सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 295, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 295

आद्यन्ताद् वृद्धः प्रातिपदिकादपत्ये फिञ् प्रत्ययो भवति । इञोप-
वादः । कार्त्त्रायणिः । हार्त्त्रायणिः * । अण इति किम् । दाक्षायणः । वृद्ध
इति किम् । औपगविः ॥ त्यदादीनां वा फिञ् वक्तव्यः ॥ * ॥ त्यादायनिः ।
त्यादः । यादायनिः । यादः । तादायनिः । तादः । अणञ प्राप्तः ॥
उदीचां वृद्धादगोत्रात् ॥ १५७ ॥
वृद्धं यच्छब्दरूपमगोत्रं तस्मादपत्ये फिञ् प्रत्ययो भवति उदीचामा-
चार्याणां मतेन । आम्रगुप्तायनिः । चामरतायणिः । कारिशब्दादपि वृद्धादगो-
त्रात्परत्वादनेनैव भवितव्यम् । नापितायनिः । उदीचामिति किम् । आम्र-
गुप्तिः । वृद्धादिति किम् । याज्ञदत्तिः । अगोत्रादिति किम् । औपगविः ॥
वाकिनादीनां कुक्च ॥ १५८ ॥
वाकिन इत्येवमादिभ्यः शब्देभ्यो ऽपत्ये फिञ् प्रत्ययो भवति तत्स-
न्नियोगेन चैषां कुगागमः । यदिह वृद्धमगोत्रं शब्दरूपं तस्यागमार्थमेव ग्रहण-
मन्येषामुभयार्थम् । वाकिनकायनिः । गारेधकायनिः । इञाद्यपवादो योगः ।
उदीचामित्यधिकारात्पक्षे तेऽपि भवन्ति । वाकिनिः । गारेधिः । वाकिन ।
गारेध । कार्केय । काक । लङ्का ॥ चर्मवर्मणोर्नलोपश्च ॥
पुत्रान्तादन्यतरस्याम् ॥ १५९ ॥
उदीचां वृद्धादिति वर्तते । पुत्रान्तमगोत्रमिति पूर्वेणैव प्रत्ययः सिद्ध-
स्तस्मिन्ननेन कुगागमोऽन्यतरस्यां विधीयते । पुत्रान्तात्प्रातिपदिकाद्यः फिञ्प्रत्य-
यस्तस्मिन् परभूते ऽन्यतरस्यां कुगागमो भवति पुत्रान्तस्य । तेन त्रैरूप्यं संप-
द्यते । गार्गीपुत्रकायणिः । गार्गीपुत्रायणिः । गार्गीपुत्रिः । वात्सीपुत्रकायणिः ।
वात्सीपुत्रायणिः । वात्सीपुत्रिः ॥
प्राचामवृद्धात्फिन्बहुलम् ॥ १६० ॥
अवृद्धाच्छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन । म्लुचु-
कायनिः । अहिचुम्बकायनिः । प्राचामिति । किम् । म्लौचुकिः । अवृद्धादिति
किम् । राजदत्तिः । उदीचां प्राचामन्यतरस्यां बहुलमिति सर्वेऽते विकल्पा-
र्थास्तेषामेकेनैव सिद्धयति तत्राचार्यग्रहणं पूजार्थम् । बहुलग्रहणं वैचित्र्यार्थम् ।
क्व चिन्न भवत्येव । दाक्षिः । प्लाक्षिः ॥
मनोर्जातावञ्यतौ षुक्च ॥ १६१ ॥
मनुशब्दादञ् यत् इत्येतौ प्रत्ययौ भवतस्तत्सन्नियोगेन षुगागमः समु-
दायेन चेज्जातिर्गम्यते । मानुषः । मनुष्यः । जातिशब्दावेतौ । अपत्यार्थाच्च

  • बास्क इति विवार्ताद्यभोञ् । बास्कस्यापत्यं बास्कायनिः । इत्यधिकं पुस्तकान्तरे ।-