काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
आद्यन्ताद् वृद्धः प्रातिपदिकादपत्ये फिञ् प्रत्ययो भवति । इञोप-
वादः । कार्त्त्रायणिः । हार्त्त्रायणिः * । अण इति किम् । दाक्षायणः । वृद्ध
इति किम् । औपगविः ॥ त्यदादीनां वा फिञ् वक्तव्यः ॥ * ॥ त्यादायनिः ।
त्यादः । यादायनिः । यादः । तादायनिः । तादः । अणञ प्राप्तः ॥
उदीचां वृद्धादगोत्रात् ॥ १५७ ॥
वृद्धं यच्छब्दरूपमगोत्रं तस्मादपत्ये फिञ् प्रत्ययो भवति उदीचामा-
चार्याणां मतेन । आम्रगुप्तायनिः । चामरतायणिः । कारिशब्दादपि वृद्धादगो-
त्रात्परत्वादनेनैव भवितव्यम् । नापितायनिः । उदीचामिति किम् । आम्र-
गुप्तिः । वृद्धादिति किम् । याज्ञदत्तिः । अगोत्रादिति किम् । औपगविः ॥
वाकिनादीनां कुक्च ॥ १५८ ॥
वाकिन इत्येवमादिभ्यः शब्देभ्यो ऽपत्ये फिञ् प्रत्ययो भवति तत्स-
न्नियोगेन चैषां कुगागमः । यदिह वृद्धमगोत्रं शब्दरूपं तस्यागमार्थमेव ग्रहण-
मन्येषामुभयार्थम् । वाकिनकायनिः । गारेधकायनिः । इञाद्यपवादो योगः ।
उदीचामित्यधिकारात्पक्षे तेऽपि भवन्ति । वाकिनिः । गारेधिः । वाकिन ।
गारेध । कार्केय । काक । लङ्का ॥ चर्मवर्मणोर्नलोपश्च ॥
पुत्रान्तादन्यतरस्याम् ॥ १५९ ॥
उदीचां वृद्धादिति वर्तते । पुत्रान्तमगोत्रमिति पूर्वेणैव प्रत्ययः सिद्ध-
स्तस्मिन्ननेन कुगागमोऽन्यतरस्यां विधीयते । पुत्रान्तात्प्रातिपदिकाद्यः फिञ्प्रत्य-
यस्तस्मिन् परभूते ऽन्यतरस्यां कुगागमो भवति पुत्रान्तस्य । तेन त्रैरूप्यं संप-
द्यते । गार्गीपुत्रकायणिः । गार्गीपुत्रायणिः । गार्गीपुत्रिः । वात्सीपुत्रकायणिः ।
वात्सीपुत्रायणिः । वात्सीपुत्रिः ॥
प्राचामवृद्धात्फिन्बहुलम् ॥ १६० ॥
अवृद्धाच्छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन । म्लुचु-
कायनिः । अहिचुम्बकायनिः । प्राचामिति । किम् । म्लौचुकिः । अवृद्धादिति
किम् । राजदत्तिः । उदीचां प्राचामन्यतरस्यां बहुलमिति सर्वेऽते विकल्पा-
र्थास्तेषामेकेनैव सिद्धयति तत्राचार्यग्रहणं पूजार्थम् । बहुलग्रहणं वैचित्र्यार्थम् ।
क्व चिन्न भवत्येव । दाक्षिः । प्लाक्षिः ॥
मनोर्जातावञ्यतौ षुक्च ॥ १६१ ॥
मनुशब्दादञ् यत् इत्येतौ प्रत्ययौ भवतस्तत्सन्नियोगेन षुगागमः समु-
दायेन चेज्जातिर्गम्यते । मानुषः । मनुष्यः । जातिशब्दावेतौ । अपत्यार्थाच्च
- बास्क इति विवार्ताद्यभोञ् । बास्कस्यापत्यं बास्कायनिः । इत्यधिकं पुस्तकान्तरे ।-
॥ काशिका ॥ ४ । १ ॥ २८१
नास्त्येव । तथा च मानुषा इति बहुषु न लुग्भवति । अपत्यविवक्षायां त्वत्रैव
भवितव्यम् । मानवी प्रजा ।
अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः ।
नकारस्य च मूर्द्धन्यस्तेन सिद्ध्यति माणवः ॥
अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६२ ॥
पौत्रप्रभृति यदपत्यं तद्गोत्रसंज्ञं भवति । संबन्धिवचनत्वादपत्यशब्दस्य
यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसंज्ञा विधीयते। गर्गस्यापत्यं पौत्रप्रभृति गार्ग्यः।
वात्स्यः । अपत्यमिति व्यपदेशार्थं संज्ञिनः पौत्रप्रभृतेः । पौत्रप्रभृतीति किम् ।
आनन्तरस्य मा भूत् । कौञ्जः । गार्गः । गोत्रप्रदेशा एको गोत्रइत्येवमादयः ॥
जीवति तु वंश्ये युवा ॥ १६३ ॥
अभिजनप्रबन्धो वंशः । तत्र भवो वंश्यः पित्रादि,तस्मिन् जीवति
सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति । पौत्रप्रभृतीति च न सामानाधिकरण्येना-
पत्यं विशेषयति, किं तर्हि षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर्यदपत्यमिति । तेन
चतुर्थादारभ्य युवसंज्ञा विधीयते । गार्ग्यायणः । वात्स्यायनः । तुशब्दोवधा-
रणार्थो युवैव न गोत्रमिति ॥
भ्रातरि च ज्यायसि ॥ १६४ ॥
भ्रातरि ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति पौत्रप्रभृते-
रपत्यम् । गार्ग्यस्य द्वौ पुत्रौ तयोः कनीयान् मृते पित्रादौ वंश्ये भ्रातरि
ज्यायसि जीवति युवसंज्ञो भवति । अवंश्यार्थोयमारम्भः । पूर्वजाः पित्रादयो
वंश्या इत्युच्यन्ते । भ्राता तु न वंश्यः। अकारणत्वात् । गार्ग्ये जीवति गार्ग्या-
यणोस्य कनीयान्भ्राता । वात्स्यायनः । दाक्षायणः । प्लाक्षायणः ॥
वान्यस्मिन् सपिण्डे स्थविरतरे जीवति ॥ १६५ ॥
सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते । येषाम्
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते * ।
इत्येवमादिकायां क्रियायामनधिकारः । भ्रातुरन्यस्मिन्सपिण्डे स्थविर
तरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा भवति । प्रकृतं जीवतिग्रहणं
सपिण्डस्य विशेषणमिदं तु संज्ञिनः । तरब्निर्देश उभयोत्कर्षार्थः । स्थानेन
वयसा चोत्कृष्टे सपिण्डे यथा स्यात् । पितृव्ये पितामहे भ्रातरि वयसाधिके
जीवति । गर्गस्यापत्यं गार्ग्यायणः । गार्ग्यो वा । वात्स्यायन । वात्स्यो वा ।
- दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते इति पद्यार्द्धमधिकं कुत्र चित् ।
२८२ ॥ काशिका ॥ ४ । १ ॥
दाक्षायणः । दाक्षिर्वा । स्थविरेति किम् । स्थानवयोन्यूने गार्ग्य एव भवति ।
जीवतीति किम् । मृते मृते वा गार्ग्य एव भवति ॥
वृद्धस्य च पूजायाम् ॥ १६६ ॥
अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे परिभाषणाद्गोत्रं वृद्धमित्युच्यते ।
वृद्धस्य युवसंज्ञा वा भवति पूजायां गम्यमानायाम् । संज्ञासामर्थ्याद्गोत्रं युव-
प्रत्ययेन पुनरुच्यते । वृद्धस्येति षष्ठीनिर्देशो विचित्रा सूत्रस्य कृतिरिति । तत्र
भवान् गार्ग्यायणः । गार्ग्यो वा । तत्र भवान् वात्स्यायनः । वात्स्यो वा । तत्र
भवान् दाक्षायणः । दाक्षिर्वा । पूजायामिति किम् । गार्ग्यः । वात्स्यः ॥
यूनश्च कुत्सायाम् ॥ १६७ ॥
कुत्सायां गम्यमानायां यूनो वा युवसंज्ञा भवति । निवृत्तिप्रधाने
विकल्पो, युवसंज्ञायां प्रतिषिद्धायां पक्षे गोत्रसंज्ञैव भवति, प्रतिपत्ताभावात् ।
गार्ग्यौ जाल्मः । गार्ग्यायणो वा । वात्स्यो जाल्मः । वात्स्यायनो वा । दाक्षि-
र्जाल्मः । दाक्षायणो वा । कुत्सायामिति किम् । गार्ग्यायणः ॥
जनपदशब्दात्क्षत्रियादञ् ॥ १६८ ॥
जनपदशब्दो यः क्षत्रियवाची तस्मादपत्ये ऽञ् प्रत्ययो भवति ।
पाञ्चालः । ऐक्ष्वाकः । वैदेहः । जनपदशब्दादिति किम् । द्रुह्योरपत्यं, द्रौह्यवः ।
पौरवः । क्षत्रियादिति किम् । ब्राह्मणस्य पञ्चालस्यापत्यं, पाञ्चालिः । वैदेहिः ॥
क्षत्रियसमानशब्दाज्जनपदशब्दात्तस्य राजन्यपत्यवत् ॥ * ॥ पञ्चालानां राजा
पाञ्चालः । वैदेहः । मागधः । ॠद्वृद्धात्पेति प्राप्तस्य वुञोऽपवादः ॥
साल्वेयगान्धारिभ्यां च ॥ १६९ ॥
साल्वेयगान्धारिशब्दाभ्यामपत्ये ऽञ् प्रत्ययो भवति । जनपदशब्दावेतौ
क्षत्रियाभिधायिनौ ताभ्यामपवादे वृद्धादिति ञ्यङि प्राप्ते पुनरञ्विधीयते ।
साल्वेयः । गान्धारः । तस्य राजनीत्येव । साल्वेयो राजा । गान्धारो राजा ॥
द्व्यञ्मगधकलिङ्गसूरमसादण् ॥ १७० ॥
जनपदशब्दात्क्षत्रियाभिधायिनो द्व्यचो मगध कलिङ्ग सूरमस इत्येते-
भ्यश्चापत्ये ऽण् प्रत्ययो भवति । अञोऽपवादः । आङ्गः । वाङ्गः । सौरमसः ।
पौण्ड्रः । मागधः । कालिङ्गः । सौह्मः । तस्य राजनीत्येव । आङ्गो राजा । वाङ्गो राजा ॥
वृद्धेत्कोसलाजादाञ्ञ्यङ् ॥ १७१ ॥
जनपदशब्दात्क्षत्रियादित्येव । वृद्धाच्च प्रातिपदिकादिकारान्ताच्च को-
सलाजादशब्दाभ्यां चापत्ये ञ्यङ् प्रत्ययो भवति । अञोऽपवादः । वृद्धात्तावत् ।
आम्बष्ठ्यः । सौवीर्य्यः । इकारान्तात् । आवन्त्यः । कौन्त्यः । कोसलाजादयो-
(or तन्नामिका)". Actually, in exact transcription, usually people want the text as printed. Let's look at "तवामिका": yes, it looks like तवामिका.
Line 11:
"अपत्यं, द्व्यच इति ढक् । साल्वेयः ॥ अयमपीष्यते ॥ साल्वः । तस्य निवासः"
Wait, is there a comma after अपत्यं?
"अपत्यं, द्व्यच इति ढक् ।" - yes, there is a comma!
"साल्वेयः ॥ अयमपीष्यते ॥ साल्वः । तस्य निवासः" - wait, look at "निवासः":
नि - वा - स - ः (with a colon/visarga).
Line 12:
"साल्वो जनपदः । तदवयवा उदुम्बरादयस्तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययवि-"
Wait, "क्षत्रियवृत्तिभ्य इदं प्रत्ययवि-"
Yes!
Line 13:
"धानम् । साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्ये इञ् प्रत्ययो"
Wait, check every word:
धानम् । साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्ये इञ् प्रत्ययो
Yes!
Line 14:
"भवति । अञोऽपवादः । औ
२९४ ॥ काशिका ॥ ४ ॥ २ ॥
अतश्च ॥ १७७ ॥
स्त्रियामित्येव । अकारप्रत्ययस्य तद्राजस्य स्त्रियामभिधेयायां लुग्भ-
वति । तकारो विस्पष्टार्थः । शूरसेनी । मद्री । दरत् । अवन्त्यादिभ्यो लुग्व-
चनात् तदन्तविधिरत्र नास्ति तेनेह न भवति । आम्बष्ठ्या । सौवीर्या ॥
न प्राच्यभर्गादियौधेयादिभ्यः ॥ १७८ ॥
प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य लुग्न भवति । अतश्चे-
त्यनेन स्त्रियां लुक् प्राप्तः प्रतिषिध्यते । प्राच्येभ्यः क्षत्रियेभ्यस्तावत् । पाञ्चाली ।
वैदेही । आङ्गी । वाङ्गी । मागधी । भर्गादिभ्यः । भार्गी । कारुषी । कैकेयी ।
यौधेयादिभ्यः । यौधेयी । शौभ्रेयी । शौक्रेयी । कस्य पुनरकारस्य प्रत्ययस्य यौधे-
यादिभ्यो लुक् प्राप्तः प्रतिषिध्यते । पाञ्चमिकस्याञः पर्श्वादिद्यौधेयादिभ्याम-
णञावित्येतस्य । कथं पुनस्तस्य भिन्नप्रकरणस्थस्यानेन लुक् प्राप्नोति । एतदेव
विज्ञापयति पाञ्चमिकस्यापि तद्राजस्यातश्चेत्यनेन लुग्भवतीति । किमेतस्य ज्ञा-
पनेन प्रयोजनं पर्श्वाद्यणः स्त्रियां लुक् सिद्धो भवति । पर्शूः । रक्षाः । आसुरी ।
तथा चोक्तं "यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुगिति" । भर्ग । करुष ।
केकय । कश्मीर । साल्व । सुस्याल । उरश * । कौरव्य । भर्गादिः । यौधेय ।
शौभ्रेय । शौक्रेय । यावाणेय । वार्त्तेय । धार्त्तेय । त्रिगर्त्त । भरत । उशीनर ।
यौधेयादिः ॥
॥ इति काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः ॥
॥ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
तेन रक्तं रागात् ॥ १ ॥
शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः । रज्यते ऽनेनेति रागः । तेनेति
तृतीयासमर्थाद्रागविशेषवाचिनः शब्दाद्रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो
भवति । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । कौसुम्भम् । रागादिति
किम् । देवदत्तेन रक्तं वस्त्रम् । कथं काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य
पादाविति । उपमानाद्भविष्यति, काषायाविव काषायौ । हारिद्राविव हारिद्रौ ।
इहैवेयान्नादरिति यावत्तृतीयासमर्थविभक्तिरनुवर्त्तते ॥
लाक्षारोचनाशकलकर्दमाट्ठक् ॥ २ ॥
- उरस । पा० २ ।
॥ काशिका ॥ ४ । २ ॥ २८५
लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठक् प्रत्य-
यो भवति । अणोपवादः । लाक्षया रक्तं वस्त्रं, लाक्षिकम् । रोचनिकम् । शाक-
लिकम् । कार्द्दमिकम् ॥ शकलकर्द्दमाभ्यामणपीष्यते ॥ शाकलम् । कार्द्दमम् ॥
नील्या अन् वक्तव्यः ॥ * ॥ नील्या रक्तं नीलं वस्त्रम् ॥ पीतात् कन् वक्त-
व्यः ॥ * ॥ पीतेन रक्तं पीतकम् ॥ हरिद्रामहारजनाभ्यामञ्वक्तव्यः ॥ * ॥
हारिद्रम् । माहारजनम् ॥
नक्षत्रेण युक्तः कालः ॥ ३ ॥
तृतीया समर्थविभक्तिरनुवर्त्तते । तेनेति तृतीयासमर्थाद् नक्षत्रविशेषवा-
चिनः शब्दाद् युक्त इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । योऽसौ युक्तः,
कालश्चेत्स भवति । कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते । पुष्यादि-
समीपस्थे चन्द्रमसि वर्त्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति । पुष्येण
युक्तः कालः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः । पौषी रात्रिः । पौष-
महः । माघी रात्रिः । माघमहः । नक्षत्रेणेति किम् । चन्द्रमसा युक्ता रात्रिः ।
काल इति किम् । पुष्येण युक्तश्चन्द्रमाः ॥
लुबविशेषे ॥ ४ ॥
पूर्वेण विहितस्य प्रत्ययस्य लुब् भवति अविशेषे । न चेन्नक्षत्रयुक्तस्य
कालस्य रात्र्यादिविशेषोऽभिधीयते । यावान् कालो नक्षत्रेण युज्यते ऽहोरात्र-
स्तस्याविशेषे लुब् भवति । अद्य पुष्यः । अद्य कृतिकाः । अविशेषइति किम् ।
पौषी रात्रिः । पौषमहः ॥
संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ५ ॥
अविशेषे लुब्विहितः पूर्वेण, विशेषार्थोऽयमारम्भः । श्रवणशब्दादश्वत्थ-
शब्दाच्चोत्पन्नस्य प्रत्ययस्य लुब् भवति संज्ञायां विषये । श्रवणा रात्रिः ।
अश्वत्थो मुहूर्त्तः । लुपि युक्तवद्भावः कस्मान्न भवति । निपातनाद् विभाषा
फाल्गुनीश्रवणाकार्त्तिकीति । संज्ञायामिति किम् । श्रावणी आश्वत्थी रात्रिः ॥
द्वन्द्वाच्छः ॥ ६ ॥
नक्षत्रद्वन्द्वात्तृतीयासमर्थाद्युक्ते काले छः प्रत्ययो भवति विशेषे चाविशेषे च ।
राधानुराधीया रात्रिः । तिष्यपुनर्वसवीयमहः । अविशेषे । अद्य राधानुराधी-
यम् । अद्य तिष्यपुनर्वसवीयम् । लुपं परत्वाद् बाधते ॥
दृष्टं साम ॥ ७ ॥
तेनेति तृतीयासमर्थाद् दृष्टं सामित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
यद् दृष्टं साम चेत्तद्भवति । क्रुञ्चेन दृष्टं, क्रौञ्चं साम । वासिष्ठम् । वैश्वामित्रम् ॥
२७६ ॥ काशिका ॥ ४ ॥ २ ॥
कलेर्ढक् ॥ ८ ॥
कलिशब्दात्तृतीयासामर्थ्याद् दृष्टं सामेत्येतस्मिन्नर्थे ढक् प्रत्ययो भवति ।
अणोऽपवादः । कलिना दृष्टं साम, कालेयम् ॥ सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः
॥ * ॥ अग्निना दृष्टमाग्नेयम् । एवमग्नौ भवमग्नेरागतमग्नेः 'स्वमिति सर्वत्र
ढगेव भवति । आग्नेयम् । तथा कालेयमपि प्रतिपत्तव्यम् ॥ दृष्टे सामनि अण्
वा डिद्वतीति वक्तव्यम् ॥ * ॥ उशनसा दृष्टं साम, औशनसम् । औशनम् ॥
जाते चार्थे योऽन्येन बाधितः पुनर्र्विधीयते स वा डिद्वतीति वक्तव्यम् ॥ * ॥
प्राग्दीव्यतोऽण् प्राप्तः कालठञा बाधितः सन्धिवेलाद्यृतुनक्षत्रेभ्य इति पुनर्विधी-
यते स वा डिद्वतीति वक्तव्यम् । शतभिषजि जातः शतभिषः । शातभिषजः ॥
तीयादीकक् स्वार्थे वा वक्तव्यः ॥ * ॥ द्वैतीयीकम् । तार्तीयीकम् । द्वितीय-
कम् । तृतीयकम् ॥ न विद्यायाः ॥ * ॥ द्वितीया तृतीया विद्या ॥ गोत्रादङ्-
वद्विष्यति ॥ * ॥ दृष्टं सामेत्यस्मिन्नर्थे । औपगवेन दृष्टं साम, औपगवकम् ।
कापटवकम् । गोत्रचरणाद्वुञ् भवति ।
दृष्टे सामनि जाते च द्विरणिद्वद् विधीयते ।
तीयादीकक् न विद्याया गोषादङ्ग्वद्विष्यते ॥
वामदेवाड् ड्यड्ढ्यौ ॥ ९ ॥
वामदेवशब्दात्तृतीयासामर्थ्याद्दृष्टं सामेत्यस्मिन्नर्थे ड्यत् ढ्य इत्येतौ
प्रत्ययौ भवतः । अणोऽपवादः । वामदेवेन दृष्टं साम, वामदेव्यं साम । तित्क-
रणं स्वरार्थम् । डित्करणं किमर्थे, ययतोश्चातदर्थ इति नञ उत्तरस्यान्तोदा-
त्तत्वे विधीयमाने ऽनयोर्ग्रहं मा भूत् । अननुबन्धकग्रहणपरिभाषया एकानु-
बन्धकग्रहणपरिभाषया चानयोर्निवृत्तिः क्रियते । अवामदेव्यम् ।
सिद्धे यस्येतिलोपेन किमर्थं ययतोः डितौ ।
ग्रहणं मा ऽतदर्थे भूदामदेव्यस्य नञ्स्वरे ॥
परिवृतो रथः ॥ १० ॥
तेनेति तृतीयासामर्थ्यात्परिवृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो
भवति, योऽसौ परिवृतो रथश्चेत्स भवति । वस्त्रेण परिवृतो रथः, वास्त्रो रथः।
काम्बलः । चार्मणः । रथ इति किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः
परिवृत उच्यते । यस्य न कश्चिदवयवो वस्त्रादिभिरवेष्टितः तेनेह न भवति ।
काष्ठैः परिवृतो रथः ॥
पाण्डुकम्बलादिनिः ॥ ११ ॥
॥ काशिका ॥ ४ । २ ॥ २८७
पाण्डुकम्बलशब्दात्तृतीयासमर्थात्परिवृतो रथ इत्येतस्मिन्नर्थे इनिः प्रत्य-
यो भवति । अणोपवादः । पाण्डुकम्बली । पाण्डुकम्बलिनौ । पाण्डुकम्बलिनः ।
पाण्डुकम्बलशब्दो राजास्तरस्य वर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे
वचनमयो निवृत्त्यर्थम् ॥
द्वैपवैयाघ्रादञ् ॥ १२ ॥
द्वीपिब्याघ्रयोर्विकारभूते चर्मणी द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां
परिवृतो रथ इत्येतस्मिन्नर्थे ऽञ् प्रत्ययो भवति । अणोपवादः । स्वरे विशेषः ।
द्वैपेन परिवृतो रथो द्वैपः । वैयाघ्रः ॥
कौमारापूर्ववचने ॥ १३ ॥
कौमार इत्येतदणप्रत्ययान्तं निपात्यते ऽपूर्ववचने । पाणिग्रहणास्यापूर्व-
वचनम् । उभयतः स्त्रिया अपूर्वत्वे निपातनमेतत् । अपूर्वपतिं कुमारीं पतिरुप-
पन्नः कौमारः पतिः । कुमारीशब्दाद् द्वितीयासमर्थादुपयन्तरि प्रत्ययः । अपूर्व-
पतिः कुमारी पतिमुपपन्ना कौमारी भार्या । प्रथमान्तादेव स्वार्थे प्रत्ययो ऽपू-
र्वत्वे द्योत्ये ।
कौमारापूर्ववचने कुमार्या अभिधीयते ।
अपूर्वत्वं यदा तस्याः कुमार्या भवतीति वा ॥
कुमार्या भवः कौमारः, तस्य स्त्री कौमारी भार्येति सिद्धम् ॥
तत्रोद्धृतममत्रेभ्यः ॥ १४ ॥
तत्रेति सप्तमीसमर्थादमत्रवाचिनः शब्दादुद्धृतमित्येतस्मिन्नर्थे यथावि-
हितं प्रत्ययो भवति । भुक्तोच्छिष्टमुद्धृतमुच्यते, यस्योद्धरणमिति प्रसिद्धेः । अमत्रं
भाजनं पात्रमुच्यते । शरावेषूद्धृतः शाराव ओदनः । माल्लिकः । कार्परः । अम-
त्रेभ्य इति किम् । पात्रादुद्धृत ओदनः । तत्रेति सप्तमी समर्थविभक्तिः चीरा-
ड्ढञिति यावदनुवर्तते ॥
स्थण्डिलाच्छयितरि व्रते ॥ १५ ॥
स्थण्डिलशब्दात्सप्तमीसमर्थाच् शयितर्यभिधेये यथाविहितं प्रत्ययो भ-
वति, समुदायेन चेद्व्रतं गम्यते । व्रतमिति शास्त्रतो नियम उच्यते । स्थण्डिले
शयितुं व्रतन्स्य स्थाण्डिलो भिक्षुः । स्थाण्डिलो ब्रह्मचारी । व्रतइति किम् ।
स्थण्डिले शेते भ्रष्टव्रतः ॥
संस्कृतं भक्षाः ॥ १६ ॥
तत्रेति सप्तमीसमर्थात्संस्कृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति
यत्संस्कृतं भक्षाश्चेत्ते भवन्ति । खरविशदमभ्यवहारार्थं भक्षमित्युच्यते । सक्तु
३८८ ॥ काशिका ॥ ४ ॥ २ ॥
उत्कर्षाधानं संस्कारः । भ्राष्ट्रे संस्कृता भक्ता भ्राष्ट्रा अपूपाः । कालशाः । कौम्भाः ।
भक्ता इति किम् । पुष्पपुटे संस्कृतो मालागुच्छः ॥
शूलोखाद्यत् ॥ १७ ॥
शूलशब्दादुखाशब्दाच्च सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे यत्
प्रत्ययो भवति । अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उख्यम् ॥
दध्नष्ठक् ॥ १८ ॥
दधिशब्दात्सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे ठक् प्रत्ययो भव-
ति । दध्नि संस्कृतं, दाधिकम् । ननु च संस्कृतार्थे प्राग्वहतेष्ठकं वक्ष्यति तेनैव
सिद्धम् । न सिद्ध्यति । दध्ना हि तत्संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम्, इह
तु दधि केवलमाधारभूतं द्रव्यान्तरेण लवणादिना संस्कारः क्रियते ॥
उदश्वितो ऽन्यतरस्याम् ॥ १९ ॥
उदश्विच्छब्दात्सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे ऽन्यतरस्यां ठक्
प्रत्ययो भवति । पक्षे यथाप्राप्तमण् भवति । औदश्वितम् । औदश्वित्कम् ॥
क्षीराड्ढञ् ॥ २० ॥
क्षीरशब्दात्सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे ढञ् प्रत्ययो भव-
ति । अणोऽपवादः । क्षीरे संस्कृता, क्षैरेयी यवागूः ॥
सास्मिन्पौर्णमासीति संज्ञायाम् ॥ २१ ॥
सेति प्रथमासमर्थाद् अस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति,
यत्तत्प्रथमासमर्थं पौर्णमासी चेद्भवति इतिकरणस्ततश्चेद्विवक्षता । संज्ञायामिति
समुदायोपाधिः, प्रत्ययान्तेन चेत्संज्ञा गम्यतइति । मासाद्र्धमाससंवत्सराणामेषा
संज्ञा । पौषी पौर्णमासी अस्मिन्नसौ मासः । पौषोऽर्द्धमासः । पौषः संवत्सरः ।
इह न भवति । पौषी पौर्णमासी अस्मिन्दशरात्रइति । मृतकमासे । च न
भवति । इतिकरणस्य संज्ञाशब्दस्य च तुल्यमेव फलं प्रयोगानुसारणं, तत्र किमर्थं
द्वयमुपादीयते, संज्ञाशब्देन तुल्यतामिति करणस्य ज्ञापयितुं, नह्ययं लोके तथा
प्रसिद्धः । संज्ञार्थत्वे तु संप्रति ज्ञापिते यत्ततश्चोच्यते इतिकरणस्ततश्चेद्विवक्षेति
तदुपपन्नं भवति । अथ पौर्णमासीति कोऽयं शब्दः । पूर्णमासादण्, पौर्णमासी ।
अथ वा पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी । मा इति चन्द्र उच्यते ॥
आग्रहायण्यश्वत्थाट्ठक् ॥ २२ ॥
सास्मिन्पौर्णमासीति सर्वमनुवर्तते । आग्रहायणीशब्दादश्वत्थशब्दाच्च
प्रथमासमर्थात्पौर्णमास्युपाधिकाद् अस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति ।
अणोऽपवादः । आग्रहायणिको मासः । अर्द्धमासः । संवत्सरः । एवमाश्वत्थिकः ॥
॥ काशिका ॥ ४ ॥ २ ॥ २९९
विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ॥ २३ ॥
फाल्गुन्यादयः पौर्णमासीशब्दास्तेभ्यो विभाषा ठञ् प्रत्ययो भवति,
सास्मिन्पौर्णमासीति संज्ञायामित्येतस्मिन्विषये। नित्यमण् प्राप्ते पक्षे ठग्वि-
धीयते। फाल्गुनो मासः। फाल्गुनिकः। श्रावणः। श्रावणिकः। कार्तिकः।
कार्त्तिकिकः। चैत्रः। चैत्रिकः॥
सास्य देवता ॥ २४ ॥
सेति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथ-
मासामर्थ्यं देवता चेत्सा भवति। यागसंप्रदानं देवता देयस्य पुरोडाशादेः स्वा-
मिनी, तस्मिनभिधेये प्रत्ययः। इन्द्रो देवता ऽस्य ऐन्द्रं हविः। आदित्यम्। बार्ह-
स्पत्यम्। प्राजापत्यम्। देवतेति किम्। कन्या देवता ऽस्य। कथमैन्द्रो मन्त्रः।
मन्त्रस्तुत्यमपि देवतेत्युपचरन्ति। कथमाग्नेयो वै ब्राह्मणो देवतयेति, उपमा-
नाद्भविष्यति। महाराजप्रोष्ठपदाट्ठञिति यावत्सास्य देवतेत्यधिकारः। सेति
प्रकृते पुनः समर्थविभक्तिनिर्देशः संज्ञानिवृत्त्यर्थः॥
कस्येत् ॥ २५ ॥
कशब्दो देवतायां प्रजापतेर्वाचकस्ततः पूर्वेणैवाण्प्रत्ययः सिद्ध इकारा-
देशार्थं वचनम्। कस्य इकारादेशो भवति प्रत्ययसन्नियोगेन। कायं हविः।
कायमेककपालं निर्वपेत्॥
शुक्राद् घन् ॥ २६ ॥
शुक्रशब्दात्सास्य देवतेत्यस्मिन्नर्थे घन् प्रत्ययो भवति। अणोपवादः।
शुक्रियं हविः। शुक्रियोध्यायः॥
अपोनप्तृपान्नप्तृभ्यां घः ॥ २७ ॥
अपोनप्तृ अपानप्तृ इत्येताभ्यां घः प्रत्ययो भवति सास्य देवतेत्यस्मिन्वि-
षये। अणोपवादः। अपोनप्त्रियं हविः। अपानप्त्रियम्। अपोनपाद् अपांनपा-
दिति देवताया नामधेये एते। तयोस्तु प्रत्ययसन्नियोगेन रूपमिदं निपात्यते॥
छ च ॥ २८ ॥
अपोनप्तृ अपानप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सास्य देवतेत्यस्मि-
न्विषये। अणोपवादः। अपोनप्त्रीयं हविः। अपानप्त्रीयम्। योगविभागः संख्या-
तानुदेशपरिहारार्थः॥ छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम्॥ * ॥ पैङ्गाक्षीपुत्री-
यम्। तार्क्षबिन्दवीयम्॥ शतरुद्राच्छश्चघश्च॥ * ॥ शतरुद्रीयम्। शतरुद्रियम्॥
महेन्द्राद् घाणौ च ॥ २९ ॥
३०० काशिका ॥ ४ ॥ २ ॥
महेन्द्रशब्दाद् घाणौ प्रत्ययौ भवतः, चकाराच्छश्च, सास्य देवतेत्यस्मि-
न्विषये । महेन्द्रो देवतास्य महेन्द्रियं हविः । माहेन्द्रम् । महेन्द्रीयम् ॥
सोमाट् ट्यण् ॥ ३० ॥
सोमशब्दात् ट्यण्प्रत्ययो भवति सास्य देवतेत्यस्मिन्विषये । अणोपवादः ।
णकारो वृद्धयर्थः । टकारो ङीबर्थः । सोमो देवतास्य सौम्यं हविः । सौम्यं
सूक्तम् । सौमी ऋक् ॥
वाय्वृतुपित्रुषसो यत् ॥ ३१ ॥
वाय्वादिभ्यः शब्देभ्यो यत्प्रत्ययो भवति सास्य देवतेत्येतस्मिन्विषये ।
अणोपवादः । वायुर्देवतास्य वायव्यम् । ऋतव्यम् । पित्र्यम् । उषस्यम् ॥
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति-
गृहमेधाच्छ च ॥ ३२ ॥
द्यावापृथिव्यादिभ्यश्छः प्रत्ययो भवति सास्य देवतेत्यस्मिन्विषये । अणो
ण्यस्य चापवादः । द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य, द्यावापृथि-
वीयम् । द्यावापृथिव्यम् । शुनश्च सीरश्च तौ देवते अस्येति, शुनासीरीयम् ।
शुनासीर्यम् । शुनो वायुः । सीर आदित्यः । मरुत्वान्देवतास्य, मरुत्वतीयम् ।
मरुत्वत्यम् । अग्नीषोमीयम् । अग्नीषोम्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् ।
गृहमेधीयम् । गृहमेध्यम् ॥
अग्नेर्ढक् ॥ ३३ ॥
अग्निशब्दाद् ढक् प्रत्ययो भवति सास्य देवतेत्यस्मिन्विषये । अणोप-
वादः अग्निर्देवतास्य, आग्नेयो ऽष्टाकपालः ॥ प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्व-
त्राग्निकलिभ्यां ढग्वक्तव्यः ॥ * ॥
कालेभ्यो भववत् ॥ ३४ ॥
कालविशेषवाचिभ्यः शब्देभ्यो भववत्प्रत्यया भवन्ति सास्य देवतेत्यस्मि-
न्विषये । कालाट्ठञिति प्रकरणे भवे प्रत्यया विधास्यन्ते ते सास्य देवतेत्यस्मि-
न्नर्थे तथेष्यन्ते, तदर्थमिदमुच्यते । वत्करणं सर्वसादृश्यपरिसङ्ख्यार्थम् । मासे भवं
मासिकम् । षाण्मासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् । तथा, मासो
देवतास्य, मासिकम् । षाण्मासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् ॥
महाराजप्रोष्ठपदाट्ठञ् ॥ ३५ ॥
महाराजशब्दात्प्रोष्ठपदशब्दाच्च ठञ् प्रत्ययो भवति सास्य देवतेत्य-
स्मिन्विषये । महाराजो देवतास्य माहाराजिकम् । प्रौष्ठपदिकम् ॥ ठञ्प्रक-
॥ काशिका ॥ ४ । २ ॥ ३०१
रखे तदस्मिन्वर्ततइति नवयज्ञादिभ्य उपसंख्यानम् ॥ * ॥ नवयज्ञोऽस्मिन्वर्तते,
नावयज्ञिकः कालः । पाक्यज्ञिकः ॥ पूर्णमासादण् ॥ * ॥ पूर्णमासो ऽस्यां
वर्तते पौर्णमासी तिथिः ॥
पितृव्यमातुलमातामहपितामहाः ॥ ३६ ॥
पितृव्यादयो निपात्यन्ते । समर्थविभक्तिः प्रत्ययः प्रत्ययार्थो ऽनुबन्ध
इति सर्वं निपातनाद्विज्ञेयम् । पितृमातृभ्यां भ्रातर्यभिधेये व्यत् डुलच् इत्येतौ
प्रत्ययौ निपात्येते । पितुर्भ्राता पितृव्यः । मातुर्भ्राता मातुलः । ताभ्यां पितरि
डामहच्, मातरि षिच्च । ताभ्यामेव पितरि डामहच् प्रत्ययो भवति । पितुः पिताः,
पितामहः । मातुः पिता, मातामहः । मातरि षिच्च । पितामही । मातामही ॥
अवेर्दुग्धे सोढदूसमरोसचो वक्तव्याः ॥ * ॥ अवेर्दुग्धम्, अविसोढम् । अविदूसम् ।
अविमरीसम् ॥ तिलाच्चिष्फलात्पिञ्जपेजौ प्रत्ययौ वक्तव्यौ ॥ * ॥ निष्फलस्तिल,
स्तिलपिञ्जः । तिलपेजः ॥ पिञ्जश्छन्दसि डित्वं ॥ * ॥ तिलिपञ्जः ॥
तस्य समूहः ॥ ३७ ॥
तस्येति षष्ठीसमर्थात्समूह इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
किमिहोदाहरणम् । चित्तवदाद्युदात्तमगोत्रं यस्य च नान्यत्प्रतिपदं ग्रहणम् ।
अचित्ताट्ठकं वक्ष्यति, अनुदात्तादेरञ्, गोत्राद्वुञ्, प्रतिपदं च केदाराञ्जञ्वेत्येव-
मादि, तत्परिहारेणात्रोदाहरणं द्रष्टव्यम् । काकानां समूहः, काकम् । बाकम् ।
इनित्रकद्वयचश्चेति यावत्समूहाधिकारः ॥ गुणादिभ्यो ग्रामज्वक्तव्यः ॥ * ॥ गुण-
ग्रामः । करणग्रामः । गुण । करण । तत्त्व । शब्द । इन्द्रिय । आकृतिगणः* ॥
भिक्षादिभ्यो ऽण् ॥ ३८ ॥
भिक्षेत्येवमादिभ्यः शब्देभ्यो ऽण् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्वि-
षये । अण ग्रहणं बाधकबाधनार्थम् । भिक्षाणां समूहो, भैक्षम् । गर्भिणम् । युव-
तिशब्दोऽत्र पठ्यते, तस्य यञ्लुक्सामर्थ्याद् पुंवद्भावो न भवति भस्याढे तद्धितेऽति ।
युवतीनां समूहो, यौवतम् । भिक्षा । गर्भिणी । क्षेत्र । करीष । अङ्गार । चर्मिन् ।
धर्मिन् † । सहस्र । युवति । पदाति । पद्धति । अथर्वन् ‡ । दक्षिणा । भूत § ॥
- गुणादिभ्य इत्यारभ्याकृतिगण इत्यन्तः पाठो बहुषु पुस्तकेषु नास्ति ।
† चर्मन् । धर्मन् । इति पा० ४ ।
‡ अर्वन् । इति पा० २ ।
§ विषय । योत्र ॥ सूत्रातिथ्यः खण्डः ॥ युक्तखण्डः । तक्षकखण्डः । वृक्ष । तरु । पाद-
प । इत्याधिकमत्र पुस्तकद्वये । तत्रै कस्मिन् पुस्तके "वृक्षादिभ्यः खण्डप्रत्ययो भवति । वृक्षखण्डः
तरुखण्डः" । इति पा० ३ ।
३०२ ॥ काशिका ॥ ४ । २ ॥
गोत्रोष्ट्रोरभ्रराजन्यराजपुत्रवत्सम-
नुष्याजाद् वुञ् ॥ ३९ ॥
गोत्रादिभ्यो वुञ्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । अप-
त्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते ऽपत्यमात्रं न तु पौत्रप्रभृत्येत्र । औप-
गवानां समूहः, औपगवकम् । कापटवकम् । उत्तन् । औत्तकम् । उष्ट्र । औष्ट्र-
कम् । उरभ्र । औरभ्रकम् । राजन् । राजकम् । राजन्य । राजन्यकम् । राज-
पुत्र । राजपुत्रकम् । वत्स । वात्सकम् । मनुष्य । मानुष्यकम् । अज । आज-
कम् । "प्रकृत्या ऽके राजन्यमनुष्ययुवान" इति यलोपो न भवति आपत्यस्य
च तद्धिते नातीति ॥ वृद्धाच्चेति वक्तव्यम् ॥ * ॥ वृद्धानां समूहो, वार्द्धकम् ॥
केदाराद्यञ् ॥ ४० ॥
केदारशब्दाद् यञ्प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूह इत्ये-
तस्मिन्विषये । अचित्तलक्षणस्य ठञो ऽपवादः । केदाराणां समूहः, कैदार्यम् ।
कैदारकम् ॥ गणिकायाश्च यद्वक्तव्यः ॥ * ॥ गणिकानां समूहो, गाणिक्यम् ॥
ठञ् कवचिनश्च ॥ ४१ ॥
कवचिन्शब्दाट्ठञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । कव-
चिनां समूहः, कावचिकम् । चकारः केदारादित्यस्यानुकर्षणार्थः केदाराणां
समूहः, कैदारिकम् ॥
ब्राह्मणमाणववाडवाद्यन् ॥ ४२ ॥
ब्राह्मणादिभ्यः शब्देभ्यो यन्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्वि-
षये । नकारः स्वरार्थः । ब्राह्मणानां समूहो, ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥
यन्प्रकरणे पृष्ठादुपसंख्यानम् ॥ * ॥ पृष्ठानां समूहः, पृष्ठ्यः ॥ अह्नः खः क्रतौ ॥ * ॥
अह्नां समूहो, ऽहीनः क्रतुः । क्रताविति किम् । आह्नः । सखण्डिकादिषु दर्श-
नादञ्भवति ॥ पर्श्वा णस्वक्तव्यः ॥ * ॥ पर्शूनां समूहः, पार्श्वम् । पदसंज्ञकत्वाद्
गुणो न भवति ॥ वातादूलः ॥ * ॥ वातानां समूहो, वातूलः* ॥
ग्रामजनबन्धुसहायेभ्यस्तल् ॥ ४३ ॥
ग्रामादिभ्यस्तल्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । ग्रामाणां
समूहः, ग्रामता । जनता । बन्धुता । सहायता ॥ गजाच्चेति वक्तव्यम् ॥ * ॥
गजानां समूहो, गजता ॥
अनुदात्तादेरञ् ॥ ४४ ॥
- वातादित्यारभ्यः वातूल इत्यन्तः पाठो बहुषु पुस्तकेषु नास्ति ।
अनुदात्तादेः शब्दादञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये
कपोतानां समूहः, कापोतम् । मायूरम् । तैत्तिरम् ॥
खण्डिकादिभ्यश्च ॥ ४५ ॥
खण्डिका इत्येवमादिभ्यः शब्देभ्यो ऽञ् प्रत्ययो भवति तस्य समूह
इत्येतस्मिन्विषये । आद्युदात्तार्थमचित्तार्थं च वचनम् । खण्डिकानां समूहः,
खाण्डिकम् । वाडवम् । क्षुद्रकमालवशब्दोऽत्र पठ्यते । क्षुद्रकाश्च मालवाश्चेति
क्षत्रियद्वन्द्वः । ततः पूर्वेणैवाञि सिद्धे वचनं गोत्रवुञ्बाधनार्थम् । ननु च पर-
त्वादञा वुञ् बाधिष्यते । न च गोत्रसमुदायो गोत्रं, न च तदन्तविधिर-
त्रास्ति । एवं तर्हि एतञ् ज्ञापयति वुञि पूर्वविप्रतिषेधः, सामूहिकेषु च तद-
न्तविधिरस्तीति । प्रयोजनमौपगवकं कापटवकमिति वुञ् भवति । वानह-
स्तिकं गौधेनुकमिति च तदन्तविधिः । क्षुद्रकमालवादित्येतावता योगविभा-
गेन पूर्वविप्रतिषेधस्तदन्तविधिश्च ज्ञापितः, पुनरस्यैव नियमार्थमुच्यते सेनासं-
ज्ञायामिति । क्षुद्रकमालवात्सेनासंज्ञायामेवाञ्भवति । क्षौद्रकमालवी सेना ।
क्षौद्रकमालवकमन्यतत् * ।
अञ्सिद्धिरनुदात्तादेः को ऽर्थः क्षुद्रकमालवात् ।
गोत्राद्वुञ् न च तद्गोत्रं तदन्तान्न च सर्वतः ॥
ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेर्विधिः ।
सेनायां नियमार्थे च यथा बाध्येत चाञ् वुञा ॥
खण्डिका । वडवा ॥ क्षुद्रकमालवात्सेनासंज्ञायाम् ॥ भितुक । शुक ।
उलूक । श्वन् । युग । अहन् । वरत्रा । हलबन्ध ॥
चरणेभ्यो धर्मवत् ॥ ४६ ॥
चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत्
प्रत्यया भवन्ति । गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते, तत्र चेदमुच्यते चर-
णाद्धर्माम्नाययोरिति, तेन धर्मवदित्यतिदेशः क्रियते । वतिः सर्वसादृश्यार्थः ।
कठानां धर्मः, काठकम् । कालापकम् । छान्दोग्यम् । औक्थक्यम् । आथर्व-
णम् । तथा समूहेपि । काठकम् । कालापकम् । छान्दोग्यम् । औक्थक्यम् ।
आथर्वणम् † ॥
- गोत्रलक्षणो वुञेव भवतीत्यधिकं पुस्तकान्तरे ।
† ननु धर्मे न कोपि प्रत्ययो विधास्यते, कथं धर्मवदित्यतिदेशः। एतदेव ज्ञापयति
वार्तिककारो गोत्रचरणाद्वुञित्यस्मिन्प्रकरणे सर्वशेषत्वेन 'चरणाद्धर्माम्नाययोरिति वक्ष्यति' तस्म-
न्मतः पाणिनेरप्यभिमतमिति । इत्यधिकमेकस्मिन्पुस्तके ॥
३०४ ॥ काशिका ॥ ४ ॥ २ ॥
अचित्तहस्तिधेनोष्ठक् ॥ ४७ ॥
अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक् प्रत्ययो भवति तस्य समूह
इत्येतस्मिन्विषये । अणञोरपवादः । अपूपानां समूह, आपूपिकम् । शाष्कु-
लिकम् । हास्तिकम् । धैनुकम् ॥ धेनोरनञ इति वक्तव्यम् ॥ * ॥ आधेनवम् ॥
केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥ ४८ ॥
केश अश्व इत्येताभ्यां यथासंख्यं यञ् छ इत्येतौ प्रत्ययौ भवतो ऽन्य-
तरस्यां तस्य समूह इत्येतस्मिन्विषये । केशानां समूहः, कैश्यम् । कैशिकम् ।
अश्वानां समूह, आश्वम् । आश्वीयम् ॥
पाशादिभ्यो यः ॥ ४९ ॥
पाशादिभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । पाशानां
समूहः, पाश्या । तृण्या * । पाश । तृण । धूम । वात । अङ्गार । पोत ।
बालक । पिटक । पिटाक । शकट । हल । नड । वन † ॥
खलगोरथात् ॥ ५० ॥
खलगोरथशब्देभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये ।
खलानां समूहः, खल्या । गव्या । रथ्या । पाशादिष्वपाठ उत्तरार्थः ‡ ॥
इनित्रकत्यचश्च ॥ ५१ ॥
खलगोरथशब्देभ्यो यथासंख्यम् इनि त्र कत्यच् इत्येते प्रत्यया भवन्ति
तस्य समूह इत्येतस्मिन्विषये । खलिनी । गोत्रा । रथकत्या ॥ खलादिभ्य
इनिर्वक्तव्याः ॥ * ॥ डाकिनी । कुण्डलिनी । कुटुम्बिनी ॥ कमलादिभ्यः
खण्डच् प्रत्ययो भवति ॥ * ॥ कमलखण्डम् । अम्भोजखण्डम् । कमल ।
अम्भोज । पद्मिनी । कुमुद । सरोज । पद्म । नलिनी । कैरविणी । कमलादि-
राहातिगणः ॥ नरकरितुरङ्गाणां स्कन्धच् प्रत्ययः ॥ * ॥ नरस्कन्धः । करि-
स्कन्धः । तुरङ्गस्कन्धः ॥ पूर्व्वादिभ्यः काण्डः प्रत्यये भवति ॥ * ॥ पूर्व्वका-
ण्डम् । मुक्ताकाण्डम् । कर्मकाण्डम् § ॥
विषयो देशे ॥ ५२ ॥
समूह इति निवृत्तम् । षष्ठी समर्थविभक्तिरनुवर्त्तते । तस्येति षष्ठीस-
मर्थाद् विषय इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ विषयो देश-
- अत्र स्त्रीलिङ्गत्वं लोकाव्यत्वाल्लिङ्गस्येत्यधिकं पुस्तकान्तरे ।
† पाटलका । गल । इत्यधिकं पुस्तकान्तरे ।
‡ योगविभाग उत्तरार्थः । पा० ३ ।
§ कमलादिभ्य इत्यारभ्य कर्मकाण्डमित्यन्तः पाठ एकस्मिन्पुस्तके नास्ति ।
॥ काशिका ॥ ४ ॥ २ ॥ ३०५
श्चेत्स भवति । विषयशब्दो बह्वर्थः । क्व चित्ग्रामसमुदाये वर्तते, विषयो लब्ध
इति । क्व चिदिन्द्रियार्थे, चक्षुर्विषयो रूपमिति । क्व चिदत्यन्तशीलिते ज्ञेये,
देवदत्तस्य विषयो ऽनुवाक इति । क्व चिदन्यत्राभावे, मत्स्यानां विषयो
जलमिति । तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्त्यर्थम् । शिबीनां विषयो देशः,
शैबः । चौड्रः । देशइति किम् । देवदत्तस्य विषयो ऽनुवाकः ॥
राजन्यादिभ्यो वुञ् ॥ ५३ ॥
राजन्यादिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति विषयो देशश्चेत्येतस्मिन्नर्थे ।
अणोपवादः । राजन्यानां विषयो देशः, राजन्यकः । दैवयानकः । आकृतिगण-
श्चायम् । मालवानां विषयो देशः, मालवकः । वैराटकः । नैगर्तकः । राजन्य ।
दैवयान । शाल्ङ्कायन । जालन्धरायण । आत्मकामेय । आम्बरीषपुत्र । वसाति ।
बैल्ववन । शैलूष । उदुम्बर । बैल्वल । आर्जुनायन । संप्रिय । दाक्षि । ऊर्णनाभ * ॥
भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ॥ ५४ ॥
भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च यथासंख्यं विधल् भक्तल् इत्येतौ
प्रत्ययौ भवतो विषयो देशइत्येतस्मिन्विषये । अणोपवादः । भौरिकिविधः ।
वैपेयविधः । ऐषुकार्यादिभ्यः । ऐषुकारिभक्तः । सारस्यायनभक्तः । भौरिकि ।
वैपेय । भोलिकि । चैटयत । काणेय । वाणिजक । वालिज । वालिज्यक ।
शैलूयत । बैकयत । भौरिक्यादिः ॥ ऐषुकारि । सारस्यायन । चान्द्रायण ।
द्वाक्षायण । त्र्यायण । औडायन । जौलायन । खाडायन । सौवीर । दास-
मिति । दासमित्रायण । शौद्रायण । दाक्षायण । शयण्ड । तार्क्ष्यायक । नौधायण ।
सायण्ड । शौण्डि । वैश्वमानव । वैश्वधेनव । नद । तुण्डदेव । विश्रदेव † ॥
सोस्यादिरितिच्छन्दसः प्रगाथेषु ॥ ५५ ॥
स इति समर्थविभक्तिः । अस्येति प्रत्ययार्थः । आदिरिति प्रकृतिविशे-
षणम् । इतिकरणो विवक्षार्थः । छन्दस इति प्रकृतिनिर्देशः । प्रगाथेष्विति
प्रत्ययार्थविशेषणम् । स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो
भवति, यत्प्रथमासमर्थं छन्दश्चेत्तदादिर्भवति, यत्तदस्येति निर्दिष्टं प्रगाथा-
श्चेत्ते भवन्ति, इतिकरणस्ततश्चेद्विवक्षा । पङ्क्तिरादिरस्य, पाङ्क्तः प्रगाथः । आनु-
ष्टुभः । जागतः । आदिरिति किम् । अनुष्टुम्मध्यमस्य प्रगाथस्य । छन्दस इति
किम् । उदुत्यञ्छब्द आदिरस्य प्रगाथस्य । प्रगाथेष्विति किम् । पङ्क्तिरादिरस्या-
- आप्रीत । अव्रोड । वैतिल । वात्रक । एते ऽधिकाः पुस्तकान्तरे ।
† अलायत । औलालायत । शैयण्ड । भयायण्ड । वैश्वदेव । एते शब्दा अधिकाः पुस्त-
कान्तरे ।
२०
नुवाकस्य। प्रगाथशब्दः क्रियानिमित्तकः क्व चिदेव मन्त्रविशेषे वर्तते। यत्र द्वे ऋचौ
प्रग्रथनेन तिस्रः क्रियन्ते स प्रगाथनात्मकवर्णगानाद्वा प्रगाथ इत्युच्यते ॥ छन्दसः
प्रत्ययविधाने नपुंसके स्वार्थेउपसंख्यानम् ॥ * ॥ त्रैष्टुभमेव त्रैष्टुभम्। जागतम् ॥
संग्रामे प्रयोजनयोद्धृभ्यः ॥ ५६ ॥
सोस्येति समर्थविभक्तिः, प्रत्ययार्थश्चानुवर्तते । प्रथमासमर्थविशेषणं,
प्रयोजनं योद्धारश्च । प्रत्ययार्थविशेषणं संग्रामः । प्रयोजनवाचिभ्यो योद्धृवाचि-
भ्यश्च शब्देभ्यः प्रथमासमर्थेभ्यो ऽस्येति षष्ठ्यर्थे संग्रामे ऽभिधेये यथाविहितं
प्रत्ययो भवति । भद्रा प्रयोजनमस्य संग्रामस्य भाद्रः संग्रामः । सौभद्रः ।
गैरिमित्रः । योद्धृभ्यः । अह्निमाला योद्धारो ऽस्य संग्रामस्य, आह्रिमालः ।
स्यन्दनाश्वः । भारतः । संग्रामइति किम् ।
Here is the line-by-line transcription of the Sanskrit text from the provided image:
॥ काशिका ॥ ४ ॥ २ ॥ ३०७
क्रतूक्थादिसूत्रान्ताट्ठक् ॥ ६० ॥
ऋतुविशेषवाचिभ्य उक्थादिभ्यश्च सूत्रान्ताच्च ठक्प्रत्ययो भवति तद-
धीते तद्वेदेत्यस्मिन्विषये। अणोऽपवादः। अग्निष्टोममधीते वेद वा, आग्निष्टो-
मिकः। वाजपेयिकः। उक्थादिभ्यः। औक्थिकः। लौकायतिकः। सूत्रान्तात्।
वार्तिकसूत्रिकः। सांख्यसूत्रिकः॥ सूत्रान्तादकल्पादेरिष्यते॥ कल्पसूत्रमधीते
काल्पसूत्रः। अणेव भवति। उक्थशब्दः केषु चिदेव सामसु रूढः। यन्नायज्ञी-
यात्परेण यानि गीयन्ते, न च तान्यधीयाने प्रत्यय इष्यते, किं तर्हि सामलक्षणे
औक्थिक्ये वर्तमान उक्थशब्दः प्रत्ययमुत्पादयति। उक्थमधीते, औक्थिकः।
औक्थिक्यमधीत इत्यर्थः
३०८ ॥ काशिका ॥ ४ ॥ २ ॥
अनुब्राह्मणशब्दादिनिः प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन्विषये ।
अणोऽपवादः । ब्राह्मणसदृशो ऽयं ग्रन्थो ऽनुब्राह्मणम् । तदधीते, ऽनुब्राह्मणी ।
अनुब्राह्मणिनौ । अनुब्राह्मणिनः । मत्वर्थेनात इनिठनाविति इनिनासिद्धम् ।
तन्नैतस्माद्वपि प्राप्नोति, अनभिधानाच्च भविष्यति । अणोनिवृत्त्यर्थं तर्हि वच-
नम् ॥
वसन्तादिभ्यष्ठक् ॥ ६३ ॥
वसन्त इत्येवमादिभ्यष्ठक्प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन्विषये।
अणोऽपवादः । वसन्तसहचरितोयं ग्रन्थो वसन्त,स्तमधीते, वासन्तिकः । वार्षि-
कः । वसन्त । वर्षा । शरद् । हेमन्त । शिशिर । प्रथम । गुहा । चरम । अनु-
गुहा । आपर्वन् । आथर्वन् ॥
प्रोक्ताल्लुक् ॥ ६४ ॥
प्रोक्तसहचरितः प्रत्ययः प्रोक्तः । प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोरुत्पन्नस्य
लुग्भवति । पाणिनिना प्रोक्तं पाणिनीयम्, तदधीते पाणिनीयः । आपिशलः ।
स्त्रियां स्वरे च विशेषः । पाणिनीया ब्राह्मणी ॥
सूत्राच्च कोपधात् ॥ ६५ ॥
सूत्रवाचिनः ककारोपधादुत्पन्नस्य प्रत्ययस्य लुग्भवति । अप्रोक्तार्थ आर-
म्भः । पाणिनीयमष्टकं सूत्रं तदधीते, चाष्टकाः पाणिनीयाः दशका वैयाघ्रप-
दीयाः । त्रिकाः काशकृत्स्नाः ॥ संख्याप्रकृतेरिति वक्तव्यम् ॥ * ॥ इह मा भूत् ।
महावार्त्तिकं सूत्रमधीते, माहावार्त्तिकः । कालापकमधीते, कालापकः । कोप-
धादिति किम् । चतुष्टयमधीते, चातुष्टयः ॥
छन्दोब्राह्मणानि च तद्विषयाणि ॥ ६६ ॥
प्रोक्तग्रहणमनुवर्त्तते । छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्वि-
षयाण्येव भवन्ति । अध्येतृवेदितृप्रत्ययविषयाणि । अनन्यभावो विषयार्थः । तेन
स्वातन्त्र्यमुपाद्यन्तरयोगे वाक्यं च निवर्त्तते । कठेन प्रोक्तमधीयते, कठाः ।
मौदाः । पैप्पलादाः । आर्चायिनः । वाजसनेयिनः । ब्राह्मणानि खल्वपि ।
ताण्डिनः । भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः । ब्राह्मणग्रहणं किम् ।
यावता छन्द एव तत् । ब्राह्मणविशेषप्रतिपत्त्यर्थ,मिह तद्विषयता मा भूत् ।
याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि, याज्ञवल्क्यानि । सौलभानि । चकारो ऽनुक्त-
समुच्चयार्थः । कल्पे । काश्यपिनः । कौशिकिनः । सूत्रे । पाराशरिणो भिक्षवः ।
शैलालिनो नटाः । कर्म्मन्दिनः । कृशाश्विनः । छन्दोब्राह्मणानीति किम् ।
पाणिनीयं व्याकरणम् । पैङ्गी कल्पः ॥
:
"चा" + "र्जु" + "ना" + "वो" = "चार्जुननावो"?
Wait! Is it:
"चार्जर्जुनावो"?
Wait, look at the first character of L16:
Is it 'च'?
Wait! "चर्जुनावा..."? No, why would it be 'च'?
Wait, what is the sutra?
"तस्य निवासः ॥ ६९ ॥"
Wait, could it be:
"अर्जुनावा..."?
Wait, let's compare character 1 of L16 with 'अ' in 'अदूरभवश्च' (L18), 'अञधिकारः' (L27), 'अणोऽपवादः' (L25):
In L25: 'अ' in 'अणोऽपवादः': it's a standard 'अ'.
In L16: the first character is NOT 'अ'. It has a rounded back like 'च' or 'श' or 'ऋ'.
Wait, look at 'ऋ' in 'ऋतुमती' in L27:
LOOK AT L27: "इक्षुमती ।" before it is "ऋतुमती"?!
Wait, L27 says: "परत्वान्मत्तुब्भवति । ऋतुमती । अञधिकारः..."
Wait! Is it "ऋतुमती" or "इक्षुमती"?
Look at L27: "परत्वान्मत्