कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 76, कुल 114 में से
संदर्भ में पढ़ें७० कात्यायनश्रौतसूत्रम् ।
हंसमुखप्रसेकाः प्रसिच्यते क्षार्य्यतेऽनेनेति प्रसेकः प्रणालिका हंसमुखसदृशः
प्रसेकः प्रणालिका यासां ताः हंसमुखप्रसेकाः। सा च प्रणालिका एकैव भवति।
एकयापि शास्त्रार्थस्य कृतत्वात् कार्य्यसिद्धेश्च। न तु द्वे तिस्रो वा, कुत्राप्यनुक्त-
त्वात्। तथा मूलदण्डा मूले दण्डो यासां ता मूलदण्डाः,। अर्थादग्रे पुष्करं
सिध्यति। एवंविधाः स्रुचो भवन्ति। शाखान्तरीयो विशेषः पूर्वसूत्र उक्तः॥३७॥
अरत्निमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करः॥ १ । ३ । ३८ ॥
अरत्निः प्रमाणमस्यासावरत्निमात्रः स्रुवोऽरत्निप्रमाणो भवति । पुनः
कीदृशः अङ्गुष्ठपर्ववृत्तपुष्करः, अङ्गुष्ठपर्वणो वृत्तमाङ्गुष्ठपर्ववृत्तम्, अङ्गुष्ठपर्ववृत्तं प्रमाणं
वृत्तं पुष्करं मुखं यस्यासावाङ्गुष्ठपर्ववृत्तपुष्करः। पर्वशब्दः सन्धवाची सन्धिग्रन्थिः।
तदुक्तम्— “अङ्गुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत्पर्व
ग्रन्थिभिर्मिनुयाद्बुधः” इति । अतोऽङ्गुष्ठस्य बृहत्पर्वग्रन्थिप्रमाणं चतुरस्रं कृत्वा
तदेव मण्डलं चतुरस्रं चिकीर्षन्नित्युपायेन वृत्तं विधाय तत्प्रमाणं स्रुवस्य पुष्करम्।
नासिकावत्खातं च स्यात् ।
तदुक्तं—कात्यायनेन (कर्मप्रदीपे ८-१३) “स्रुवाग्रे घ्राणवत्खातम्”
इति। तथा “पुष्कार्धं भवेत्खातः” इति च ॥ २८ ॥
स्फ्योऽस्याकृतिः ॥ १ । ३ । ३९ ॥
असिः खड्गः असेरिव आकृतिर्यस्य, असावस्याकृतिः। खड्गसदृशः स्फ्यो-
वज्रो भवतीत्यर्थः ॥ ३९ ॥
आदर्शाकृति प्राशित्रहरणम् ॥ १ । ३ । ४० ॥
प्राशित्रमिति ब्रह्मणो भागावदानम्, तत् ह्रियते येन तत्प्राशित्रहरणम् ।
आदर्शो दर्पणः। आदर्शस्येवाकृतिराकारो यस्य तदादर्शाकृति, आदर्शसदृशं वर्तू-
लम्। तत्रावदानविधानाच्च खातवत्प्राशित्रहरणं भवति ॥ ४० ॥
चमसाकृति वा ॥ १ । ३ । ४१ ॥
चमसस्येवाकृतिराकारो यस्य तच्चमसाकृति । वा विकल्पे । अथवा चम-
ससदृशं चतुरस्रं प्राशित्रहरणं भवति ॥ ४१ ॥