कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 148, कुल 172 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः २१
नकुलः—आर्य ! इमं तालतरमायुधीकुरु ।
( भीमस्तथा करोति । )
बन्दी—
उत्पाटितमहातालः कृतचण्डगदाधरः ।
विप्रवीरो द्वितीयोऽपि पार्थिवानां पुरः स्थितः ॥ ८६ ॥
अर्जुनः—( राजन्यमवलोक्य । )
वयमहमिह विप्राः श्रौतराधारहस्य-
स्त्रिभुवनजयमुद्रा द्रौपदी चेयमत्र ।
कलयथ यदि दोष्णाञ्चापदण्डप्रचण्डां-
स्त्यजत रथगजस्यासान्पुरस्योपकण्ठम् ॥ ८७ ॥
बन्दी— ( विचिन्त्य । )
वीर्यं वचसि विप्राणां क्षत्रियाणां भुजद्वये ।
इदमत्यन्तमाश्चर्यं भुजवीर्या हि यद्विजाः ॥ ८८ ॥
( अर्जुनस्तदेव पठति । )
( नेपथ्ये । )
साधु ब्राह्मण ! साधु क्षात्रमार्गमनुवर्तसे ।
भीमः—यद्येवम्,—
प्रसर्पन्तु रणाङ्गणे रुधिरकेलिकल्लोलिनी
भवन्तु फलिता इव द्विरदमुण्डषण्डैर्दिशः ।
नृमांसफकलान्तरेष्वपि च साभिलाषैर्मुखैः
कृतान्तजयमङ्गलं विदधतु ध्वनिं फेरवाः ॥ ८९ ॥
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके
राधावेधो नाम प्रथमोऽङ्कः ॥