कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 149, कुल 172 में से
संदर्भ में पढ़ें२२ बालभारतम्
द्वितीयोऽङ्कः
( ततः प्रविशति विदुरः सशारोपकरणः पुरुषश्च । )
विदुरः—
आ देवाद्दिव्यपङ्केरुहसदनजुषोऽस्मिन्महाराजवंशे
विष्वक्सेनावताराद्विजयिनि जगतामत्र चित्रप्रसूतेः ।
हे विश्वे लोकपालास्त्वमपि वसुमति ब्रूहि वाचं पवित्रा-
मिन्दोरन्यस्य दृष्टो यदि किल कलयाप्यास्तृताङ्कः कलङ्कः ॥ १ ॥
तत्रैव गोत्रे संप्रति तु—
वाच्यं यत्र दुरुक्तयः कुचरितं नानाविधा वर्णिका
लोभः सान्द्रतमो रसः किमपरं भावश्च मोहो महान् ।
शैलूषैः कितवैरनेककपटश्रेणीमहानाटके
द्यूतं यत्किल तत्र कौरवपतिः प्रस्तावनायां स्थितः ॥ २ ॥
पुरुषः—आर्य धर्मावतार विदुर ! किं पुनरेवं भण्यते ? यतो द्यूत-
महचरा एवं मन्त्रयन्ति—
रेणन्मणिनूपुरा रणरणङ्कारुच्छटाः
क्वणन्मणिकिङ्किणीमुखरमेखलामालिकाः ।
भवन्ति भवनाङ्गणेऽनघघनस्तन्यस्तेषां परं
प्रसद्यदिनस्वामिन इह जयन्ति द्यूतेन ये ॥ ३ ॥
विदुरः—तिमिङ्गिलगिलन्यायोऽयं शृङ्खयति नात्र जीयते ।
( विचिन्त्य । )
श्रीनिर्वासनडिण्डिमो घनरव सद्यः स्थितं छद्मनां
सत्योत्सारणघोषणा तत इतो लज्जा निरापाञ्जलिः ।
द्वारं दुर्यशसां पराभवपदं गोष्ठी गरिष्ठापदां
द्यूतं दुर्नयवारिधिर्निपततां कस्तत्र हस्तग्रहः ॥ ४ ॥
पुरुषः—आर्य धर्मावतार विदुर ! किं पुनरिदं सखेदं मन्त्र्यते ?
विदुरः—चण्डाटक ! शृणु यन्मन्त्र्यते । ( पुनस्तदेव पठति । )
१. प्राकृतच्छायारूपोऽयं श्लोकः अत एव च्छन्दोभङ्गः.