सामग्री पर जाएँ
सर्वकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 78, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 78

७२ कात्यायनश्रौतसूत्रम् ।
दितद्रव्यस्याभावे काम्यस्यानारम्भ एव भवति। अग्रिमेण सूत्रेण नित्ये कर्मणि
विशेषस्य वक्ष्यमाणत्वादिदं काम्यविषयम् ॥ १ ॥
अथ यथाविहितद्रव्याभावे द्रव्यान्तरेणानारम्भे प्राप्त आह—
( नित्ये कर्मणि प्रतिनिधिविचारः )
नियते सामान्यतः प्रतिनिधिः स्यात् ॥ १ । ४ । २ ॥
यथाशक्ति प्रयोगस्य स्थापितत्वान्नित्ये कर्मणि दर्शपूर्णमासादौ श्रुतद्रव्या-
भावे सामान्यतो मुख्यद्रव्यसादृश्यात्प्रतिनिधिर्भवति, श्रुतद्रव्यसदृशेन द्रव्यान्तरे-
णापि नित्यं कर्मारम्भणीयम् । यावज्जीवं चोदनया हि अनारब्धमपि नित्यम-
वश्यं कर्तव्यमिति नियमश्चोद्यत एव । तत्र यागप्रधानचोदना नियमेन यत्किञ्चि-
दर्थाद्द्रव्यमाकाङ्क्षति, सा च ‘व्रीहिभिर्यजेते’ति श्रुतैर्व्रीहिभिर्विद्यमानैरेकवाक्यतां
प्रतिपद्यमानार्थप्राप्तानि