सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

४. चतुर्थ जवनिका: सुरंग-मार्ग, विवाह-कौतुक एवं साम्राज्य प्राप्ति

किं किं किं चु चु चुम्बनैर्म म सुधा वक्त्राम्बुजस्याग्रतो
दे दे देहि पि पि प्रिये सु सु सुरां पात्रे त्रि रे रेवति ।
मा मा मा वि विलम्बनं कु कु कुरु प्रेम्णा हली याचते
यस्येत्थं मदघूर्णितस्य तरसा वाचः स्खलन्त्याकुलाः ॥ ५२ ॥
अपि च,—
नीलाम्बरं नलिनदाम च यस्य भूषा
यत्प्रीतिकारि मधुरं मधु रेवती च ।
लीलार्धदृष्टधनुरत्र हली सहेलं
शारैः स एष खलु खेलति खेलगामी ॥ ५३ ॥
द्रौपदी—यः किलैरावणवारण इव सदा मदस्वच्छन्दः ।
वन्दी—किमाह कामपालः—
रेवतीं त्रिभुवनैकसुन्दरीं न प्रकोपयति रोहिणीसुतः ।
तेन नैष विदधाति कौतुकी दृष्टिभागमपि कृष्णकार्मुके ॥ ५४ ॥
(पुनः ।)
वन्दी—
यः पीयूषभुजां पुरः प्रहरतां दम्भोलिपाणिं रणे
निर्जित्योर्जितशार्ङ्गनिर्गतशरश्रेणीभिरुद्दामभिः ।
शच्या वाञ्छितमौलिबन्धरचनैः पुष्पैः सदा सुन्दरां-
श्चक्रे नन्दनपारिजातकतरून्विभ्रम्भरासाक्षिणः ॥ ५५ ॥
वृषतुरगकरीन्द्रस्यन्दनाद्याकृतीनां
किमपरमसुराणां मन्दिता सोऽयमास्ते ।
कृतसुरपरितोषः षोडशस्त्रीसहस्र-
प्रणिहितपरिरम्भास्यास्पदं पद्मनाभः ॥ ५६ ॥
द्रौपदी—यस्य किल कलकण्ठीमञ्जुलजल्पिनी रुक्मिणी प्रथमकल-
त्रम् । यस्य काञ्चनाभा सत्यभामा संवननं हृदयस्य ।
वन्दी—किमाह देवो वासुदेवः ।

प्रथमोऽङ्कः १५
यत्सिग्मदस्य मद्रतस्य च भूमैमायां
यस्मिन्नमी च यदुवंशमुखाः कुमाराः ।
नन्वद्य सोऽहममुना कमलाक्षनार-
ङ्गीचक्रकेलिचतुरञ्चतिने लज्जे ॥ ५७ ॥
(परिक्रमितकेन ।)
वन्दी—
यत्साक्षाच्छूरचूर्णीकरणसहभुवः पूतनाफुत्कृतानां
कर्त्तारः कंसवंशप्रशमपरशवः केशिनः क्लेशकाराः ।
यस्यासन्दानदंप्रथवलकुवलयापीडपीठाम्रगल्भाः
क्रीडाडिम्भस्य लीलाऽद्रुतधरणिधराः कण्ठयः कालियारेः ॥ ५८ ॥
तस्यैष शम्बरमहासुरसुन्दरीणां
सिन्दूरमण्डनहरेण पराक्रमेण ।
शाश्वत्प्रकामकलनीयजनोपमानं
प्रत्यक्षयत्यनिशिरुस्तनयः पुरस्तात् ॥ ५९ ॥
द्रौपदी—यः किल यादवकुमाराणां मध्ये निरुपमरूपरेखाराज्य-
पताकां निर्विलम्बमवलम्बते ।
वन्दी—धृष्टद्युम्न आर्य !
उद्यतः क्रतुकृशानुजन्मनः कर्तुमेष धनुषोऽधिरोहणम् ।
शार्ङ्गिणा भगवता ससंभ्रमं धूनितहस्तघटनेन वार्यते ॥ ६० ॥
(परिक्रमितकेन ।)
वन्दी—कथं सात्यकिः,
धनुर्विद्यारहस्येषु शिष्योऽयं सव्यसाचिनः ।
प्रद्युम्नस्य सहाध्यायी सात्यकिः सत्यसंगरः ॥ ६१ ॥
अपि च,—
यः सत्त्वस्य निधिः श्रियां च सरणिः सान्नां च धाम्नां च यो
यो दाता च दयालुरेव च पदं कीर्तेश्च नीतिश्च —

१६ - बालभारतम्
तस्यैतस्य स एष दूषणकणः कारुण्यपुण्यात्मनः
पात्रापात्रविवेचनं न यदभूत्सर्वस्वदानेष्वपि ॥ ६२ ॥
द्रौपदी—यो यादवकुमारोऽपि भूत्वा अनास्वादितकादम्बरीरसः
स एतस्य गुणो दोषो वा क्रियताम् ।
बन्दी—
यागकुण्डशिखिगर्भसंभवं वन्द्यते न तु करेण लङ्घ्यते ।
इत्युदीर्य चतुरोक्ति सात्यकिः पूजया परिहरत्ययं धनुः ॥ ६३ ॥
( परिक्रामितेकेन ।)
शिशुपालमहीपालो मेकलानां कुलोद्भवः ।
अयं सजयनिर्घोषो दमघोषसुतः परः ॥ ६४ ॥
पाणिप्रस्थैर्वकुलसुमनःसौरभं यो मिमीते
दंपत्योर्यः सुरतसमरे सौरयसंख्यां करोति ।
यश्च ज्योत्स्नां चुलकपटलैः काममाचामतीन्दोः
शक्तः स्तोतुं यदि स निखिलाम्यस्य कीर्त्यद्भुतानि ॥ ६५ ॥
द्रौपदी—यो निर्जितसुरासुरः ।
बन्दी—
दक्षिणं करमुपैति वामतो वाममञ्चति च दक्षिणादिति ।
दूरतोऽस्य नृपतेर्गुणार्पणं धारणेऽपि धनुषो विडम्बना ॥ ६६ ॥
( परिक्रामितेकेन ।)
सत्यसंधो जरासंधः क्रान्तदिग्वलयो बलैः ।
अत्रैष राजते राजा मागधो मगधस्तुतः ॥ ६७ ॥
अस्यासमं समरकर्म दिदृक्षमाणै-
र्दोपद्वयं फणिभिरपि चमूरजस्तः ।
यत्कूर्णितेक्षणतया न पवन्धवृत्तं
दृष्टं श्रुतो न च महाभटसिंहनादः ॥ ६८ ॥
द्रौपदी—यो जननीजनितदेहखण्डयुगलो जरया राक्षस्या संधित
इति जरासंधो भूपतिः ।

प्रथमोऽङ्कः १७
बन्दी—
अस्य वैष्णवमिदं महाधनुः स्वप्रभावविभवेन भूपतेः ।
अम्बरे भुवि दिशां च संचये दर्शयत्यतनुकार्मुकावलीः ॥६९॥
(परिक्रामितेने ।)
बन्दी—कथमेते राजानो युगपदुत्थिताश्चापमारोपयितुं विडम्बि-
ताश्च । तथा हि,—
जातं कीकसभङ्गतः शकपतेर्दोर्दण्डयोः खण्डनं
निष्धूता रमेश्र्वरस्य वदनात्कीलालकल्लोलिनी ।
जानुभ्यां जगतीं गतश्च तरसा पाण्ड्यः प्रचण्डोऽप्ययं
कोदण्डेन न खण्डिताः क्षितिभुजो दामोदरीयेण के ॥७०॥
बन्दी—( सविषादम् । )
हा मन्त्रं शकुनेः कुलक्षयकरं दुर्योधनं हा नृपं
हा भीष्मं च पितामहं गुरुमपि द्रोणं सपुत्रं च हा ।
दग्धा यज्जतुधाम्नि पाण्डुतनया जीवेत्स चेदर्जुनो
राधायन्त्रमविद्धमत्र न भवेत्कन्या च न द्रौपदी ॥ ७१ ॥
धृष्टद्युम्नः—
वैकुण्ठकार्मुकदढाक्रमणेककुण्ठे
दोर्दण्डखण्डनविखण्डितराजचक्रे ।
द्राग्द्रौपदी नमितकण्ठविलोठिहार-
विश्लिष्यष्टिगणनागुणनां करोति ॥ ७२ ॥
सखी—किं पुनरेष भरितभुवनः कोलाहलो विपुलः ?
बन्दी—(अवलोक्य सहर्षम् ।)
धृष्टद्युम्ने विषण्णे हसति मुरजिति द्रौपदीचित्तनिन्द्ये
कोदण्डप्रौढिगाढगलितगुरुवले चाथ राज्ञां समाजे ।
प्रह्वत्कृष्णाजिनानां करक¹करजुषा घह्लकलव्याकुलानां
विप्राणां कोऽपि मध्यादवतरति युवा कार्मुके दत्तदृष्टिः ॥ ७३ ॥
१. करकः कमण्डलुः.

३८ बालभारतम्
अपि च,—
व्रीडानतेषु वदनेषु च भूपतीनां
संचारयन्विकचपङ्कजचारु चक्षुः ।
अभ्येति मत्तगजखेलगतिः स एष
साभ्यर्थनं मुनिजनेन निषिध्यमानः ॥ ७४ ॥
अर्जुनः—(कतिचित्पदानि दत्त्वा । चतुर्दिशमवलोक्य ।)
एतत्कृष्णस्य शाङ्गं ननु धनुरतनुप्राणदोर्दण्डचण्डै-
र्दूराद्रूपप्रकाण्डैः सपदि परिहृतं शिञ्जिनीसज्जनेषु ।
मध्ये राज्ञां प्रतिज्ञा मम पुनरियती मद्भुजायन्त्रयोगे
प्रत्येकं पर्वमुद्रा त्रुटति तडिति वा जायते कर्मठं वा ॥ ७५ ॥
(सरभसं परिक्रम्य धनुरारोपणं नाटयन् ।)
मद्बाहुयन्त्रयुगयन्त्रितमाततज्यं
न स्याद्धनुः कथमदं हि रथाङ्गपाणेः ।
विक्षोभनिर्यदि न याति च भूमिपृष्ठ-
मा शेषमा च कमठाधिपमभ्युपेयात् ॥ ७६ ॥
भीमः—वत्स नकुल ! भिदुरा भूमिरिति मा कदाचन कदर्धित-
कोदण्डकोटिः स्यात्किरीटी । तत्तस्याधस्ताद्दक्षं दाढ्र्याय निधेहि ।
(इति तथा करोति ।)
नकुलः—
धत्से जर्जरतां न मेदिनि ! मुधा मा शेष ! शङ्कां कृथा-
स्तुभ्यं कूर्मपते ! नमस्त्यज भयं दिक्कुञ्जराः ! स्वस्ति वः ।
यज्जिष्णुर्भुजयोर्बलेन नयति ज्यां हेलयैवाटनीं
धत्ते पाणितलं तलेऽस्य धनुषो वामं द्वितीयापतिः ॥ ७७ ॥
(अर्जुन आरोपयति ।)
सखी—भगवति मिथुनसंघटनैकदेवते ! कुण्ठितनिःशेषनरेन्द्रचक्र-
मेकविप्रवीरसमुद्यमशेषं वर्तते स्वयंवरडम्बरम् ।
(अर्जुनो बाणमोक्षं नाटयति ।)

प्रथमोऽङ्कः १९
बन्दी—
आकर्णाञ्चितचापमण्डलमुचा बाणेन यन्त्रोदर-
च्छिद्रोत्सङ्गविनिर्गतेन तरसा विद्धा च राधामुना ।
( द्रौपदीमवलोक्य । )
तुल्यं मोहनशोषणप्रभृतयः प्रक्षेपकुण्ठक्रमाः
कामेन द्रुपदात्मजाहृदि हठान्न्यस्ताश्च पञ्चेषवः ॥ ७८ ॥
सखी—आश्चर्यमाश्चर्यम् । असलिलाकुवलयोत्पत्तिरकुसुमं कुसुम-
कोदण्डकाण्डममग्नतन्नं मनोमोहनमिन्द्रजालमस्या दृष्टिविप्रवीरवदने
निप्पतन्ती न विरमति ।
अर्जुनः—कथं राधावेधानन्तरमियमस्मासु स्निह्यति ? यतः,—
जैत्रं तन्त्रं कुसुमधनुषः प्रेमसख्यैऋदूताः
सत्यंकाराः प्रणयघटितेस्तुष्टये पुष्टियोगाः ।
विन्यस्यन्तः श्रवसि सुतनोर्मेचकाम्भोजभूषा-
मुत्कण्ठन्ते मयि निपतितुं नर्तिताक्षाः कटाक्षाः ॥ ७९ ॥
बन्दी—हा हा धिकष्टम् ।
ध्रुवमिदमुपदिष्टं कैश्चिदाचार्यपादै-
र्यदुत जनकलोकस्यैकहेतुः कुमारी ।
अफलितकुलशीलोऽप्येष यत्कोऽपि धन्यी
द्रुपददुहितुरस्या वाञ्छति स्वामिभावम् ॥ ८० ॥
अर्जुनः—हंहो वन्दिबृन्दारक, किमत्र कुलान्वेषणेन । किं वा मे
शीलपर्यालोचनया । धनुरारोपणपणपरिणेया द्रौपदी ।
( नेपथ्ये । )
हंहो ब्राह्मण, त्वामेव समुदिता नृपतयो भाषन्ते—
सायकश्च त्वया मुक्तो यन्त्रं वा तेन घातितम् ।
तन्मा वृथा निकत्थस्व न राधां विद्धवानसि ॥ ८१ ॥
(पुनः साक्षेपम् । )

२०. बालभारतम्
रे रे ब्राह्मण ! मुञ्च विप्लवममुं श्रुत्यर्थवीथीं स्मर
क्षत्रस्यात्र ननु स्वयंवरविधावेकाधिकारः स्थितः ।
तच्चेन्नाद्रियसे स्मरार्द्रहृदयो दण्ड्यस्त्वमुर्वीभुजां
तत्संकर्षणकार्मुके समुदिता नैते क्षमन्ते नृपाः ॥ ८२ ॥
अर्जुनः—(तान्प्रति ।)
कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवेव्रताय
त्यक्ताभ्यासः कुरुपतिरयं धीसमुत्थैर्विलासैः ।
भोः कर्णाद्याः ! शृणुत तदिमां ब्राह्मणस्यास्य वाणीं
राधायन्त्रं रचयत पुनर्विद्धमप्यस्त्यविद्धम् ॥ ८३ ॥
सखी—सखि ! इतस्तरलिताहारहारिवक्षः उन्मुक्तचक्रमुचण्डस्थित-
चित्रदण्डमाकर्णकृष्टकोदण्डमण्डलमधिष्ठितभिन्दिपालमाहितसंघट्टपट्टिश-
मसंख्यशङ्कुकंसंभूषणमलंकृतकनककवचं समन्ततः समुत्तरति वृन्दं नरे-
न्द्राणाम् ।
बन्दी—
संघट्टोत्पिष्टचूडाच्युतमणिगणिकाकर्बुरैर्बाहुदण्डै-
स्तूणोत्कीर्णैस्त्रदण्डाः क्षितिपतय इमे सर्वतः संरभन्ते ।
अग्रे कृत्वा विलोलां द्रुपददुहितरं विद्धराधाशरव्यं
बाणं कोदण्डदण्डे विदधदयमितो वर्तते विप्रवीरः ॥ ८४ ॥
(नेपथ्ये ।)
देवस्य द्युमणेः कुले नृपतयो ये चात्र चूडामणेः
श्रीकण्ठस्य निवेदयामि तदिदं तेषां द्वयेषामपि ।
विप्रश्चीवरवान्सहायरहितः कोऽप्येष यः पश्यतां
राधावेधकरो हठेन हरते कीर्त्या समं द्रौपदीम् ॥ ८५ ॥
भीमः—वत्स धनंजय ! त्वं कराकलितद्रौपदीक एव मामनुवर्तस्व
अहं राजचक्रस्य पुरतो भवामि । (तथा करोति ।)
१. भीष्माय.

प्रथमोऽङ्कः २१
नकुलः—आर्य ! इमं तालतरमायुधीकुरु ।
( भीमस्तथा करोति । )
बन्दी—
उत्पाटितमहातालः कृतचण्डगदाधरः ।
विप्रवीरो द्वितीयोऽपि पार्थिवानां पुरः स्थितः ॥ ८६ ॥
अर्जुनः—( राजन्यमवलोक्य । )
वयमहमिह विप्राः श्रौतराधारहस्य-
स्त्रिभुवनजयमुद्रा द्रौपदी चेयमत्र ।
कलयथ यदि दोष्णाञ्चापदण्डप्रचण्डां-
स्त्यजत रथगजस्यासान्पुरस्योपकण्ठम् ॥ ८७ ॥
बन्दी— ( विचिन्त्य । )
वीर्यं वचसि विप्राणां क्षत्रियाणां भुजद्वये ।
इदमत्यन्तमाश्चर्यं भुजवीर्या हि यद्विजाः ॥ ८८ ॥
( अर्जुनस्तदेव पठति । )
( नेपथ्ये । )
साधु ब्राह्मण ! साधु क्षात्रमार्गमनुवर्तसे ।
भीमः—यद्येवम्,—
प्रसर्पन्तु रणाङ्गणे रुधिरकेलिकल्लोलिनी
भवन्तु फलिता इव द्विरदमुण्डषण्डैर्दिशः ।
नृमांसफकलान्तरेष्वपि च साभिलाषैर्मुखैः
कृतान्तजयमङ्गलं विदधतु ध्वनिं फेरवाः ॥ ८९ ॥
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके
राधावेधो नाम प्रथमोऽङ्कः ॥

२२ बालभारतम्
द्वितीयोऽङ्कः
( ततः प्रविशति विदुरः सशारोपकरणः पुरुषश्च । )
विदुरः—
आ देवाद्दिव्यपङ्केरुहसदनजुषोऽस्मिन्महाराजवंशे
विष्वक्सेनावताराद्विजयिनि जगतामत्र चित्रप्रसूतेः ।
हे विश्वे लोकपालास्त्वमपि वसुमति ब्रूहि वाचं पवित्रा-
मिन्दोरन्यस्य दृष्टो यदि किल कलयाप्यास्तृताङ्कः कलङ्कः ॥ १ ॥
तत्रैव गोत्रे संप्रति तु—
वाच्यं यत्र दुरुक्तयः कुचरितं नानाविधा वर्णिका
लोभः सान्द्रतमो रसः किमपरं भावश्च मोहो महान् ।
शैलूषैः कितवैरनेककपटश्रेणीमहानाटके
द्यूतं यत्किल तत्र कौरवपतिः प्रस्तावनायां स्थितः ॥ २ ॥
पुरुषः—आर्य धर्मावतार विदुर ! किं पुनरेवं भण्यते ? यतो द्यूत-
महचरा एवं मन्त्रयन्ति—
रेणन्मणिनूपुरा रणरणङ्कारुच्छटाः
क्वणन्मणिकिङ्किणीमुखरमेखलामालिकाः ।
भवन्ति भवनाङ्गणेऽनघघनस्तन्यस्तेषां परं
प्रसद्यदिनस्वामिन इह जयन्ति द्यूतेन ये ॥ ३ ॥
विदुरः—तिमिङ्गिलगिलन्यायोऽयं शृङ्खयति नात्र जीयते ।
( विचिन्त्य । )
श्रीनिर्वासनडिण्डिमो घनरव सद्यः स्थितं छद्मनां
सत्योत्सारणघोषणा तत इतो लज्जा निरापाञ्जलिः ।
द्वारं दुर्यशसां पराभवपदं गोष्ठी गरिष्ठापदां
द्यूतं दुर्नयवारिधिर्निपततां कस्तत्र हस्तग्रहः ॥ ४ ॥
पुरुषः—आर्य धर्मावतार विदुर ! किं पुनरिदं सखेदं मन्त्र्यते ?
विदुरः—चण्डाटक ! शृणु यन्मन्त्र्यते । ( पुनस्तदेव पठति । )
१. प्राकृतच्छायारूपोऽयं श्लोकः अत एव च्छन्दोभङ्गः.

द्वितीयोऽङ्कः २६
चण्डातकः—अभिन्नो भ्रातृषु, स्वच्छचित्तो मित्रेषु, स्निग्धो वन्धुषु,
निसर्गरक्तः कलत्रेषु, विनयभङ्गुरो गुरुषु, प्रसादनिष्ठो भृत्येषु महाराज-
युधिष्ठिरः । तत्किमिति तत्रैव कौरवेन्द्रस्य विशेषपरिस्पन्दः ?
विदुरः—किमुच्यते—
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ५ ॥
( विचिन्त्य ।) कौरवपतिस्तस्य प्रत्युदाहरणम् ।
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रो मनीषी ॥ ६ ॥
यदयमाहूय वारणावतात्प्रेमप्रणयाभ्यां नाम शकुनिकर्णकुरुपतिप्रेरितेन
धृतराष्ट्रेण युधिष्ठिरोऽभिहितः—'यदुत वत्स युधिष्ठिर ! दुर्योधनकारिते
सदसि भ्रातृद्यूतं प्रवर्तयितव्यम्' इति ।
चण्डातकः—ततस्तेन किं प्रतिपन्नम् ?
विदुरः—यत्पाशसयतो धन्य करी प्रतिपद्यते । तथा चाभिहितं
तेन,—
राजसूयक्रतोर्यज्वा पाण्डुपुत्रो युधिष्ठिरः ।
आहूतो न निवर्तेय द्यूताय च रणाय च ॥ ७ ॥
पुरुषः—अत एवाहं शकुनिना प्रगुणीकृत्याक्षप्रसारं शारफलकं
समर्प्य च संप्रेषितोऽस्मि सभामध्यम् । तदार्य ! कथयस्व किं कारणं
दुर्योधनस्य दुर्जयत्वे ।
विदुरः—श्रुतो मया कुड्यान्तरितेन शकुनिना सह मन्त्रयमाणो
दुर्योधनः—


१. अय श्लोकोऽप्रमश्लोभौ महाभारतस्थो.
क० ग० १ ०

२४ बालभारतम्
तत्रोत्सर्पिणि राजसूयसमये राज्ञः पृथाजन्मनो
द्वीपैशैर्विनयान्वितैरुपचितं चित्रैर्महाप्राभृतैः ।
प्रत्यक्षीकृतवान्यदस्मि विभवं कोपाधिकारे स्थित-
स्तेनाद्यापि निरौषधो मनसि मे दाहज्वरो वर्तते ॥ ८ ॥
अपि च, गान्धाराधिपते मातुल !
मायामये मयसभाधितले महाम्बु
त्यक्त्वा ततो व्रजति मय्यनभिज्ञभावात् ।
यत्कृष्णया विहसितं सह फाल्गुनेन
तन्मे मनः कुसुमलावमिदं लुनाति ॥ ९ ॥
( नेपथ्ये । )
देवश्चन्द्रकुलप्रतापतिलकः षाड्गुण्यवाचस्पति-
र्धीरो निर्मलकीर्तिनिर्जरगिरिर्भूर्खण्डविद्याधरः ।
कृत्स्नद्वीपजयैकलम्बितमहाश्वेतातपत्रोन्नतिः
पाण्डोः पाण्डुयशस्करो विजयते पृथ्वीं पृथानन्दनः ॥ १०
चण्डातकः—युधिष्ठिरबन्दी पठति किंनरकण्ठ एषः ।
( पुनर्नेपथ्ये । )
नाले शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिधेः
शश्वत्खङ्गभुजंगचन्दनतरौ क्रीडोपधाने श्रियः ।
आलाने जयकुञ्जरस्य सुदृशां कंदर्पदर्पे चिरं
श्रीदुर्योधनदोष्णि विक्रमधने लीनं जगन्नन्दति ॥ ११ ॥
चण्डातकः—एष दुर्योधनमागधः कलकण्ठो नाम ।
विदुरः—संप्राप्तावेतौ युधिष्ठिरदुर्योधनौ सभाम् । एते च भीष्मद्रो-
णकृपहार्दिक्यकर्णसोमदत्ताश्वत्थामादयो भीमसेनः कौरवेश्वरभ्रातृशतं च
प्रविशति, तदावामपि प्रविशावः ।
( इति निष्क्रान्तौ ।)
विष्कम्भकः ।


१. उदाहृतोऽयं श्लोकः क्षेमेन्द्रेणौचित्यविचारचर्चायाम्.

द्वितीयोऽङ्कः २५
( ततः प्रविशति युधिष्ठिरो भीमसेनश्च, दुर्योधनः शकुनिश्च, तयोश्च ताम्बूलकर-
ङ्कवाहिन्यौ सुनन्दा सुरेखे च । )
युधिष्ठिरः—
विवर्त्तयाक्षाञ्छकुने शारिक्रीडां प्रवर्त्तय ।
धृतराष्ट्रस्य पाण्डोश्च ममाज्ञामौलिमञ्चति ॥ १२ ॥
किं च,—
राजसूयक्रतोर्यज्वा पाण्डवेयोऽयं युधिष्ठिरः ।
आहूतो न निवर्त्तेय द्यूताय च रणाय च ॥ १३ ॥
शकुनिः—( दक्षिणं बाहुमुद्यम्य । )
हंहो हस्त कृताक्ष ! दानसलिलप्रक्षालित स्वस्ति ते
लोकेऽप्यक्षविचक्षणश्च शकुनिः स्वाङ्गेऽपि भक्तस्त्वयि ।
वीरे माननिधौ पराक्रमधने तद्भागिनेये मम
श्रीः पार्थप्रथमादपास्य भवता कार्या हि दुर्योधने ॥ १४ ॥
दुर्योधनः—सदार्य ! पणः क्रियताम् ।
युधिष्ठिरः—
हारोऽयं केरलस्त्रीविहसितशुचिभिः पङ्क्तिभिर्मौक्तिकानां
शुक्रेणैकार्क्षतीनां कृतसकलसभागर्भचन्द्रोदयश्रीः ।
आद्ये द्यूते पणो मे रजनिचरपतेर्जितो राजसूये
यश्चैतन्मध्यरत्नं द्युतयति ककुभः कौसुमीभिः प्रभाभिः ॥ १५॥
भीमः—भवतस्तु कः पणः ?
दुर्योधनः—
राजावलीक्रमायातो राजकोषः पणो मम ।
शकुन्तलाद्याभरणैर्यः पुनाति च पाति च ॥ १६ ॥
( उभौ क्रीडतः । )
शकुनिः—जितं जितं महाराजदुर्योधनेन । हंहो युधिष्ठिर ! हारि-
तो हारः ।
१ आकारास्पृहविधेयेन; स च सर्वैर्नराधिपः कामिनामनुकूलश्च.

२६ बालभारतम्

(दुर्योधनः सुरेखायाः कण्ठे परिधत्ते ।)
सुनन्दा—(हसन्ती ।) हंहो महाराज दुर्योधन ! युधिष्ठिरकण्ठनिवे-
शिनमीदृशं हारं समर्थास्तादृशजनयोग्यं यत्करोषि तन्न रोहिणीवल्लभ-
कुलोचितमनुतिष्ठसि ।
भीमः—साधु सुनन्दे ! साधु । उचितमभिहितम् ।
सुरेखा—अयि उड्डामरशीले ! द्यूतजितेऽपि यन्त्रणा ।
शकुनिः—(स्वगतम् ।) प्रतिभावती सुरेखा । (युधिष्ठिरं प्रति प्रका-
शम् ।) अपरः पणः क्रियताम् ।
युधिष्ठिरः—संपादिता तातधृतराष्ट्रस्याज्ञा तदास्ताम् ।
शकुनिः—(विहस्य ।) दुर्योधने क्रीडति कथं धर्मराजो विरमति ?
नन्वधुनैव प्रतिज्ञातम्—‘आहूतो न निवर्तेय द्यूताय च रणाय च’ ।
युधिष्ठिरः—(सुनन्दामलोक्य सस्मरणम् ।) यद्येवम्,—
कुर्वन्त्यो नयनैरपाङ्गतलैर्दीर्घायुषं मन्मथं
तन्वन्त्यो हृदि रागिणां रतिमहावल्लीविलासाङ्कुरम् ।
न्यस्यन्त्यो मदिरामदस्य च हठात्काञ्चिन्मनोहारिता-
मङ्गैर्मुग्धमधूकपाण्डुभिरिमा वाराङ्गना मे पणः ॥ १७ ॥
भीमः—भवतस्तु कः पणः !
दुर्योधनः—
सुधावीचीमुचां वाग्भिर्विभ्रमावलिकुण्डलः ।
ममापि वारनारीणां स्मरस्मेरो गणः पणः १८ ॥
(उभौ क्रीडतः ।)
शकुनिः—जितं जितं महाराजदुर्योधनेन ।
दुर्योधनः—सुरेखे ! त्वमेतासां सुनन्दाप्रभृतीनामधिष्ठात्री भव ।
सुरेखा—यत्कुरुपतिराज्ञापयति । (प्रणमति ।)

द्वितीयाेऽङ्कः २७
सुनन्दा—धर्मनन्दनो यदि पुनर्जयन्नस्ति सुरेखाप्रभृतीनां तदहम-
प्यधिष्ठात्री आसिष्ये।
शकुनिः—अपरः पणः क्रियताम्।
युधिष्ठिरः—
निरर्गलविनिर्गलद्बहुलगुलाकरालैर्गलै-
रमी तदिति ताडितोड्डमरडिण्डिमोद्दामराः।
मदाचमनचञ्चुरप्रचुरचञ्चरीकोद्धयाः
पणः परिणतिक्षुणक्षततटान्तरा दन्तिनः ॥ १९ ॥
भीमः—भवतस्तु कः पणः ?
(दुर्योधनस्तदेव पठति। उभौ क्रीडतः।)
शकुनिः—जिता दन्तिनः।
दुर्योधनः—(नेपथ्यं प्रति) दुःशासन! द्यूतदन्तिनां प्रणेता त्वं
भव।
(नेपथ्ये।)
यदादिशत्यार्यदुर्योधनः।
शकुनिः—अपरः पणः क्रियताम्।
युधिष्ठिरः—
झणज्झणितकिङ्किणीमुखरकंधरासंधिभि-
र्युतास्तरुणतित्तिरिच्छदमनोहरैर्वाजिभिः।
द्रुताङ्कघनपट्टिशत्रिशिखलङ्घिनः स्तम्भिनो
रथाः प्रचलकाञ्चनध्वजमहापताकाः पणः ॥ २० ॥
(उभौ क्रीडतः।)
शकुनिः—हारिता रथाः।
दुर्योधनः—(नेपथ्यं प्रति।) सखे अङ्गराज! त्वं रथानां नेता भव।

२८ बालभारतम्
(नेपथ्ये।)
यदादिशति कौरवेश्वरः।
शकुनिः—अपरः पणः क्रियताम्।
युधिष्ठिरः—
महीधरधरासु ये सनिनदं पतद्भिः खुरै-
र्लिखन्ति च पठन्ति च स्फुटतरं टकारानिव।
विरोचनहयावलीकुलभुवां स तेषामयं
पणः पवनरंहसां मम तुरंगमाणां गणः ॥ २१
(उभौ क्रीडतः।)
शकुनिः—जितं जितं महाराजदुर्योधनेन।
दुर्योधनः—मातुल! त्वमेषां तुरंगमाणां भर्ता भव।
शकुनिः—यदाह महाराजः। (राजानमुद्दिश्य।)
किं वाजिभिः किमु गजैः किमथो रथैर्या
सापत्त्नकं न धृतये धरणी पणोऽस्तु।
एकातपत्रमिदमद्य चिराय राज्यं
धर्मात्मजो भजतु वा धृतराष्ट्रजो वा ॥ २२ ॥
युधिष्ठिरः—यद्येवम्,—
ऐलः प्राक्स पुरूरवाः प्रभुरभूद्यस्योर्वशी वल्लभा
दुष्पन्तः स च योऽप्यसूत भरतं शाकुन्तलं शान्तये।
श्रीमाञ्शांतनुरग्रिमः स च सतां गङ्गाकलत्रेण य-
स्तत्सिंहासनमम्बुराशिरशनां शासन्महीं मे पणः ॥ २३ ॥
भीमः—भवतस्तु कः पणः ?
(दुर्योधनस्तदेव पठति।)
(नेपथ्ये।)
राजन्युधिष्ठिर! नराधिप कौरवेन्द्र!
वंशे युवां भगवतो भवशेखरस्य।

द्वितीयोऽङ्कः २९
द्यूतं न युष्मदुचितं ननु चिन्त्यतां च
कैः क्षत्रियैर्वसुमती पणिता पुराणे ? ॥ २४ ॥
युधिष्ठिरः—भो सभासद ! कथं किल राजसूययज्ञा प्रतिज्ञात-
मर्थं कदर्थयसि ?
दुर्योधनः—हहो सभ्याः ! अक्षधर्मा अपि न निषिध्यन्ते ।
( उभौ क्रीडत । )
शकुनिः—जित जित महाराजदुर्योधनेन ।
दुर्योधनः—स्वयमहमुस्य राज्यार्धस्याधिष्ठाता ।
शकुनिः—अपर पण क्रियताम् ।
युधिष्ठिरः—कि नामावशिष्ट यत्पणीक्रियते ?
शकुनिः—कि नामापहारित शरीरे तिष्ठति ? शरीरधना हि राजानः ।
युधिष्ठिरः—यद्येवम्,—
निर्यान्ति यस्य वदनाद्वितथा न वाचो
यो राजसूयविधिनिर्धूतपापपङ्कः ।
सोढा न चानुजमहाविरहस्य योऽसि
न्सोऽयं स्वयं तव पणः प्रथमः पृथासूः ॥ २५ ॥
भीमः—( स्वगतम् । ) कथमात्मापि पणीकृतः ? अहो सत्यसंधता
आर्ययुधिष्ठिरस्य । ( प्रकाशम् । ) भवतस्तु कः पणः ?
दुर्योधनः—
हेलानमन्नृपकिरीटविटङ्ककोटि-
ग्रैवेयिरत्नचितफणाशनपादपीठः ।
वैतालिचै स्तुतसमस्तजयोत्सवश्री-
सोऽयं स्वयं प्रतिपणस्तव कौरवेन्द्रः ॥ २६ ॥
( उभौ क्रीडत । )
शकुनिः—जित जित महाराजदुर्योधनेन ।

३० बालभारतम्
युधिष्ठिरः—जितोऽस्मि । तन्नियोजय कृत्यै ।
शकुनिः—पुनरपरः पणः क्रियताम् ।
युधिष्ठिरः—कः पुनरपरः पणः ?
शकुनिः—भ्रातरः ।
युधिष्ठिरः—
यो मन्थानकरः क्रतौ निजकुलप्राकारबन्धश्च यो
दोर्भ्यां यः प्रसभं व्यधत्त च जरासंधस्य संधिच्छिदाम् ।
सोऽयं स्रस्तहिडिम्बडिम्बविजयी वीरखिलोकाद्भुतं
भीमो भीमपराक्रमः पृथुगदाव्यग्राग्रपाणिः पणः ॥ २७ ॥
भीमः—भवतस्तु कः पणः ?
दुर्योधनः—
संकर्षणाभिजतनुज्ज्वलकीर्तिराशेः
सार्धं मयाधिगतदिव्यमहारहस्यः ।
त्वत्सोदरस्य मम सोदर एष वीरो
दुःशासनः प्रतिपणोऽस्य वृकोदरस्य ॥ २८ ॥
(उभौ क्रीडतः ।)
शकुनिः—जितं जितं कौरवराजेन । अपरः पणः क्रियताम् ।
युधिष्ठिरः—
कर्णप्रावरणैः सहैकचरणानश्वाननैः किंनरान्-
रूपैस्तुल्यशिखांन्वलीमुरमुखैर्यक्षांश्च रक्षांसि च ।
निर्जित्या कनकाद्रितो जनपदान्यो राजसूयक्रतौ
सम्राजं कृतवान्युधिष्ठिरमलं सोऽयं किरीटी पणः २९ ॥
भीमः—भवतस्तु कः पणः ?
यो भार्गवाद्भगवतोऽर्जितचापवेदो
द्रोणेन तुल्यगरिमा मम धर्ममित्रम् ।
स प्रीणितार्थिजनवाञ्छितरिक्तकर्णः
कर्णः स्वयं प्रतिपणोऽस्य धनंजयस्य ॥ ३० ॥

द्वितीयोऽङ्कः ३१
( उभौ क्रीडत । )
शकुनिः—जित जित कौरवराजेन । तदपर पण क्रियताम् ।
युधिष्ठिरः—
सौहार्दान्प्रणयादथ प्रथमतः स्नेहातिरेकाच्च या
यो देवेन रथाङ्गिनापि समरे हित्वा कर लम्भित ।
पाश्चात्यक्षितिपान्निर्मथ्यदत्प्रस्तारहारान्कर-
न्सॊऽयं मे नकुलः पुरोहितलक्ष्मौ युद्धप्रवीण पण ॥ ३१ ॥
भीमः—भवतस्तु क पण ?
दुर्योधनः—
नकुलस्यापि ते भ्रातुर्भ्राता प्रतिपणो मम ।
विभ्रदार्तिमहानावि विकर्ण कर्णधारताम् ॥ ३२ ॥
( उभौ क्रीडत । )
शकुनिः—जित जित महाराजदुर्योधनेन । तदपर पण क्रियताम् ।
युधिष्ठिरः—
हेलालोडितपाण्ड्यकेरलवलो य सिंहलौङ्घ्यन्
प्राक्सङ्क्षुभ्य विभीषणेन तरसा दूरात्कर लम्भित ।
नित्य रावणनिर्जितामरहृतैर्य सम्भृतो भूषणै
सौम्यर्थी सहदेव एष स पण क्षत्रैकचूडामणि ॥ ३३ ॥
भीमः—भवतस्तु क पण ?
दुर्योधनः—अनिर्जतो भ्राता विकर्ण एष मम पण ।
( उभौ क्रीडत । )
शकुनिः—जित जित महाराजाधिराजेन । तदपर पण क्रियताम् ।
युधिष्ठिरः—किं नामा[प]हारितम् । क पुनरपर पण क्रियताम् ?
शकुनिः—धर्मदारा द्रौपदी ।
युधिष्ठिरः—

३२ बालभारतम्
संभूता द्रुपदाध्वरे हुतभुजः पाण्डोर्नृपस्य स्नुषा
राधावेधमहापणेन विजिता राज्ञां पुरः पद्यताम् ।
भूभृन्मौलिमणीन्द्रदीधितिजलैर्या स्नातपादाम्बुजा
सा देवी विनयाभिमानवसतिः कृष्णा वितृष्णा पणः ॥ ३४ ॥
भीमः—भवतस्तु कः पणः ?
दुर्योधनः—
ज्येष्ठत्वात्पाण्डुपूज्यस्य धृतराष्ट्रस्य या स्नुषा ।
सा देवी देवरवती मम भानुमती पणः ॥ ३५ ॥
सुनन्दा—( स्वगतम् ।) एष स ज्येष्ठाभिः कनिष्ठानां विनिमयः !
( उभौ क्रीडतः । )
शकुनिः—जितं जितं महाराजदुर्योधनेन ।
दुर्योधनः—दुःशासन ! आनीयतां द्यूतदासी द्रौपदी ।
( नेपथ्ये । )
यदादिशति पाण्डवकौरवेश्वरः ।
दुर्योधनः—अपरः पणः क्रियताम् ।
युधिष्ठिरः—न मे पणान्तरमस्तीति प्रतिभाति ।
दुर्योधनः—
वर्षाणि द्वादशारण्ये सह तिष्ठन्तु निष्ठया ।
अज्ञातचर्यया वर्षमावयोर्युधि जीयते ॥ ३६ ॥
( युधिष्ठिरस्तदेवानुवदति । उभौ क्रीडतः । )
शकुनिः—जितं जितं महाराजदुर्योधनेन ।
( नेपथ्ये । )
पञ्चानां या कलत्रं द्रुपदमखविधावद्भुतं जन्म यस्याः
पूता या राजसूयावभृथपरिगमे मन्त्रपूतैः पयोभिः ।
तामेनां द्यूतदासीं कुरुपतिनियमं मूर्ध्नि कृत्व्या मयान्तः
केशेष्वाकृष्यमाणां शृणुत नृपतयो यस्य शक्तिः स पातु ॥ ३७ ॥

द्वितीयोऽङ्कः ३३
दुर्योधनः—कथमय संपादिदमदाज सद्द्रौपदीको वत्सो दुःशासनः
प्राप्तः ।
( ततः प्रविशति यथानिर्दिष्टा द्रौपदी दुःशासनश्च । दुःशासनस्तदेव पठति । )
सुनन्दा—( सहसोपसृत्य हस्तामोक्षं नाटयन्ती । ) दुःशासन ! मुञ्च मुञ्च
पाञ्चालीकेशपाशम् ।
दुःशासनः—( तामपनुद्य नम्रताङ्गत्वेनावलोक्य विहस्य च । )
यन्मुक्तं स्फारतारध्वनिभरितसभाकुक्षिगर्भं सरोषं
हुंकारं कातराणां तरलितहृदयं फाल्गुनस्याग्रजेन ।
पुंवद्भिर्द्वाःस्थहीनहननिबिडिताङ्गूठकूटान्रूपैस्त
न्यस्ताः खङ्गेषु रक्तस्तरुपु सरभसं संप्रहाराय हस्ताः ॥ ३८ ॥
सुनन्दा—( पुन पाणिग्राहं नाटयित्वा । )
अंस्याचुम्बितपल्लवानां गहना स्नेहेन धृष्टद्युम्नो
येषां पुष्पलवेणिबन्धनकरः स आस्ते रात्रिन्दिनम् ।
चण्डः पाण्डवगेहिन्याश्चिकुरे रे कर्षता त्वया
यि दुःशासन ! दुःसहा प्रज्वलिता हालाहलाग्राङ्कुरा ॥३९॥
द्रौपदी—वत्स दुःशासन ! मुञ्च मुञ्च केशपाशम् । कथममेकवस्त्रा
भूत्वा गुरुनरेन्द्रपुरतः संचरिष्ये ?
दुःशासनः—( विहस्य । ) नन्वपनयाक्येकवस्त्रा कोटवीकरणेन ।
( बहुवस्त्रापनयनं नाटयन् । )
यावद्दीर्घं द्रुपददुहितुः कृष्यते वस्त्रमस्या
स्तावत्स्यानेऽन्यदुदयति पिदधत्सार्वदङ्गं सतश्च ।
स्विन्नं चैतन्मम करतलं धासभा चेप राशि
स्तन्मन्येऽसौ त्रिभुवनमनोमोहिनीं वेत्ति विद्याम् ॥ ४० ॥
द्रौपदी—मो दुःशासन ! मम किमपतिव्रताननोचितं करोषि ?
१ प्राकृतच्छाद्येयम् २ कोटवी नग्ना स्त्री