कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 12, कुल 114 में से
संदर्भ में पढ़ें६ कात्यायनश्रौतसूत्रम् ।
नर्थिकैव भवति । अथ यागः स्वर्गकामार्थः । ततोऽसौ पुरुषस्योपकरोति । तं
पुरुषः स्वार्थेन करोतीति । तथाच, कर्मचोदनार्थवतांभवति; तस्माद्यागः स्वर्ग-
कामस्योपकारकः । स्वर्गकामस्यानेक उपकारः, पुत्रपश्वन्नाद्यादिलाभरूपः, स
यदि तत्रान्नाद्यादीनामन्यतमं करोति तदा स्वर्गशब्दोऽविवक्षितार्थः पुरुषमात्र-
वचनो भवति । तथाचाऽऽनर्थक्यमेव । अन्तरेणापि हि तद्वचनं पुरुषमात्रमा-
ख्यातादेव गम्यते । तस्माद्यागात्स्वर्गो भवतीति निश्चीयते । अतश्च स्वर्गकामो
यागेन कुर्यादिति वाक्यार्थः । अत्र स्वर्गं प्रार्थयमानस्यानुष्ठानमनूद्य यागस्तस्यो-
पायत्वेन विधीयते । अतः स्वर्गादिकं यागादेः फलमिति सिद्धम् । फलवन्ति
कर्माणीति च । अतः कर्मणां फलवत्त्वात् कर्मजन्यफलभोक्तृत्वापरपर्यायोऽधि-
कारोपि पुरुषस्याग्निहोत्रादिकर्मसु सिध्यति ॥ २ ॥
( अधिकारविचारः )
अधिकारो वक्ष्यत इति प्रतिज्ञातम् । स केषामित्यपेक्षायामाह-
सर्वेषामविशेषात् ॥ १ । १ । ३ ॥
सर्वेषां कर्मानुष्ठानसमर्थानामसमर्थानां चान्धामूकपङ्गुबधिरदेवर्षिति-
रश्चां कर्मस्वधिकारो भवति । कुतः ? अविशेषात् । फलार्थित्वस्य सर्वेषामविशि-
ष्टत्वात् । फलं हि सर्वैरिष्यत एव । तत्राचेतनानां वृक्षादीनां कामनाभावदन-
धिकारः । तिरश्चां तु भवति। तिर्यञ्चश्चोङ्गितास्तापेन तप्ताश्छायां व्रजन्ति। शीत-
पीडिताश्चातपम् । ननु तिर्यञ्चः प्रत्यासन्नमेव जानन्ति न तु कालान्तरभावि-
फलम् । वैदिकानि च कर्माणि कालान्तरफलान्येव । अतः कथं तिरश्चां तत्र
प्रवृत्तिः? उच्यते, कालान्तरेऽपि फलं कामयमाना दृश्यन्ते । श्वानश्चतुर्दश्यामप-
वसन्ति । श्येनाश्चाष्टम्यामिति । लिङ्गान्यपि वेदे सन्ति । “देवा ह वै सत्रमासत,”
“ वनस्पतयः सत्रमासत ” “ गावो वा एतत्सत्रमासत ” इत्यादीनि । तानि.
च देवानां सर्पाणां वनस्पतीनां गवां चाधिकारं दर्शयन्ति ।
नन्वेतेऽन्धादयो यथोक्तं कर्म कर्तुं न शक्ष्यन्तीति कथमधिकार एषाम् ?
उच्यते, यजेतेत्यादिप्रधानवाक्येन सर्वाधिकारं कर्मावगतम् । तदनुसारिणी
चाङ्गवाक्यानि न तत्सङ्कोचे समर्थानि, अतश्चक्षुष्मन्तं प्रत्याज्यावेक्षणविधिः,
अचक्षुषस्तुतद्विध्यभावात्तद्रहितमेवफलसाधनम्, एवं बधिरस्य वाचनरहितम्,
१ फलार्थत्वात्कर्मणः शास्त्रं सर्वाधिकारं स्यादित्यधिकरणमत्रानुसन्धेयम् ।