यादाविव कीर्तनकरणकभावनाभाव्यत्वप्रतीतिः । इदमिति तु धात्वर्थकर्म सक्तूनिति-
वत् । अतएव तेन न्यायेनैव विनियोगभङ्गेन मत्वर्थलक्षणया नामसहस्रकीर्तनेन श्रीमा-
तृप्रीतिं भावयेदिति विधेः पर्यवसितोर्थः । अथवा सोमादिद्रव्याणां यागसाधनत्वेन तृ-
तीयाश्रुतेः प्रत्यक्षत्वाच्च तत्र तथा वाक्यार्थवर्णनेपि प्रकृते नाम्नां वर्णानित्यत्ववादे ताल्रो-
ष्ठपुटव्यापाररूपकीर्तनजन्यत्वात्तन्नित्यत्व वादेपि ध्वनेरनित्यत्वेन कीर्तनजन्यध्वन्यभिव्य-
क्ततया वर्णात्मकद्रव्येषु स्वीकारादनुत्पन्नस्यानभिव्यक्तस्य वा कीर्तनजनकत्वायोगान्नामा-
भिव्यञ्जककीर्तनेनेष्टं भावयेदित्येवार्थः । कीर्तनं चेह वाचिकमानसोभयसाधारणम् ।
नामपठनवन्नामस्मरणस्यापि वचनान्तरेषु फलश्रवणात् । तस्मादिति हेत्वधिकरणन्याये-
नार्थवादः । अनिशं यावज्जीवं । तेनाग्निहोत्रवन्नित्यकाम्योभयरूपमिदं कर्मेति सिध्यति
॥ २० ॥ अथ कीर्तनस्यान्याश्रयेणापि फलसंबन्धमाह—बिल्वपत्रैरितिसार्धेन ।
वचनान्तरेण प्राप्तमन्तर्यागबहिर्यागभेदेन द्विविधमपि पूजनं बिल्वपत्रायन्यतमकरणकं
सौभाग्यभास्करव्याख्या । ११
सद्यः प्रसादं कुरुते तेन्न सिंहासनेश्वरी ।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२ ॥
जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
जपपूजाद्यशक्तोऽपि पठेन्नामसहस्रकम् ॥ २३ ॥
साङ्गार्चने साङ्गजपे यत्फलं तदवाप्नुयात् ।
उपासने स्तुतीरन्याः पठेद्भ्युदयो हि सः ॥ २४ ॥
चक्रराजाधिकरणकमर्चयेदित्येकेन पदेन यच्छब्दयोगादनूद्यते । तत्र तात्पर्यग्राहकाणि
पदान्तराणीति य इष्ट्येत्यादिवाक्य इव नोद्देश्यानेकत्वप्रयुक्तो वाक्यभेदः । नामसहस्रकै-
रिति तु कीर्त्यमानाभिप्रायं कीर्तनपर्यवसायि । तेनार्चनविशेषाश्रितेन नामकीर्तनेन (यद्यपि
रुद्रयामले 'तुलसीबिल्वपत्राणि धात्रीपत्राणि पार्वति । अर्चने चक्रराजस्य नोचितान्येव
सर्वथे'ति निषेधः प्रतीयते तथापि सहस्रनामकरणकार्चने विशिष्य बिल्वपत्राणां विधाना-
न्निषेधस्तदितरकरणकार्चनपरो व्यवतिष्ठते ) ॥ २१ ॥ सद्यः प्रसादं भावयेदित्यर्थः ।
अथ यावज्जीववाक्येन प्राप्तं जीवनावच्छिन्नं कालसामान्यं विशेषेणोपसंहरति
१२ ललितासहस्रनाम ।
इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् ।
चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥ २५ ॥
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ २६ ॥
तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव ।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ २७ ॥
वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् ।
वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम ॥ २८ ॥
नेतरेषां त्रैलोक्यमोहनकवचादिरूपाणां स्तोत्राणां पाठेऽभ्युदयः फले विशेषः ।
अपाठे तु नाङ्गंन्यूनत्वकृतो दोषः । तेन तेषां क्रत्वङ्गत्वबोधकानां तत्तत्प्रकरणस्थवचनानां
विकल्पे पर्यवसायकमिदं वाक्यं । तेन षोडशिग्रहवदितरेषामङ्गत्वं 'नवलक्षप्रजप्तापि
तस्य विद्या न सिध्यती'त्यादितत्तत्प्रकरणस्थवाक्येषु सिद्धिपदं तत्तत्पाठजन्याभ्युदय-
विशिष्टविद्याफलपरमित्यदोषः ॥ २४ ॥ इदं तु न तादृशमङ्गं अपितु नित्यकर्मवत्
संध्यावन्दनवत् । स्वाभाविकप्रतियोगिकविकल्पासहत्वमात्रार्थकोयं वतिः । ततश्च
संयोगपृथक्त्वन्यायेन कीर्तनं क्रत्वर्थपुरुषार्थोभयरूपमिति मन्तव्यम् । अर्चनादिप्रायपाठे-
नाप्युपासनाङ्गत्वमेव द्रढयति । देव्या विद्यायाः । काकाक्ष्यिन्यायेनोभयत्रान्वेति ॥ २५ ॥
भक्तस्य उपासकस्य । अभ्युदयं अभ्युदयकरं । मत्वर्थीयोच् । श्रेयस्करमित्यर्थः । अर्चे-
नादिप्रायपाठादर्चनादितुल्यत्वं माप्रसांक्षीदत आह—भक्तस्येति । जपपूजापेक्षया-
पीति शेषः । तत्फलजनकस्योक्तत्वादिति भावः ॥ २६ ॥ तत्फलजनकत्वमस्य कथमि-
त्याशङ्क्य तत्र निमित्तं वक्तुं स्तोत्रप्रतिपाद्याया देवताया निखिलशिवशक्तिगणोपास्यत्व-
मुखेन सर्वोत्तमत्वद्योतिकां कथामुपक्रमते—तत्रेत्यादिना । नह्यत्र 'अनूयाजान्यक्ष्य-
न्भवसी'ति हेतुवादवत्स्वार्थतातपर्यकत्वद्योतनाय प्रकर्षेण वक्ष्यामीति प्रतिज्ञा । अतएवार्थ-
वादधिया नोपेक्षस्वेति द्योतयितुं शृणु त्वमिति स्वाभिमुखीकरणम् । अवाप्तसकलकामत्येन
देव्याः स्वार्थकामनाभावादाह—भक्तानामिति ॥ २७ ॥ मुखे आदौ गणनीया
मुख्या वशिन्येव मुख्या यासां ता वशिन्याद्याः । आदिना कामेश्वर्यादिकौलिन्यन्तस-
प्तकपरिग्रहः । तासामेवाह्वाने परिकरालंकारेण हेतुगर्भं विशेषणं वाग्देवीरिति । क्रीडा-
विजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिगतयोऽत्र सर्वे दीव्यतेरर्थाः नतु स्वप्नः ।
देवतानामस्वप्नत्वात् । वाचां क्रीडन्ति विजिगीषन्ति द्योतन्ते स्तुवन्तीत्यादिरीत्या वा
वाग्देव्यः । वाङ्मयमात्रे स्वातन्त्र्यात्तासामेव चकारयिषितस्तोत्रार्थमाह्वानमिति भावः ।
इदं वक्ष्यमाणवृत्तान्तरूपम् । अथाध्युष्टश्लोकैरम्बावचनम् । हे वशिन्याद्याः, यतो यूयं
वाग्देवतास्ततो मम वचनं शृणुध्वमिति योजना । युष्माकं वागीश्वरत्वान्मद्वचनश्रवणेपि
भवतीनामेवाधिकार इति प्रोत्साहनं व्यङ्ग्यम् ॥ २८ ॥ ननु वशिन्याद्युपासका देवता
सौभाग्यभास्करव्याख्या । १३
भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।
मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ २९ ॥
मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥ ३० ॥
कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ ३१ ॥
अपि वागीश्वर्यः संपतिताः किंवाज्ञावाक्यश्रवणेनाधिकारिण्य इत्याशङ्क्याह—भवत्य
इति । तत्तश्चेति शेषः सर्वत्राध्याहृत्य योज्यः । प्रकर्षेणोत्कर्षेण लसन्त्यो वाचां विभूतय
ऐश्वर्यं यासां ताः । इतरवैलक्षण्यं प्रकर्षः । सर्वोत्तमत्वमुत्कर्षः । तेन सर्वोत्तमदेवता-
प्रसादलब्धाया विद्याया एव सर्वविद्योत्तमत्वात्तद्वत्य एव सर्वोत्तमस्तोत्रकरणेऽधिकारिण्य
इति ध्वनिः । ननु नकुलीदेव्यादयोऽपि भगवतीप्रसादलब्ध
१४ ललितासहस्रनाम ।
हयग्रीव उवाच ।
इत्याज्ञप्ता वचोदेव्यः श्रीदेव्या ललिताम्बया ।
रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ॥ ३२ ॥
रहस्यनामसाहस्रमिति तद्विश्रुतं परम् ।
ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ ३३ ॥
स्वसेवावसरं प्रादात्सर्वेषां कुम्भसंभव ।
सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः ॥ ३४ ॥
लक्ष्मीनारायणानां च कोटयः समुपागताः ।
गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ ३५ ॥
अङ्कनं नाम चरमश्लोके नामप्रक्षेपः । यथा कामदेवाङ्के राघवपाण्डवीये काव्यलक्ष्म्यङ्के
किरातार्जुनीये च । प्रकृते च यद्यप्यम्बाया अनन्तानि नामानि तथापि ललितेत्यसाधा-
रणं नाम । गुणिरुद्रेश्वरादिपत्नीष्वपि भवान्यादिनामप्रयोगेण तेषां साधारण्यात् । त्रिपु-
रसुन्दरीति नाम्नोऽपि तन्त्रान्तरे प्रतिपत्तिथिनित्यायाः सत्त्वात् । अतः सहस्रनामसमाप्ति-
श्लोके फलश्रुतिचरमश्लोके च ललिताम्बिकेति नाम्न उल्लेखः ॥ ३१ ॥ अथ सार्धनवभिः
श्लोकैः पुनरपि हयग्रीववाक्यम् । अत्र पूर्वश्लोकार्थेन पौनरुक्त्याभावादेवमुक्तम् ।
रहस्यैश्चक्रराजस्य मन्त्रोद्धाररहस्याभ्यां सहितैः । मत्वर्थीयोऽच्प्रत्ययः ॥ ३२ ॥ स्तोत्रना-
म्नोऽन्वर्थकताप्रदर्शनाय तन्निर्वक्ति—रहस्यनामसाहस्रमिति । तद्विश्रुतं परं इतिपदस्य
वारद्वयमन्वयः । रहस्यगर्भितत्वाद्धेतोः रहस्यनामसहस्रमिति परं अतिशयेन विश्रुतं
प्रसिद्धमित्यर्थः । सिंहासने अवस्थानं सर्वेषां दर्शनार्थम् ॥ ३३ ॥ सेवावसरः सेवार्थमव-
काशः । ब्रह्माणीति नायं ब्रह्मशब्दान्डीप् 'इन्द्रवरुणे'त्यादिसूत्रे ब्रह्मशब्दपाठाभावेनानु-
गमायोगात् । अपितु ब्रह्म वेदान्गणति शब्दायते व्याहरतीति यावत् । स ब्रह्माणश्चतु-
र्भिर्वदनैश्चतुर्वेदवक्ता ब्रह्मेत्यर्थः । तस्य स्त्रीत्यर्थे पुंयोगलक्षणो ङीष् । तथाच स्वच्छन्द-
शास्त्रयोगः 'ब्रह्माणीत्यपरा शक्तिर्ब्रह्मणोत्सङ्गगामिनी'ति । ब्रह्माणमानयति जीवयतीति
वा ब्रह्माणी । अतो न 'पुमांस्त्रिये'त्येकशेषप्रसक्तिः । अथवा ब्रह्माणीशब्दो भारती-
कोटिपरः । तत्समेता ब्रह्मकोटय इति शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी
समासः । बहुवचनं कोटिसंख्यापरम् । तेन प्रकृतिप्रत्ययाभ्यां मिलित्वा कोटिगुणिता
कोटिरिति सिध्यति । जलधिसंख्याका ब्रह्माण्यस्तावन्त एव ब्रह्माणश्चेत्यर्थः । अतएव
रुद्रयामले सर्वमङ्गलाध्यानप्रकरणे 'आवृतां ब्रह्मसहितब्रह्माणीकोटिकोटिभि'रित्यादि स्मर्यते
॥ ३४ ॥ लक्ष्मीकोटिसमेता नारायणकोटीनां कोटय इत्यर्थः । रुद्राणामित्यपि रुद्रको-
टीनामित्यर्थकम् । यथाश्रुते तावदेकैकस्य रुद्रस्य कोटिकोटिगौरीसमेतत्वावगतिः स्यात्
पूर्वाभ्यां शक्तिभ्यां सह संख्यायां वैषम्यं च । यदि पुनर्बहुकोटिसंख्याकरुद्रसमुदायस्यैव
विशेष्यत्वाभिप्रायेण गौरीकोटिसमेतत्वरूपं विशेषणं नत्वेकैकरुद्रस्य विशेष्यत्वाभिप्राये-
ङ्कु' (from Ramayana)!
So the typesetter set:
'शङ्ख' (or 'शङ्कु')
Wait, let me look at the letter in line 31:
First: 'श' followed by 'ङ्ख' or 'ङ्कु'?
It looks like 'शङ्ख'!
Second: 'म', 'हा', 'श', then 'ङ्' with 'क' -> 'ङ्क' or 'ङ्कु'.
Let's look closely: can it just be transcribed as "शङ्खमहाशङ्कवृन्द..." or "शङ्कुमहाशङ्कुवृन्द..."?
Wait, look at: "शङ्कुमहाशङ्कुवृन्द..." - if I look at the image:
Letter 1: श
Letter 2: ङ्ख (has the 'ख' ligature, with top bar joining the two lobes of 'ख')
Letter 3: म
Letter 4: हा
Letter 5: श
Letter 6: ङ्क (clearly has the crossbar of 'क')
Wait, does letter 6 have a u-matra? No, it ends flat at the bottom.
Does letter 2 have a u-matra? No.
So it literally looks like: "शङ्खमहाशङ्कवृन्द..." or "शङ्खमहाशङ्कुवृन्द..."!
Wait, let's look at "शङ्खमहाशङ्क": wait, is it possible it's "शङ्ख
१६ ललितासहस्रनाम ।
तेषु दृष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।
तत्र श्रीललितादेवीकटाक्षाक्षेपनोदिताः ॥ ३८ ॥
उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ॥ ३९ ॥
श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।
सर्वे ते विस्मयं जग्मुर्ये तत्र सदसि स्थिताः ॥ ४० ॥
ततः प्रोवाच ललिता सदस्यान्देवतागणान् ।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥ ४१ ॥
इदंच कामराजसंतानाभिप्रायेणोक्तम् । लोपामुद्रासंतानभेदेन विद्याभेदेन च मित्रेशा-
नन्दनाथादीनि बहून्योघत्रयाणि ज्ञानार्णवादिषु द्रष्टव्यानि । दिव्यादिगुरुकमस्तु गुरुपदे-
शादवगन्तव्यः । तत्र सर्वेषामिति संख्याविशेषो महौघपर्यायः । बहुवचनमप्यनन्तानन्त-
परम् । यजुर्वेदसंख्याप्रायपाठे परार्धस्वाहेत्यस्योत्तरमुषेस्वाहेत्यारभ्य सर्वस्मै स्वाहे-
त्यन्ता अष्टौमन्त्राः श्रूयन्ते । तत्रत्याश्चोषाआदयः शब्दाः संख्याः प्रायपाठाल्लक्षलक्षगुणो-
त्तरसंख्यावाचका वक्तव्याः । तदयं संग्रहः । 'उषोव्युष्टिसथोदेष्यन्सुद्यन्नुदित एव च ।
खर्गोलोकश्च सर्वश्चेत्येवमान्नायते श्रुतौ । एताः परार्धात्परतः संख्या ॥
सौभाग्यभास्करव्याख्या । १७
अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः ।
तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ॥ ४२ ॥
प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ।
इदं नामसहस्रं मे यो भक्तः पठतेऽसकृत् ॥ ४३ ॥
मम प्रियतमो ज्ञेयस्तस्मै कामान्ददाम्यहम् ।
श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ ४४ ॥
पश्चान्नामसहस्रं मे कीर्तयेन्मम तृप्तये ।
मामर्चयतु वा मा वा विद्यां जपतु वा न वा ॥ ४५ ॥
कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा ।
मत्प्रीत्या सकलान्कामाँल्लभते नात्र संशयः ॥ ४६ ॥
तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् ।
हयग्रीव उवाच ।
इति श्रीललितेशानी शास्ति देवान्सहानुगान् ॥ ४७ ॥
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ ४८ ॥
पठन्ति भक्त्या सततं ललितापरितुष्टये ।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥ ४९ ॥
विधिः । पूर्वोक्तस्त्वेतदनुवादरूपोऽपि वक्तृश्रोतृभेदाद्विधिरेव । अतएव पुनःश्रवणस्यान-
न्यपरत्वाभावेन शाखाभेदेन पुनःश्रुताग्निहोत्रविधीनामिव न कर्मभेदकत्वम् ॥ ४२ ॥
संप्रदायः प्रवर्तनी इति विधत्ते । भक्तेषु श्रीविद्यादीक्षितेषु वक्ष्यमाणेषु काम्यप्रयोगेषु
सतिसंभवे स्तोत्रावृत्तिः कर्तव्येति विधत्ते — इदमिति । यः सकृदेकवारमपि पठति
॥ ४३ ॥ तस्मै कामान्ददामीति । किमुत बहुवारमित्यनया भङ्ग्या काम्यप्रयोगेष्वा-
वृत्तिविधानाभावेऽप्यस्यैवावृत्तिविधाने तात्पर्यं दाक्षायणयज्ञविधिवत् । अन्यथा होम-
विधेरग्रविन्दुनिपातमात्रेण शास्त्रार्थसिद्धिवत्सकृत्पाठेनैव तत्सिद्धिरावृत्तौ मानाभावा-
त्परिसंख्याद्यर्थं सकृत्त्वविधानस्य वैयर्थ्यापातात् । प्रथमविधावुक्तस्य सदातनत्वस्योप-
संहारार्थमाह—श्रीचक्र इति ! उपलक्षणापायेऽप्युपलक्ष्यानपाय इति न्यायबलल-
भ्यमर्थमाह ॥ ४४ ॥ अशक्तस्य जपार्चनादेः फलमितएव लभ्यमित्याह ॥ ४५ ॥ स्पष्टं
॥ ४६ ॥ अथ अध्युष्टश्लोकैर्हयग्रीववाक्यम् । यद्यप्युपान्त्यश्लोकान्तमेतद्वाक्यमेव ।
तथापि मध्ये ध्यानश्लोकः प्रक्षिप्त इति वदन्तीत्येवमुक्तम् । अम्बाया वचनमुपसंहरति ।
भगवतीच्छारूपायाः शासनाज्ञापरपर्यायप्रवर्तनाय नित्यत्वाच्छास्तीति प्रवर्तमाननिर्देशोऽप्युपपद्यते । 'आक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय
मुक्ति' मितिवत् ॥ ४७ ॥ निगमयति ॥ ४८ ॥ तत्र हेतुं प्रवक्ष्यामीत्युपक्रान्तमर्थमुपसं-
प्रथम शतक: नाम १ से २५० (श्रीमाता से महामाया पर्यन्त भाष्य)
१८ ललितासहस्रनाम ।
आवश्यकत्वे हेतुत्वे मया प्रोक्तो मुनीश्वर ।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥ ५० ॥
अथ ध्यानश्लोकः ।
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥ ५१ ॥
हरन्नेव संगतिदर्शनपूर्वकशिष्यावधानाय प्रतिजानीते ॥ ४९ ॥ आवश्यकत्व इति ॥ ५० ॥
अस्य श्रीललितासहस्रनामस्तोत्रमालामन्त्रस्य । वशिन्यादिभ्यो वाग्देवताभ्य ऋषिभ्यो
नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीमहात्रिपुरसुन्दर्यै देवतायै हृदये । क ४
बीजाय नाभौ । स ३ शक्तये गुह्ये । ह ५ कीलकाय पादयोः । चतुर्विधपुरुषार्थ-
सिद्ध्यर्थे जपे विनियोगाय सर्वाङ्गे । कूटत्रयं द्विरावृत्य बाला वा षडङ्गद्वयं । अथ । ‘ऋषि-
र्गुरुत्वाच्छिरसि ध्येयत्वाद्देवता हृदि । छन्दोक्षरत्वाज्जिह्वायां न्यस्तव्यं मन्त्रवित्तमै’ रित्यादि-
रीत्या ऋषिन्यासस्थानानि प्रपञ्चसारोक्तानि शैवशाक्तादिभेदेन न्यासे मुद्राविशेषाः पदा-
र्थादर्शोक्तास्तत्तद्वासनाश्च जपप्रकरण एवास्माभिर्विवृता इति नेह लिख्यन्ते । माणिक्य-
शब्दात्तस्येदमित्यण् । अर्शाआद्यच् । ततश्च माणिक्यकिरीटवति मौलौ स्फुरन् शोभ-
मानस्तारानायकश्चन्द्र एव शेखरः शिरोभूषणं यस्यास्ताम् । उत्तमपरो वा मौलिशब्दः । माणि-
क्यश्रेष्ठवत्स्फुरन्नित्यादिपूर्ववत् । आसमन्तात्पीनौ पुष्टौ वा ‘ऊधस्तु क्लीवमापीनमि’ति
कोषादूधोवद्वा वक्षोरुहौ यस्यास्ताम् । अलिभिः भ्रमरैः पूर्णरत्नमयं चषकं वाटीम् । ‘चषकं
च कटोरी च वाटिका खारिका तथा । कचोली गाथिका चेति नामान्येकार्थकानि वै’
इति रत्नसमुच्चयेऽभिधानात् तदन्तर्गतस्य मधुनः सुगन्धित्वान्मधुपपूर्णता । यद्वा
‘अलिः सुरापुष्पलिहो’रिति हैमकोशान्मद्यमलिपद्वाच्यं । रत्नं घटे तिष्ठति एतादृशो
रक्तचरणः पञ्चमो द्रवो यस्यास्तामिति । एवं परिभाषायां चतुर्भिः श्लोकैः सहस्रनाम्नः
प्रथमो भागो विवृत इति शिवम् ॥ ५१ ॥
इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । उपोद्घातपरैः श्लोकैः प्रथमा तपिनीकला ॥ १ ॥
इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणसर्वतन्त्रस्वतन्त्रश्रीमन्नृसिंह-
यज्वचरणाराधकेन भारत्युपनामकश्रीमद्गंभीररायदीक्षितसूरिसूनुना
भास्कररायेण भासुरानन्दनाथेतिदीक्षानामशालिना प्रणीते
सौभाग्यभास्करे ललितानामपरिभाषामण्डलभाष्ये
उपोद्घातप्रकरणं नाम प्रथमा कला ।
सौभाग्यभास्करव्याख्या । १९
अथ प्रथमशतकंनाम द्वितीया तापिनीकला ।
अथ परिभाषामण्डले नामारम्भकवर्णानैव विभाजकोपाधीकृत्य द्वात्रिंशद्विधानि वक्ष्य-
माणानि नामानि विवेचयितुमेकपञ्चाशन्मातृकासु ग्राह्यवर्णान्विचिनोति—अक्षु शरा-
च्छरवर्णांस्ततः समानन्त्यमौ कचयोः । अथ मध्यान्यांस्तपयोर्द्वितीयमन्त्ये
त्यजेन्नवमम् ॥ ५ ॥ अक्षु षोडशस्वराणां मध्ये शरात् प्राथमिकपञ्चाक्षराणि गृहीत्वा ।
ल्यब्लोपे पञ्चमी । शरवर्णान् षष्ठादिदशमान्तान् पञ्चवर्णांस्त्यजेत् । ततः अवशिष्टा-
नामेकादशादिषोडशान्तानां मध्ये समान् द्वादशचतुर्दशषोडशान् । कचयोः कवर्गच-
वर्गयोः अन्तिमौ ङकारञकारौ झकारञकारौ च । अथानन्तरे टवर्गे मध्यान्यान्
डकारभिन्नांश्चतुरो वर्णान् । तपयोः तवर्गपवर्गयोः द्वितीयं थकारं फकारं च ।
अन्त्ये यवर्गीयदशाक्षरेषु नवमं लकारं त्यजेत् । तत्तदक्षरादिनामधेयानामभावादिति
भावः ॥ ५ ॥ अतएव 'द्वात्रिंशद्भेदमभिन्ना या तां वन्दे हं परात्परामि'ति सूतसंहितोक्ति-
रेतत्परैकाशयेनाह—इत्थं शिष्टानुष्टुग्वर्णारब्धेषु नामसु तु संख्याः । अर्व-
नटत्रिद्वीष्वेकद्विचतुःकंजपानवरधीराः ॥६॥ इत्थं एकोनविंशतिवर्णानां त्यागे-
नावशिष्टा अनुष्टुग्वर्णाः द्वात्रिंशत्संख्यान्यक्षराणि तैरारब्धेषु नामसु संख्यांवच्म इत्यर्थः ।
तदेवाह सार्धेन । अत्रैकैकं पदमेकैकाक्षरादिनाम्नां संख्येति क्रमः । तथाहि । अर्व ।
अकारादीनि नामानि चत्वारिंशत् ॥ ४० ॥ नट । आकारादीनि दश ॥ १० ॥ इका-
रादीनि त्रीणि ॥ ३ ॥ ईकारादीनि द्वे ॥२॥ उकारादीनिपञ्च ॥ ५ ॥ इषुशब्दस्य बाण-
परत्वेन तदर्थकत्वात् ॥ एकारादि नामंकं ॥ १ ॥ ओकारादीनि । द्वे ॥ २ ॥ अंकरा-
दीनि चत्वारि ॥ ४ ॥ कंज । ककारादीन्येकाशीतिः ॥ ८१ ॥ पान ॥ खकाराद्येकं
॥ १ ॥ पकारात्पूर्वं नकारीयबिन्दुलेखस्तु छन्दोनुसारादनिष्टाभावाच्चोक्तः ॥ वर ।
गकारादीनि चतुर्विंशतिः ॥ २४ ॥ धीरः । चकारादीन्येकोनत्रिंशत् ॥ २९ ॥—किंधू-
पद्बिस्तम्भछलभयमांसे पदे वरः सङ्गः ! प्रकटगयाजलवाटीधुसिधर्मे
माखखोल्कटीकाधीः ॥ ७ ॥ किं । छकाराद्यमेकं नाम ॥ १ ॥ धूप । जकारादी-
न्येकोनविंशतिः ॥ १९ ॥ डकारादीनि द्वे ॥ २ ॥ स्तंभ । तकारादीनि षट्चत्वारिंशत्
॥ ४६ ॥ छल । दकारादीनि सप्तत्रिंशत् ॥ ३७ ॥ भय । धकारादीनि चतुर्दश
॥ १४ ॥ मांसे । नकारादीनि पंचसप्ततिः ॥ ७५ ॥ पदे । पका़रादीन्येकाशीति
॥ ८१ ॥ वरः । वकारादीनि चतुर्विंशतिः ॥ २४ ॥ संगः । भकारादीनि सप्तत्रिंशत्
॥ ३७ ॥ प्रकट । मकारादीनि द्वादशोत्तरशतं ॥ ११२ ॥ गय । यकारादीनि त्रयोदश
॥ १३ ॥ जल । रेफादीनि नामान्यष्टत्रिंशत् ॥ ३८ ॥ वाटी । लकारादीनि चतुर्दश
॥ १४ ॥ धुसि । वकारादीन्येकोनाशीतिः ॥ ७९ ॥ धर्मे । शकारादीन्येकोनषष्ठिः
॥ ५९ ॥ मा । षकारादीनि पञ्च ॥ ५ ॥ खखोल्क । सकारादीनि द्वाविंशत्युत्तरशतम्
॥ १२२ ॥ टीका । हकारादीन्येकादश ॥ ११ ॥ धीः । क्षकारादीनि नव ॥ ९ ॥
२० ललितासहस्रनाम ।
नामानीत्यर्थः ॥ ७ ॥—इत्थं नामसाहस्रं साधकलोकोपकारकं विहितम् ।
गुणगणसदसद्भावावाश्रित्य ब्रह्मणोऽम्बायाः ॥ ८ ॥ इत्थं पूर्वोक्तप्रकारेण ।
साधकानां तत्तन्मातृकाभिमान्यमृताकर्षिणीन्द्राण्यादिक्षमावत्यन्तदेवताः सिसाधयि-
षूणां लोकानामुपकारकमस्माभिर्विहितमुक्तमित्यर्थः । तत्तदक्षरारब्धनामसंख्याज्ञानेन
सद्यः पापाद्विमुच्यत इति । अत्र श्रीमातृशब्देन ललिताम्बायाइव मातृकासरसंख्या-
तदभिन्नानाममृतादीनामपि संग्रह इति सुवचनम् । अथवा देव्या अनन्तेषु नामसु
शीघ्रं साधकोपकारकत्वेन कॢप्तान्येव नामानि वाग्देवताभिरिह संगृहीतानीत्यर्थः । ननु
निर्गुणे ब्रह्मणि धर्मलेशराहित्याद्गुणक्रियाजातिरूढीनां शब्दप्रवृत्तिनिमित्तानामसम्भवाच्च-
तुष्ट्यपि शब्दानां प्रवृत्तिर्न तत्र युज्यत इत्यत आह । गुणगणेति । ब्रह्मणोऽम्बाया इति
• समानाधिकरणे षष्ठ्यौ ॥ ८ ॥ अयं भावः । ब्रह्म द्विविधं । सकलं निष्कलं चेति ।
'द्वे ब्रह्मणी वेदितव्ये परं चापरंचे'तिश्रुतेः स्मृतेश्च । तत्र सकलमपरम् । तद्विविधं ।
जगन्नियामकं जगदात्मकं चेति । तदुक्तम् 'जगन्नियन्ता जगदात्मकश्चे'ति । अन्य-
त्रापि 'शिवः कर्ता शिवो भोक्ता शिवः सर्वमिदं जगत्' इति । 'देवी दात्री च भोक्त्री
च देवी सर्वमिदं जगदि'तिच । 'स्थितिसंयमकर्ता च जगतोऽस्य जगच्च स' इतिच ।
'सोऽकामयत बहु स्यां प्रजायेये'ति श्रुतिश्च । अकामयतेति निमित्तताया बहु स्यामिति
परिणाम्युपादानतायाश्च प्रतीतेः । 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधा'दित्यधिकरणे 'आत्म-
कृतेः परिणामादि'ति ब्रह्मसूत्रं च । तत्र जगदात्मकं ब्रह्म चराचरभेदाद्विविधम् । द्विवि-
धमपि हिरण्यगर्भादिभेदाद्वियदादिभेदाच्चानेकविधम् । जगन्नियन्त्रपि नियमनस्य सृष्टि-
स्थितिलयतिरोधानानुग्रहभेदेनानेकविधत्वाद्ब्रह्मविष्णुरुद्रादिभेदेनानेकविधमेव । तेष्वप्ये-
कैकस्य भक्ताननुजिघृक्षया तत्तद्वासनानुसारेण कार्यभेदेन च गृहीतानां रूपाणामनन्तत्वा-
तत्तद्विशिष्टवेषेणानन्त्यमेव । तदुक्तं सुप्रभेदे 'यतीनां मन्त्रिणां चैव ज्ञानिनां योगिनां
तथा । ध्यानपूजानिमित्तं हि तनूगृह्णाति मायये'ति । कालिकापुराणे 'मायैका भिन्नरूपेण
कमलाख्या सरखती । सावित्री सा च संध्या च भूता कार्यस्य भेदतः' इति । बृहन्ना-
रदीयेऽपि जगत्कर्त्री शक्ति प्रकृत्य 'उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे ।
भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च । दुर्गेति भद्रकालीति चण्डी माहेश्वरीति च ।
कौमारी वैष्णवी चेति वाराही च तथा परे । ब्राह्मीति विद्याविद्येति मायेति च तथा
परे । प्रकृतिश्च परा चेति वदन्ति परमर्षयः' इति । श्रुतिश्च 'एकधा बहुधा चैव दृश्यते
जलचन्द्रव'दिति । देवीपुराणे । 'देव्या वा एष सिद्धान्तः परमार्थो महामते । एषा
वेदाश्च यज्ञाश्च स्वर्गश्च सकलं जगत् । देव्या व्याप्तमिदं विश्वं जगत्स्थावरजंगमम् ।
इज्यते पूज्यते देवैरन्नपानात्मिका च सा । सर्वत्र शांकरी देवी तनुभिर्नामभिश्च सा ।
वृक्षेष्पूर्वो तथा वायौ व्योम्न्यप्खमौ च सर्वश' इति । निष्कलं त्वेकविधमेव । तदेतत्सर्वं
कूर्मपुराणे हिमवन्तंप्रति देवीवाक्येन स्पष्टीकृतम् 'अशक्तो यदि मां ध्यातुमैश्वरं रूप-
मव्ययम् । तदा मे सकले रूपे कालाद्येऽनन्तभेदिनि । यदेव रूपं मे तात मनसो गोच-
रस्तव । तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव । यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं
शिवम् । सर्वोपाधिविनिर्मुक्तमेकमेवामृतं परम् । ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पद-
मि’ति । एवंस्थिते सगुणे ब्रह्मणि शक्त्या शब्दानां प्रवृत्तिर्निराबाधैव । प्रवृत्तिनिमित्त-
भूतानां धर्माणां सत्त्वात् । निर्धर्मके तु शब्दा लक्षणया प्रवर्तन्ते । विशिष्टकेवलयो-
स्तादात्म्यरूपस्य शक्यसंबन्धस्य संभवात् । निर्गुणे मिथ्यारूपस्य संबन्धस्य स्वीकारेऽपि
स्वसमानसत्ताकधर्मशून्यत्वरूपनिर्धर्मकताया ब्रह्मणोऽनपायात् । अतीतानागतघटादि-
विषयकज्ञानीयविषयतासंबन्धस्येवान्यतरस्मिन्संसृष्टत्वमात्रेणैव तादात्म्यस्यापि संबन्ध-
त्वाङ्गीकारसंभवाद्वा । अतएव त्रिशत्यां वक्ष्यते 'लक्ष्यार्थलक्षणागम्ये'ति । अनयाच
रीत्या भगवत्या नामान्यनन्तान्येव । वक्ष्यतिच हया
२२ ललितासहस्रनाम ।
भवति प्रिये' इति नामस्मरणसामान्यस्य मातृचक्रान्तं प्रसिद्धिः फलमुक्तम् । तथापि
चतुर्धाकरणन्यायेन विष्णुधर्मोत्तरवचनेनैतेषामुपसंहारादत्रत्यो नामशब्दो भयापहत्वे-
त्यादिनामविशेषपरत्वेन व्यवतिष्ठते । अतएव नामविशेषाश्रयेण फलविशेषः काशीखण्डे
स्मर्यते 'उमानामामृतं पीतं येनेह जगतीतले । न जातु जननीस्तन्यं स पिबेत्कुंभ-
संभव । उमेति द्व्यक्षरं मन्त्रं योऽहर्निशमनुस्मरेत् । न स्मरेच्चित्रगुप्तस्तं कृतपापमपि
द्विजे'त्यादि । नन्वेवंसति फलश्रुतौ सर्वफलत्वोक्तेरप्यनेनैव न्यायेनोपसंहारः प्रसज्जते ।
ततश्च सर्वरोगप्रशमनीत्यादिना वक्ष्यमाणस्य सर्वफलप्रदत्ववचनस्य नातीव सार्थक्यं ।
नचार्थवादत्वेन सार्थक्यं । वेदे तथा सुवचत्वेऽपि पुराणेष्वसंभवात् । तदुक्तं बृहन्नार-
दीये 'पुराणेष्वर्थवादत्वं ये वदन्ति द्विजाधमाः । तैरर्जितानि पुण्यानि तद्वदेव भवन्ति
वै । समस्तकर्मनैर्मूल्यसाधनानि नराधमः । पुराणान्यर्थवादानि ब्रुवन्नरकमाश्नुते' इत्या-
दीतिचेत् । मैवम् । तत्तन्नाम्नां शक्तिभेदेन फलभेदे सिद्धे तत्समष्ट्यनुवादकत्वेन तत्सा-
र्थक्यसंभवात् । नचानुवादस्याप्यर्थानुवादान्तःपातित्वेनोक्तनिषेधवाक्यविरोधः । तत्र-
त्यार्थवादपदस्यात्मवपोत्खेदनादिवाक्यसमानयोगक्षेमगुणवादपरत्वात् । 'प्रतिमासु
शिलाबुद्धिं कुर्वाणो नरकं व्रजे'दित्यादौ शिलात्वे सत्येव शिलाबुद्धिनिषेधस्य शिलान्तर-
साधारणदेवतानाविर्भावबुद्धिनिषेधपरत्ववत् । वस्तुतस्तु 'सर्वेभ्यः कामेभ्यो दर्शपूर्ण-
मासा' विति वाक्यस्य 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यनेन फलांशेनोपसंहारः । 'न
हिंस्यात्सर्वाभूतानी'तिनिषेधस्य 'न ब्राह्मणं हन्या'दित्यनेनापि नोपसंहार इति सिद्धान्तः ।
विशेषाकाङ्क्षायां सत्यामेवोपसंहारावतारात् । अनयोर्विधिनिषेधयोः सर्वपदघटितत्वेन
विशिष्यविशिष्यैव सर्वेषां फलानां प्राणिनां चोपस्थित्या भावनान्वये कीदृशं फलं किंजा-
तीयः प्राणीति विशेषाकाङ्क्षाया अनुदयात् । तदुक्तं तन्त्रवार्तिके 'सामान्यविधिर्-
स्पष्टः संह्रियेत विशेषतः । स्पष्टस्य तु विधेर्नान्यैरुपसंहारसंभवः' इति । तथाच प्रकृतेपि
सर्वेभ्य कामेभ्य एकैकं नामेति विधिपर्यवसानस्यावश्यकतया 'यच्छक्तिमन्नाम यस्ये'ति
विष्णुधर्मोत्तरवचनस्य पाद्मवायवीयदेवीनामसामान्याश्रितविध्युपसंहारकताया नामांशे
स्वीकारेऽपि फलांशे तदस्वीकारः । सर्वपदघटितस्यैव विधिपर्यवसानस्य बहुभिर्वचनैः
सिद्धत्वात् । तथाच देवीवचनम् 'कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या
सकलान्कामाल्लभते नात्र संशयः' इति । कालिकापुराणेऽपि 'ये स्तुवन्ति जगन्मात-
र्भवतीमम्बिकेति च । जगन्मयीति मायेति सर्वे तेषां प्रसिध्यति' इति । विष्णुपुराणे
देवींप्रति विष्णुवचनम् 'ये त्वां मायेति दुर्गेति वेदगर्भाम्बिकेति च । भद्रेति भद्रकालीति
क्षेम्या क्षेमंकरीति च । प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः । तेषां हि प्रार्थितं सर्वं
मत्प्रसादाद्भविष्यती'ति । याज्ञवल्क्यस्मृतौ 'विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं विनिवेदयेदि'तिविधायोपस्थानमन्त्रं लिङ्गं च स्मर्यते 'रूपं
देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे'
इति । देवीभागवतेऽपि 'न तदस्ति पृथिव्यां वा दिवि प्राप्यं सुदुर्लभम् । प्रसन्नायां