ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 44, कुल 272 में से
संदर्भ में पढ़ें१६ ललितासहस्रनाम ।
तेषु दृष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।
तत्र श्रीललितादेवीकटाक्षाक्षेपनोदिताः ॥ ३८ ॥
उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ॥ ३९ ॥
श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।
सर्वे ते विस्मयं जग्मुर्ये तत्र सदसि स्थिताः ॥ ४० ॥
ततः प्रोवाच ललिता सदस्यान्देवतागणान् ।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥ ४१ ॥
इदंच कामराजसंतानाभिप्रायेणोक्तम् । लोपामुद्रासंतानभेदेन विद्याभेदेन च मित्रेशा-
नन्दनाथादीनि बहून्योघत्रयाणि ज्ञानार्णवादिषु द्रष्टव्यानि । दिव्यादिगुरुकमस्तु गुरुपदे-
शादवगन्तव्यः । तत्र सर्वेषामिति संख्याविशेषो महौघपर्यायः । बहुवचनमप्यनन्तानन्त-
परम् । यजुर्वेदसंख्याप्रायपाठे परार्धस्वाहेत्यस्योत्तरमुषेस्वाहेत्यारभ्य सर्वस्मै स्वाहे-
त्यन्ता अष्टौमन्त्राः श्रूयन्ते । तत्रत्याश्चोषाआदयः शब्दाः संख्याः प्रायपाठाल्लक्षलक्षगुणो-
त्तरसंख्यावाचका वक्तव्याः । तदयं संग्रहः । 'उषोव्युष्टिसथोदेष्यन्सुद्यन्नुदित एव च ।
खर्गोलोकश्च सर्वश्चेत्येवमान्नायते श्रुतौ । एताः परार्धात्परतः संख्या ॥