कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 146, कुल 172 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः १९
बन्दी—
आकर्णाञ्चितचापमण्डलमुचा बाणेन यन्त्रोदर-
च्छिद्रोत्सङ्गविनिर्गतेन तरसा विद्धा च राधामुना ।
( द्रौपदीमवलोक्य । )
तुल्यं मोहनशोषणप्रभृतयः प्रक्षेपकुण्ठक्रमाः
कामेन द्रुपदात्मजाहृदि हठान्न्यस्ताश्च पञ्चेषवः ॥ ७८ ॥
सखी—आश्चर्यमाश्चर्यम् । असलिलाकुवलयोत्पत्तिरकुसुमं कुसुम-
कोदण्डकाण्डममग्नतन्नं मनोमोहनमिन्द्रजालमस्या दृष्टिविप्रवीरवदने
निप्पतन्ती न विरमति ।
अर्जुनः—कथं राधावेधानन्तरमियमस्मासु स्निह्यति ? यतः,—
जैत्रं तन्त्रं कुसुमधनुषः प्रेमसख्यैऋदूताः
सत्यंकाराः प्रणयघटितेस्तुष्टये पुष्टियोगाः ।
विन्यस्यन्तः श्रवसि सुतनोर्मेचकाम्भोजभूषा-
मुत्कण्ठन्ते मयि निपतितुं नर्तिताक्षाः कटाक्षाः ॥ ७९ ॥
बन्दी—हा हा धिकष्टम् ।
ध्रुवमिदमुपदिष्टं कैश्चिदाचार्यपादै-
र्यदुत जनकलोकस्यैकहेतुः कुमारी ।
अफलितकुलशीलोऽप्येष यत्कोऽपि धन्यी
द्रुपददुहितुरस्या वाञ्छति स्वामिभावम् ॥ ८० ॥
अर्जुनः—हंहो वन्दिबृन्दारक, किमत्र कुलान्वेषणेन । किं वा मे
शीलपर्यालोचनया । धनुरारोपणपणपरिणेया द्रौपदी ।
( नेपथ्ये । )
हंहो ब्राह्मण, त्वामेव समुदिता नृपतयो भाषन्ते—
सायकश्च त्वया मुक्तो यन्त्रं वा तेन घातितम् ।
तन्मा वृथा निकत्थस्व न राधां विद्धवानसि ॥ ८१ ॥
(पुनः साक्षेपम् । )