काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 310, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ २ ॥ ३०५
श्चेत्स भवति । विषयशब्दो बह्वर्थः । क्व चित्ग्रामसमुदाये वर्तते, विषयो लब्ध
इति । क्व चिदिन्द्रियार्थे, चक्षुर्विषयो रूपमिति । क्व चिदत्यन्तशीलिते ज्ञेये,
देवदत्तस्य विषयो ऽनुवाक इति । क्व चिदन्यत्राभावे, मत्स्यानां विषयो
जलमिति । तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्त्यर्थम् । शिबीनां विषयो देशः,
शैबः । चौड्रः । देशइति किम् । देवदत्तस्य विषयो ऽनुवाकः ॥
राजन्यादिभ्यो वुञ् ॥ ५३ ॥
राजन्यादिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति विषयो देशश्चेत्येतस्मिन्नर्थे ।
अणोपवादः । राजन्यानां विषयो देशः, राजन्यकः । दैवयानकः । आकृतिगण-
श्चायम् । मालवानां विषयो देशः, मालवकः । वैराटकः । नैगर्तकः । राजन्य ।
दैवयान । शाल्ङ्कायन । जालन्धरायण । आत्मकामेय । आम्बरीषपुत्र । वसाति ।
बैल्ववन । शैलूष । उदुम्बर । बैल्वल । आर्जुनायन । संप्रिय । दाक्षि । ऊर्णनाभ * ॥
भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ॥ ५४ ॥
भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च यथासंख्यं विधल् भक्तल् इत्येतौ
प्रत्ययौ भवतो विषयो देशइत्येतस्मिन्विषये । अणोपवादः । भौरिकिविधः ।
वैपेयविधः । ऐषुकार्यादिभ्यः । ऐषुकारिभक्तः । सारस्यायनभक्तः । भौरिकि ।
वैपेय । भोलिकि । चैटयत । काणेय । वाणिजक । वालिज । वालिज्यक ।
शैलूयत । बैकयत । भौरिक्यादिः ॥ ऐषुकारि । सारस्यायन । चान्द्रायण ।
द्वाक्षायण । त्र्यायण । औडायन । जौलायन । खाडायन । सौवीर । दास-
मिति । दासमित्रायण । शौद्रायण । दाक्षायण । शयण्ड । तार्क्ष्यायक । नौधायण ।
सायण्ड । शौण्डि । वैश्वमानव । वैश्वधेनव । नद । तुण्डदेव । विश्रदेव † ॥
सोस्यादिरितिच्छन्दसः प्रगाथेषु ॥ ५५ ॥
स इति समर्थविभक्तिः । अस्येति प्रत्ययार्थः । आदिरिति प्रकृतिविशे-
षणम् । इतिकरणो विवक्षार्थः । छन्दस इति प्रकृतिनिर्देशः । प्रगाथेष्विति
प्रत्ययार्थविशेषणम् । स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो
भवति, यत्प्रथमासमर्थं छन्दश्चेत्तदादिर्भवति, यत्तदस्येति निर्दिष्टं प्रगाथा-
श्चेत्ते भवन्ति, इतिकरणस्ततश्चेद्विवक्षा । पङ्क्तिरादिरस्य, पाङ्क्तः प्रगाथः । आनु-
ष्टुभः । जागतः । आदिरिति किम् । अनुष्टुम्मध्यमस्य प्रगाथस्य । छन्दस इति
किम् । उदुत्यञ्छब्द आदिरस्य प्रगाथस्य । प्रगाथेष्विति किम् । पङ्क्तिरादिरस्या-
- आप्रीत । अव्रोड । वैतिल । वात्रक । एते ऽधिकाः पुस्तकान्तरे ।
† अलायत । औलालायत । शैयण्ड । भयायण्ड । वैश्वदेव । एते शब्दा अधिकाः पुस्त-
कान्तरे ।
२०