काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 308, कुल 828 में से
संदर्भ में पढ़ेंअनुदात्तादेः शब्दादञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये
कपोतानां समूहः, कापोतम् । मायूरम् । तैत्तिरम् ॥
खण्डिकादिभ्यश्च ॥ ४५ ॥
खण्डिका इत्येवमादिभ्यः शब्देभ्यो ऽञ् प्रत्ययो भवति तस्य समूह
इत्येतस्मिन्विषये । आद्युदात्तार्थमचित्तार्थं च वचनम् । खण्डिकानां समूहः,
खाण्डिकम् । वाडवम् । क्षुद्रकमालवशब्दोऽत्र पठ्यते । क्षुद्रकाश्च मालवाश्चेति
क्षत्रियद्वन्द्वः । ततः पूर्वेणैवाञि सिद्धे वचनं गोत्रवुञ्बाधनार्थम् । ननु च पर-
त्वादञा वुञ् बाधिष्यते । न च गोत्रसमुदायो गोत्रं, न च तदन्तविधिर-
त्रास्ति । एवं तर्हि एतञ् ज्ञापयति वुञि पूर्वविप्रतिषेधः, सामूहिकेषु च तद-
न्तविधिरस्तीति । प्रयोजनमौपगवकं कापटवकमिति वुञ् भवति । वानह-
स्तिकं गौधेनुकमिति च तदन्तविधिः । क्षुद्रकमालवादित्येतावता योगविभा-
गेन पूर्वविप्रतिषेधस्तदन्तविधिश्च ज्ञापितः, पुनरस्यैव नियमार्थमुच्यते सेनासं-
ज्ञायामिति । क्षुद्रकमालवात्सेनासंज्ञायामेवाञ्भवति । क्षौद्रकमालवी सेना ।
क्षौद्रकमालवकमन्यतत् * ।
अञ्सिद्धिरनुदात्तादेः को ऽर्थः क्षुद्रकमालवात् ।
गोत्राद्वुञ् न च तद्गोत्रं तदन्तान्न च सर्वतः ॥
ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेर्विधिः ।
सेनायां नियमार्थे च यथा बाध्येत चाञ् वुञा ॥
खण्डिका । वडवा ॥ क्षुद्रकमालवात्सेनासंज्ञायाम् ॥ भितुक । शुक ।
उलूक । श्वन् । युग । अहन् । वरत्रा । हलबन्ध ॥
चरणेभ्यो धर्मवत् ॥ ४६ ॥
चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत्
प्रत्यया भवन्ति । गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते, तत्र चेदमुच्यते चर-
णाद्धर्माम्नाययोरिति, तेन धर्मवदित्यतिदेशः क्रियते । वतिः सर्वसादृश्यार्थः ।
कठानां धर्मः, काठकम् । कालापकम् । छान्दोग्यम् । औक्थक्यम् । आथर्व-
णम् । तथा समूहेपि । काठकम् । कालापकम् । छान्दोग्यम् । औक्थक्यम् ।
आथर्वणम् † ॥
- गोत्रलक्षणो वुञेव भवतीत्यधिकं पुस्तकान्तरे ।
† ननु धर्मे न कोपि प्रत्ययो विधास्यते, कथं धर्मवदित्यतिदेशः। एतदेव ज्ञापयति
वार्तिककारो गोत्रचरणाद्वुञित्यस्मिन्प्रकरणे सर्वशेषत्वेन 'चरणाद्धर्माम्नाययोरिति वक्ष्यति' तस्म-
न्मतः पाणिनेरप्यभिमतमिति । इत्यधिकमेकस्मिन्पुस्तके ॥