कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 154, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयाेऽङ्कः २७
सुनन्दा—धर्मनन्दनो यदि पुनर्जयन्नस्ति सुरेखाप्रभृतीनां तदहम-
प्यधिष्ठात्री आसिष्ये।
शकुनिः—अपरः पणः क्रियताम्।
युधिष्ठिरः—
निरर्गलविनिर्गलद्बहुलगुलाकरालैर्गलै-
रमी तदिति ताडितोड्डमरडिण्डिमोद्दामराः।
मदाचमनचञ्चुरप्रचुरचञ्चरीकोद्धयाः
पणः परिणतिक्षुणक्षततटान्तरा दन्तिनः ॥ १९ ॥
भीमः—भवतस्तु कः पणः ?
(दुर्योधनस्तदेव पठति। उभौ क्रीडतः।)
शकुनिः—जिता दन्तिनः।
दुर्योधनः—(नेपथ्यं प्रति) दुःशासन! द्यूतदन्तिनां प्रणेता त्वं
भव।
(नेपथ्ये।)
यदादिशत्यार्यदुर्योधनः।
शकुनिः—अपरः पणः क्रियताम्।
युधिष्ठिरः—
झणज्झणितकिङ्किणीमुखरकंधरासंधिभि-
र्युतास्तरुणतित्तिरिच्छदमनोहरैर्वाजिभिः।
द्रुताङ्कघनपट्टिशत्रिशिखलङ्घिनः स्तम्भिनो
रथाः प्रचलकाञ्चनध्वजमहापताकाः पणः ॥ २० ॥
(उभौ क्रीडतः।)
शकुनिः—हारिता रथाः।
दुर्योधनः—(नेपथ्यं प्रति।) सखे अङ्गराज! त्वं रथानां नेता भव।