सामग्री पर जाएँ
सर्वकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 94, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 94

८८ कात्यायनश्रौतसूत्रम् ।
( पाठक्रमार्थक्रमस्य बलीयस्त्वम् )
विरोधेऽर्थस्तत्परत्वात् ॥ १ । ५ । ५ ॥
पाठक्रमार्थक्रमयोर्विरोधे अर्थक्रम एव बलीयान्, न पाठक्रमः । कुतः ?
तत्परत्वात्, पाठस्यार्थपरत्वात् अर्थार्थत्वात्, कार्यसिद्धयर्थत्वादित्यर्थः । तेन
पूर्वं छेदनं पश्चात्त्या छिन्नया शाखया वत्सापाकरणमिति ॥ ५ ॥
अथ यत्र श्रुतेः श्रुतिपाठक्रमस्य च विरोधो भवति, तद्यथा “संस्थिते
यज्ञे ब्राह्मणं तर्पयित वै ब्रूयात् ” (१,७,३,२८) इति श्रुतेः । “कर्मणि समाप्ते
प्रैषं विदधाति” पाठक्रमात्तु स्विष्टकृतः पश्चात्प्राशीत्रावदानाच्च पूर्वमिति तत्र
केन क्रमेणानुष्ठानमिति संशये सत्याह—
( श्रौतक्रमस्य सर्वापेक्षया बलवत्त्वम् )
श्रुतिः क्रमादानुमानिकत्वात् ॥ १ । ५ । ६ ॥
क्रमादिति श्रुतिपाठक्रमाच्छुतिर्बलीयसी, तेन श्रुतिमतीत्क्रमेणैव संस्थिते
कर्मणि प्रैषोच्चारणम्, न पाठक्रमेण । कुतः ? आनुमानिकत्वात् । पाठक्रमस्य
अर्थाच्छ्रुतेः प्रत्यक्षत्वादिति ज्ञेयम्, प्रत्यक्षा हि श्रुतिः “संस्थिते यज्ञे” इति पा-
ठक्रमेत्वनुमानम्, अतोऽनेन क्रमेण पदार्था अनुष्ठेयाः यतोऽनेनैव क्रमेण पाठ
इति, दुर्बलं च प्रत्यक्षादनुमानम्, अतः श्रुतिक्रमेणानुष्ठानमिति सिद्धम् । एवम्
“तस्मादेष दशमो ग्रहो गृह्यते” “तृतीय एव वषट्क्रियते” (४, १, ५, १६)
इत्येतदप्यत्रोदाहरणम्, किं श्रुतिमन्त्रपाठात्तृतीयस्थाने गृह्यते, उत श्रुतिबलाद्दशम
इति, तत्र श्रुतिबलात्तु दशम इति सिध्यति ॥ ६ ॥
अथ यत्र चोदना पाठक्रमस्य मन्त्रपाठक्रमस्य च परस्परं विरोधो भवति ।
यथाज्याधिश्रयणे “सोऽसावाज्यमधिश्रयतीषेत्वेत्यधिश्रयणं विधाय तदनन्तरमेव
“तत्पुनरुद्वासयत्यूर्जेत्वे”ति (१,२,२,६) चोदनपाठक्रमः मन्त्रपाठे आज्याधि-
श्रयणमन्त्रानन्तरं “घर्मोऽसि विश्वायुरि”त्यादि [१,२२,] पत्नीसन्नहनमन्त्रान्तं
मन्त्रगणं पठित्वा आज्योद्वासनमन्त्र ऊर्जेत्वेति [ १, ३०,] पठितः । पूर्वा-
धिकरणे क्रमाच्छ्रुतेः प्रत्यक्षत्वाद्वलीयस्त्वमुक्तम्, अत्रोभयोः प्रत्यक्षत्वात्किं चोद-
नापाठक्रमेणाज्योद्वासनं कर्तव्यमुत मन्त्रपाठक्रमेणेति संशये सत्याह—