काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
An exact line-by-line transcription of the provided page of the Kāśikā (४ । ३, पृष्ठ ३३७):
अव्ययीभावादित्येव। यामशब्दान्तादव्ययीभावात्परि अनु इत्येवंपूर्वा-
ट्ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये। अणोऽपवादः। पारियामिकः।
आनुयामिकः॥
जिह्वामूलाङ्गुलेश्छः ॥ ६२ ॥
जिह्वामूलशब्दादङ्गुलिशब्दाच्च छः प्रत्ययो भवति तत्र भव इत्येतस्मि-
न्विषये। यतोऽपवादः। जिह्वामूलीयम्। अङ्गुलीयम्॥
वर्गान्ताच्च ॥ ६३ ॥
वर्गशब्दान्ताच्च प्रातिपदिकात् छः प्रत्ययो भवति तत्र भव इत्येत-
स्मिन्विषये। यञोऽपवादः। कवर्गीयम्। चवर्गीयम्॥
अशब्दे यत्खावन्तरस्याम् ॥ ६४ ॥
वर्गान्तादित्येव। शब्दादन्यस्मिन्नन्त्ययार्थे वर्गान्तात्प्रातिपदिकादन
३३८ ॥ काशिका ॥ ४ ॥ ३ ॥
रेषान्तोदात्ताः प्रकृतयः। बह्वच इति किम्। द्वयचष्टकं वक्ष्यति। एकाच् प्रत्यु-
दाह्रियते। सौपम्। तैदम्। कार्नम्। अन्तोदात्तादिति किम्। संहितायाः
सांहितम्। संहिताशब्दो हि गतिस्वरेणाद्युदात्तः ॥
ऋतुयज्ञेभ्यश्च ॥ ६८ ॥
ऋतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयो-
रर्थयोष्ठञ् प्रत्ययो भवति। अणोपवादः। ऋतुभ्यस्तावत्। अग्निष्टोमस्य व्या-
ख्यानस्तत्र भवो, वाग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः। पाक-
यज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। ऋतुभ्य इत्येव सिद्धे यज्ञ-
ग्रहणमसामयागेभ्योपि यथा स्यात्, पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं
स्वरूपविधिनिरासार्थम् ॥
अध्यायेष्वर्षेः ॥ ६६ ॥
ऋषिशब्दाः प्रवरनामधेयानि तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोर्थे-
योष्ठञ् प्रत्ययो भवति। अणोपवादः। अध्यायेष्वेव प्रत्ययार्थविशेषणेषु।
व्याख्यातव्यनाम इत्यनुवर्तते तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते। वसिष्ठस्य
व्याख्यानस्तत्र भवो वा वासिष्ठिको ऽध्यायः। वैश्वामित्रिकः। अध्यायेष्विति
किम्। वासिष्ठी ऋक् ॥
पौरोडाशपुरोडाशात् ष्ठन् ॥ ७० ॥
पौरोडाशशब्दात्पुरोडाशशब्दाच्च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो
भवति। पुरोडाशाः पिष्टपिण्डास्तेषां संस्कारको मन्त्रः पौरोडाशस्तस्य व्याख्या-
नस्तत्र भवो वा पौरोडाशिकः। पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरो-
डाशस्तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः। पुरोडाशिकी। णकारो ङीबर्थः ॥
छन्दसो यद्णौ ॥ ७१ ॥
छन्दःशब्दाद्भवव्याख्यानयोरर्थयोर्यद्णौ प्रत्ययौ भवतः। द्व्यच इति ठकि
प्राप्ते वचनम्। छन्दस्यः। छान्दसः ॥
द्व्यजुद्ब्राह्मणर्चप्रथमध्वरपुरश्चरणना-
माख्याताट्ठक् ॥ ७२ ॥
द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयो-
र्ठक् प्रत्ययो भवति। अणादेरपवादः। द्व्यचस्तावत्, ऐष्टिकः। पाशुकः।
उकारान्तात्। चातुर्होत्रुकः। पाञ्चहोत्रुकः। ब्राह्मण। ब्राह्मणिकः। ऋक्।
आर्चिकः। प्रथम। प्राथमिकः। अध्वर। आध्वरिकः। पुरश्चरण। पौरश्चर-
॥ काशिका ॥ ४ । ३ ॥ ३३६
ष्णिकः । नामाख्यातग्रहणं संघातविगृहीतार्थम् । नामिकः । चाख्यातिकः ।
नामाख्यातिकः ॥
ऋगयनादिभ्यः ॥ ७३ ॥
ऋगयनादिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोर्थयोरण् प्रत्ययो भवति ।
ठञादेरपवादः । आर्गयनः, । पादव्याख्यानः । अण्ग्रहणं बाधकबाधनार्थम् ।
वास्तुविद्याः । ऋगयन । पदव्याख्यान । छन्दोमान । छन्दोभाषा । छन्दोविचिति ।
न्याय । पुनरुक्त । व्याकरण । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्रविद्या ।
उत्पात । उत्पाद । संवत्सर । मुहूर्त्त । निमित्त । उपनिषत् । शिक्षा * । ऋगयनादिः ॥
तत आगतः ॥ ७४ ॥
तत इति पञ्चमीसमर्थादागत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भव-
ति । सुघ्नादागतः सौघ्नः । माथुरः । राष्ट्रियः । तत इति मुख्यमपादानं विव-
क्षितं यत्तदिह गृह्यते, न नान्तरीयकम् । सुघ्नादागच्छन्वृक्षमूलादागत इति ॥
ठगायस्थानेभ्यः ॥ ७५ ॥
आय इति स्वामिग्राह्यो भाग उच्यते स यस्मिन्नुत्पद्यते तदायस्थानम् ।
आयस्थानवाचिभ्यः प्रातिपदिकेभ्यष्ठक् प्रत्ययो भवति तत आगत इत्येतस्मि-
न्विषये, अणोपवादः । छं तु परत्वाद्बाधते । शुल्कशालाया आगतः, शौल्क-
शालिकः । आकरिकम् † । बहुवचनं स्वरूपविधिनिरासार्थम् ॥
शुण्डिकादिभ्यो ऽण् ॥ ७६ ॥
शुण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति तत आगत
इत्येतस्मिन्विषये । आयस्थानठको ऽपवादः । शुण्डिकादागतः, शौण्डिकः ।
कार्कणः । अण्ग्रहणं बाधकबाधनार्थम् । चौदपानः । शुण्डिक । कर्कश । स्थ-
ण्डिल । उदपान । उपल । तीर्थ । भूमि । मुख । पर्ण । शुण्डिकादिः ॥
विद्यायोनिसंबन्धेभ्यो वुञ् ॥ ७७ ॥
विद्यायोनिकृतः संबन्धो येषां ते विद्यायोनिसंबन्धाः । तद्वाचिभ्यः शब्दे-
भ्यो वुञ् प्रत्ययो भवति तत आगत इत्येतस्मिन्विषये । अणोपवादः । छं तु पर-
त्वाद्बाधते । विद्यासंबन्धेभ्यस्तावत् । उपाध्यायादागतम्, औपाध्यायकम् । शैष्य-
कम् । आचार्यकम् । योनिसंबन्धेभ्यः । मातामहकः । पैतामहकः । मातुलकः ‡ ॥
- छन्दोविचिती । न्याय । निरुक्त । विद्या । उत्पात । शिक्षा । एते शब्दा अधिक
अत्र गणे पुस्तकान्तरे ।
† नागरिकम् । आपक्तिकम् । इत्यपि कुत्र चित्पुस्तके ।
‡ मातुलक इत्युदाहरणं बहुषु पुस्तकेषु नास्ति ।
३४० ॥ काशिका ॥ ४ ॥ ३ ॥
ऋतष्ठञ् ॥ ७८ ॥
विद्यायोनिसंबन्धेभ्य इत्येव । ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायो-
निसंबन्धवाचिभ्यष्ठञ् प्रत्ययो भवति तत आगत इत्येतस्मिन्विषये । वुञोप-
वादः । विद्यासंबन्धवाचिभ्यस्तावत् । होतुरागतं, हौतृकम् । पोतृकम् । योनि-
संबन्धवाचिभ्यः । भ्रातृकम् । स्वसृकम् । मातृकम् । तपरकरणं सुखार्थम् ।
विद्यायोनिभ्यामन्यत्र सावित्रम् ॥
पितुर्यच्च ॥ ७९ ॥
पितृशब्दाद् यत् प्रत्ययो भवति चकाराट्ठञ् च तत आगत इत्येतस्मिन्वि-
षये । पितुरागतं, पित्र्यम् । पैतृकम् ॥
गोत्रादङ्कवत् ॥ ८० ॥
अपत्याधिकारादन्यत्र लौकिकं गोत्रमपत्यमात्रं गृह्यते । गोत्रप्रत्यया-
न्तात्प्रातिपदिकादङ्कवत्प्रत्ययविधिर्भवति तत आगत इत्येतस्मिन्विषये । अङ्क-
ग्रहणेन तस्येदम्प्रत्ययसामान्यं लक्ष्यते । तस्माद्वुञतिदिश्यते * नाम्नेव संघाङ्कलक्ष-
णेष्वञ्यञिञामणिति । औपगवानामङ्कः, औपगवकः । कापटवकः । नाडाय-
नकः । चारायणकः । एवमौपगवेभ्य आगतमौपगवकम् । कापटवकम् । नाडा-
यनकम् । चारायणकम् ॥
हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः ॥ ८१ ॥
हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां रूप्यः प्रत्ययो भवति तत आगत इत्येत-
स्मिन्विषये । मनुष्यग्रहणमहेत्वर्थम् । हेतुः कारणम् । हेतुभ्यस्तावत् । समादा-
गतं, समरूप्यम् । समीयम् । विषमरूप्यम् । विषमीयम् । गहादित्वाच् छः ।
मनुष्येभ्यः । देवदत्तरूप्यम् । यज्ञदत्तरूप्यम् । दैवदत्तम् । याज्ञदत्तम् । बहुवचनं
स्वरूपविधिनिरासार्थम् ॥
मयट् च ॥ ८२ ॥
हेतुभ्यो मनुष्येभ्यश्च मयट् प्रत्ययो भवति तत आगत इत्येतस्मिन्वि-
षये । सममयम् । विषममयम् । मनुष्येभ्यः । देवदत्तमयम् । यज्ञदत्तमयम् ।
टकारो ङीबर्थः । सममयी । योगविभागो यथासंख्यनिरासार्थः ॥
प्रभवति ॥ ८३ ॥
तत इत्येव । पञ्चमीसमर्थाद् ङ्याप्प्रातिपदिकात्प्रभवतीत्येतस्मिन्विषये
यथाविहितं प्रत्ययो भवति । प्रभवति प्रकाशते प्रथमत उपलभ्यतइत्यर्थः ।
हिमवतः प्रभवति, हैमवती गङ्गा । दारदी सिन्धुः ॥
- गोत्रचरणाद्वुञ् इतीत्यधिकं पुस्तकान्तरे ।
॥ काशिका ॥ ४ । ३ ॥ ३४१
विदूराञ्ञ्यः ॥ ८४ ॥
विदूरशब्दाञ् ञ्यः प्रत्ययो भवति ततः प्रभवतीत्येतस्मिन्विषये। अणो-
पवादः। विदूरात्प्रभवति, वैदूर्यो मणिः। ननु च वालवायादसौ प्रभवति न
विदूरात् तत्र तु संस्क्रियते। एवं तर्हि
वालवायो विदूरं च प्रकृत्यन्तरमेव वा।
न वै तथेति चेद्ब्रूयाज्जित्वरीवदुपारेत् ॥
तद्गच्छति पथिदूतयोः ॥ ८५ ॥
तदिति द्वितीयासमर्थाद्गच्छतीत्येतस्मिन्विषये यथाविहितं प्रत्ययो
भवति, योऽसौ गच्छति पन्थाश्चेत्स भवति दूतो वा। स्रुघ्नं गच्छति, स्रौघ्नः
पन्था दूतो वा। माथुरः *। तत्स्थेषु गच्छत्सु पन्था गच्छतीत्युच्यते। यद्वा
वा स्रुघ्नप्राप्तिः पथो गमनम्। पथिदूतयोरिति किम्। स्रुघ्नं गच्छति सार्थः ॥
अभिनिष्क्रामति द्वारम् ॥ ८६ ॥
तदित्येव। द्वितीयासमर्थादभिनिष्क्रामतीत्येतस्मिन्नर्थे यथाविहितं
प्रत्ययो भवति यत्तदभिनिष्क्रामति द्वारं चेद्भवति। आभिमुख्येन निष्क्रामति,
अभिनिष्क्रामति, स्रुघ्नमभिनिष्क्रामति कान्यकुब्जद्वारं स्रौघ्नम्। माथुरम्। राष्ट्रि-
यम्। द्वारमभिनिष्क्रमणक्रियायां करणं प्रसिद्धं तदिह स्वातन्त्र्येण विवक्ष्यते
यथा साध्वसिश्छिनत्तीति। द्वारमिति किम्। स्रुघ्नमभिनिष्क्रामति पुरुषः ॥
अधिकृत्य कृते ग्रन्थे ॥ ८७ ॥
तदित्येव। अधिकृत्यैतदपेक्ष्य द्वितीया। अधिकृत्य, प्रस्तूय, वागूर्ये-
त्यर्थः। तदिति द्वितीयासमर्थादधिकृत्य कृतइत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो
भवति यत्तत्कृतं ग्रन्थश्चेत्स भवति। सुभद्रामधिकृत्य कृतो ग्रन्थः, सौभद्रः। गौरि-
मित्रः। यायातः। ग्रन्थइति किम्। सुभद्रामधिकृत्य कृतः प्रासादः ॥ लुबा-
ख्यायिकार्थस्य प्रत्ययस्य बहुलम् ॥ * ॥ वासवदत्तामधिकृत्य कृता ऽऽख्यायिका
वासवदत्ता। सुमनोत्तरा। उर्वशी। न च भवति, भैमरथी ॥
शिशुक्रन्दयमसभाद्वन्द्वेन्द्रजननादिभ्यश्छः ॥ ८८ ॥
तदित्येव। अधिकृत्य कृते ग्रन्थइति च। शिशुक्रन्दादिभ्यो द्वितीयास-
मर्थेभ्यश्छः प्रत्ययो भवति अधिकृत्य कृते ग्रन्थे। अणोपवादः। शिशूनां क्रन्दनं
शिशुक्रन्दः। तमधिकृत्य कृतो ग्रन्थः, शिशुक्रन्दीयः। यमस्य सभा यमसभं,
यमसभीयः। द्वन्द्वात्। अग्निकाश्यपीयः। श्येनकपोतीयः। शब्दार्थसम्बन्धीयं
- राष्ट्रिय इत्यधिकमत्र।
[Header] ३४२ ॥ काशिका ॥ ४ ॥ ३ ॥
प्रकरणम् । वाक्यपदीयम् । इन्द्रजननादिभ्यः । इन्द्रजननीयम् । प्रत्युद्भागम-
नीयम् * । इन्द्रजननादिराकृतिगणः प्रयोगतो ऽनुसर्तव्यः, प्रातिपदिकेषु न
पठ्यते ॥ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ॥ * ॥ दैवासुरम् । राक्षसासुरम् । गौख-
मुख्यम् । इन्द्रजननादेराकृतिगणत्वात् शिशुक्रन्दादयोपि तत्रैव द्रष्टव्याः ।
प्रपञ्चार्थमेषां ग्रहणम् । एवं सति देवासुरादिप्रतिषेधोपि न वक्तव्यः, ततश्छप्र-
त्ययस्यादर्शनात् ॥
सोस्य निवासः ॥ ८९ ॥
स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्र-
थमासमर्थं निवासश्चेत्स भवति, निवसन्त्यस्मिन्निवासो देश उच्यते । सुघ्नो
निवासो ऽस्य सौघ्नः । माथुरः । राष्ट्रियः ॥
अभिजनश्च ॥ ९० ॥
[L1
भक्तिरित्येतस्मिन्विषये ।
अणोपवादः । महाराजो भक्तिरस्य माहाराजिकः । प्रत्ययान्तरकरणं स्वरार्थम् ॥
वासुदेवार्जुनाभ्यां वुन् ॥ ९८ ॥
वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सोस्य भक्तिरित्येतस्मिन्विषये ।
छाञोरपवादः । वासुदेवो भक्तिरस्य वासुदेवकः । अर्जुनकः । ननु वासुदेवशब्दा-
द्गोत्रक्षत्रियाख्येभ्य इति वुञस्त्येव । न चात्र वुन्वुञोर्विशेषो विद्यते किमर्थं
वासुदेवग्रहणम् । संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या । अल्पाच्तरमजाद्य-
दन्तमिति चार्जुनशब्दस्य पूर्वनिपातमकुर्वन् ज्ञापयत्यभ्यर्हितं पूर्वं निपततीति ॥
- कुलून । दरदा । एतौ शब्दौ पुस्तकान्तरे ऽत्र गणे ऽधिकौ ।
- Verify Line 5:
Wait, in L5:गन्धिका- is itगन्धिकाorगन्धिक्रा?
Let'
३४६ ॥ काशिका ॥ ४ ॥ ३ ॥
चरक इति वैशंपायनस्याख्या तत्संबंधेन सर्वे तदन्तेवासिनश्चरका
इत्युच्यन्ते ॥
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ॥ १०५ ॥
प्रत्ययार्थविशेषणमेतत् । तृतीयासमर्थात्प्रोक्ते णिनिः प्रत्ययो भवति
यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना-
प्रोक्ताः । ब्राह्मणेषु तावत् । भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः । कल्पे-
षु । पैङ्गी कल्पः । आरुणपराजी । पुराणप्रोक्तेष्विति किम् । याज्ञवल्कानि
ब्राह्मणानि । आश्मरथः कल्पः । याज्ञवल्क्यादयो ऽचिरकाला इत्याख्यानेषु
वार्त्ता । तया व्यवहरति सूत्रकारः । तद्विषयता कस्मान्न भवति । प्रतिपदं
ब्राह्मणेषु यः प्रत्ययस्तस्य तद्विषयता विधीयते णिनेः । अयं तु याज्ञवल्क्यश-
ब्दस्य कण्वादिषु पाठादण् । न वायं योगश्छन्दोधिकारमनुवर्त्तयति, तेन
कल्पेष्वपि न भवति । पुराणादिति निपातनात्तुड्भावः । न वात्यन्तबाधैव, तेन
पुरातनमित्यपि भवति ॥
शौनकादिभ्यश्छन्दसि ॥ १०६ ॥
शौनक इत्येवमादिभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मि-
न्विषये छन्दस्यभिधेये । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः ।
वाजसनेयिनः । छन्दसीति किम् । शौनकीया शिक्षा । कठशाठ इत्यत्र
पठ्यते । तत्संघातार्थं, केवलात्तु लुकं वक्ष्यति । कठशाठाभ्यां प्रोक्तमधीयते
काठशाठिनः । शौनक । वाजसनेय । साङ्खव । शार्ङ्गरव । सांपेय । शाखेय ।
खाडायन । स्कन्ध । स्कन्द । देवदत्तशठ । रज्जुकण्ठ । रज्जुभार । कठशाठ ।
कशाय । तलवकार । पुरुषासक । आश्वपेय । शौनकादिः * ॥
कठचरकाल्लुक् ॥ १०७ ॥
कठचरकशब्दाभ्यां परस्य प्रोक्तप्रत्ययस्य लुग्भवति । कठशब्दाद्वैशंपाय-
नान्तेवासिभ्य इति णिनेश्चरक शब्दादण्यणः । कठेन प्रोक्तमधीयते कठाः ।
चरकाः । छन्दसीत्येव । काठाः । चारकाः † ॥
कलापिनो ऽण् ॥ १०८ ॥
कलापिशब्दादण् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन्विषये । वैशं-
पायनान्तेवासित्वाण्णिनेरपवादः । कलापिना प्रोक्तमधीयते कालापाः । इन-
ण्यनपत्यइति प्रकृतिभावे प्राप्ते, नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापि-
- स्कम्भ । अयं पुस्तकान्तरे ऽत्र गणेधिकः ।
† श्लोका इत्यधिकं कुत्र चित् ।
॥ काशिका ॥ ४ ॥ ३ ॥ ३४०
कुथुमि*तैतलिजाजलिजाङ्गलि†लाङ्गलि[शि]लालिशिखण्डिसुकरसद्गुसुपर्वणामुपसं-
ख्यानम् ॥ * ॥ इति टिलोपः । अथ प्रायग्रहणं किम्, यथाप्राप्तमित्येव सिद्धम् ।
अधिकविधानार्थम्, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानीत्यादि सिद्धम् ॥
छागलिनो ढिनुक् ॥ १०८ ॥
छागलिन्शब्दाद् ढिनुक् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन्विषये ।
कलाप्यन्तेवासित्वाण्णिनेरपवादः । छागलिना प्रोक्तमधीयते छागलेयिनः ॥
पाराशर्य्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ ११० ॥
णिनिरिहानुवर्त्तते, न ढिनुक् । पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति
तेन प्रोक्तमित्येतस्मिन्विषये । भिक्षुनट सूत्रयोरिति यथासंख्यं प्रत्ययार्थविशेषणं,
सूत्रशब्दः प्रत्येकमभिसंबध्यते तद्विषयता चात्रेज्यते, तदर्थे छन्दोग्रहणमनुवर्त्त्यं, शु-
शाकल्पतया च भिक्षुनटसूत्रयोश्छन्दस्त्वम् । पाराशर्येण प्रोक्तमधीयते पाराशरिणो
भिक्षवः। शैलालिनो नटाः। भिक्षुनटसूत्रयोरिति किम् । पाराशरम् । शैलालम् ॥
कर्मन्दकृशाश्वादिनिः ॥ १११ ॥
भिक्षुनटसूत्रयोरित्येव । कर्मन्दकृशाश्वशब्दाभ्यामिनिः प्रत्ययो भवति ।
अणोपवादः । तेन प्रोक्तमित्येतस्मिन्विषये यथासंख्यं भिक्षुनटसूत्रयोरभिधेययो,-
रत्रापि तद्विषयतार्थं छन्दोग्रहणमनुवर्त्यम् । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो
भिक्षवः । कृशाश्विनो नटाः । भिक्षुनटसूत्रयोरित्येव । कार्मन्दम् । कार्शाश्वम् ।
तेनैकदिक् ॥ ११२ ॥
तेनेति तृतीयासमर्थादेकदिगित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
एकदिक् तुल्यदिक्, समानदिगित्यर्थः । सुदाम्ना एकदिक् सौदामनी विद्युत् ।
हैमवती । त्रैककुदी । पैलुमूली । तेनेति । प्रकृते पुनः समर्थविभक्तिग्रहणं
छन्दोधिकारनिवृत्त्यर्थम् । पूर्वेत्र हि छन्दोधिकारात् तद्विषयता साध्यते ॥
तसिश्च ॥ ११३ ॥
तसिश्च प्रत्ययो भवति तेनैकदिगित्येतस्मिन्विषये । पूर्वेण घादिषु
अणादिषु च प्राप्तेष्वयमपरः प्रत्ययो विधीयते स्वरादिपाठादव्ययत्वम् । सुदा-
मतः । हिमवतः । पीलुमूलतः ॥
उरसो यच्च ॥ ११४ ॥
उरःशब्दाद्यत् प्रत्ययो भवति चकारात्तसिश्च, तेनैकदिगित्येतस्मिन्वि-
षये । अणोपवादः । उरसा एकदिक् उरस्यः । उरस्तः ॥
- कौथुमीति पा० ।
† जाङ्गलोति बहुषु पुस्तकेषु न दृश्यते ।
३४८ ॥ काशिका ॥ ४ । ३ ॥
उपज्ञाते ॥ ११५ ॥
तेनेत्येव । तृतीयासमर्थादुपज्ञातइत्येतस्मिन्विषये। यथाविहितं प्रत्ययो
भवति । विनोपदेशेन ज्ञातमुपज्ञातं स्वयमभिसंबद्धमित्यर्थः । पाणिनिनोपज्ञातं
पाणिनीयमकालं व्याकरणम् । काशकृत्स्नम् । गुरुलाघवम् । आपिशलम् ।
पुष्करसम् ॥
कृते ग्रन्थे ॥ ११६ ॥
तेनेत्येव । तृतीयासमर्थात्कृतइत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति,
यत्तत्कृतं ग्रन्थश्चेत्स भवति । वररुचिना कृता वाररुचाः श्लोकाः । हैकुपादो
ग्रन्थः । भैकुरटो ग्रन्थः । जालूकः । ग्रन्थइति किम् । तत्तक्ष्णः प्रासादः ।
उत्पादितं कृतं, विद्यमानमेव ज्ञातमुपज्ञातमित्यनयोर्विशेषः ॥
संज्ञायाम् ॥ ११७ ॥
तृतीयासमर्थात्कृतइत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति समुदायेन
चेत्संज्ञा ज्ञायते । मक्षिकाभिः कृतं माक्षिकम् । कार्मुकम्* । सारघम् । पौत्ति-
कम् । मधुनः संज्ञा एताः ॥
कुलालादिभ्यो वुञ् ॥ ११८ ॥
तेन कृते संज्ञायामिति चैतत्सर्वमनुवर्तते । कुलालादिभ्यो वुञ् प्रत्ययो
भवति तेन कृतमित्येतस्मिन्नर्थे संज्ञायां गम्यमानायाम् । कौलालकम् । वारुड-
कम् । कुलाल । वारुड । चण्डाल । निषाद । कर्मार । सेना । सिन्धि ।
सेन्द्रिय । देवराज । परिषत् । वधू । रुह । ध्रुव । रुद्र । अनडुह् । ब्रह्मन् ।
कुम्भकार । श्वपाक । कुलालादिः ॥
क्षुद्राभ्रमरवटरपादपादञ् ॥ ११९ ॥
तेन कृते संज्ञायामिति सर्वमनुवर्तते । क्षुद्रादिभ्यो ऽञ् प्रत्ययो भवति
तेन कृतमित्येतस्मिन्विषये संज्ञायां गम्यमानायाम् । अणोपवादः । स्वरे विशेषः ।
क्षुद्रादिभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥
तस्येदम् ॥ १२० ॥
तस्येति षष्ठीसमर्थादिदमित्येतस्मिन्विषये यथाविहितं प्रत्ययो भव-
त्य, णादयः पञ्च महोत्सर्गाः । घादयश्च प्रत्यया यथाविहितं विधीयन्ते ।
प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्संबन्धिमात्रं च विवक्षितं यदपरं लिङ्गसंख्या-
प्रत्ययपरत्वादिकं तत्सर्वमविवक्षितम् । उपगोरिदमौपगवम् । कापटवम् ।
राष्ट्रियम् । अवारपारीणम् । अनन्तरादिष्वनभिधानान्न भवति । देवदत्तस्यान-
- कार्मुतमिति पा० २ ।
"?
No, that makes no sense in sutra 122!
Wait, let's look closely at line 30:
* गार्दभरथमित्यस्याग्रे 'रासभरथम् ।
Wait, the quote starts before रासभरथम्:
'रासभरथम् ।
Wait, is that a danda after रासभरथम्?
Yes, ।!
Then what is the next character?
It is: कें? No! Look at it:
It has a top bar, a vertical line, and a loop to the left... wait, it's के!
Wait, could it be । केचित् 'परत्वाद्व्याधते' ...?
NO! Let's read the characters carefully:
*
गार्दभरथमित्यस्याग्रे
'रासभरथम् ।
Wait! Is that 'रासभरथम् । or 'रासभरथम्'?
Look at the mark after रासभरथम्:
There is . (dot) or ।? It is ।!
Then: a symbol!
Let's describe this symbol:
It looks like a vertical line with a flag or circle. Could it be ऽ?
Wait, could it be a footnote sign, like a cross or star?
Look at the other footnote signs:
Line 30:
३५० ॥ काशिका ॥ ४ ॥ ३ ॥
ग्लौचुकायनकम् औपगवकम् ॥ चरणाद्धर्माम्नाययोरिष्यते ॥ काठकं, कालाप-
कम् । मौदकम् । पैप्पलादकम् ॥
संघाङ्कलक्षणेष्वञ्यञिञामण् ॥ १२७ ॥
संघादिषु प्रत्ययार्थविशेषेष्वञन्ताद् यञन्ताद् इञन्ताच्च प्रातिपदि-
कादण् प्रत्ययो भवति तस्येदमित्येतस्मिन्विषये । पूर्वस्य वुञो ऽपवादः ॥ घोष-
ग्रहणमत्र कर्तव्यम् ॥ * ॥ तेन वैषम्याद्यथासंख्यं न भवति । अञन्तात् । बैदः
संघः । बैदोऽङ्कः । बैदं लक्षणं, बैदो घोषः । यञन्तात् । गार्गः संघः । गार्गोऽङ्कः ।
गार्गं लक्षणम् । गार्गो घोषः । इञन्तात् । दात्तः संघः । दात्तोऽङ्कः । दात्तं लक्ष-
णम् । दात्तो घोषः । अङ्कलक्षणयोः को विशेषः । लक्षणं लक्ष्यभूतस्यैव
॥ काशिका ॥ ४ ॥ ३ ॥ ३५१
कौपिञ्जलहास्तिपदादण् ॥ १३२ ॥
कौपिञ्जलहास्तिपदशब्दाभ्यामण् प्रत्ययो भवति तस्येदमित्येतस्मिन्वि-
षये । गोत्रवुञोऽपवादः । गोत्राधिकारात् । कौपिञ्जलः । हास्तिपदः ॥
आथर्वणिकस्येकलोपश्च ॥ १३३ ॥
अणित्येव । आथर्वणिकशब्दादण् प्रत्ययो भवति तत्संनियोगेन चेक-
लोपः, तस्येदमित्येतस्मिन्विषये । चरणवुञोऽपवादः । आथर्वणिकस्याय,माथ-
र्वणो धर्म आम्नायो वा । चरणाद्धर्माम्नाययोः ॥
तस्य विकारः ॥ १३४ ॥
तस्येति षष्ठीसमर्थाद्विकार इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भव-
ति । प्रकृतेरवस्थान्तरं विकारः । किमिहोदाहरणम्, अप्राप्याद्युदात्तमवृद्धं यस्य
च नान्यत्र प्रतिपदं ग्रहणम् । अश्मनो विकारः, आश्मनः । आश्मः । अश्मनो
- विकार इति टिलोपः पाक्षिकः । भास्मनः । मार्त्तिकः । नित्स्वरेणाद्युदात्ता
एते । तस्यप्रकरणे तस्येति पुनर्वचनं शैषिकनिवृत्त्यर्थम् । विकारावयवयोर्घादयो
न भवेन्सि । हालः । सौरः ।
अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ १३५ ॥
प्राण्योषधिवृक्षवाचिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यो ऽवयवे यथाविहितं
प्रत्ययो भवति, चकाराद्विकारे च । तत्र प्राणिभ्यो ऽञं वक्ष्यति । कपोतस्य
विकारो ऽवयवो वा, कापोतः । मायूरः । तैत्तिरः । ओषधिभ्यः । मौर्वं काण्डं,
मौर्वं भस्म । वृक्षेभ्यः । कारीरं काण्डं, कारीरं भस्म । इत उत्तरे प्रत्ययाः
प्राण्योषधिवृक्षेभ्यो विकारावयवयोर्भवन्ति * । अन्येभ्यस्तु विकारमात्रे । कथं
द्वयमप्यधिक्रियते तस्य विकारः, अवयवे च प्राण्योषधिवृक्षेभ्य, इति । विक्ा-
रावयवोर्युगपदधिकारो ऽपवादविधानार्थः । कृतनिर्देशौ हि तौ ॥
बिल्वादिभ्यो ऽण् ॥ १३६ ॥
बिल्व इत्येवमादिभ्यो ऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः ।
यथायोगमञ्मयटोरपवादः । बिल्वस्यावयवो विकारो वा, बैल्वः । गवेधुका-
शब्दोऽत्र पठ्यते, ततः कोपधादेव सिद्धे मयड्बाधनार्थं ग्रहणम् । बिल्व । व्रीहि ।
काण्ड । मुद्ग । मसूर । गोधूम । इक्षु । वेणु । गवेधुका । कर्पासी । पाटली ।
कर्कन्धू । कुटीर । बिल्वादिः ॥ - भवन्तीत्यस्याग्रे 'वृक्षशब्देन वनस्पतयो ऽपि गृह्यन्ते । न्यग्रोधस्य विकारो ऽवयवो
वा, न्यैग्रोधः । पैप्पलः । मौदुम्बरः । ओषधिशब्दाल्लतातृणादयो ऽपि गृह्यन्ते । ताम्बूलस्य
विकारो ऽवयवो वा, ताम्बूलः । गान्दूषः । इभ्यो विकारावयवोर्भवन्ति' इत्याधिकमेकस्मि-
न्पुस्तके ।
३५२ ॥ काशिका ॥ ४ । ३ ॥
कोपधाच्च ॥ १३७ ॥
ककारोपधात्प्रातिपदिकादण् प्रत्ययो भवति यथायोगं विकारावयवयो-
र्ग्रन्थयोः। अञोऽपवादः। तर्कुं। तार्क्वम्। तित्तिडीक। तैत्तिडीकम्। माण्डू-
कम्। दार्दुरुकम्। माधूकम् ॥
त्रपुजतुनोः षुक् ॥ १३८ ॥
त्रपुजतुशब्दाभ्यामण् प्रत्ययो भवति विकारे, तत्सन्नियोगेन तयोः षुगा-
गमो भवति। ओरञोऽपवादः। त्रपुणो विकारः, त्रापुषम्। जातुषम्। अश्रा-
श्यादित्वाद्वावयवे ॥
ओरञ् ॥ १३९ ॥
उवर्णान्तात्प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयो, रञो-
पवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवम्। भाद्रदारवम् ॥
अनुदात्तादेश्च ॥ १४० ॥
॥ काशिका ॥ ४ ॥ ३ ॥ ३५३
नित्यं वृद्धशरादिभ्यः ॥ १४४ ॥
भाषायामभक्ष्याच्छादनयोरित्येव । वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्य-
श्चामक्ष्याच्छादनयोर्विकारावयवयोर्भाषायां विषये नित्यं मयट् प्रत्ययो भवति ।
वृद्धेभ्यस्तावत् । आम्रमयम् । शालमयम् । शाकमयम् । शरादिभ्यः । शरम-
यम् । दर्भमयम् । मृन्मयम् । नित्यग्रहणं किम् । यावता ऽऽरम्भसामर्थ्यादेव
नित्यं भविष्यति । एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते । त्वङ्मयम् ।
स्रङ्मयम् । वाङ्मयमिति । शर । दर्भ । मृत् । कुटी । तृण । सोम । बल्वज ॥
गोश्च पुरीषे ॥ १४५ ॥
गोशब्दात्पुरीषे ऽभिधेये मयट् प्रत्ययो भवति । गोमयम् । पुरीषइति
किम् । गव्यं पयः । पुरीषं न विकारो न चावयवस्तस्येदंविषये विधानम् ।
विकारावयवयोस्तु गोपयसोर्यत् वक्ष्यति ॥
पिष्टाच्च ॥ १४६ ॥
पिष्टशब्दाच्चित्यं मयट् प्रत्ययो भवति तस्य विकार इत्येतस्मिन्विषये,
ऽणोऽपवादः । पिष्टमयं भस्म ॥
संज्ञायां कन् ॥ १४७ ॥
पिष्टशब्दात्कन् प्रत्ययो भवति विकारे संज्ञायां विषये । मयटोपवादः ।
पिष्टकः ॥
व्रीहेः पुरोडाशे ॥ १४८ ॥
व्रीहिशब्दान्मयट् प्रत्ययो भवति पुरोडाशे विकारे । बिल्वाद्यणोप-
वादः । व्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥
असंज्ञायां तिलयवाभ्याम् ॥ १४९ ॥
तिलयवशब्दाभ्यामसंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोर-
र्थयोः । तिलमयम् । यवमयम् । असंज्ञायामिति किम् । तैलम् । यावकः ।
यावादिभ्यः कन् ॥
द्व्यचश्छन्दसि ॥ १५० ॥
द्व्यचः प्रातिपदिकाच्छन्दसि विषये मयट् प्रत्ययो भवति विकाराव-
यवयोरेतयोः । भाषायां मयडुक्तः छन्दस्यप्राप्तो विधीयते । यस्य पर्णमयी
जुहूर्भवति । दर्भमयं वासो भवति । शरमयं बर्हिर्भवति ॥
नोत्त्वद्दूर्वाबिल्वात् ॥ १५१ ॥
उत्त्वतः प्रातिपदिकाद्दूर्वाबिल्वशब्दाभ्यां च मयट् प्रत्ययो न भवति ।
२३
३५४ ॥ काशिका ॥ ४ । ३ ॥
ष्ठञ्छन्दसीति प्राप्तः प्रतिषिध्यते । मौञ्जं शिक्यम् । गार्मुतं चक्रम् । वार्क्षी
बालप्रग्रथिता भवति । बैल्वो ब्रह्मवर्चसकामेन कार्यः । तपरकरणं तत्कालार्थम् ।
धूममयान्यभ्राणि । मतुब्निर्देशस्तदन्तविधिनिरासार्थः । इहैव स्यात् । बेल्वो
यष्टिरिति ॥
तालादिभ्योऽण् ॥ १५२ ॥
तालादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति विकारावयवयोर-
र्थयोः । मयडादीनामपवादः । तालं धनुः । बार्हिषम् । ऐन्द्रालिषम् ॥ ताल *
धनुषि * ॥ बार्हिष । इन्द्रलिष । इन्द्रादृश । इन्द्रायुध । चाप † श्यामाक ।
प्रागुक्ता । तालादिः ॥
जातरूपेभ्यः परिमाणे ॥ १५३ ॥
जातरूपं सुवर्णम् । बहुवचननिर्देशात्तद्वाचिनः सर्वे गृह्यन्ते । जातरूप-
वाचिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति परिमाणे विकारे । मयडादीना-
मपवादः । हाटको निष्कः । हाटकं कार्षापणम् । जातरूपम् । तापनीयम् ।
- परिमाण इति किम् । यष्टिरियं हाटकमयी ॥
प्राणिरजतादिभ्यो ऽञ् ॥ १५४ ॥
प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतादिभ्यश्चाञ् प्रत्ययो भवति विका-
रावयवयोरर्थयोः । अणादीनामपवादः । अनुदात्तादेरञ् विहित एव, परिशि-
ष्टमिहोदाहरणम् । प्राणिभ्यस्तावत् । कापोतम् । मायूरम् । तैत्तिरम् । रज-
तादिभ्यः । राजतम् । सैसम् । लौहम् । रजतादिषु ये ऽनुदात्तादयः पठ्यन्ते
रजतकण्टकारप्रभृतयस्तेभ्योऽञि सिद्धे पुनर्वचनं मयड्बाधनार्थम् । रजत । सीस ।
लोह । उदुम्बर । नीच ‡ । दाह । रोहितक । बिभीतक । कपीत । दाढ ।
तीव्रदाह । त्रिकण्टक । कण्टकार ॥
ञितश्च तत्प्रत्ययात् ॥ १५५ ॥
अञित्येव । तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः । ञित्तो विका-
रावयवप्रत्ययस्तदन्तात्प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरथ § ।
मयटोपवादः । ओरञ् । शम्याष्ट्लञ् । प्राणिरजतादिभ्योऽञ् । उष्ट्रादुञ् ।
शङ्खा ठञ् । कंसीयपरशव्ययोर्यञञौ । इत्येते प्रत्यया गृह्यन्ते । दैवदारवस्य - तालान्धनुषीत्यारभ्य तालमयमन्वत् । नित्यं वृद्धेति मयट् । इत्याधिकमेक-
स्मिन्पुस्तके ।
† चर्मेति पा० २ ।
‡ नीचेति पा० २ ।
§ विकारावयवयोरित्येवेति पा० २ ।
विकारो ऽवयवो वा, दैवदारवम्। दाधित्थस्य, दाधित्थम्। पालाशस्य, पा-
लाशम्। शामीलस्य, शामीलम्। कापोतम्। औष्ट्रकस्य, औष्ट्रकम्। ऐणेयस्य,
ऐणेयम्। कांस्यस्य, कांस्यम्। पारशवस्य, पारशवम्। ञित इति किम्। बैल्व-
मयम्। तत्प्रत्ययादिति किम्। बैदमयम्॥
क्रीतवत्परिमाणात् ॥ १५६ ॥
प्राग्वतेष्ठजित्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद्विहितास्ते वि-
कारे ऽतिदिश्यन्ते। परिमाणात् क्रीतवत् प्रत्यया भवन्ति तस्य विकार इत्येत-
स्मिन्विषये। अणादीनामपवादः। संख्या परिमाणग्रहणेन गृह्यते, न रूढिप-
रिमाणमेव। निष्केण क्रीतं, नैष्किकम्। एवं निष्कस्य विकारो, नैष्किकः।
शतेन क्रीतं, शत्यं, शतिकम्। शतस्य विकारः, शत्यः, शतिकः। साहस्रः।
व
first word after *:
It starts with क... wait, does it have an र on top?
Wait, it looks like कर्कन्धु or कर्कन्धू!
Line 29:
† काथ । कुटज । इत्याधिकं कुत्र चित् ।
Wait, is it काथ or क्वाथ?
Look at † क्वाथ: क ् व ा थ = क्वाथ! Yes, क्वाथ । कुटज । इत्याधिकं कुत्र चित् ।
Line 30:
‡ नवमालिका पा० २ ।
Line 31:
§ नखरञ्जनी । पा० २ ।
Line 32:
‖ शाल्लकट्टी । पा० २ ।
(In L27 it's शल्लकक्षी, footnote has शाल्लकट्टी)
Let's re-read footnote 1 (Line 28):
* कर्कन्धु । पा० २ द्वितीयपुस्तके कर्कन्धू । पा० २ ।
Wait, the second occurrence has long ू or the first?
Let's look at the first: कर्कन्धु or कर्कन्धू?
Actually, let's transcribe it accurately.
It says: `* कर्कन्धु । पा० २ द्वितीयपुस्तके कर्कन्धू । पा०
॥ काशिका ॥ ४ ॥ ३ ॥ ३५७
अर्जुनपाकी । काला । द्राक्षा । ध्वाङ्क्षा । गर्गरिका । कण्टकारिका ।
शेफालिका *॥
कंसीयपरशव्योर्यञञौ लुक्च ॥ १६८ ॥
प्राक्क्रीताच्छेन् कंसीयः । उगवादिभ्यो यत् । परशव्यः । कंसीयपरश-
व्यशब्दाभ्यां यथासंख्यं यञञौ प्रत्ययौ भवतस्तस्यविकार इत्येतस्मिन्विषये, तत्सं-
नियोगेन च कंसीयपरशव्ययोर्लुग्भवति । कंसीयस्य विकारः, कांस्यः । परशव्यस्य
विकारः, पारशवः । प्रातिपदिकाधिकाराद्धातोःप्रत्ययस्य न लुग्भवति । परशव्य-
शब्दादनुदात्तादित्वादेवाञि सिद्धे लुगर्थं वचनम् । ननु च यस्येति लोपे कृते
हलस्तद्धितस्येति यलोपो भविष्यति । नैतदस्ति । ईतीति तत्र वर्तते ॥
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ
चतुर्थाध्यायस्य तृतीयः पादः ॥
॥ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
प्राग्वहतेष्ठक् ॥ १ ॥
तद्वहति रथयुगप्रासङ्गमिति वक्ष्यति । प्रागेतस्माद्वहतिसंशब्दनाद्यानर्था-
ननुक्रमिष्यामः, ठक् प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति । दीव्यति खनति
जयति जितमिति । अक्षैर्दीव्यति आक्षिकः ॥ ठक्प्रकरणे तदाहेति माशब्दा-
दिभ्य उपसंख्यानम् ॥ * ॥ माशब्द इत्याह माशब्दिकः । नैत्यशब्दिकः । कार्यश-
ब्दिकः । वाक्यादेतत्प्रत्ययविधानम् ॥ आहोप्रभूतादिभ्यः ॥ * ॥ प्रभूतमाह, प्राभू-
तिकः । पार्याप्तिकः । क्रियाविशेषणात्प्रत्ययः ॥ पृच्छतौ सुखातादिभ्यः ॥ * ॥
सुखतं पृच्छति सौखातिकः । सौशायनिकः ॥ गच्छतौ परदारादिभ्यः ॥ * ॥
परदारान् गच्छति पारदारिकः । गोष्ठप्तिकः ॥
तेन दीव्यति खनति जयति जितम् ॥ २ ॥
तेनेति तृतीयासमर्थाद् दीव्यति खनति जयति जितमित्येतेष्वर्थेषु ठक्
प्रत्ययो भवति । अक्षैर्दीव्यति,आक्षिकः । शालाकिकः । खनित्रा खनति, खान्त्रि-
कः । कौद्दालिकः । अक्षैर्जयति, आक्षिकः । अक्षैर्जितमाक्षिकम् । शालाकिकम् ।
सर्वत्र करणे तृतीया समर्थविभक्तिः । देवदत्तेन जितमिति प्रत्ययो न भवति,
अनभिधानात् । अङ्गुल्या खनतीति च । प्रत्ययार्थे संख्याकालयोरेव विवक्षा ।
क्रियाप्रधानत्वेऽपि धात्वर्थस्य तद्धितः स्वभावात्साधनप्रधानः ॥
- शेफालिकेत्यस्याग्रे 'शेषां च कप्रत्ययान्निमित्तः शेषः ॥ पुष्पमूलेषु बहुलम्'
इत्यधिकं बहु षु पुस्तकेषु ।
३५८ ॥ काशिका ॥ ४ ॥ ४ ॥
संस्कृतम् ॥ ३ ॥
तेनेति तृतीयासमर्थात्संस्कृतमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत
उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं, दाधिकम्। शार्ङ्गावेरिकम्। मारिचिकम्।
योगविभाग उत्तरार्थः॥
कुलत्थकोपधादण् ॥ ४ ॥
कुलत्थशब्दात्ककारोपधाच्छब्दाच्च प्रातिपदिकादण् प्रत्ययो भवति
संस्कृतमित्येतस्मिन्विषये। ठकोपवादः। कुलत्थैः संस्कृतं, कौलत्थम्। कका-
रोपधात्। तैत्तिडिकम्*। दार्दभकम्॥
तरति ॥ ५ ॥
तेनेति तृतीयासमर्थात्तरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। तरति
प्लवते इत्यर्थः। काण्डप्लवेन तरति, काण्डप्लविकः। औडुपिकः॥
गोपुच्छाट्ठञ् ॥ ६ ॥
गोपुच्छशब्दाट् ठञ्प्रत्ययो भवति तरतीत्येतस्मिन्नर्थे। ठकोपवादः।
स्वरे विशेषः। गौपुच्छिकः॥
नौद्व्यचष्ठन् ॥ ७ ॥
नौशब्दाद् द्व्यचश्च प्रातिपदिकाट् ठन् प्रत्ययो भवति तरतीत्येतस्मि-
न्नर्थे। ठकोपवादः। नावा तरति, नाविकः। द्व्यचः खल्वपि। घटिकः। प्लवि-
कः। बाहुकः। षकारः सांहितिको नानुबन्धः। बाहुका स्त्री॥
आकर्षात्पर्यदेर्भैस्त्रादिभ्यः कुसीदसूत्राच्च।
आवसथात्किशरादेः षितः षडेते ठगाधिकारे॥
विधिवाक्यापेतं च षट्त्वं प्रत्ययास्तु सप्त॥
चरति ॥ ८ ॥
तेनेति तृतीयासमर्थाच्चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरति-
र्भक्षणे गतौ च वर्तते। दध्ना चरति, दाधिकः। हास्तिकः। शाकटिकः॥
आकर्षात्ष्ठल् ॥ ९ ॥
आकर्षशब्दात् ष्ठल् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोपवादः।
लकारः स्वरार्थः। षकारो ङीबर्थः। आकर्षेण चरति, आकर्षिकः। आकर्-
षिकी। आकर्ष इति सुवर्णपरीक्षार्थो निकषोपल उच्यते॥
- तैत्तिरीकम्। पा० २।