सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

७० कात्यायनश्रौतसूत्रम् ।
हंसमुखप्रसेकाः प्रसिच्यते क्षार्य्यतेऽनेनेति प्रसेकः प्रणालिका हंसमुखसदृशः
प्रसेकः प्रणालिका यासां ताः हंसमुखप्रसेकाः। सा च प्रणालिका एकैव भवति।
एकयापि शास्त्रार्थस्य कृतत्वात् कार्य्यसिद्धेश्च। न तु द्वे तिस्रो वा, कुत्राप्यनुक्त-
त्वात्। तथा मूलदण्डा मूले दण्डो यासां ता मूलदण्डाः,। अर्थादग्रे पुष्करं
सिध्यति। एवंविधाः स्रुचो भवन्ति। शाखान्तरीयो विशेषः पूर्वसूत्र उक्तः॥३७॥
अरत्निमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करः॥ १ । ३ । ३८ ॥
अरत्निः प्रमाणमस्यासावरत्निमात्रः स्रुवोऽरत्निप्रमाणो भवति । पुनः
कीदृशः अङ्गुष्ठपर्ववृत्तपुष्करः, अङ्गुष्ठपर्वणो वृत्तमाङ्गुष्ठपर्ववृत्तम्, अङ्गुष्ठपर्ववृत्तं प्रमाणं
वृत्तं पुष्करं मुखं यस्यासावाङ्गुष्ठपर्ववृत्तपुष्करः। पर्वशब्दः सन्धवाची सन्धिग्रन्थिः।
तदुक्तम्— “अङ्गुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत्पर्व
ग्रन्थिभिर्मिनुयाद्बुधः” इति । अतोऽङ्गुष्ठस्य बृहत्पर्वग्रन्थिप्रमाणं चतुरस्रं कृत्वा
तदेव मण्डलं चतुरस्रं चिकीर्षन्नित्युपायेन वृत्तं विधाय तत्प्रमाणं स्रुवस्य पुष्करम्।
नासिकावत्खातं च स्यात् ।
तदुक्तं—कात्यायनेन (कर्मप्रदीपे ८-१३) “स्रुवाग्रे घ्राणवत्खातम्”
इति। तथा “पुष्कार्धं भवेत्खातः” इति च ॥ २८ ॥
स्फ्योऽस्याकृतिः ॥ १ । ३ । ३९ ॥
असिः खड्गः असेरिव आकृतिर्यस्य, असावस्याकृतिः। खड्गसदृशः स्फ्यो-
वज्रो भवतीत्यर्थः ॥ ३९ ॥
आदर्शाकृति प्राशित्रहरणम् ॥ १ । ३ । ४० ॥
प्राशित्रमिति ब्रह्मणो भागावदानम्, तत् ह्रियते येन तत्प्राशित्रहरणम् ।
आदर्शो दर्पणः। आदर्शस्येवाकृतिराकारो यस्य तदादर्शाकृति, आदर्शसदृशं वर्तू-
लम्। तत्रावदानविधानाच्च खातवत्प्राशित्रहरणं भवति ॥ ४० ॥
चमसाकृति वा ॥ १ । ३ । ४१ ॥
चमसस्येवाकृतिराकारो यस्य तच्चमसाकृति । वा विकल्पे । अथवा चम-
ससदृशं चतुरस्रं प्राशित्रहरणं भवति ॥ ४१ ॥

चात्त्वालोत्करावन्तरेण सञ्चरः ॥ १ । ३ । ४२ ॥
सञ्चरन्त्यनेनेति सञ्चरः, गमनागमनमार्गः । चात्वालश्च उत्करश्च चात्त्वा-
लोत्करौ, तौ अन्तरेण तयोरन्तरालेन सर्वेषां विहितकार्यार्थं सञ्चरः, गमना-
गमनमार्गो भवति । अयं च सोत्तरवेदिकेषु वरुणप्रघासमहाहविःपशुसोमेषु
ज्ञेयः । चात्वालस्यैष्वेव सत्त्वात् अतः सोत्तरवेदिकेषु सर्वैरनेनैव मार्गेण
गमनागमने कार्ये ॥ ४२ ॥
प्रणीतोत्कराविष्टिषु ॥ १ । ३ । ४३ ॥
अन्तरेण सञ्चर इत्यनुवर्तते । इष्टिषु दर्शपूर्णमासादिषु प्रणीतोत्कराव-
न्तरेण प्रणीतोत्करयोरन्तरालेन सर्वेषां विहितकार्यार्थं सञ्चरः, गमनागमन-
मार्गो भवति ।
अन्तरेणेत्यं निपातोऽन्तरालशब्दार्थे । तद्योगे चात्त्वालोत्करौ प्रणीतो-
त्कराविति च द्वितीया “अन्तरान्तरेण युक्ते” इति ( पाणि. २-३-४ )
सूत्रात् ॥ ४३ ॥
॥ इति तृतीया कण्डिका ॥
( प्रतिनिधिप्रकरणम् )
अथेदं चिन्त्यते व्रीहिभिर्यजेत यवैर्यजेतेत्यादिभिर्वाक्यैः श्रुतौ ये व्रीहि-
यवादयो विधीयन्ते, यदि दैवान्मानुषाद्वा कारणात्ते यागार्थं न लभ्यन्ते, तदा
किं द्रव्यान्तरेण प्रतिनिधिभूतेन तत्कर्मारम्भणीयमुत नेति । तत्र यागस्य प्रधान-
त्वाद्वव्यस्य च गुणभूतत्वाद्वव्यान्तरेण कर्मारम्भे प्राप्त आह—
चोदिताऽनारम्भस्तत्सिद्धित्वात्तस्य ॥ १ । ४ । १ ॥
चोदितस्य विहितस्य श्रुतस्य व्रीहियवादेर्मुख्यद्रव्यस्याभावे अलाभे
अप्राप्तौ सत्यां काम्यस्य कर्मणोऽनारम्भोऽप्रयोग एव भवति । कुतः ? तत्सिद्ध-
त्वात् । तेनैव सिद्धि तस्य भावस्तत्सिद्धित्वं तस्मात्, तस्य काम्यस्य कर्मण-
स्तत्सिद्धित्वात् । यतः काम्यं कर्म तत्सिद्धि तेन श्रुतेनैव चोदितेनैव सिद्ध्यति
नान्येन । यतस्तदेव तस्य साधनत्वेन श्रुतं न द्रव्यान्तरम् । अतो यदि द्रव्यान्तरेण
तत्कर्मारभ्यते तदा कर्मणो यागरूपस्य तदेकसाधनकत्वाद्वव्यान्यत्वे सति यथा-
श्रुतद्रव्यहान्या कर्मणो विगुणत्वमेव स्यात् । न च विगुणात्काम्यात्किञ्चित्फलं
भवति विनष्टशक्तित्वाद्दग्धबीजवत् । न हि काम्यस्यावश्यकर्तव्यत्वं केनचित्प्र-
माणेन सिद्धं यद्वलेन यथाशक्ति प्रयोगं दृढीकृत्य द्रव्यान्तरेणारभ्येत । तस्माच्चो-

७२ कात्यायनश्रौतसूत्रम् ।
दितद्रव्यस्याभावे काम्यस्यानारम्भ एव भवति। अग्रिमेण सूत्रेण नित्ये कर्मणि
विशेषस्य वक्ष्यमाणत्वादिदं काम्यविषयम् ॥ १ ॥
अथ यथाविहितद्रव्याभावे द्रव्यान्तरेणानारम्भे प्राप्त आह—
( नित्ये कर्मणि प्रतिनिधिविचारः )
नियते सामान्यतः प्रतिनिधिः स्यात् ॥ १ । ४ । २ ॥
यथाशक्ति प्रयोगस्य स्थापितत्वान्नित्ये कर्मणि दर्शपूर्णमासादौ श्रुतद्रव्या-
भावे सामान्यतो मुख्यद्रव्यसादृश्यात्प्रतिनिधिर्भवति, श्रुतद्रव्यसदृशेन द्रव्यान्तरे-
णापि नित्यं कर्मारम्भणीयम् । यावज्जीवं चोदनया हि अनारब्धमपि नित्यम-
वश्यं कर्तव्यमिति नियमश्चोद्यत एव । तत्र यागप्रधानचोदना नियमेन यत्किञ्चि-
दर्थाद्द्रव्यमाकाङ्क्षति, सा च ‘व्रीहिभिर्यजेते’ति श्रुतैर्व्रीहिभिर्विद्यमानैरेकवाक्यतां
प्रतिपद्यमानार्थप्राप्तानि

दर्शपूर्णमासाभिधेयं फलवत्, तथापि देशादिभेदवद्ब्रीहियवभेदवच्च नीवारेष्वपि
तत्सामान्यव्यक्तिरेका, अतः सिद्धं द्रव्यभेदेऽपि कर्मैकत्वम् ।
एवं द्रव्यभेदेऽपि कर्मैकत्वे सिद्ध इदं सन्दिह्यते-श्रुतद्रव्याभावेऽपि किं
यत्किञ्चिद्विसदृशमपि प्रतिनिधित्वेन ग्राह्यम्, उत श्रुतसदृशमेवेति । तत्राष्टाक-
पालचोदना येन केनचिन्निर्वर्त्स्यते, तत्किं सदृशोपादानेन ? न च व्रीहिसदृश-
त्वाद् व्रीहिफलं नीवाराः साधयन्तीति वाच्यम्, यदि तथा स्यात्तदा व्रीहिभिर्वि-
कल्पेरन्नेकार्थत्वाद्यववत् । न चैतदिष्टम् । तेन सगुणासम्भवे विगुणोऽप्याग्नेय-
चोदनार्थः कर्तव्य इतिकृत्वा द्रव्यान्तरोपादानं तत्र च सदृशासदृशयोनस्ति
विशेषः । तस्मान्न सदृशोपादानमित्येवं प्राप्ते ब्रूमः-
फलार्थिना यथाश्रुतं व्रीह्या

७४ कात्यायनश्रौतसूत्रम् ।
तदुक्तम् " यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् ।
यवानाभिव गोधूमा व्रीहीणामिव शालयः ॥ " इति ।
अत एवं सिद्धम्-नित्ये कर्मण्यारब्धे च प्रतिनिधिर्भवति, अवश्यकर्त्त-
व्यतया यथाशक्तिप्रयोगस्य स्थापितत्वात् । काम्ये पुनरवश्यकर्त्तव्यत्वाभावा-
दनारब्धे मुख्यद्रव्यालाभे आरम्भो न भवतीति प्रागुक्तम् ॥२॥
अथ काम्ये प्रारब्धे सति पश्चाच्छ्रुतद्रव्यस्य नाशदोषापहाशलाभादौ जाते
तस्य विगुणस्य फलसाधकत्वाभावस्य प्रागुक्तत्वात्प्रयोजनाभावेन काम्यं न
समापनीयमिति प्राप्त आह-
( काम्ये विशेषः )
आरम्भान्नियमः ॥ १ । ४ । ३ ॥
काम्येऽप्यारम्भादूर्ध्वं समाप्तेर्नियमोऽवश्यम्भावः । आरम्भादिति हेतौ
पञ्चमी । तेनारम्भ एव समाप्तेः कारणम् । यत आरब्धमतोऽवश्यं समापनीयमेव ।
समाप्तिश्च मुख्याभावे प्रतिनिधिमुपादानं विना न भवति । अतः काम्येऽपि आर-
ब्धस्य समापनार्थं प्रतिनिधिर्भवत्येव । नित्येऽप्यवश्यकर्त्तव्यतैव प्रतिनिधिमुपादाने
कारणम् । सा चारब्धे काम्येऽप्यवशिष्टा । आरम्भस्तु काम्यस्य विहितद्रव्याभावे
द्रव्यान्तरेण न भवत्येव, अनारब्धस्यावश्यकर्त्तव्यत्वाभावात् ॥३॥
दोषश्चासमाप्तौ स्यात्सामान्यात् ॥ १ । ४ । ४ ॥
किञ्च प्रारब्धस्य काम्यस्यासमाप्तावस Flow? -समापने दोषः स्यात् । कुतः ? सा-
मान्यात् , आरब्धस्य काम्यस्यावश्यकर्त्तव्यता नित्येन समानत्वात् । यथा नित्य-
कर्मणामकरणे यथा शिष्टविगर्हणम्, एवं प्रारब्धानां काम्यानामसमापनेऽपीति ।
अतः शिष्टविगर्हणरूपाच्छिष्टाचारात्स्मृतिं स्मृतेश्च श्रुतिं कल्पयित्वा प्रक्रान्तं
शास्त्रीयं कर्मावश्यं समापनीयम् ।
अपि च प्रक्रान्तस्यासमाप्तौ निन्दाप्रायश्चित्ते तैत्तिरीये श्रूयेते "देवताभ्यो वा
एष आवृश्च्यते यो यक्ष्य इत्युक्त्वा न यजते, त्रैधातवीयेन यजेत न तेन देवताभ्य
आवृश्च्यते " इति । तस्मादप्यारब्धमवश्यं समापनीयम् । तदुक्तं जैमिनिना
"प्रक्रमात्तु नियम्येतारम्भस्य क्रियानिमित्तत्वाद्" (६-२-१०) इति ॥४॥

देवयाज्ञिकभाष्यसमेतम् । ७५
दर्शनाच्च ॥ १ । ४ । ५ ॥
श्रुतौ मुख्यद्रव्याभावे द्रव्यान्तरेण परिसमाप्तिदर्शनाच्चैवमवसीयते, यन्मु-
ख्यद्रव्यस्याभावे द्रव्यान्तरं प्रतिनिधेयमिति । तद्यथा “यदि सोमं न विन्देत्पू-
तीकानभिषुण्णुयाद्” इति, अत्र सोमेऽपहृते सोमाभावे सति तत्स्थानेपूतीकानाम-
भिषवं विदधाना पूतीकैर्यागः समापनीय इत्यमुमर्थं दर्शयति ॥ ५ ॥
एवं दर्शन उक्ते दर्शनस्वरूपकथनपूर्वकमस्य दर्शनत्वमाक्षिपति—
अन्यार्थं दर्शनं न पुनर्ग्रहणात् ॥ १ । ४ । ६ ॥
अन्यार्थं सत् दर्शनं भवति, तद्धि दर्शनं कथ्यते यदन्यविधिपरं सत्
प्रसङ्गादन्यमर्थं ज्ञापयति, यथा “तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणागाथी
दक्षिणतः” इत्यादि “गाथा गायति” (१३-४-२-८) इत्यन्तं वाक्यं गाथा-
गानविधिपरं सदस्यामिष्टौ प्रयाजान्त्सिद्धान्दर्शयति ।
“यदि सोमं न विन्देत्” इतीदं तु तादृशं दर्शनं न भवति' कुतः,
पुनर्ग्रहणात् सोमाभावे सति पुनर्द्रव्यान्तरस्य पूतीकलक्षणस्याप्राप्तस्य ग्रहणात्
विधानात् । तथा हि “यदि सोमं न विन्देत्पूतीकानभिषुण्णुयायादि”ति कि मियं
सोमाभावे द्रव्यान्तरविधिः सोमाभावे पूतीकैर्यागं साधयेदिति सोम जातिवत्पू-
तीकजातेर्यागसाधनपरिच्छेदकत्वेन विधीयते, उत प्रतिनिधिनियमः, सोमा-
भावे सुसदृशेष्वीषत्सदृशेष्वपि प्राप्तेषु पूतीका नियम्यन्ते, यदा चैवन्तदा द्रव्या-
न्तरेण परिसमाप्तदर्शनं भवति । अधुनात्वेतदाक्षिपति, अत्र सोमेन यजेतेति
सोम उत्पत्तिशिष्टः, अतः सोमानुरक्तस्यैव करणत्वात्तदसम्भवे करणत्वमेव हीये-
तेति न प्रतिनिध्यपेक्षा । कुतः तन्नियमार्थता विधेः, दर्शपूर्णमासयोस्तु व्रीहीणा-
मनुत्पत्तिशिष्टत्वान्नीवारैः कर्मस्वरूपस्य भेदो न भवति, तेन तत्र प्रतिनिधिर्यु-
ज्यते । किं च नियमार्थो विधिरित्येतदप्ययुक्तम् , न हि सोमस्य सुसदृशे
द्रव्यान्तरे सतीषत्सदृशः पूतीकः पक्षेऽपि प्राप्तः, सुसदृशे हि बहवः श्रुतद्रव्याव-
यवाः सङ्गच्छन्ते, अल्पास्त्वीषत्सदृशे, न च भूयोनुग्रहे सम्भवत्यल्पानुग्रहो युक्तः ।
तस्मादत्यन्त प्राप्त्यभावे विधीयमानाः पूतीका न नियमार्था भवन्तीति, तस्मा-
त्सोमाभावे अप्राप्तानां पूतीकानां यागसाधनत्वेन विधिरिति साधूक्तम् , न पुन-
र्ग्रहणादिति ॥ ६ ॥
अथ सिद्धान्तमाह—
अन्यार्थं पुनर्ग्रहणम् ॥ १ । ४ । ७ ॥
“पूतीकानभिषुण्णुया”दित्येतत्पुनर्ग्रहणमेवान्यार्थपूतीकरूपप्रतिनिधिनियम-

र्थमित्यर्थः, न तु अप्राप्तानां पूतीकानां विधानार्थम्, विचारस्यैतत्प्रयोजनम्,
प्रतिनिधिनियमपक्षे पूतीकविनाशे सोमसदृशस्योपादानं द्रव्यान्तरविधाने तु पू-
तीकसदृशमुपादेयमिति। कथमन्यार्थमिति चेत्, उच्यते, प्रक्रान्तं कर्म तावदवश्यं
समापनीयमेव, अतो द्रव्यान्तरोपादानं प्राप्नोत्येव। ननूक्तम् सोमस्योत्पत्तिशिष्ट-
त्वान्न प्रतिनिधिमपेक्षेति, तत्रोच्यते, यजेतेत्येतत्पदं यत्किञ्चिद्द्रव्यमपेक्षमाणं सो-
मेनेति निराकाङ्क्षीक्रियते, यथाग्नेयोऽष्टाकपाल इति वाक्यं वाक्यान्तरेण व्रीहि-
भिर्यजेतेत्यनेन, पदान्तरवाक्यान्तरप्राप्तयोर्नैव कश्चिद्विशेषोऽस्ति, अपेक्षाया-
स्तुल्यत्वात्, अतः तदङ्गत्वप्रतिनिध्यपेक्षा भवत्येव। यच्चोक्तम्, सत्यपि प्रतिनिधिना
पूतीकानामीषत्सदृशत्वात्प्राप्तिर्नास्तीति, अभावविधिरे

देवयाज्ञिकभाष्यसमेतम् । ७७
शनस्तुत्यर्थः । “पुराकेशश्मश्रुवर्वपनात् यत्कामयेत तदश्नीयात् ” इतीष्टाशनं हि
प्रकृत्यैतच्छ्रूयते “व्रतᳪहे वास्यातोऽशनं भवति” इति । अतस्तत्संस्तव एवा-
यम्-अतो न स्वार्थे प्रमाणमिति न प्रतिनिधिनिवारणाय प्रभवति, तस्माद् व्रते-
ऽपि प्रतिनिधिर्भवत्येव । अथ चैवं सूत्रयोजना नियमशब्दव्रते प्रतिनिधेरप्रसङ्ग
इति युक्तं तन्नेति ॥ ८ ॥
एवमप्रसङ्ग इत्याकार प्रश्लेषः कार्यः
अथेदं चिन्त्यते, विहितस्य द्रव्यस्याभावे द्रव्यान्तरे प्रतिनिधित्वेनोपात्ते
छागाभावे मेषरूपे अनुवाचनप्रैषादौ किमूहं कृत्वा प्रतिनिहितद्रव्यशब्दस्य
प्रयोगः कार्यः, अग्नीषोमाभ्यां मेषस्य वपाया इत्येवम्, उत विहितद्रव्यशब्दस्यैव
अग्नीषोमाभ्यां छागस्येत्येवमेवेति (३-८-२-२६) । तत्र मन्त्रेण द्रव्यमभिधेयम्,
न चानूहितः प्रतिनिहितं द्रव्यं शक्नोत्यभिधातुम्, तस्मादूहित्वा प्रतिनिहितद्रव्य-
वाचिशब्दस्य प्रयोगे प्राप्त आह,
(प्रतिनिहितद्रव्यस्य श्रुतद्रव्याभिधायकशब्देनैवाभिधानम् )
शब्देऽविप्रतिपत्तिः ॥ १ । ४ । ९ ॥
प्रतिनिधावुपात्तेऽपि विहितद्रव्यवाचिनि शब्दे अविप्रतिपत्तिरविपरिणामः
अनूहो भवति, अग्नीषोमाभ्यां छागस्य वपाया इत्यनूहितमेव मेषेपि प्रयोज्यम्,
न तु मेषस्येत्येवं विपरिणतरूपमित्यर्थः। कुतः? प्रतिनिधिः श्रुतद्रव्यबुद्ध्या गृह्यते न
तु द्रव्यान्तरबुद्ध्या, अतश्छाग एवायमिति बुद्ध्या गृहीतत्वाच्छब्देनैवाभिधानम् ।
यद्यत्र मेषच्छागवत्साधनं भवेत्ततस्तत्प्रकाशकं मेषपदं प्रक्षिप्येत, न त्वेवम्; किं-
तर्हि, मेषगता ये छागांशास्त एवात्र साधनं ते च छागगता इव मेषगता अपि छा-
गशब्देनैव प्रकाशयितुं शक्यन्त इत्यनूहेनैव प्रयोगः । यत्र तु द्रव्यान्तरं वचनेन
विधीयते यथा “सरस्वतीं मेषीम्”ति (१३-२२-४) “ऐन्द्रं मेषम्”ति “ऐन्द्र
ऋषभः सारस्वतीं मेषीम्”ति तत्र द्रव्यान्तरबुद्धिर्भवति । तत्रोहोऽपि भवति । न
चात्रैवंविधं किमपि वचनमस्ति, तस्माद्बहूनामवयवानां सामान्याच्छ्रुतद्रव्यमेवेद-
मिति बुद्ध्या मेषादिद्रव्यस्य छागादिप्रतिनिधित्वेनोपादानम्, तेन श्रुतद्रव्यशब्दे-
नैवाभिधानं युक्तमिति साधूक्तम्, शब्देऽविप्रतिपत्तिरिति ॥ ९ ॥
यत्र तु वचनेन द्रव्यान्तरं विधीयते तत्र ऊहो भवतीत्युक्तम् “तेन सोमा-
भावे पूतिकानभिषुणुयात् ” इति पूतिकानां वाचनिकत्वादूहो भविष्यतीत्या-
शङ्क्याह—

७८ | कात्यायनश्रौतसूत्रम् ।

[ पूतीकानां सोमशब्देनैवाभिधानम् ]

सोमेन जात्याभावात् ॥ १ । ४ । १० ॥

सोमेनेति तृतीयैकवचनम्, सोमाभावे पूतीकेषूपात्तेषु सोमेनेति सोमश-
ब्देनैव पूतीकानामभिधानं कर्तव्यम् अंशुंरंशुष्टे देवसोमप्यायतामित्येवम् ( ३, ४,
३, १८,) न तु पूतीकाशब्देन ।
अथवा सोमे इति सप्तम्येकवचनम् नेति निषेधः,
सोमप्रतिनिधित्वेनोपात्तेषु अर्जुनश्येनहृतपूतीकादिषु सोमे सोमशब्दे
ऊहो न भवति । कुतः ? जात्याभावात् जात्यन्तरबुद्ध्यभावात् , न ह्यत्र वचनेन
द्रव्यान्तरं विधीयते, किं तर्हि, सोमाभावे यागस्यावश्यकर्तव्यत्वादनेकेषु सुसदृ-
शेष्वीषत्सदृशेषु च प्राप्तेषु पूतीकादेर्नियमः क्रियते, तेनैन्द्रो मेष इतिवद्वाचनि-
कजात्यन्तरविधानाभावादत्राप्यूहो न भवतीति ॥ १० ॥
अथेदं विचार्यते—वरुणप्रघासेषु पशौ च श्रूयते “पृषदाज्यं गृह्णाति”
(३,८,४,७,) तेनानुयाजेषु चरतीति च, प्रकृतौ चाज्यपदसंयुक्तनियमाः “सन्ति दे-
वानाज्यपानावह स्वाहा देवानाज्यपान् (१,४,२,१७,) देवानामाज्यपानां प्रिया
धामानि” (१,७,३,११,) “देवा आज्यपा आज्यमजुषन्ते”ति च, (१,३,१,१०)
आज्यपशब्देनात्र प्रयाजानुयाजदेवता उच्यन्ते “प्रयाजानुयाजा वै देवा आज्य-
पा” ( १,४,२,१७,) इति वाक्यशेषात् , अत्र च पृषदाज्येनानुयाजा इज्यन्ते,
तदिह संशयः आज्यपशब्दस्थानेऽज्यदधिपानित्येवमूहः अथवा दधिपानिति उत
पृषदाज्यपानिति आहोस्विदविकारेणैवाज्यपानिति प्रयोगः, यद्युभयं हविस्ततः
प्रथमः पक्षः, यदि दध्येव ततो द्वितीयः, यदि पृषदाज्यनामकं द्रव्यान्तरं हवि-
स्ततस्तृतीयः, अथ त्वाज्यमेव हविः तस्य तु पृषत्त्वं चित्रता संस्कारमात्रम् तज्जन-
नार्थं च दधि ततः सिद्धान्तः । तत्र “अथ पृषदाज्यं गृह्णाति द्वयं वा इदꣳ सर्पि-
श्चैव दधि चेति” ( ३,८,४,७,) तुल्यवत्सङ्कीर्तनादुभयं हविः उभयमप्यनुष्ठा-
नाङ्गत्वेन स्मर्तव्यम् तस्मादुभयोः प्रकाशनम् , अथवा शाखान्तरे द्विरुपस्तृणाति
द्विरवद्यति सकृदभिघारयती”त्युपस्तरणाभिघारणवादाद्दधिसंस्कारार्थमाज्यम् द-
ध्येव हविः, ततो दधिपानित्येवं वक्तव्यम् , नैतदुभयम् , ग्रहणे हि दध्याज्ययो-
स्तुल्यत्वं दध्नो वा प्राधान्यं गम्यते, यागेत्वाज्यमेव पृषत्तागुणकं करणत्वेन श्रुत्या
विधीयते, नोभयम् , नापि दधि, यच्च यागद्रव्यम् तदर्थो ग्रहणसंस्कारः, तस्मा-

[Header] देवयाज्ञिकभाष्यसमेतम्। ७९

द्रूहणेऽप्याज्यमेव प्रधानम्, तस्य तु पृषतासम्पादनार्थं दधि गृह्यते, न स्वार्थेना-
नुपयोगित्वात्, तथाविधे तु दध्नि तुल्यनिर्देश उपस्तरणादिवादेन च प्राधान्य-
निर्देशोऽर्थवादमात्रम्, तस्मादविकारः। अन्यस्त्वाह, दध्ना आज्येन च द्रव्यान्तरं
निष्पद्यते, तस्य वाचकः पृषदाज्यशब्दः, तच्च हविः पृषदाज्येनानुयाजान्यज-
तीति, तस्मात्पृपदाज्यपानित्येवं वक्तव्यमिति प्राप्त आह—
(पृषदाज्यस्यापि आज्यशब्देनैवाभिधानम्)
आज्येचादर्शनात् ॥ १।४।११॥
अविप्रतिपत्तिरित्यनुवर्तते। पृषदाज्येनानुयाजान्यजतीति वाचनिके पृष-
दाज्ये सत्यपि आवाहनादि निगमेषु आज्ये आज्यशब्दे अविप्रतिपत्तिरविकारः,
देवानाज्यपानित्येव वक्तव्यमित्यर्थः। कुतः? अदर्शनात्, आज्यव्यतिरिक्तस्य
द्रव्यान्तरस्यादर्शनात्, तथाहि स्याद्विकारो यदि पृषदाज्यशब्दः समुदायशक्त्या
द्रव्यान्तरमभिधत्ते, न त्वेवमस्ति, पृषच्छब्दो लोके चित्रवचनः, पृषद्रज्जुः पृष-
न्ममणिरिति तेन पृषदाज्येनेति चित्रेणाज्येनेत्यर्थः, तेन प्राकृतस्यैवाज्यस्य चित्र-
तागुणमात्रविधानम्, गुणश्च सम्पादयितुं दधि गृह्यते प्राधान्यनिर्देशोऽर्थवाद-
मात्रम्, हविरेव च प्रकृतावुपलक्षितम्, न हविर्गुणः तस्मादधिकारेणाज्यपानित्येव
वक्तव्यमिति सिद्धान्तः ॥११॥ किं च,
पशौ मन्त्रवर्णात् ॥ १।४।१२॥
पशावेवोत्तमप्रयाजमैषे पठ्यते, “स्वाहा देवा आज्यपा” इति [२१,
४०,], वनस्पतिप्रैषेऽपि “देवानामाज्यपानां प्रियाधामानि” [२१,४६] इति
स्विष्टकृत्प्रैषेऽपि “अयाड् देवाञ्आज्यपानाम्” [२१,४७,], इति तत्र नियमतः
पृषदाज्येनैवानुयाजा इज्यन्ते, अत एव पशुसम्बन्धिनो मन्त्रवर्णाद्देवानाज्यपा-
नित्यावाहनादि भवतीति गम्यते ॥१२॥ किं च,
श्रुतेश्च ॥ १।४।१३॥
एकवचनश्रुतेरप्यत्रैकस्यैव प्रधानं गम्यते नोभयोः, अथ, “पृषदाज्यं गृ-
ह्णाति” इति (३, ८, ४, ७) यदि चात्र दध्नोऽपि प्राधान्यं स्यात्तदा द्विव-
चनं श्रूयेत, न च श्रूयते, अत एकवचनश्रुतेरप्ययमेवार्थोऽवसीयते यदेकस्यै-
वात्र प्राधान्यमिति तत्त्वाज्यस्यैवेति प्राक्साधितम् ॥१३॥
अथेदं विचार्यते “व्रीहिभिर्यजेत” “यवैर्यजेत” इतिविकल्पेन विहितेषूभयेषु
मध्ये एकेन व्रीहिद्रव्येण प्रारब्धे कर्मणि तस्य नाशदोषापहारादिके जाते पश्चाद्य-

or प्रतिनिधेयम्?
LOOK AT LINE 18:
विकल्पे प्रवृत्तं यवादिकन्न प्रतिनिधिषेयम् ???
Wait! Look at line 18:
विकल्पे प्रवृत्तं यवादिकन्न प्रतिनिधिषेयम् or प्रतिनिधेयम्?
Let's read character by character:
प्र ति नि धि षे य म्!
Wait! Is that षे or धे?
It has a loop with a diagonal slash inside? No, it's धे!
Wait, compare धे in प्रतिनिधेयम् with षे:
In Devanagari, ध has a curl at the top left. प्रतिनिधेयम्: प्र ति नि धे य म्!
Ah, it's प्रतिनिधेयम्! There are only 5 syllables: प्र-ति-नि-धे-यम्. Not प्रतिनिधिषेयम्!
Wait, why did I think 6 syllables earlier? Let's look at line 18:
यवादिकन्न (य-वा-दि-क-न्न)
प्रतिनिधेयम् (प्र-ति-नि-धे-यम्) -> wait, is that प्रतिनिधेयम्?
Yes

Here is the line-by-line transcription of the Sanskrit text from the image:

देवयाज्ञिकभाष्यसमेतम् । ८१
( प्रतिनिधिनाशे श्रुतसदृशस्योपादानम्, न प्रतिनिधिसदृशस्य )
प्रतिनिधाै तत्कालात् ॥ १।४। १५ ॥
प्रतिनिधिद्रव्ये नीवारादौ विनष्टे न प्रतिनिधिभूतनीवारादिसाम्येन प्रति-
निध्युपादानं किन्तु मुख्यद्रव्यमेव व्रीहिरूपमुपादेयम् सम्भवे, तदसम्भवे तु मुख्य-
सादृश्येन नीवारादिः प्रतिनिधिरुपादेयः, न तु प्रतिनिहितनीवारसादृश्येन ।
कुतः ? तत्कालात् । स कालो यस्यासौ तत्कालः, भावप्रधानो निर्देशः, प्रतिनिधे-
स्तत्कालत्वादित्यर्थः । यतः प्रतिनिधेः स एव कालो यो मुख्यद्रव्यस्याभावः, तेन
प्रतिनिधाै नीवारे विनष्टे मुख्यस्य लाभे मुख्यमेव ग्राह्यम्, तदलाभे नीवारादिकं
व्रीहिसदृशमेवेति, न तु कदाचिन्नीवारसदृशमित्यर्थः । न हि नीवाराणामङ्गत्व-
मस्ति, श्रुतिलिङ्गादिप्रमाणा

८२ कात्यायनश्रौतसूत्रम् ।
नत्वम्, तेन मुख्यद्रव्ये सति भ्रान्त्या प्रतिनिधिद्रव्येण यागे कृते पुनर्मुख्य-
द्रव्येण यागावृत्तिः ॥ १५ ॥
अथ यत्रार्थद्रव्ययोर्विरोधस्तत्र कथम् । तद्यथा मुख्यं द्रव्यं खादिरादिकं
नियोजनादिकार्यासमर्थं विद्यते, प्रतिनिधिद्रव्यं च कार्यसमर्थम्, तत्र यदि
मुख्यं द्रव्यं गृह्यते, तदा तेन कार्यं नियुक्तपश्वनपक्रमणरूपं न सिध्यति, यदि च
कार्यसिद्धिसमर्थं प्रतिनिधिद्रव्यं गृह्यते तदा मुख्यद्रव्यं गृहीतं न स्यात्, तत्रैवं
सन्देहः, किं कार्यसाधनासमर्थमपि मुख्यं ग्राह्यम्, उत मुख्यमनादृत्य कार्यसमर्थं
प्रतिनिधिद्रव्यमिति, तत्र मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति न्यायेन मुख्यस्यैव
परिग्रहे प्राप्ते सिद्धान्तसूत्रम्—
( कार्यासमर्थश्रुतद्रव्यसत्त्वेऽपि तत्समर्थप्रतिनिधेरेवोपादानम् )
अर्थद्रव्यविरोधेऽर्थसामान्यं तत्परत्वात् ॥ १ । ४ । १६ ॥
अर्थः प्रयोजनं कार्यमिति यावत्, द्रव्यं मुख्यद्रव्यम्, अर्थद्रव्यविरोधे
कार्यमुख्यद्रव्ययोर्विरोधे सति अर्थसामान्यम्, अर्थेन प्रयोजनेन कार्येण सामा-
न्यम् संयुक्तं कार्थसिद्धिसमर्थं यत् तदश्रुतमपि प्रतिनिधिद्रव्यमुपादेयम् । कुतः ?
तत्परत्वात्, द्रव्यस्यार्थपरत्वात्, कार्यार्थत्वात्, कार्यार्थं हि द्रव्यं न त्वदृष्टार्थम्,
येन च कार्येन सिध्यति तच्छुतमपि सहश्रुतसममेव, अतो द्रव्यस्य प्रयोजनार्थ-
त्वात्तद्विरोधे तु श्रुतमप्यनादृत्य प्रयोजनक्षममेवाश्रुतमपि प्रतिनिधिद्रव्यमेवो-
पादेयम्, नतु मुख्यं कार्यासमर्थमिति सिद्धान्तः ।
तदुक्तं जैमिनिना “ अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तिर्द्र

श्रीहिशास्त्रस्य नात्यन्तबाधोऽपि, व्रीह्युपादाने तु शेषकार्याणामत्यन्तलोपः स्यात्,
[अतः] प्रधानाङ्गभूतपुरोडाशजात्यभिव्यक्तिमात्रसमर्थेषु सत्स्वपि व्रीहिषु शेष-
कार्यविध्यबाधाय नीवारा एवोपादेया इति पूर्वः पक्षः।
सिद्धान्तस्तु, श्रुत्या तावद्यागाङ्गत्वमेव व्रीहीणामवगम्यते, वस्तुतोऽपि
तथा, यद्यपि पुरोडाशप्रकृतित्वं व्रीहीणामवगम्यते, तथापि तदवयवा एव
पुरोडाशतामापन्ना यागद्रव्यं भवन्ति, ते च नीवारेषूपादीयमानेषु विगुणा
भवन्ति, ततश्च प्रधानमेव विगुणं स्यात्, तच्चान्याय्यम्, तस्मात्प्रधानाङ्गभूतपुरो-
डाशजात्यभिव्यक्तिसमर्थेषु सत्सु शेषकार्याण्यनादृत्य व्रीहिभिरेव पुरोडाशः कार्यो
न शेषकार्यानुरोधेन नीवारोपादानमिति सिद्धम् । तदुक्तं मण्डनेन “अवत्तमात्रप-
र्याप्तव्रीहिद्रव्यस्य सम्भवे पुरोडाशमहत्वार्थं न नीवारपरिग्रहः” इति ॥
एवं सान्नाय्येऽपि प्रधानयागसाधनसमर्थे स्रुवद्वयत्रयपरिमाणमपि यावत्
दुग्धं लभ्यते कथंचित् तावत् चरुसान्नाय्यालाभ” इति-चरू न भवतः, अव-
दानमात्रसमर्थमुख्यद्रव्याभावे त्वर्थद्रव्यविरोधेऽर्थसामान्यम् ” (२५,५,६)
इति न्यायेन प्रतिनिधिमुपादानमेव युक्तम् ॥१६॥
अथ यत्र गुणद्रव्ययोर्विरोधस्तत्र कथम् । तद्यथा “नैर्ऋतः परिवृत्यै कृष्णव्री-
हीणां नखनिर्भिन्नानाम्” (१५,३,१४,) इति

८४ कात्यायनश्रौतसूत्रम् ।
न समत्वात् ॥ १ । ४ । १८ ॥
द्रव्यमेव प्रधानयोगीति यदुक्तम् तन्न, कुतः ? समत्वात्, उभयोर्गुणद्रव्ययोः
सहश्रुत्वात् । द्रव्यमपि प्रधानयोगि श्रुतत्वाच्च गुणोऽपीति ॥ १८ ॥
एवं प्राप्त उक्तमेव सिद्धान्तं दृढयति—
गुणानुग्रहात् ॥ १ । ४ । १९ ॥
गुणेनानुगृहीतं विशेषितं द्रव्यमेव प्रधानयोगि, गुणस्तु तत्र विशेषणमात्रम्,
विशेष्यं तु द्रव्यमेव, अतो विशेषणविशेष्ययोर्विशेष्ये सम्प्रत्यय इति न्यायाद्द्रव्य-
मेव गुणानुगृहीतं प्रधानयोगीति नैतदुभयं समम् । अत एवाग्निहोत्रे “पुंवत्साया
अग्निहोत्र्याः” (४,१४,१) पयसोऽभावे पुंवत्सत्वलक्षणं गुणं हित्वा स्त्रीवत्साया
अप्यग्निहोत्र्याः पयसा होतव्यम् । एवं पालाशानां परिधीनामाद्रीणामभावे
(२,८,२०) आर्द्रत्वरूपं गुणं त्यक्त्वा शुष्का अपि पालाशा ग्राह्याः । बाहुमात्रा
णामसम्भवे (२,८,१,) अबाहुमात्रा अपि । एवं सर्वत्रोह्यम् ॥
यदा पुनः खदिरस्तनुत्वात्तक्षणादिसंस्काराणामयोग्यः नियोजनमात्रे
योग्यः कदरश्च महान्संस्कारयोग्यस्तदा कस्योपादानमिति सन्देहः, तत्र संस्कार-
क्षमकदरोपादाने खदिरविधेर्वैकल्पिकमात्रत्वेनात्यन्तपीडाभावात्, अक्षमखदिरो-
पादाने तु संस्कारविधीनामत्यन्तपीडाप्रसङ्गात् प्रातनिधिरेवोपादेयः, मैवम्,
नहि गुणानुरोधेन प्रधानमुपरोद्धव्यं भवति, तेन भवतु संस्काराणामत्यन्तपीडा
न तु प्रधानं तदनुरोधेन कथञ्चिदपि पीडयितव्यम्, तस्मात्तक्षणाद्यसंस्कृतेव
खदिरे पशुं नियुञ्जीत । तदुक्तं जैमिनिना “द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्”
(६,३,३५,) इति । यदा पुनर्मुख्यमलभ्यं मत्वा प्रतिनिधिमुपादातुं प्रस्थितेना-
न्तरामुख्यं लब्धम्, तदा प्रतिनिधेः सङ्कल्पितत्वात् मिथ्यासङ्कल्पदोषपरिहाराय
मुख्यमनादृत्य प्रतिनिधिरेवापादेय इति प्राप्तेऽभिधीयते-यथाशक्तिशास्त्रार्थ-सम्पा-
दयामीत्येवं शास्त्रार्थविषय एव सङ्कल्पः कर्तव्यः न प्रतिनिधिस्वरूपं सङ्कल्पाय-
तव्यम् । न च मुख्ये विद्यमाने प्रतिनिधिः शास्त्रार्थो भवति, समग्रानुष्ठानशक्त्याम-
सत्यां हि विकल्पाङ्गानुष्ठानमपि शास्त्रीयं भवति न सत्यामिति, तस्मान्मुख्यप्राप्तौ
मुख्यमेवोपादेयम्, तदुक्तं जैमिनिना “मुख्याधिगमे मुख्यमागमो हि तद्भा-
वात्” (६,३,३२,) इति ॥

यदा पुनर्मुख्यं खदिरमलब्ध्वा प्रतिनिधिं कदरमुपादाय तक्षणादिषु
कतिचित्संस्कारेषु कृतेषु प्राक्पशुनियोजनात्खदिरं लभते, तदा किमुपात्तेन
प्रतिनिधिना कार्यं कुर्यात् , उत तच्चागेन मुख्यमेवोपादाय संस्कारांश्च पुनः कृत्वा
तत्रैव पशुं नियुञ्जीतेति संशयः । तत्रोपात्ते प्रतिनिधौ निवृत्तव्यापारं शास्त्रं
नान्यदुपादापयति तस्मान्न मुख्योपादानमिति प्राप्ते ब्रूमः ।
नोपादानपरं शास्त्रम् , येन तस्मिन्कृते निवृत्तव्यापारं स्यात् , प्रधानानुष्ठा-
नार्थं शास्त्रम्, तच्च प्रधानं सति मुख्ये प्रतिनिधिना क्रियमाणं विगुणं स्यात् ,
अतः संस्कृतमपि कदरं हित्वा खदिरं संस्कृत्य तस्मिन्पशुर्नियोक्तव्यः, ये च
कदरे कृताः संस्कारास्तेषां खदिर आवृत्तिः स्यात् , प्रधानवशेन गुणावृत्तेर्न्या-
य्यत्वात् । एवं पशुव्रीह्यादिष्वपि द्रष्टव्यम् । तत्रापि प्राक्त्यागान्मुख्यद्रव्यलाभे
संस्कृतमपि पुरोडाशादिकं प्रतिनिधिद्रव्यं निष्पादितं त्यक्त्वा, मुख्यद्रव्येण
पुरोडाशान्तरं संस्कृत्य, तेन यागः साधनीय इति । तदुक्तम् "प्रवृत्तेऽपीति
चेत्" (जैमिनि. ६,३,३६) इति ॥
अथ यथा प्रतिनिधिना नियोजने कृते यदा मुख्यमुपलब्धम्, तदा कृतमपि
नियोजनं साद्गुण्याय पुनः खदिरे कर्तव्यमिति मन्वानस्योत्तरम्, कृते नियो-
जने लब्धोऽपि खदिरोऽनर्थक एव, नियोजनार्थं हि तदुपादानम्, तच्च कृतम्,
न गुणानुरोधादावर्तयितव्यम्, अतो नादर्तव्यः खदिरः । तदुक्तम् "नानर्थ-
कत्वात्" (जैमिनि. ६,३,३७,) इति
अथवा सूत्रद्वयमिदेकाधिकरणम्, प्रवृत्तेऽपि, कृतेऽपि प्रधाने मुख्यो-
पादानं स्यादिति चेत्, नानर्थकत्वादिति ॥ १९ ॥
॥ इति चतुर्थी कण्डिका ॥ ४ ॥
अथेढं विचार्यते-यान्येकप्रधानसम्बन्धीन्यङ्गकर्माणि किं तेषामनुष्ठाने
कश्चित् क्रमनियमो नास्ति, उतास्तीति, तत्र सूत्रेणैव पूर्वपक्षमाह-
( श्रुत्यर्थपाठैः क्रमनियमः )
कर्मणामानुपूर्व्यं न तु युगपद्भावात् ॥ १ । ५ । १ ॥
आनुपूर्व्यं पौर्वापर्यं क्रम इत्यनर्थान्तरम्, कर्मणामिति अग्न्यन्वाधानादी-
नामङ्गकर्मणामनुष्ठाने आनुपूर्व्यं न भवति क्रमनियमो न भवति । कुतः ? .युगप-

८६ कात्यायनश्रौतसूत्रम् ।
द्भावात्, अतस्तान्यङ्गानि यदा प्रधानेनापेक्ष्यन्ते, तदा युगपद्भावेनैव सहैव सम्बन्धं
प्राप्नुवन्ति न क्रमेण, ततश्चैषां नियमेन क्रमेणानुष्ठाने कारणाभावात् कर्तुरेक-
त्वादवश्यम्भाविनी क्रमे येन केनचिदनियतेन क्रमेणानुष्ठानम् ॥ १ ॥
अर्थनिर्वृत्तेश्च ॥ १ । ५ । २ ॥
येन केनचित्क्रमेणाङ्गानुष्ठाने क्रियमाणे अर्थनिर्वृत्तिरङ्गकलापनिष्पत्तिः
सुखेनैव भवति, नियतक्रमेण क्रियमाणे तु नियतक्रमस्यानागतस्य वस्तुतः प्रती-
क्षणेन विलम्बाद्वहुना कालेन स्यात्, तथा सति :प्रयोगे प्राशुभावो न स्यात्,
प्रधानप्रत्यासत्त्या कालो ह्यङ्गानां विहितः, अङ्गानां नियतक्रमेणानुष्ठाने च सोऽपि
अतिक्रान्तः स्यादिति, तस्मादङ्गानुष्ठाने क्रमनियमो नेति पूर्वः पक्षः ॥ २ ॥
सिद्धान्तमाह—
स्याद्वाऽऽनुपूर्व्यनियमः श्रुत्यर्थक्रमेभ्यः ॥ १ । ५ । ३ ॥
वाशब्दः पूर्वपक्षनिरासार्थः । अग्न्यन्वाधानादीनामङ्गकर्मणामा‌नुपूर्व्यनियमः
स्यात्, अनुष्ठाने क्रमनियमो भवेत् नानियमः । केभ्यः प्रमाणेभ्यः, श्रुत्यर्थक्र-
मेभ्यः, श्रुतेः, अर्थात्क्रमाच्च। श्रुतेस्तावत्, यथा द्वादशाहे “तेषां गृहपतिः प्रथमो
दीक्षते” (१२,१,१,१) “अथ ब्रह्माणं दीक्षयति, अथोद्गातारम्, अथ होतार-
म्”इत्यादिनात्र ब्रह्मादीनां दीक्षा विधीयते, यजमानत्वादेव तस्याः प्राप्तेः,
क्रमस्य त्वन्यतः प्राप्त्यभावात् स एवात्र विधीयते, तथा “तस्मादेष दशमो ग्रहो
गृह्यते तृतीय एव वषट्क्रियते” (४,१,५,१६) इति । अयमपि श्रुतिक्रम एव ।
अर्थादपि क्रमोऽवगम्यते, तद्यथा, पेषणसंयवनयोरवघातपेषणयोश्च “अग्निहोत्रं
जुहोति” “यवागूं पचति” इति क्रमेण श्रुतेऽपि अर्थात् पूर्वं पाकस्ततो होम इति,
होमद्रव्यं हि यवागूः तदुत्पत्यर्थः, श्रुत्या लिङ्गेन च पाकः, स च पश्चात्क्रियमाणोऽ-
नर्थकः स्यात्, होमोऽप्यसति द्रव्ये न निर्वर्तेतातः पक्त्वा होमः कार्यः । क्रमः
पाठक्रमः, स च द्विविधः, श्रुतिपाठक्रमो, मन्त्रपाठक्रमश्च, उभयविधोऽपि क्रम-
नियमे कारणं भवति, नियतेन हि क्रमेण पदार्थविधिपाठा मन्त्रपाठश्च वर्तते,
तत्रैवमवगम्यते येन क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च तेनैव क्रमेणानुष्ठानमिति,
क्रमान्तरेणानुष्ठाने त्ववगतस्य क्रमस्य त्यागः, अनवगतस्य क्रमस्योपादानमिति,
असङ्गतं स्यात्, तस्मात् पाठक्रमादपि क्रमनियमोऽङ्गकर्मणां भवतीति ॥ ३ ॥

देवयाज्ञिकभाष्यसमेतम् । ८७
प्राकृतं च विकृतौ ॥ १ । ५ । ४ ॥
अतोऽपि कारणात्पाठक्रमेणाङ्गकर्मणामनुष्ठानं भवति, यतो विकृतौ प्राकृ-
तमेव क्रमं श्रुतिरनुवदति, यथा महापितृयज्ञे "स तत एव प्राक्स्तम्बयजुर्हरती" त्या-
दिना "स यज्ञोपवीती भूत्वाऽऽज्यानि गृह्णाती"त्येवमन्तेन (२,६,१,१२,)
अत्राज्यग्रहणे यज्ञोपवीतित्वविधिपरे वाक्ये प्राकृतं क्रमं दर्शयति यदि पाठक्रमेणा-
नुष्ठानं न स्यात् तदानेनैव क्रमेणानुवादो न स्यात् ॥
अपरे त्वन्यथा व्याचक्षते, प्राकृतं च विकृतौ प्राकृतवैकृतयोः
कर्मणोः सन्निपाते प्राकृतं पूर्वं कर्तव्यम्, पश्चाद्वैकृतमिति । तद्यथा "प्रकृतौ
प्रास्य तृणं चक्षुष्पा इत्यात्मानमालभते ” (३,६,१५,) इति । “मस्तरतृणा-
नुमहरणानन्तरमात्मालम्भ उक्तः विकृतौ च प्रहृत्य तृणं तेन चरति”
(४,४,११,) इति । तृणानुमहरणानन्तरं वाजिनयाग उक्तः, तत्र पूर्वं प्राकृतमात्मा-
लम्भोदकस्पर्शरूपं कृत्वा पश्चाद्वाजिनयागः कर्तव्यः । तथा प्रकृतौ हविरासाद-
नोत्तरकालं हविरालम्भात्मालम्भोदकालम्भा विहिताः, विकृतौ च “असाद्य हवीग्ँ-
ष्यग्निं मन्थति” (३,४,१,१९) इत्यग्निमन्थनं हविरासादनोत्तरकालं विहितम्,
तत्र पूर्वं प्राकृता हविरालम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतमग्निमन्थनम् ।
एवं "अथासाद्य स्रुचोऽपं उपस्पृश्य राजानं प्रपादयति” (२,६,३,१७) इत्येत-
दप्युदाहार्यम् । अत्रापि पूर्वं प्राकृता हविरालम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतं
सोमप्रपानादि । तथा पितृयज्ञे परिषेकात्प्रागिडामक्षणमार्जनपवित्रप्रतिपत्ति-
दक्षिणादानान्त्यत एव सिद्धानि । सुत्यायां च सवनीयपुरोडाशानां निर्वपनादू-
र्ध्वभाविनः प्रागलङ्करणाद्ये पदार्थाः, तेषां प्राक्प्रचरणीहोमादत एवानुष्ठानं
सिद्धम् । अत एव पशौ प्राकृतं पूर्वमित्यस्य बाधनाय यत्नं करोति, “उत्तराया-
रमाघार्य पशुं पूर्वं समनक्ति” (६,४,२) इत । अत्र पूर्वमित्यनेन प्राकृतध्रुवास-
मञ्जनात्पूर्वं पशुसमञ्जनं विदधाति । तस्मात्समीचीनमेतद्व्याख्यानम् ॥ ४ ॥
अथ क्रमप्रमाणानां विरोधे बलाबलं निर्णीयते । यत्र पाठक्रमार्थक्रमयो-
र्विरोधो भवति, तद्यथा "स वै पर्णशाखया वत्सानपाकरोति तामाच्छिनत्ति”
(१,७,१,१,२) इति पाठक्रमः, अर्थस्त्वनेन क्रमेण न सिध्यति, न ह्यच्छिन्नया
वृक्षस्थया शाखया वत्सापाकरणं कर्तुं शक्यते, वत्सापाकरणायैव च छेदनमिति,
तत्र किं पाठक्रमाध्यवसानमुतार्थक्रमादिति संशय आह—

८८ कात्यायनश्रौतसूत्रम् ।
( पाठक्रमार्थक्रमस्य बलीयस्त्वम् )
विरोधेऽर्थस्तत्परत्वात् ॥ १ । ५ । ५ ॥
पाठक्रमार्थक्रमयोर्विरोधे अर्थक्रम एव बलीयान्, न पाठक्रमः । कुतः ?
तत्परत्वात्, पाठस्यार्थपरत्वात् अर्थार्थत्वात्, कार्यसिद्धयर्थत्वादित्यर्थः । तेन
पूर्वं छेदनं पश्चात्त्या छिन्नया शाखया वत्सापाकरणमिति ॥ ५ ॥
अथ यत्र श्रुतेः श्रुतिपाठक्रमस्य च विरोधो भवति, तद्यथा “संस्थिते
यज्ञे ब्राह्मणं तर्पयित वै ब्रूयात् ” (१,७,३,२८) इति श्रुतेः । “कर्मणि समाप्ते
प्रैषं विदधाति” पाठक्रमात्तु स्विष्टकृतः पश्चात्प्राशीत्रावदानाच्च पूर्वमिति तत्र
केन क्रमेणानुष्ठानमिति संशये सत्याह—
( श्रौतक्रमस्य सर्वापेक्षया बलवत्त्वम् )
श्रुतिः क्रमादानुमानिकत्वात् ॥ १ । ५ । ६ ॥
क्रमादिति श्रुतिपाठक्रमाच्छुतिर्बलीयसी, तेन श्रुतिमतीत्क्रमेणैव संस्थिते
कर्मणि प्रैषोच्चारणम्, न पाठक्रमेण । कुतः ? आनुमानिकत्वात् । पाठक्रमस्य
अर्थाच्छ्रुतेः प्रत्यक्षत्वादिति ज्ञेयम्, प्रत्यक्षा हि श्रुतिः “संस्थिते यज्ञे” इति पा-
ठक्रमेत्वनुमानम्, अतोऽनेन क्रमेण पदार्था अनुष्ठेयाः यतोऽनेनैव क्रमेण पाठ
इति, दुर्बलं च प्रत्यक्षादनुमानम्, अतः श्रुतिक्रमेणानुष्ठानमिति सिद्धम् । एवम्
“तस्मादेष दशमो ग्रहो गृह्यते” “तृतीय एव वषट्क्रियते” (४, १, ५, १६)
इत्येतदप्यत्रोदाहरणम्, किं श्रुतिमन्त्रपाठात्तृतीयस्थाने गृह्यते, उत श्रुतिबलाद्दशम
इति, तत्र श्रुतिबलात्तु दशम इति सिध्यति ॥ ६ ॥
अथ यत्र चोदना पाठक्रमस्य मन्त्रपाठक्रमस्य च परस्परं विरोधो भवति ।
यथाज्याधिश्रयणे “सोऽसावाज्यमधिश्रयतीषेत्वेत्यधिश्रयणं विधाय तदनन्तरमेव
“तत्पुनरुद्वासयत्यूर्जेत्वे”ति (१,२,२,६) चोदनपाठक्रमः मन्त्रपाठे आज्याधि-
श्रयणमन्त्रानन्तरं “घर्मोऽसि विश्वायुरि”त्यादि [१,२२,] पत्नीसन्नहनमन्त्रान्तं
मन्त्रगणं पठित्वा आज्योद्वासनमन्त्र ऊर्जेत्वेति [ १, ३०,] पठितः । पूर्वा-
धिकरणे क्रमाच्छ्रुतेः प्रत्यक्षत्वाद्वलीयस्त्वमुक्तम्, अत्रोभयोः प्रत्यक्षत्वात्किं चोद-
नापाठक्रमेणाज्योद्वासनं कर्तव्यमुत मन्त्रपाठक्रमेणेति संशये सत्याह—

देवयाज्ञिकभाष्यसमेतम् । ८९
( चोदनापाठान्मन्त्रपाठो बलवान् )
मन्त्रचोदनयोर्मन्त्रबलं प्रयोगित्वात् ॥ १ । ५ । ७ ॥
मन्त्रचोदनयोरिति मन्त्र [पाठचोदना ] पाठयोर्विरोधे मन्त्रबलम्, मन्त्र-
पाठ एव बलवानित्यर्थः । कुतः ? प्रयोगित्वात् मन्त्राणाम्, मन्त्रा हि कर्मकाले
प्रयुज्यन्ते पठ्यन्ते, न चोदनावाक्यानि, अतो मन्त्रपाठः पदार्थानां सन्निकृष्टः,
चोदनापाठस्तु विप्रकृष्टः । तथाहि, “समिधो यजति” ( १, ५, ३, ९ ) इत्येनेन
पदार्थो विहितः, सोऽनुष्ठानवेलायां येन वाक्येन विहितस्तद्वाक्यं स्मारयति,
तेन वाक्येन स्मृतेनानुष्ठानवेलायां स्वपदार्थः स्मारितः सन्ननुष्ठीयते, इतीतरे-
तराश्रयं स्यात्, अर्थेन वाक्यं स्मार्यते, वाक्येन चार्थ इति । नैष दोषः सामान्य-
विशेषभेदात्, सामान्येन हि दार्शिकमङ्गं कर्तव्यमित्यवगम्यते, विशेषस्मरणार्थ-
विधायकं वाक्यमालोचयति, तेन चालोचितेन पश्चात्तदर्थविशेषः स्मारितोऽ-
नुष्ठीयते, अनुष्ठितश्चासौ झटित्येवं द्वितीयं पदार्थं न स्मारयति, अर्थानां ग्रन्थान-
पेक्षेण रूपेण पौर्वापर्यस्यानक्लृप्तत्वात्, किं तर्ह्यनुष्ठानोत्तरकालं योऽसौकृतस्तमा-
लोचयति, समिद्यागोऽयं कृत इति, स चालोच्यमानो येन “समिधो यजति” इत्यनेन
( १, ५, ३, ९ ) ब्राह्मणवाक्येन विहितस्तत्स्मारयति, तच्च स्मृतं स्वादुत्तरं
“तनूनपातं यजती” त्येतत् स्मारयति, कुतः ? पाठात्, ततः परं हि तत्पठितमिति,
तद्ब्राह्मणं पुनः पदार्थं विदधाति, विधिरेव तस्य कार्यम्, न स्मृतिः। अनुष्ठान-
वेलायां तदेव ब्राह्मणं विधिव्यापारं कृत्वा चिरनिवृत्तव्यापारं प्रयोगकालाद्बहि
र्भूतं स्मारकमपेक्षितम्। अयं मन्त्रपाठाद्ब्राह्मणपाठे विप्रकर्षः। मन्त्रः पुनरन्तः-
क्रतुप्रयुज्यमानः परिसमाप्यमान उत्तरं मन्त्रं पर्युपस्थापयति, स चोत्तरो मन्त्रः
पर्युपस्थाप्य उत्तरं पदार्थं पर्युपस्थापयन्नेव पर्युपतिष्ठते, तस्मात्तत्रालोचनान्तरा-
पेक्षाभावान्नास्ति विप्रकर्षः। एतदुक्तं भवति स्मारकक्रमेण तावदनुष्ठानक्रमः। नच
मन्त्रे अनन्यार्थे सति ब्राह्मणस्य स्मारकत्वम् अप्रयुज्यमानतया सामर्थ्याभावात् ।
नहि निर्वापामीतिवन्निर्वपेदिति पदमुच्चरितमनुष्ठानौपयिकमनुष्ठेयप्रकाशनं
करोति, किन्तु सम्बन्धमात्रतया प्रयोगबहिर्भूतं सत्, अनेन वाक्येनेदं विहितमत
एतत्करोमीत्येवमालोचनेन स्मारकं भवति, मन्त्रस्तु प्रयुज्यमान एवाभिधानत
एवस्मारक इति सन्निकृष्टः । विप्रकृष्टाच्च संनिकृष्टं बलवदित्येवं प्राप्ताऽह---
न समत्वात् १ । ५ । ८ ॥
मन्त्रपाठ एव बलवानिति यदुक्तं तन्न, कुतः, समत्वान्मन्त्रपाठचोदना-
पाठयोः कथमुभयोः समता ?