ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 39, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । ११
सद्यः प्रसादं कुरुते तेन्न सिंहासनेश्वरी ।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२ ॥
जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
जपपूजाद्यशक्तोऽपि पठेन्नामसहस्रकम् ॥ २३ ॥
साङ्गार्चने साङ्गजपे यत्फलं तदवाप्नुयात् ।
उपासने स्तुतीरन्याः पठेद्भ्युदयो हि सः ॥ २४ ॥
चक्रराजाधिकरणकमर्चयेदित्येकेन पदेन यच्छब्दयोगादनूद्यते । तत्र तात्पर्यग्राहकाणि
पदान्तराणीति य इष्ट्येत्यादिवाक्य इव नोद्देश्यानेकत्वप्रयुक्तो वाक्यभेदः । नामसहस्रकै-
रिति तु कीर्त्यमानाभिप्रायं कीर्तनपर्यवसायि । तेनार्चनविशेषाश्रितेन नामकीर्तनेन (यद्यपि
रुद्रयामले 'तुलसीबिल्वपत्राणि धात्रीपत्राणि पार्वति । अर्चने चक्रराजस्य नोचितान्येव
सर्वथे'ति निषेधः प्रतीयते तथापि सहस्रनामकरणकार्चने विशिष्य बिल्वपत्राणां विधाना-
न्निषेधस्तदितरकरणकार्चनपरो व्यवतिष्ठते ) ॥ २१ ॥ सद्यः प्रसादं भावयेदित्यर्थः ।
अथ यावज्जीववाक्येन प्राप्तं जीवनावच्छिन्नं कालसामान्यं विशेषेणोपसंहरति