कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 15, कुल 114 में से
संदर्भ में पढ़ें[Header] देवयाज्ञिकभाष्यसमेतम् । ९
रो न निर्धनस्य। तस्य चाधिकारो भवत्येव । न त्वारम्भसामर्थ्याभावादनधि-
कारः । अतो निर्धनोऽपि क्रत्वर्थं धनमर्जनादिना सम्पाद्यावश्यं यजेतेति ।
एवमन्धादिरपि ओषधिशास्त्रादिनाऽन्धत्वादिकं स्फोटयितुं शक्नोति तस्याप्यधि-
कारो भवत्येव । पूर्वमङ्गहीनत्वावस्थायामाहिताग्निश्चेदकस्माद्रोगादिनाऽङ्गवैकल्ये
जाते कर्मस्वधिकारो न भवति । नित्येषु तु यथाशक्ति कुर्वन्नधिक्रियत एव ।
अङ्गवैकल्ये सति अग्न्याधेयं न भवत्येव ।
(त्रिकाण्ड) मण्डनः—
“ दर्शेटिं पौर्णमासेष्टिं सोमेड्यामनिसङ्ग्रहम् । अग्निहोत्रं विवाहं च
प्रयोगे प्रथमे स्थितम् । न कुर्याज्जनके १ज्येष्ठे सोदरेचाप्यकुर्वति । ज्येष्ठे श्रद्धा-
विहीने सत्याधेयं तदनुज्ञया । पितुः सत्यप्यनुज्ञाते ना