सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 302, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 302

॥ काशिका ॥ ४ । २ ॥ २८७
पाण्डुकम्बलशब्दात्तृतीयासमर्थात्परिवृतो रथ इत्येतस्मिन्नर्थे इनिः प्रत्य-
यो भवति । अणोपवादः । पाण्डुकम्बली । पाण्डुकम्बलिनौ । पाण्डुकम्बलिनः ।
पाण्डुकम्बलशब्दो राजास्तरस्य वर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे
वचनमयो निवृत्त्यर्थम् ॥
द्वैपवैयाघ्रादञ् ॥ १२ ॥
द्वीपिब्याघ्रयोर्विकारभूते चर्मणी द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां
परिवृतो रथ इत्येतस्मिन्नर्थे ऽञ् प्रत्ययो भवति । अणोपवादः । स्वरे विशेषः ।
द्वैपेन परिवृतो रथो द्वैपः । वैयाघ्रः ॥
कौमारापूर्ववचने ॥ १३ ॥
कौमार इत्येतदणप्रत्ययान्तं निपात्यते ऽपूर्ववचने । पाणिग्रहणास्यापूर्व-
वचनम् । उभयतः स्त्रिया अपूर्वत्वे निपातनमेतत् । अपूर्वपतिं कुमारीं पतिरुप-
पन्नः कौमारः पतिः । कुमारीशब्दाद् द्वितीयासमर्थादुपयन्तरि प्रत्ययः । अपूर्व-
पतिः कुमारी पतिमुपपन्ना कौमारी भार्या । प्रथमान्तादेव स्वार्थे प्रत्ययो ऽपू-
र्वत्वे द्योत्ये ।
कौमारापूर्ववचने कुमार्या अभिधीयते ।
अपूर्वत्वं यदा तस्याः कुमार्या भवतीति वा ॥
कुमार्या भवः कौमारः, तस्य स्त्री कौमारी भार्येति सिद्धम् ॥
तत्रोद्धृतममत्रेभ्यः ॥ १४ ॥
तत्रेति सप्तमीसमर्थादमत्रवाचिनः शब्दादुद्धृतमित्येतस्मिन्नर्थे यथावि-
हितं प्रत्ययो भवति । भुक्तोच्छिष्टमुद्धृतमुच्यते, यस्योद्धरणमिति प्रसिद्धेः । अमत्रं
भाजनं पात्रमुच्यते । शरावेषूद्धृतः शाराव ओदनः । माल्लिकः । कार्परः । अम-
त्रेभ्य इति किम् । पात्रादुद्धृत ओदनः । तत्रेति सप्तमी समर्थविभक्तिः चीरा-
ड्ढञिति यावदनुवर्तते ॥
स्थण्डिलाच्छयितरि व्रते ॥ १५ ॥
स्थण्डिलशब्दात्सप्तमीसमर्थाच् शयितर्यभिधेये यथाविहितं प्रत्ययो भ-
वति, समुदायेन चेद्व्रतं गम्यते । व्रतमिति शास्त्रतो नियम उच्यते । स्थण्डिले
शयितुं व्रतन्स्य स्थाण्डिलो भिक्षुः । स्थाण्डिलो ब्रह्मचारी । व्रतइति किम् ।
स्थण्डिले शेते भ्रष्टव्रतः ॥
संस्कृतं भक्षाः ॥ १६ ॥
तत्रेति सप्तमीसमर्थात्संस्कृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति
यत्संस्कृतं भक्षाश्चेत्ते भवन्ति । खरविशदमभ्यवहारार्थं भक्षमित्युच्यते । सक्तु