जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
राजयोगाध्यायः ।।७।। २४७
पुत्रेश और षष्ठेश परस्पर केन्द्रमें स्थित हों लग्नेश बलवान् हो तो “शङ्ख” योग होता
है । लग्नेश और दशमेश चरराशिमें हों भाग्येश बली हो तो 'शङ्ख' योग होता है ॥ १४८ ॥
शंखयोगमें उत्पन्न होनेवाला भोगशील, दयालु, जीवान्, पुत्रवान्, क्षेत्रवान्, पुण्यकर्मा,
शास्त्र ज्ञान द्वारा आचार और साधु क्रिया वाला और लोक में ८० वर्ष जीनेवाला होता है॥
अथ भेरीयोगः ।
स्वान्त्योदयास्तभवनेषु वियच्चरेषु कर्माधिपे बलयुते यदि भेरीयोगः ।
केन्द्रं गतौ सुरगुरोः सितलग्ननाथौ भाग्येश्वरे बलयुते तु तथैव वाच्यम् ॥१४०॥
दीर्घायुषो विगतरोगभया नरेन्द्राः बह्वर्थभूमिसुतदारयुताः प्रसिद्धाः ।
आचारभूरिसुखशौर्यमहानुभावाः भेरीप्रजातमनुजा निपुणाः कुलीनाः ॥१४१॥
इदानीं भेरीयोगं तस्य फलञ्चाह—स्वान्त्येति । स्वान्त्योदयास्तभवनेषु = द्वितीयद्वाद-
शप्रथमसप्तमभावेषु, वियच्चरेषु = ग्रहेषु यथासम्भवं विद्यमानेषु यदि कर्माधिपे = दशमेशे
बलयुते = सबले सति भेरीयोगो भवति । अथ च सुरगुरोः = बृहस्पतेः सकाशात्, केन्द्रं
( १।४।७।१० एतदन्यतमभावं ) गतौ, सितलग्ननाथौ = शुक्र-जन्मलग्रेशौ भवेतां, भा-
ग्येश्वरे = नवमेशे तु बलयुते तथैव वाच्यमर्थात्भेरीयोगः स्यादिति वाच्यम् । तस्य भेरी-
योगस्य फलं दीर्घायुष इत्यनेन सुखावगमेनोक्तमिति ॥ १४०-१४१ ॥
यदि दूसरे, बारहवें, लग्न और सप्तममें ग्रह हों दशमेश बली हो तो 'भेरी' योग होता है ।
वृहस्पतिसे केन्द्रमें शुक्र और लग्नेश हों और भाग्येश बलवान् हो तो "भेरी" योग होताहै ॥
भेरीयोगका जातक दीर्घायु, रोग-भयसे रहित, राजा, बहुत धन-भूमि-पुत्र-स्त्रीसे युत,
प्रसिद्ध, आचारवान्, पूर्ण सुखी, पराक्रमसे युत, महानुभाव, प्रत्येक कार्यमें निपुण तथा
कुलीन होता है ॥ १४१ ॥
| शु.चं.बु. २ | सू. १ | बृ. १२ | | २ | १ | १२ |
| ३ | ११ | | ३ | ११ |
| ४ | भेरी-योगः । | १० | | ४ बृ. | भेरी-योगः ॥ | मं. १० |
| ५ | ९ | | ५ | ९ |
| ६ | मं. ७ श. | ८ | | ६ | ७ शु. | ८ |
अथ मृदङ्गयोगः ।
उच्चग्रहांशकपतौ यदि कोणकेन्द्रे तुङ्गस्वकीयभवनोपगते बलाढ्ये ।
लग्नाधिपे बलयुते तु मृदङ्गयोगः कल्याणरूपनृपतुल्ययशःप्रदः स्यात् ॥१४२॥
इदानीं मृदङ्गयोग उच्यते—उच्चेति ।
उच्चग्रहांशकपतौ = जन्मकाले यो ग्रहः | २ | ल. १ | |
स्वोच्चराशिस्थः स यद्राशिसम्बन्धिनवांशे | ३ | | |
व्यवस्थितो भवेत्तन्नवांशराशिप्तौ ग्रहे | ४ बृ. १२° | मृदङ्गयोगः | १० मं. |
यदि लग्नात् केन्द्रकोणे ( १।४।७।१०।५।६ | | | |
एतदन्यतमे ) याते, तुङ्गस्वकीयभव- | | ७ शु. | |
नोपगते = स्वोच्चे वा स्वराशौ गतवति
बलाढ्ये च, लग्नाधिपे = लग्नेशे तु बल-
२४८ सटीकजातकपारिजाते-
युते सति मृदङ्गयोगः स्यात् । अत्र यद्युक्तमुच्चग्रहांशकपताविति, तत्र यदि द्वौ बहवो वा
ग्रहा उच्चस्थाः स्युस्तदा बलवतो ग्रहणं कार्यमिति । मृदङ्गयोगफलमाह-कल्याणरूपनृपतुल्य
यशःप्रदः स्यादिति स्पष्टमेवेति ॥ १४२॥
यदि उच्चगत ग्रहका नवांशपति कोण या केन्द्रमेंहो और अपने उच्चगृही या स्वगृहीमें
हो, बलवान् हो, और लग्नेश भी बली हो तो “मृदङ्ग” योग होता है । यह मृदङ्ग योग
कल्याण, रूप और राजाके सदृश यश देनेवाला है ॥ १४२ ॥
अथ श्रीनाथयोगः ।
कामेश्वरे कर्मगते, स्वतुङ्गे कर्माधिपे भाग्यपसंयुते च ।
श्रीनाथयोगः शुभदस्तदानीं जातो नरः शक्रसमो नृपालः ॥ १४३ ॥
इदानीं श्रीनाथयोग उच्यते—कामेश्वर इति । कामेश्वरे = सप्तमभावेशे, कर्मगते=दश-
मभावमुपगते, स्वतुङ्गे = स्वकीयोच्चराशि-
मुपगते कर्माधिपे = दशमेशे, भाग्यपेन
( नवमेशेन ) संयुते च सति शुभदः
श्रीनाथयोगः स्यात् । तदानीं ( श्रीनाथ-
योगोपलक्षिते काले ) जातो नरः शक्र-
समः = इन्द्रतुल्यः, नृपालः = राजा
भवति ॥ १४३ ॥
[कुण्डली: १ ल. | १० शु. | ९ | ७ वृ. श. | मध्य: श्रीनाथ:]
सप्तमेश कर्ममें हो और कर्मेश अपनी
उच्च राशिमें स्थित होकर भाग्येशके साथ होतो “श्रीनाथ” योग होता है । इस योगका
जातक इन्द्रके समान राजा होता है ॥ १४३ ॥
अथ शारदयोगः ।
योगः शारदसंज्ञकः सुतगते कर्माधिपे चन्द्रजे
केन्द्रस्थे दिननायके निजगृहप्राप्तेऽतिवीर्यान्विते ॥
चन्द्रात् कोणगते पुरन्दरगुरौ सौम्यत्रिकोणे कुजे
लाभे वा यदि देवमन्त्रिणि बुधात्तच्छारदासंज्ञकः ॥ १४४ ॥
स्त्रीपुत्रबन्धुसुखरूपगुणानुरक्ताः भूपप्रिया गुरुमहीसुरदेवभक्ताः ।
विद्याविनोदरतिशीलतपोबलाढ्याः जाताः स्वधर्मनिरता भुवि शारदाख्ये ॥१४५॥
इदानीं शारदयोगं तस्य फलञ्चाह—योग इति । कर्माधिपे = दशमेशे, सुतगते = पञ्च-
मभावगते, चन्द्रजे = बुधे, केन्द्र-( १।४।७ १० भाव-) गते, दिननायके=सूर्ये, निजगृह-
प्राप्ते = सिंहराशिमुपगतेऽतिवीर्यान्विते ( पूर्णबलयुक्ते ) शारदसंज्ञकः योगः स्यात् । योगा-
न्तरमाह—पुरन्दरगुरौ=बृहस्पतौ, चन्द्रात् यत्र तत्र गतात्, कोणगते ( ९।५ भावगते ),
कुजे=भौमे, सौम्यत्रिकोणे = बुधात् पञ्चमं नवमं वोपगते, अथवा देवमन्त्रिणि = गुरौ बुधात्
यदि लाभे=एकादशमुपगते सति तच्छारदसंज्ञको योगो भवति ॥ शारदयोगफलमाह—
स्त्रीपुत्रेत्यादिना स्पष्टार्थेन ॥ १४४-१४५ ॥
राजयोगाध्यायः ॥ ७ ॥ २४६
[चक्र १ (शारदः १) : १ (लग्न), २, ३, ४ बु., ५ श. र., १०, शारदः ।]
[चक्र २ (शारदः २) : बु. (लग्न), १२ वृ., ४ चं., १० मं., शारदः ॥]
१. यदि कर्मेश पञ्चममें हो, बुध केन्द्रमें हो, अत्यन्त बलवान् सूर्य सिंह राशिका हो,
वा २. चन्द्रमासे त्रिकोणमें गुरु हो, बुधसे त्रिकोणमें मङ्गल हो, बुधसे बृहस्पति लाभमें हो
तो ये दोनों 'शारदा योग' होते हैं ॥ १४४ ॥
शारदा योगका जातक स्त्री-पुत्र-बन्धु-सुख-गुणमें अनुरक्त, राजाके प्रिय, गुरु-ब्राह्मण-
देवताका भक्त, विद्याविनोदी, कामुक, तप, तथा बलसे युत, अपने धर्ममें लीन रहनेवाले
होते हैं ॥ १४५ ॥
अथ मत्स्ययोगः ।
लग्नधर्मगते पापे पञ्चमे सदसद्युते ।
चतुरस्रं गते पापे योगोऽयं मत्स्यसंज्ञकः ॥ १४६ ॥
कालज्ञः करुणासिन्धुर्गुणधीबलरूपवान् ।
यशोविद्यातपस्वी च मत्स्ययोगसमुद्भवः ॥ १४७ ॥
अधुना मत्स्ययोगं तत्फलञ्चाह—लग्नधर्मगत इति । लग्नधर्मगते=लग्नान्नवमे भावे ।
स्थिते कस्मिंश्चित्पापग्रहे, पञ्चमे=लग्ना-
त्पञ्चमे भावे सदसद्गतां = शुभपापग्रहा-
भ्यां युते, चतुरस्रं=लग्नात् चतुर्थेऽष्टमे
वा भावे गतवति कस्मिंश्चित्पापे सत्ययं
योगो मत्स्यसंज्ञको भवति । तत्फलं कालज्ञ
इति सरलार्थेनाह ॥ १४६-१४७ ॥
लग्नसे धर्म ९ भाव पाप ग्रहसे युक्त
हो पञ्चमभाव पापग्रह और शुभग्रहसे
युक्त हो, चौथे या आठवें पापग्रह हो तो 'मत्स्य' योग होता है ॥ १४६ ॥
[चक्र (मत्स्य योग:) : ५ रं. शु., ९ श., ८ मं., मत्स्य योग:]
मत्स्य योगका जातक कालका ज्ञाता, अत्यन्त दयालु, गुणवान्, बुद्धिमान्, रूपवान्,
यशस्वी, विद्वान्, तथा तपस्वी होता है ॥ १४७ ॥
अथ कूर्मयोगः ।
कलत्रपुत्रारिगृहेषु सौम्याः स्वतुङ्गमित्रंशकराशियाताः ।
तृतीयलाभोदयगास्त्वसौम्या मित्रोच्चसंस्था यदि कूर्मयोगः ॥ १४८ ॥
विख्यातकीर्तिर्भुवि राजभोगी धर्माधिकः सत्त्वगुणप्रधानः ।
धीरः सुखी वागुपकारकर्ता कूर्मोद्भवो मानवनायको वा ॥ १४९ ॥
इदानीं कूर्मयोगस्तत्फलञ्चोच्येते—कलत्रेति । स्वतुङ्गमित्रंशकराशियाताः=स्वकीयोच्च-
२५० सटीकजातपारिजाते-
मित्रग्रहनवांशस्वराशीनामन्यतमोपगताः
सौम्याः, कलत्रपुत्रारिगृहेषु=सप्तम-पञ्च-
म-षष्ठभावेषु स्थिता भवेयुः, मित्रोच्चसं-
स्थाः=स्वमित्रग्रहराशिषु वा व्यवस्थिता
असौम्याः=पापा यदि तृतीय-लाभोदय-
गाः=तृतीयैकादशलग्नगता भवेयुस्तदा
कूर्मयोगो भवति । तत्फलं च विख्यात-
कीर्तिरित्थनेन सरलार्थकेनोक्तमिति ॥
यदि अपने उच्चका, वा मित्रांश, वा स्वकीय राशिका शुभग्रह सप्तम, पञ्चम और षष्ठ-
गृहमें हों और पाप ग्रह तृतीय, लाभ और लग्नमें अपने मित्रगृह या उच्चमें हो तो "कूर्म"
योग होता है ॥ १४८ ॥
कूर्म योगमें उत्पन्न जातक पृथ्वीपर विख्यात कीर्तिवाला, राज-सुखका भोगी, धर्मात्मा,
सात्विक गुणवाला, धैर्यवान्, सुखी, वक्ता, परोपकारी, या मनुष्योंका नायक ( राजा )
होता है ॥ १४९ ॥
अथ खड्गयोगः ।
भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।
लग्नेशे केन्द्रकोणस्थे खड्गयोग इतीरितः ॥ १५० ॥
वेदार्थशास्त्रनिखिलागमतत्त्वयुक्तियुग्बुद्धिप्रतापबलवीर्यसुखानुरक्तः ।
निर्मत्सरश्च निजवीर्यमहानुभावः खड्गे भवन्ति पुरुषाः कुशलाः कृतज्ञाः ॥१५१॥
इदानीं सरलार्थेन श्लोकेन खड्गयो-
गं, तत्फलं स्पष्टार्थमाह-भाग्येश इति ॥
यदि भाग्येश धन भावमें हो, धनेश
भाग्य राशिमें हो और लग्नेश केन्द्र या
कोणमें स्थित हो तो खड्ग योग होता है॥
इस खड्ग योगमें उत्पन्न जातक वेद
के अर्थ को जाननेवाला, सभी शास्त्रों तथा
ज्योतिष और तन्त्रोंके तत्त्वको जाननेवाला
हो । वह बुद्धि, प्रताप, बल तथा पराक्र-
मसे सुखी रहे । मत्सरता रहित और अपने पराक्रमसे श्रेष्ठ हो । खड्गयोगमें उत्पन्न पुरुष
कार्यकुशल, तथा कृतज्ञ होता है ॥ १५१ ॥
अथ लक्ष्मीयोगः ।
केन्द्रे मूलत्रिकोणस्थे भाग्येशे परमोच्चगे ।
लग्नाधिपे बलान्ध्ये च लक्ष्मीयोग इतीरितः ॥ १५२ ॥
गुणाभिरामो बहुदेशनाथो विद्यामहाकीर्तिरनङ्गरूपः ।
दिगन्तविश्रान्तनृपालवन्द्यो राजाधिराजो बहुदारपुत्रः ॥ १५३ ॥
राजयोगाध्यायः ॥ ७ ॥ २५१
इदानीं लक्ष्मीयोगं तत्फलञ्चाह—
केन्द्र इति। भाग्येशे=नवमभावेशे, मूल-
त्रिकोणस्थे, वा परमोच्चगे सति केन्द्रे व्य-
वस्थिते, लग्नाधिपे=जन्मलग्नेशे, बला-
ढ्ये=स्थानादिवीर्य्युते च लक्ष्मीयोगः स्या-
दिति मनीषिभिरीरितः=कथितः। तथाहि-
परमोच्चगते केन्द्रे भाग्यनाथे शुभेक्षिते ।
लग्नाधिपे बलाढ्ये तु लक्ष्मीयोग इतीरितः॥
जातकादेशे ।
[कुंडली १: लक्ष्मीयोगः]
- लग्न (१): ल.
- चतुर्थ भाव (४): बृ. ५°
- नवम भाव (९): ९
- दशम भाव (१०): मं. १०
- मध्य: लक्ष्मीयोगः
एवं च—स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ लक्ष्म्याख्यः ।
इति फलदीपिकायाम् ।
लक्ष्मीयोगस्य फलञ्च सरलार्थेन 'गुणाभिराम' इति श्लोकेनोक्तमिति ॥१५२-१५३॥
यदि भाग्येश परमोच्चमें या मूलत्रिकोणमें होकर केन्द्रमें स्थित हो और लग्नेश बलवान्
हो तो वह 'लक्ष्मीयोग' होता है ॥ १५२ ॥
इस लक्ष्मी योगमें जातक सुन्दर गुणवाला, बहुत देशका स्वामी, विद्या और कीर्तिसे
युक्त तथा कामदेवके सदृश सुन्दर रूपवाला, दश दिशाओंमें राजोंसे पूजनीय, श्रेष्ठ राजा
और बहुत स्त्री तथा पुत्रवाला होवे ॥ १५३ ॥
अथ कुसुमयोगः ।
स्थिरलग्ने भृगौ केन्द्रे त्रिकोणोन्दौ शुभेतरे ।
मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ॥ १५४ ॥
दाता महीमण्डलनाथवन्द्यो भोगी महावंशजराजमुख्यः ।
लोके महाकीर्तियुतः प्रतापी नाथो नराणां कुसुमोद्भवः स्यात् ॥१५५॥
इदानीं कुसुमयोगं तत्फलञ्चाह-स्थि-
रलग्न इति । स्थिरलग्ने=२, ५, ८, ११
एतदन्यतमराशौ व्यवस्थिते भृगौ=शुक्रे,
केन्द्रे गतवति, शुभेतरे = नवमभावरहिते,
त्रिकोणोन्दौ=त्रिकोणगतचन्द्रे, ( त्रिकोण-
शब्देन पञ्चमनवमौ भावौ गृह्येते तत्र
'शुभेतरे' इत्यनेन पञ्चमभाव एवावशिष्ट-
स्तेन चन्द्रे पञ्चमभावगते इत्यर्थः ) सौरे=
शनैश्चरे मानस्थानगते = दशमभावमुपगते
[कुंडली २: कुसुम योगः]
- लग्न (२): शु.
- द्वितीय भाव: ३
- तृतीय भाव: ४
- चतुर्थ भाव: ५
- पञ्चम भाव (६): चं.
- षष्ठ भाव: ७
- सप्तम भाव: ८
- अष्टम भाव: ९
- नवम भाव: १०
- दशम भाव (११): शः
- एकादश भाव: १२
- द्वादश भाव: १
- मध्य: कुसुम योगः ।
सति अयं योगः कुसुमः' भवेत् । तत्फलञ्च स्पष्टमेव ॥ १५४-१५५ ॥
स्थिर लग्नमें शुक्र केन्द्रमें हो, चन्द्रमा शुभतर त्रिकोणमें हो याने ५ वें भावमें हो और
शनि दशवें हो तो यह "कुसुम" योग होता है ॥ १५४ ॥
कुसुम योगमें उत्पन्न जातक दानी, राजा से पूजित, भोगी, उत्तम कुलमें उत्पन्न, राजे में
मुख्य, समस्त लोकोंमें यशस्वी, प्रतापी राजा होता है ॥ १५५ ॥
अथ पारिजातयोगः ।
विलग्ननाथस्थितराशिनाथस्थानेश्वरो वाऽपि [तदंशनाथः ।
केन्द्रत्रिकोणोपगतो यदि स्यात्स्वतुङ्गगो वा यदि परिजातः ॥ १५६ ॥
२५२ सटीकजातकपारिजाते-
मध्यान्तसौख्यः क्षितिपालवन्द्यो युद्धप्रियो वारणवाजिद्युक्तः ।
स्वकर्मधर्माभिरतो दयालुर्यो गो नृपः स्याद्यदि पारिजातः ॥ १५७ ॥
इदानीं पारिजातयोगमाह-विलग्ने-
ति। विलग्ननाथो जन्मलग्नेशी यत्र स्थि-
तः स्यात्तद्राशिनाथो यस्मिन्स्थाने भवेत्तदी-
श्वरः वा तदंशनाथः = लग्ननाथस्थितरा-
शिनाथस्थनवांशपतिः । एतदुक्तं भवति ।
लग्नेशो यत्र तिष्ठति तस्य राशेरधिपतिर्य-
स्मिन् राशौ भवेत्तद्राशीशो वा लग्नेशाधि-
ष्ठितराशीशो यस्मिन्नवांशे भवेत्तन्नवांश-
पतिः केन्द्रत्रिकोणाना- (१।४।७।१०।५।९) मन्यतमे प्राप्तो यदि स्यादथवा यदि स्वतु-
ङ्गो निजोच्चराशिं गतो भवेत्तदा 'पारिजातः' योगो ज्ञेयः। यथा—अत्रोदाहृते मेषल-
ग्रेशो भौमः कर्कगतः, कर्कराशीशश्चन्द्रो दशभिरंशैर्वृषे वर्त्तते । वृषराशौ दशभिरंशैर्गुरो-
र्नवांशः। अतो नवांशेशो गुरुस्त्रिकोणे वृषराशीशः शुक्लोऽपि केन्द्रे वर्त्तते, तेन प्रकारद्वयेन
पारिजातस्य लक्षणं सङ्घटत इति । फलमपि स्पष्टमेव ॥ १५६-१५७ ॥
लग्नेश जिस राशिमें हो उस राशि का स्वामी जिस राशिमें हो उसका स्वामी वा
उसका नवांशपति यदि केन्द्र या त्रिकोणमें प्राप्त हो, अथवा अपनी उच्च राशिमें हो तो
"पारिजात" योग होता है ॥ १५६ ॥
पारिजात योगमें उत्पन्न जातक मध्य और अन्त्य अवस्था में सौख्ययुक्त, राजाओंसे
पूजित, युद्धप्रिय, हाथी-घोड़ोंसे युक्त अपने कर्म-धर्ममें रत और दयालु राजा होता है १५७
अथ कलानिधियोगः ।
द्वितीये पञ्चमे जीवे बुधशुक्रयुतेक्षिते ।
क्षेत्रे तयोर्वा सम्प्राप्ते योगः स्यात्स कलानिधिः ॥ १५८ ॥
कामी कलानिधिभवः सगुणाभिरामः संस्तूयमानचरणो नरपालमुख्यैः ।
सेनातुरङ्गमद्ववारणशङ्खभेरीवाद्यान्वितो विगतरोगभयारिसङ्घः ॥ १५९ ॥
इदानीं कलानिधियोगमाह—द्वितीये
इति । बुधेन शुक्रेण च युते, वा दृष्टे, वा तयोः
बुधशुक्रयोः क्षेत्रे ( ३, ६, २, ७) सम्प्राप्ते,
जीवे = बृहस्पतौ द्वितीये वा पञ्चमे भावे व्यव-
स्थिते सति स योगः कलानिधिः ज्ञेयः । तत्फ-
लञ्च 'कामी'त्यादिश्लोकेन स्पष्टार्थेनोक्तमि-
त्यलम् ॥ १५८-१५९ ॥
यदि बृहस्पति दूसरे या पांचवें भावमें बुध और शुक्र से युक्त वा देखा जाता हो, अथ-
वा उन्हींके गृहमें प्राप्त हो तो वह 'कलानिधि योग' होता है ॥ १५८ ॥
इस कलानिधि योगमें उत्पन्न बालक कामी, सुन्दर गुणवाला, बड़े बड़े राजाओंसे
पूजित, सेना घोड़े मतवाले हाथीसे युत हो, तथा नित्य उसके यहाँ शंख और भेरी बजती
रहें। वह रोग रहित तथा शत्रुगर्णों से निर्भय रहे ॥ १५९ ॥
राजयोगाध्यायः ॥७॥ २५३
अथ अंशावतारयोगः ।
केन्द्रगौ सितदेवेज्यौ स्वोच्चे केन्द्रगतेऽर्कजे ।
चर लग्ने यदा जन्म योगोऽयमवतारजः ॥ १६० ॥
पुण्यश्लोकस्तीर्थचारी कलाज्ञः कामासक्तः कालकर्ता जितात्मा ।
वेदान्तज्ञो वेदशास्त्राधिकारी जातो राजश्रीधरोंऽशावतारे ॥ १६१ ॥
अधुना अंशावतारयोगस्तत्फलञ्चोच्यते ।
सितदेवेज्यौ = शुक्रगुरू, केन्द्रगौ चरराशि-
गतौ भवेतां ( चरलग्न इत्युक्तत्वात् ),
अर्कजे = शनैश्चरे, स्वोच्चे तुलायां केन्द्रगते,
चर लग्ने = मेषकर्कतुलामकरान्यतमे राशौ
लग्ने, यदा जन्म भवेत्तदा अयं अवतारजः
योगो भवति । अस्मिन्योगे जातो नरः -
पुण्यश्लोकः, तीर्थचारी, कलाज्ञः, कामासक्तः,
कालकर्ता, जितात्मा, वेदान्तज्ञः, वेदशास्त्राधिकारी, राजश्रीधरश्च भवति ॥ १६०-१६१ ॥
यदि शुक्र और बृहस्पति केन्द्रमें हों, शनैश्चर अपने उच्च का होकर केन्द्रमें स्थित हो
और चर लग्नमें जन्म हो तो यह 'अवतार' योग कहा जाता है ॥ १६० ॥
अंशावतार योग में उत्पन्न जातक पुण्यचरित्रवाला, तीर्थसेवी, कलाविद्, काममें
आसक्त, सामयिक, जितेन्द्रिय, वेदके तत्त्वको जाननेवाला, वेद और शास्त्र का अधिकारी
और राज्यश्रीवाला पुरुष होता है ॥ १६१ ॥
अथ हरि-हर-विधियोगाः ।
वित्तेशाद्धनरिःफरन्ध्रभवनप्राप्ताश्च सौम्यग्रहाः,
कामेशान् सुखभाग्यरन्ध्रगृहगा जीवार्जचन्द्रात्मजाः ।
देहेशाद्यदि बन्धुमानभवगा सूर्यास्फुजिद्भूमिजाः
प्रोक्तास्तत्र पुरातनैर्हरिहरब्रह्माख्ययोगा इमे ॥ १६२ ॥
निखिलनिगमविद्यापारगः सत्यवादी सकलसुखसमेतश्चारुवाक् कामशीलः ।
जितरिपुकुलसङ्घः सर्वजीवोपकारी हरिहरविधियोगे सम्भवः पुण्यकर्मा १६३
इदानीं हरिहरब्रह्मयोगान् तत्फलानि चाह—वित्तेशादिति । हरियोगः-वित्तेशात् =
द्वितीयभावपतेः सकाशात्, धनरिःफरन्ध्रभवनप्राप्ताः = द्वितीय-द्वादश-अष्टमभावानुपगताः,
सौम्यग्रहाः = शुभग्रहाः ( यथासम्भवम् ) भवेयुस्तदा हरियोगः ।
हरयोगः-कामेशात् = सप्तमभावेशात् , १. हरियोगोदाहरणम् ।
सुखभाग्यरन्ध्रगृहगाः = चतुर्थ-नवम-अष्टमभा-
वगताः, जीवार्जचन्द्रात्मजाः = गुरुचन्द्रबुधा
भवेयुस्तदा हरयोगः ।
ब्रह्मयोगः-देहेशात् = जन्मलग्नेशात् ,
बन्धुमानभवगाः = चतुर्थदशमैकादशभावग-
ता यदि सूर्यास्फुजिद्भूमिजाः = सूर्यशुक्रमौमा
भवेयुस्तदा ब्रह्माख्यः (ब्रह्म) योगः । पुरात-
नैर्वृद्धैर्मनीषिभिः इमे त्रयो योगाः प्रोक्ता इति ।
उक्तयोगत्रयस्य फलानि सरलार्थकानि चेति ॥ १६२-१६३ ॥
२२ जा० २३ ज०
२४४ सटीकजातकपारिजाते-
२. हरयोगोदाहरणम् । ३. विधियोगोदाहरणम् ।
द्वितीयेशसे २।१२।८ स्थानोंमें शुभग्रह हों तो 'हरि' योग होता है ।
सप्तमेशसे ४।९।८ स्थानोंमें यथा सम्भव गुरु, चन्द्रमा और बुध हों तो 'हर' योग होता है ।
लग्नेशसे ४।१०।११ स्थानोंमें यथा सम्भव सूर्य, शुक्र और मन्द हों तो 'ब्रह्म' योग
होता है ऐसा प्राचीन आचार्यों ने कहा है । ( सु० ज्ञा० कार ) ॥ १६२ ॥
इन तीनों हरि-हर तथा विधि योगोंमें उत्पन्न हुआ जातक सभी शास्त्रों को जाननेवाला
सत्यवादी, सकल सुखका भोगी, प्रियवादी, कामशील, सब शत्रुओंको जीतनेवाला, सब
जीवोंका उपकारकर्ता तथा पुण्य कर्म करनेवाला होता है ॥ १६३ ॥
अथ नाभसयोगाः।
यूपेषुशक्तियवदण्डगदासमुद्रच्छत्राद्र्धचन्द्रशकटाम्बुजपक्तियोगाः ।
नौचक्रवज्रहलकार्मुककूटवापीशृङ्गाटकाश्च विविधाकृतिविंशतिः स्युः ॥ १६
राजयोगाध्यायः ॥७॥ २५५
योगानाश्रयजान् सत्याचार्यो जगाद। अत्रैतदुक्तं भवति। एकस्मिन् चरराशौ, द्वयोर्वा
वा चतुर्षु चरराशिषु यदा सर्वे ग्रहा भवेयुर्न स्थिरे द्वन्द्वे च कश्चिद् ग्रहः स्यात्तदा रज्जुः
योगः। एकस्मिन् द्वयोस्त्रिषु वा चतुर्षु स्थिरराशिषु सर्वे ग्रहाः स्युर्न कश्चिचरे द्वन्द्वे च
भवेत्तदा मुसलः योगः। एवं द्विस्वभावेऽपि सर्वैः ग्रहैः नलो योगो ज्ञेयः। उक्तञ्च—
एको द्वौ वा त्रयः सर्वे चरा युक्ता यदा ग्रहैः। चरयोगस्तदा रज्जुः दुःखिनां जन्मदो भवेत्॥
स्थिराश्चेन्मुसले नाम मानिनां जन्मकृन्नृणाम्। द्विस्वभावो नलाख्यस्तु धनिनां परिकीर्तितः॥ इति।
दलयोगावाह—केन्द्रैरिति। यदि शुभग्रहाः केन्द्रेषु भवेयुर्न कश्चित्पापः केन्द्रवर्ती
स्यात्तदा स्रक् ( माला ) योगो भवति। यदि पापग्रहाः केन्द्रेषु भवेयुर्न कश्चिच्छुभः केन्द्र-
गस्तदा सर्पयोगो ज्ञेयः इति स्रक्सर्पौ योगौ पराशरेण कथितौ।
Notes—चन्द्रो हि शुक्लकृष्णपक्षभेदेन शुभत्वं पापत्वं चाप्नोति। तेन शुक्ले
सचन्द्रा बुधगुरुशुक्राश्चतुर्षु केन्द्रेषु शुभा इति। कृष्णे सचन्द्रा भौमरविशनयश्चत्वारः पापा-
श्चतुर्षु केन्द्रेषु भवेयुरन्यथा त्रयः शुभाः पापाश्च त्रिषु केन्द्रेष्विति विवेचनीयमिति ॥ १६६ ॥
सभी ग्रह चर राशिमें हों तो रज्जु
योग होता है। सभी ग्रह स्थिर राशिमें
हों तो "मुसल" योग होता है और सभी
ग्रह द्विस्वभाव राशिमें हों तो "नल"
योग होता है। ये तीन आश्रयज योग
सत्याचार्य कहे हैं। स्रक् और सर्प ये
दलयोग दो प्रकारके होते हैं। सब शुभ-
ग्रह केन्द्रमें हों पापग्रह केन्द्रमें न हों तो
"माला" योग होता है। केन्द्रमें सब
पापग्रह हों केन्द्रमें शुभग्रह न हों तो "सर्प" योग होता है। ऐसा पराशर ने कहा है॥ १६६॥
१. रज्जुयोगोदाहरणम्।
\ उ.सू. १।गु.बु. /
\ /
\ /
वृ. ४ चं. > < मं. १० श.
/ \
/ \
/ \
२. मुसलयोगोदाहरणम्।
+---------------+---------------+
| शु.बु.र. | १ ड. | वं. |
| ३ | | ११ |
+---------------+---------------+---------------+
| २ | | १० |
| | | |
+---------------+---------------+---------------+
| ५।गु.मं. | व. ८ | |
+---------------+---------------+---------------+
३. नलयोगोदाहरणम्।
+---------------+---------------+
| ल. | १ | १२ |
| गु. | | |
+---------------+---------------+---------------+
| | | |
+---------------+---------------+---------------+
| | ३ | वृ.मं. |
| | | ९ |
+---------------+---------------+---------------+
| | चं.श. ६ | |
+---------------+---------------+---------------+
४. स्रक-योगोदाहरणम्।
\ बु. /
\ /
श. \ / शु.
> <
गु. / \ वृ.
/ \
/ चं. \
मं. १२
५. सर्पयोगोदाहरणम्।
च. \ श. / वृ.
\ /
मं. के. \ / रा.
> <
/ \
/ सू. \
बु. / \ शु.
18
२५६ सटीकजातकपारिजाते-
इदानीं प्राक्तनैः कैश्चिदाश्रयदलयोगाः कथं नोक्तास्तस्य कारणमाह—
योगा व्रजन्त्याश्रयजाः समत्वं यावाब्जवज्राण्डजगोलकाद्यैः ।
केन्द्रोपगप्रोक्तफलौ दलाख्यावित्याहुरन्ये न पृथक् फलौ तौ ॥ १६७ ॥
योगा इति । आश्रयजा योगाः-रज्जुर्मुसलो नलश्चेति त्रयो योगाः, यवाब्जवज्राण्डज-
गोलकाद्यैर्योगैः समत्वं = तुल्यत्वमुपगच्छन्ति ( कथं समत्वं यान्तीति यवादियोगलक्षणे
द्रष्टव्यम् ) अतोऽन्यैर्नोक्ता इति । दलाख्यौ = शक्सर्पौ, केन्द्रोपगप्रोक्तफलौ = केन्द्रेषु
व्यवस्थितैर्ग्रहैर्यत्प्रोक्तं फलं तद्वन्तौ । शक् योगस्तु शुभैः केन्द्रगैरुक्तः । सर्पयोगः पापैः
केन्द्रगैरुक्तः । केन्द्रत्रिकोणेषु शुभाः प्रशस्तास्तेष्वेव पापा न शुभप्रदाः स्युरिति वचनात्केन्द्रेषु
शुभाः शुभं फलं, पापाः पाप फलं ददति, तेन तौ शक्सर्पौ न पृथक्फलौ ( उक्तार्थत्वात् )
इति अन्ये विज्ञा आहुः । पुनरुक्तदोषभयान्नाहुरिति भावः ॥ १६७ ॥
आश्रय (रज्जु-मुसल-नल) योगके फल यव-पद्म-वज्र-पक्षि-गोलक-युग-केदार-शूल
योगोंके फलके समान होते हैं, इस लिये अन्य आचायोंने उन्हें नहीं कहे । दल ( शक्-
सर्प ) योग केन्द्रगत शुभ और पापग्रहके फलके समान फलवाले हैं इस लिये फलमें कुछ
विशेषता नहीं होनेके कारण प्राचीनोंने द्वलयोगको नहीं कहा । (सु० ज्ञा० कार) ॥ १६७ ॥
इदानीं गदाशकटविहगशृङ्गाटकहलान् पञ्च योगानाह—
आसन्नकेन्द्रभवनद्वयगैर्गदाख्यस्तन्वस्तगेषु शकटं विहगः खबन्ध्वोः ।
शृङ्गाटकं नवमपञ्चम लग्नसंस्थैर्लग्नान्यगैर्हलमिति प्रवदन्ति तज्ज्ञाः ॥ १६८ ॥
आसन्नेति । आसन्ने = समीपवर्त्तिनि, केन्द्रभवनद्वये गतैः सकलैर्ग्रहैः गदाह्वयो योगो
भवति । एतदुक्तमवधेयम् । लग्नचतुर्थयोः, चतुर्थसप्तमयोः, सप्तमदशमयोः, दशमलग्न-
योर्वा इति भेदचतुष्के कस्मिन्नप्येकस्मिन्भेदे सर्वे ग्रहा भवेयुस्तदा गदा योगः भवति ।
तन्वस्तगेषु = लग्नसप्तमगतेषु सकलग्रहेषु शकटं नाम योगः स्यात् । खबन्ध्वोः = दशम-
चतुर्थयोर्गतेषु ग्रहेषु विहगः = पक्षियोगः स्यात् । नवमपञ्चम लग्नसंस्थैः सर्वैर्ग्रहैः शृङ्गाटकं
योगं वदन्ति । लग्नान्यगैः = लग्नेतरैरन्योन्यं त्रिकोणगतैः निखिलखेटैः हलं योगमिति
तज्ज्ञा होराशास्त्रज्ञाः प्रवदन्ति । अर्थात् द्वितीय-षष्ठ-दशमोपगैः, वा तृतीय-सप्तम-लाभगैः,
वा चतुर्थ-रन्ध्र-व्ययगैः सर्वग्रहैः हलयोगः स्यादिति । तथोक्तम्—
“लग्नाम्बुगैरम्बुगतैस्तैर्वा सप्तौम्बुगैरम्बुरलग्नसंस्थैः ।
एवं चतुर्धा कथितो गदाख्यः शुभाशुभैः खेचरकैस्तु सर्वैः ।
लग्नोस्तगैस्तु शकटं, विहगः सुखखंगैः । लग्नेपञ्चमनन्दस्थैः खगैः शृङ्गाटकं स्मृतम् ॥
द्वितीयषष्ठकर्मस्थैस्त्रिसप्तायगतैः खगैः । बन्धुनेधनरिःफैल्यैस्त्रिधा तु हलसञ्ज्ञकाः ॥ इति १६८॥
सभी ग्रह दो समीपके केन्द्रमें हों तो
'गदा' योग होता है। यह गदा योग
चार प्रकार का है-१ लग्न और चतुर्थमें,
२ चतुर्थ और सप्तममें, ३ सप्तम और
१० में, दशम और लग्नमें सब ग्रह होने
से होता है। सब ग्रह लग्न और सप्तममें
हों तो “शकट” योग होता है । समस्त
ग्रह दशम और चतुर्थमें हो “विहग-
योग” होता है । सब ग्रह नवम, पंचम
और लग्नमें हों तो शृङ्गाटक योग होता
है। लग्न को छोड़कर सबग्रह परस्पर त्रिकोणमें हो तो “हल” योग होता है । हलयोग के
+---------------+---------------+
| | | | |
| | | मं. र. शु. बु.|
| | | | |
+-------+-------+-------+-------+
| | | |
| चं. बृ. रा. | गदा |
| | | |
+-------+-------+-------+-------+
| | | | |
| | | | |
+---------------+---------------+
राजयोगाध्यायः ॥७॥ २५७
३ भेद हैं। ३।६।१० तथा ३।७।११ और ४।८।१२ भावोंमें सब ग्रह हों तो हल योग होते हैं ॥
[कुण्डली १: शकटम् — १म: मं. र. शु. बु. | ७म: चं. मं. बृ.]
[कुण्डली २: विहगः — १म: ल. | ४र्थ: र. बु. बृ. शु. | १०म: श. मं. चं.]
[कुण्डली ३: शृङ्गाटकम् — १म: र. बु. शु. | ५म: मं. श. | ९म: चं. बृ.]
[कुण्डली ४: हलम् — १म: ल. | २य: बृ. श. | ४र्थ: र. बु. शु. | ६ठ: मं. चं.]
इदानीं वज्र-यव-कमल-वापीति योगचतुष्टयमाह—
शकटाण्डजवच्छुभाशुभैर्वज्रन्तद्विपरीतगैर्यवः ।
कमलं तु विमिश्रसंस्थितैर्वापी तद्यदि केन्द्रबाह्यतः ॥ १६६ ॥
शकटेति । शकटाण्डजवच्छुभाशुभैः = शकटयोगवच्छुभैर्व्यवस्थितैरण्डज ( विहग )-
योगवदशुभैर्व्यवस्थितैः वज्रं स्यात् । अत्रेदमवधेयम् । लग्नसप्तमयोः शुभग्रहाः, चतुर्थ-
दशमयोः पापग्रहाश्च भवेयुस्तदा वज्रयोगो भवति । तद्विपरीतगैर्यवः । चतुर्थदशमयोः
शुभग्रहाः, लग्नसप्तमयोः पापग्रहाश्च भवेयुस्तदा यवयोगः स्यादिति । कमलं तु विमिश्र-
संस्थितैः = तैरेव सौम्यासौम्यैः विमिश्रसंस्थितैः ( चतुर्ष्वपि केन्द्रेषु व्यवस्थितैः ) कमलयोगो
भवति । वापी तद्यदि केन्द्रबाह्यतः । तत्कमलं यदि केन्द्रबाह्यतः स्यादर्थात्पणफरे वा
आपोक्लिमे भवेत्तदा वापी स्यात् । सर्वैरेव ग्रहैः पणफरेषु, आपोक्लिमेषु वा संस्थितैः
वापी योगो ज्ञेयः ।
[कुण्डली ५: वज्रम् — १म: बु. शु. | ४र्थ: श. मं. | ७म: बृ. चं. | १०म: सू.]
[कुण्डली ६: यवः — १म: मं. श. | ४र्थ: बृ. चं. | ७म: सू. | १०म: बु. शु.]
२५८ सटीकजातकपारिजाते-
Notes—अत्र लग्नसप्तमयोः शुभाः, चतुर्थदशमयोः पापाः स्युस्तदा वज्रं, तद्विप-
रीते यव इत्यादि यदुक्तं तज्ज्योतिषसिद्धान्तविरुद्धमेव । यतो हि लग्नसप्तमयोः शुभग्रहेषु
बुधशुक्रौ लग्नसप्तमौ भवेतां, सूर्यः, पापश्चतुर्थे दशमे वा भवेत्तदा, अथवा चतुर्थे दशमे
बुधशुक्रौ, लग्ने वा सप्तमे सूर्य इति तदा सूर्येण सह बुधशुक्रयोरन्तरं राशितुष्टयमिति
परममसङ्गतम् । यतो मध्यमौ बुधशुक्रौ सूर्यसमावेव, तथा यदि बुधशुक्रयोः शीघ्रं मन्दं
च फलं परममृणं, सूर्यस्य परमं फलं धनमथवा सूर्यस्य परमफलं ऋणं, बुधशुक्रयोः परमं
फलद्वयं धनं कल्प्यते तदा स्पष्टयोः सूर्यबुधयोः परममन्तरं स्यात् । तच्च रवेः परममन्द-
फलम् = २°।१'।३१"। बुधस्य परमफलयुगलयोगः = २७°।३३'।३७", एतद्वैक्यम् =
२°।१'।३१")+ (२७°।३३'।३७") = २९°।३५'।८", इदमेकराशितोऽप्यल्पं सूर्यबुध-
योः परमान्तरं भवति । एवं शुक्रस्यापि । तेनैकराशितोऽधिकमन्तरं सूर्ये बुधयोर्न जातु
भवितुमर्हति । कथं तर्हि राशितुष्टयेऽन्तरे सति प्राचीनैर्योगाः परिभाषिताः । अत आह
'वराहः पूर्वशास्त्रानुसारेण मया वज्रादयः कृताः । चतुर्थे भवने सूर्यात् ज्ञशुक्रौ भवतः
कथम् ? इति ॥ वस्तुतोऽमी योगा न भवन्तीति भावः ॥ १६६ ॥
शकट योगके समान शुभग्रह (१।७ में) हों और अण्डज योगके समान (४।१० में)
पापग्रह हों तो "वज्रयोग" होता है। इसके विरीत (१।७ में पापग्रह, ४।१० में शुभग्रह)
हों तो "यव" योग होता है । शुभग्रह और पापग्रह सब केन्द्रमें हों, अन्य पणफर आपो-
क्लिम में कोई भी न हों तो "कमल" योग होता है । यदि सभी केन्द्रके बाहर हों तो
"वापी" योग होता है। उदाहरण चक्रोंमें देखिये ॥ १६९ ॥
इदानीं यूपेषु शक्तिदण्डयोगानाह—
कण्टकादिप्रवृत्तैश्च चतुर्गृहगतैर्ग्रहैः।
यूपेषुशक्तिदण्डाख्या होराद्यैः कण्टकैः क्रमात् ॥ १७० ॥
कण्टकादीति । होराद्यैः = लग्नाद्यैः, कण्टकैः = केन्द्रैः लग्नकेन्द्रमारभ्य क्रमात्कण्टका-
दिप्रवृत्तेश्चतुर्षु गृहेषु गतैर्ग्रहैः यूपेषुशक्तिदण्डाख्याश्चत्वारो योगा भवन्ति । तथा हि—
लग्न-द्वितीय-तृतीय-चतुर्थभावगतैः निखिलैर्ग्रहैः यूपयोगः । चतुर्थ-पञ्चम-षष्ठ-सप्तमेषु
सर्वैर्ग्रहैरिषुयोगः । सप्तमादिदशमान्तेषु गतैः शक्तियोगः । दशमादिलग्नान्तेषु चतुर्षु सर्वै-
र्ग्रहैर्दण्डयोगो भवति । उक्तमपि तथा—
'एकद्वित्रिचतुर्थस्थैः सर्वखेटैस्तु यूपकम् । तुर्यादिसप्तमान्तस्थैरै वं बाणः प्रजायते ॥
सप्ताष्टनन्दकर्मस्थैः खगैः शक्तिरिति स्मृतः। दशादिलग्नपर्यन्तैः सर्वैर्दण्डाभिधानकः' ॥
इति ज्ञानमुक्तावल्याम् ॥ १७० ॥
राजयोगाध्यायः ॥७॥ २४६
| बु.शु. | र. मं. ल. | |
| बृ. | यूपयोगः | |
| चं. श. | | |
| | ल. | |
| र. मं. | इषुयोगः | |
| बु.शु. / चं. बृ. | श. | |
| | | |
| शक्तियोगः | र. मं. | |
| चं. श. | बु. शु. / बृ. | |
| शु. बु. | र.मं. / बृ. | |
| दण्डयोगः | चं. श. | |
| | | |
लग्नसे चौथे भाव तक चारों गृहोंमें यदि सब ग्रह हों तो “यूप” योग, और यदि चौथे
भावसे सप्तम भाव तक सब ग्रह हों तो “इषु” योग, तथा सप्तमसे दशम भाव तक सब
ग्रह हों तो “शक्ति” योग, और दशम से लग्न पर्यन्त सब ग्रह हों तो “दण्डयोग”
होता है ॥ १७० ॥
अधुना नौकूटच्छत्रचापाद्धेचन्द्रयोगानाह—
नौकूटच्छत्रचापानि तद्वत्सप्तर्क्षसंस्थितैः ।
अर्धचन्द्रस्तु होराद्यैः प्रोक्तादन्यर्क्षसंस्थितैः ॥ १७१ ॥
नौकूटेति । तद्वत् = पूर्वोक्त-(यूपादियोगोक्तप्रकार-) वत्, अर्थादेकस्मात्केन्द्रा-
त्सप्तर्क्षसंस्थैः क्रमात् नौकूटच्छत्रचापानि स्युः । यथा च लग्नादिसप्तान्तेषु सप्तसु
भावेषु सप्तग्रहा भवेयुस्तदा नौयोगः । चतुर्थाद्दशमान्तेषु सप्तसु सर्वैर्ग्रहैः कूटयोगः
सप्तमादिलग्नान्तेषु सप्तसु भावेषु सप्तग्रहैश्छत्रयोगः । दशमाद्विचतुर्थान्तेषु चापयोगो
भवति । तथोक्तं च—
लग्नादिसप्तमान्तस्थैः सर्वखेटैस्तु नौरिति । तुर्याद्दशमान्तस्थैः कूट इत्यभिधीयते ॥
सप्तमादिभिलग्नान्तैश्छत्रः सकलखेचरैः । एवं दशादितुर्यान्तैश्चाप इत्युच्यते बुधैः ॥
इति ज्ञानमुक्तावल्याम् ।
अर्धचन्द्र इति । नावाद्यैरूक्तैर्यौगैरन्यर्क्षसंस्थितैः अर्धचन्द्रो योगः प्रोक्तः । नावाद्या
योगो केन्द्रेषूक्ताः । तदितरस्थैर्यथापणफरगैरपोक्लिमगतैश्च सप्तग्रहैर्धचन्द्रो योगः
स्यादिति । एतदुक्तं भवति । द्वितीयादि-अष्टमान्तेषु सप्तसु भावेषु सप्तग्रहैर्धचन्द्रः ।
तृतीयादिनवमान्तेऽर्द्धचन्द्रः । एवं पञ्चमादिलाभान्ते । षष्ठादि द्वादशान्ते । अष्टमादिद्विती-
यान्ते । नवमादितृतीयान्ते । लाभादिपञ्चमान्ते । द्वादशादिषष्ठान्ते । एवं सप्तसु भावेषु सप्त-
२६० सटीकजातकपारिजाते-
ग्रहैरष्टधा अर्द्धचन्द्रयोगः
स्यादिति । तथा हि-
परस्परं द्वयादष्टौ
तृतीयान्नवमान्तिकम् ।
पञ्चमैकादशः षष्ठाद्
द्वादशं त्वष्टधा शशी ॥
इति ज्ञा. मु. ॥ १७१ ॥
(कुण्डली चक्र १ - नौयोगः एवं कूटयोगः):
| २ बु. | १ ल. वृ. | ल. | |||||
|---|---|---|---|---|---|---|---|
| ३ र. | नौयोगः | १० मं. | |||||
| ४ शु. | ४ बु. | कूटयोगः | श. | ||||
| ५ श. | ६ मं. | ७ चं. | र. | शु. | चं. | वृ. |
(कुण्डली चक्र २ - छत्रयोगः, चापयोगः एवं अर्द्धचन्द्रस्य त्रयो भेदाः):
| १ ल. श. | वृ. | मं. | शु. | र. ल. | बु. | मं. | मं. | ल. | च" | ||
|---|---|---|---|---|---|---|---|---|---|---|---|
| चं. | श. | चापयोगः | १० चं. | बु. म' | अर्द्धचन्द्रस्य त्रयो भेदाः | वृ". | |||||
| छत्रयोगः | बु. | ४ वृ. | र. बु'. | श" च'. | |||||||
| ७ शु. | र. | शु. र' म" | श. शु'. बु". | वृ. श. र". | चं. शु". वृ'. |
लग्नसे सप्तम भाव तक प्रत्येक भाव में एक एक ग्रह हों तो "नौ" योग, चतुर्थसे दशम
पर्यन्त सब ग्रह हों तो "कूट" योग, और सप्तमसे लग्न तक सब ग्रह हों तो "छत्र" योग,
और इसी प्रकार दशमसे चतुर्थ पर्यन्त प्रत्येक भावमें एक एक ग्रह हों तो "चाप" योग,
होता है। इसके अतिरिक्त स्थानोंमें ग्रह हों तो "अर्ध चन्द्र" योग होता है वह आठ प्रकार
का है। द्वितीय भावसे अष्टम भाव तक सब ग्रह हों तो १ भेद, ३ से ९ तक हों तो २ भेद,
५ से ११ तक हों तो ३ भेद, ६ से १२ तक हों तो ४ भेद, ८ से २ तक हों तो ५ वाँ भेद,
९ से ३ तक हों तो ६ भेद, ११ से ५ तक ७ भेद, और बारहसे छः पर्यन्त ८ वां भेद है ॥
इदानीं समुद्र-चक्रयोगावाह-
एकान्तरगतैरित्थत्समुद्रः षड्गृहाश्रितैः ।
विलग्नादिस्थितैश्चक्रमित्याकृतिजसङ्ग्रहः ॥ १७२ ॥
एकान्तरगतैरिति । अर्थात् = द्वितीयभावात्, एकान्तरगतैः = एकस्मात्परमेकं परित्य-
ज्यैवं यथावासनभावगैः षड्गृहाश्रितैः समुद्रो योगः स्यात् । एतदुक्तं भवति-द्वितीय-चतुर्थ-
षष्ठा-ष्टम-दशम-द्वादशेति-भावषट्के सप्त ग्रहा भवेयुस्तदा समुद्रो नाम योगो भवति ।
चक्रमाह-विलग्नादिस्थितैः = लग्नप्रभृतिषड् । श्ष्विकान्तरगतेषु सर्वैर्ग्रहैर्व्यवस्थितैः चक्रं
नाम योगः। लग्न-तृतीय-पञ्चम-सप्तम-नवम-लाभेष्विति-भावषट्के सप्त ग्रहा भवेयुस्तदा
चक्रयोगो भवति । इत्येतावानाकृतिजानां योगानां सङ्ग्रहो जात इति । सारावल्यां समुद्र-
चक्रयोर्लक्षणं च तथा-
राश्यन्तरितैर्लग्नात् षड्भवनगतैर्भवेच्चक्रम् । अर्थात् तथैव यातैश्चक्राकारो भवेज्जलधिः ॥ १७२ ॥
(कुण्डली चक्र ३ - समुद्र-योगः एवं चक्रयोगः):
| मं. २ | ल. | श. | मं. ल. १ | ११ श. | ||
|---|---|---|---|---|---|---|
| समुद्र-योगः | १० चं | र. बु. ३ | चक्रयोगः | |||
| र. शु. ४ | वृ. ९ | |||||
| बु. | वृ. ८ | शु. ५ | चं. ७ |
राजयोगाध्यायः ॥७॥ २६१
द्वितीय भावसे बारहवें भावोंके बीचमें यदि एक २ स्थान छोड़ कर ( २।४।६।८।१०।१२ )
में सब ग्रह हों तो "समुद्र" योग और लग्नसे ११ पर्यन्त इसी प्रकार एक एक भाव छोड़
कर ( १।३।५।७।९।११ ) में सब ग्रह हों तो "चक्र" योग होता है । इस प्रकार आचार्यों ने
आकृति योगका संग्रह किया है ॥ १७२ ॥
अधुना सङ्ख्यायोगानाह—
सङ्ख्यायोगाः सप्त सप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशाः ।
केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥ १७३॥
सङ्ख्येति । सप्तर्क्षसंस्थैः=येषु तेषु सप्तसु भावेषु व्यवस्थितैः सप्तभिर्ग्रहैरेकापायादेक-
मेकं पूर्वस्मात्पूर्वस्माद्विहाय वल्लकी-( वीणा ) प्रभृति-सप्त सङ्ख्यायोगाः स्युः । इदमुक्तं
भवति । येषु तेषु सप्तसु भावेषु सप्त ग्रहा भवेयुस्तदा वल्लकी ( वीणा ) योगः । षट्सु
भावेषु सर्वैर्ग्रहैर्द्दामिनी (दाम) योगः । पञ्चसु भावेषु सर्वैर्ग्रहैः पाशः । चतुर्षु केदारः । त्रिषु
शूलः । द्वयोः युग्मम् । एकस्मिन्नेव भावे सप्त ग्रहाः स्युस्तदा गोलो योगो भवतीति । पर-
मैते योगाः पूर्वमुक्तानन्यान्योगान् विहाय सम्भवन्ति । अत्रेदं चिन्त्यम् । पूर्वोक्तानामाकृति-
योगानां मध्याद्यदि कस्मादपि संख्यायोगस्य सादृश्यं भवति तदा अमी सङ्ख्यायोगा न
स्वीकार्याः । तदानीमाकृतियोगा एवाङ्गीकर्त्तव्या इति ॥ १७३ ॥
संख्या योग सात प्रकार का होता है। किसी भी सात स्थानोंमें सात ग्रह हों तो
"वल्लकी" योग होता है । छः स्थानोंमें सातों ग्रह हों तो "दामिनी" योग । पाँच स्थानों
में हों तो 'पाश' योग । चार स्थानोंमें हों तो 'केदार' योग । तीन स्थानोंमें हों तो "शूल"
योग । दो स्थानोंमें सब ग्रह हों तो "युग" योग होता है। एक स्थानमें सब ग्रह हों तो
'गोल' योग होता है । इस प्रकार संख्या योगोंको कहे हैं । जिस जगह संख्या योगकी
प्राप्तिमें पूर्वोक्त योगोंकी भी प्राप्ति हो वहां वे योग ही फल देते हैं, संख्यायोग फल नहीं
देते । संख्यायोग वहां ही फल देगा जहां पूर्वोक्त आश्रय योगोंकी प्राप्ति नहीं हो ॥ १७३ ॥
अथ आश्रयदलयोगफलम् ।
ईर्ष्युर्विदेशनिरतोऽध्वरतश्च रज्ज्वाम् ,मानी धनी च मुसले बहुभृत्यसक्तः ।
व्यङ्गः स्थिराढ्यनिपुणो नलजः खगुत्थो, भोगान्वितो भुजगतो बहुदुःखभाजः ॥
अथ गदादियोगफलम् ।
यज्वाऽर्थभाक् सततमर्थरुचिर्गदायां, तद्वृत्तिभुक् शकटजः सरुजः कुदारः ।
दूतोऽटनः कलहकृद्द्विहगे प्रदिष्टः, शृङ्गाटके चिरसुखी कृषिकृद्धलाख्ये ॥१७५॥
वज्रेऽन्यपूर्वासुरतः सुभगोऽतिशूरः, शौचान्वितोऽपि च यवे सुखितो वयोऽन्तः ।
विख्यातकीर्तिमितसौख्यगुणाश्च पद्मे वाप्यां तनुस्थिरसुखी निधिपोऽन्नदाता ॥
त्यागात्मवान् क्रतुवरैर्यजते च यूपे हिंस्रोऽथ गुप्त्यधिकृतः शरकृच्छराख्ये ।
नीचोऽलसः सुखधनैर्वियुतश्च शक्तौ दण्डे प्रियैर्विरहितः पुरुषोऽन्यवृत्तिः १७७
छत्रे चाद्यन्तसौख्यस्तुलधनबलवान् नौभवस्तोयजीवी
चक्रे राजा यशस्वी जलधिभवनरस्तोयवृत्तिः क्षितीशः ।
अर्धेन्दौ भोगशाली गिरिविपिनचरः क्रूरकर्मा च कूटे
चापे जाता मनुष्या यदि गहनचराश्चौर्यनिष्ठा निकृष्टाः ॥ १७८ ॥
वीणायां सकलक्रियासु निपुणः सङ्गीतनृत्यप्रियो-
दामिन्यामुपकारकस्त्वपटुमतिः प्रख्यातविद्याधनी ।
पाशे शीलधनार्जनेऽतिचतुरो वाचालकः पुत्रवान्
केदारे कृषिवित्तवानलसधीर्बन्धूपकारी भवेत् ॥ १७६ ॥
२६२ सटीकजातकपारिजाते-
शूले कोपरसान्वितो धनरुचिः शूरः क्षतो निर्धनी
भिक्षाशी युगयोगजोऽतिचपलः पाषण्डको मद्यपः ।
गोले निर्द्धनकोऽलसोऽटनपरः स्वल्पायुरज्ञानधी-
र्द्वात्रिंशत् कथिता वराहमिहिराचार्येण योगा इमे ॥ १८० ॥
इदानीं श्लोकषट्केन पूर्वोक्तद्वात्रिंशद् ( विंशत्याकृतित्रयाश्रयद्विदलसप्तसङ्ख्येतिद्वा-
त्रिंशत्-) योगानां फलानि कथ्यन्ते । श्लोकार्थ स्पष्टार्था एवेत्यलमतिविस्तरेण ॥ १७४-१८०॥
रज्जु योगोत्पन्न जातक पराई भलाईसे जलनेवाला तथा निरंतर परदेश में रहने वाला
और हमेशा मार्ग पर चलने में रुचि रखने वाला होता है ।
जो मुसल योगमें उत्पन्न हो वह मानी, धनी और विशेष नौकर वाला होता है ।
जो मनुष्य नल योगमें उत्पन्न हो वह अङ्गहीन, दृढ़ निश्चयवाला, धनी और समस्त
कार्यमें सूक्ष्म दृष्टिसे विचारनेवाला होता है । ये तीनों आश्रययोगके फल हैं ।
माला योगमें उत्पन्न होनेवाला भोगी होता है । सर्प योगोत्पन्न मनुष्य अनेक प्रकार
का दुःख भोगता है ॥ १७४ ॥
गदा योगवाला मनुष्य यज्ञ करने वाला और धन भोगने वाला तथा धनसंग्रहमें
उद्यमी होता है ।
शकट योगोद्भव मनुष्यकी जीविका गाड़ी रथ आदिसे होती है, नित्य रोगी और
उसकी स्त्री कुरूपा होती है ।
विहंग योगवाला मनुष्य दूत का काम करता है और झगड़ालु होता है ।
शृङ्गाटक योगवाला मनुष्य बहुत काल तक सुखी रहता है ।
हलयोग वाला मनुष्य खेती का काम और पशुपालन आदि बहुत उत्तम जानता है ॥ १७५॥
वज्र योगमें उत्पन्न होनेवाला मनुष्य प्रथम और अन्त्य अवस्था में सुखी, मध्यममें दुःखी
और सबका प्यारा तथा अत्यन्त पराक्रमी होता है ।
यव योग वाला मनुष्य बलवान् और मध्य अवस्था में सुखी रहता है ।
पद्म योगोद्भव मनुष्य विख्यात कीर्तिवाला और अत्यन्त सुख, गुण तथा विद्यावाला
होता है ।
वापी योगवाला मनुष्य बहुत काल पर्यन्त थोड़े सुख पाता और धन बढ़ाने वाला तथा
कृपण होता है ॥ १७६ ॥
यूप योगमें उत्पन्न मनुष्य दानी, अहंकारी और यज्ञ करनेवाला होता है । शर (इषु)
योग में हिंसक, बंधे हुयेको पालनेवाला और शर बनानेवाला होता है ।
शक्ति योगमें नीच कर्म करनेवाला, आलसी, दुःखी और दरिद्र होता है । दण्ड योगमें
प्रिय (पुत्रादि) से रहित और शूद्रकी वृत्तिवाला (टहलुआ) होता है ।
छत्र-योगोद्भव जातक आदि और अन्त्य अवस्था में सुखी, अतुल धनवाला तथा बली
होता है ।
नौ योगोत्पन्न जातक जलकी जीविकावाला होता है । चक्र योगका जातक यशस्वी
राजा होता है । जलधि (समुद्र) योगवाला मनुष्य जलवृत्तिवाला राजा होता है ।
अर्धेन्दु योगमें जायमान मनुष्य भोगशाली होता है । कूट योगमें उत्पन्न नर पहाड़ और
जंगलका रहनेवाला तथा क्रूर कर्म करनेवाला होता है। चाप योगमें उत्पन्न होनेवाला
मनुष्य जंगली, चोरी कर्म करनेवाला और निकृष्ट होता है ॥ १७८ ॥
वीणा योगमें उत्पन्न मनुष्य सकल क्रियामें चतुर, संगीत नृत्यका प्रिय होता है । दा-
मिनी योगमें उत्पन्न मनुष्य उपकारी, पटु बुद्धिवाला, विद्यामें विख्यात और धनी होता
है । पाश योगमें उत्पन्न जातक शीलवान्, धनोपार्जनमें चतुर, वाचाल और पुत्रवान्
होता है । केदार योगमें उत्पन्न होनेवाला जातक कृषि-कार्य परायण, धनवान्, आलसी
बुद्धिवाला और बन्धुजनोंका उपकारी होता है ॥ १७९ ॥
राजयोगाध्यायः ॥७॥ २६३
शूल योगमें पैदा हुआ मनुष्य क्रोध-रससे युक्त, धनमें रुचिवाला, लड़ाका, घाववाला
और दरिद्र होता है। युग योगमें उत्पन्न होनेवाला मनुष्य अत्यन्त चञ्चल पाखण्डी
और शराबी होता है। गोल योगमें उत्पन्न होनेवाला मनुष्य दरिद्र, आलसी, भटकनेवाला,
थोड़ी आयुवाला और नादान बुद्धिवाला होता है। ये ३२ योग श्रीवराहमिहिराचार्यजी-
ने बृहज्जातकमें कहे हैं। सु० शा० कारः ॥ १८० ॥
भूपालयोगरुचकपञ्चकभास्कराद्याः केमद्रुमाधमसमग्रहमालिकाश्च ।
लक्ष्मीहरीशविधिकाहलनामसाद्याः सूर्यादिदेवकृपया परिकीर्तितास्ते ॥१८१
श्लोकेनानेनाध्यायमुपसंहरतीति । स्पष्टार्थः ॥ १८१ ॥
पारिजाते सुधा टीका कपिलेश्वररञ्जिता ।
सप्तमे राजयोगोऽस्मिन्नध्याये पूर्णतां गता ॥ ७ ॥
सभी राजयोग, रुचक आदि पांच योग, भास्कर आदि योग, केमद्रुम, अधम, सम, ग्रह-
मालिका योग, लक्ष्मीयोग, हरि-हर विधियोग, काहलयोग और नाभसादि योग इनके
सूर्यादि ग्रहोंकी कृपासे इस ७ वें अध्यायमें वर्णन किया ॥ १८१ ॥
इति श्रीवैद्यनाथदैवज्ञविरचिते जातकपारिजाते राजयोगाख्ये सप्तमेऽध्याये
'विमला' हिन्दी टीका समाप्ता ॥ ७ ॥
अथ द्वथादिग्रहयोगाध्यायः ॥ ८ ॥
अथाधुना द्वथादिग्रहयोगाध्यायो व्याख्यायते । तत्र प्रथमं द्विग्रहयोगाः—
जातः स्त्रीवशगः क्रियासु निपुणश्चन्द्रान्विते भास्करे,
तेजस्वी बलसत्त्ववाननृतवाक् पापी सभौमे रवौ ।
विद्यारूपबलान्वितोऽस्थिरमतिः सौम्यान्विते पूषणि,
श्रद्धाकर्मपरो नृपप्रियकरो भानौ सजीवे धनी ॥ १ ॥
स्त्रीमूलार्जितबन्धुमाननियुतः प्राज्ञः सशुक्रेऽरुणे
मन्दप्रायमतिः सपत्नवशगो मन्देन युक्ते रवौ ॥
शूरः सत्कुलधर्मवित्तगुणवानिन्दौ धराजान्विते ।
धर्मी शास्त्रपरो विचित्रगुणवान् चन्द्रे सतारासुते ॥ २ ॥
जातः साधुजनाश्रयोऽतिमतिमानार्येण युक्ते विधौ,
पापात्मा क्रयविक्रयेषु कुशलः शुक्रे सशितद्युतौ ।
कुब्जोऽजः पितृदूषको गतधनस्तारापतौ सार्कजे,
वाग्मी चौषधशिल्पशास्त्रकुशलः सौम्यान्विते भूसुते ॥ ३ ॥
कामी पूज्यगुणान्वितो गणितविद् भौमे सदेवार्चिते,
धातोर्वादरतः प्रपञ्चरसिको धूर्तः सभौमे भृगौ ॥
वादी गानविनोदविज्जडमतिः सौरेण युक्ते कुजे ।
वाग्मी रूपगुणान्वितोऽधिकधनी वाचस्पतौ सेन्दुजे ॥ ४ ॥
शास्त्री गानविनोदहास्यरसिकः शुक्रे सचन्द्रात्मजे
विद्यावित्तविशिष्टधर्मगुणवानर्कात्मजे सेन्दुजे ॥
तेजस्वी नृपतिप्रियोऽतिमतिमान् शूरः सशुक्रे गुरौ ।
शिल्पी मन्त्रिणि सार्कजे पशुपतिर्मल्लः सिते सासिते ॥ ५ ॥
२६४ सटीकजातकपारिजाते-
भास्करे=सूर्ये चान्द्रान्विते (सूर्याचन्द्रमसोर्योगे) जातः स्त्रीवशगः=स्त्रिया वश्यो भवति,
क्रियासु=व्यावहारिककार्येषु निपुणो दक्षो भवति । समौमे रवा=सूर्यमङ्गलयोर्योगे जातो हि
तेजस्वी भवति, बलवान्-सत्त्व-(पराक्रम-)वान् भवति, अनृतवाक्=मिथ्यावादी पापी च भवति ।
सौम्येऽन्विते=बुधेन युक्ते पूषणि=सूर्ये जातो विद्यया, रूपेण, बलेन चान्वितो युक्तोऽस्थिरमति-
श्चपलबुद्धिश्ध भवति । भानौ सजीवे=गुरुसँहिते सूर्ये जातो नरः श्रद्धाकर्मपरः=श्रद्धाकर्मपरा-
यणो नृपस्य=राज्ञः प्रियकरः=आह्लादकश्च भवति । एवं सूँ. शु.⁶, सूँ. श⁷, चँ.⁸ मं., चँ. बुँ.⁹,
चँ. गृ.¹⁰, चँ. शु.¹¹ च. श.¹², मंँ. बु.¹³, मंँ. गृ.¹⁴, मंँ. शु.¹⁵ मं श.¹⁶, बुँ. गृ.¹⁷, बुँ. शु.¹⁸, बुँ. श.¹⁹, गृ. शु.,
गृँ. श., शैँ. श., इत्येकविंशतिभेदा द्विग्रहयोगे सम्भवन्ति । तेषां फलानि सरलार्थकानि
चेति ॥ १-५ ॥
अब दो दो ग्रहोंके योगोंका फल कहते हैं-जिसके जन्म समयमें चन्द्रमासे युक्त सूर्य हो
वह स्त्रीका अनुगामी हो और क्रियामें निपुण हो । मङ्गलके साथ सूर्य हो तो बलवान्,
तेजवान्, झूठ बोलनेवाला और पापी होता है। बुधसे युक्त सूर्य हो तो विद्या-रूप और
बलसे युक्त, चञ्चल बुद्धिवाला होता है। बृहस्पतिसे युक्त सूर्य हो तो श्रद्धाकर्ममें निपुण,
राजाका प्रिय करनेवाला और धनी होता है ॥ १ ॥
यदि सूर्य शुक्रसे युक्त हो तो स्त्रीके द्वारा धनप्राप्त हो और बान्धवोंसे युक्त हो । यदि
सूर्य शनिसे युक्त हो तो प्रायः मन्दबुद्धि और शत्रुके अधीन पुरुषको करता है। यदि
चन्द्रमा मङ्गलके साथ हो तो पुरुष शूर, कुलीन, धर्मात्मा, धनी तथा गुणवान् होता है।
यदि चन्द्रमा बुधसे युक्त हो तो धर्म करनेवाला, शास्त्रका ज्ञाता तथा विचित्र गुणोंसे युक्त
पुरुष हो ॥ २ ॥
यदि चन्द्रमा गुरुयुक्त हो तो जातक साधुजनावलम्बी और पूर्ण बुद्धिमान् हो । यदि
चन्द्रमा शुक्रसे युक्त हो तो वह जातक पापात्मा, क्रय-विक्रय करनेमें कुशल होवे ।
यदि चन्द्रमा शनिसे युक्त हो तो वह जातक बुरी जीवाला, पिताका निन्दक तथा जनहीन
व्यक्ति होवे। यदि मङ्गल बुधसे युक्त हो तो वह जातक वक्ता, औषधका जानकार तथा
शिल्पकलाका ज्ञाता होवे ॥ ३ ॥
यदि मङ्गल जन्म-समयमें बृहस्पतिसे युक्त हो तो पुरुष कामी, पूजनीय, गुणवान्,
गणित शास्त्रका ज्ञाता हो । मङ्गल यदि शुक्रसे युक्त हो तो वह पुरुष धातुओंका व्यवहार
वाला, प्रपञ्च सुननेका प्रेमी तथा धूर्त हो । यदि मङ्गल शनिसे युक्त हो तो पुरुष चहल
करने वाला, गाने बजानेका रसिक और जडबुद्धि हो । यदि बृहस्पति बुधसे युक्त हो तो
पुरुष वक्ता, रूपवान्, गुणवान् और अधिक धनवान् हो ॥ ४ ॥
यदि बुध शुक्रसे युक्त हो तो पुरुष शास्त्र जाननेवाला, गानेका प्रेमी और हँसमुख हो
वे । यदि बुध शनिसे युक्त हो तो पुरुष विद्वान्, धनी, अधिक धर्मात्मा और गुणवान् हो
वे । यदि बृहस्पति शुक्र संयुक्त हो तो जातक तेजस्वी, राजप्रिय, अत्यन्त बुद्धिमान् तथा
बलवान् हो । यदि बृहस्पति शनिसे युक्त हो तो शिल्पकार तथा शनि और शुक्र एकत्रित
हों तो पुरुष अधिक पशुवाला तथा मल्ल (पहलवान्) होवे ॥ ५ ॥
अथ त्रिग्रहयोगाः।
सूर्येन्दुक्षितिनन्दनैरि कुलध्वंसी धनी नीतिमान्
जातश्चन्द्ररवीन्दुजैर्नृपसमो विद्वान् यशस्वी भवेत् ॥
सोमार्काम्रमन्त्रिभिर्गुणनिधिर्विद्वान् नृपालप्रियः, ।
शुक्रार्केन्दुभिरन्यदारनिरतः क्रूरोऽरिभीतो धनी ॥ ६ ॥
मन्देन्द्वर्कसमागमे खलमतिर्मायी विदेशप्रियो
भार्व्वाद्वभूसुतबोधनैर्गतसुखः पुत्रार्थदारान्वितः ॥
द्वयादिग्रहयोगाध्यायः ॥८॥ २६५
जीवाकौवनिर्जैरतिप्रियकरो मन्त्री चमूपोऽथवा
भौमार्कासुरवन्दितैर्नयनरुग् भोगी कुलीनोऽर्थवान् ॥ ७ ॥
मन्दार्कावनिर्जैः स्वबन्धुरहितो मूर्खोऽधनो रोगभाक् ।
इन्द्राचार्यरवीन्दुजैः पटुमतिर्विद्यायशोवित्तवान् ॥
भानुज्ञासुरपूजितैर्मृदुतनुर्विद्यायशस्वी सुखी
सौरादित्यबुधैर्विबन्धुरधनो द्वेषी दुराचारवान् ॥ ८ ॥
जीवादित्यसितैः सदारतनयः प्राज्ञोऽचिरुग् वित्तवान्
मन्देन्द्रार्चितभानुभिर्गतभयो राजप्रियः सात्विकः ॥
जातो भानुसितासितैः कुचरितो गर्वाभिमानान्वित-
श्चन्द्रारेन्दुसुतैः सदाऽशनपरो दुष्कर्मकृद् दूषकः ॥ ६ ॥
जीवेन्दुक्षितिजैः सरोषवचनः कामातुरो रूपवा-
निन्दुक्ष्माजसितैर्विशीलतनयः सञ्चारशीलो भवेत् ॥
तारेशार्कजभूसुतैश्चलमतिर्दुष्टात्मको मातृहा
जीवेन्दुज्ञसमागमे बहुधनख्यातोऽवनीशप्रियः ॥ १० ॥
विद्यावानपि नीचकर्मनिरतः सेव्यः सितज्ञेन्दुभि-
स्त्यागी भूपतिपूजितश्च गुणवानिन्दुज्ञतिग्मांशुजैः ॥
प्राज्ञः साधुसुतः कलासु निपुणः शुक्रेन्दुदेवार्षितैः
शाखी वृद्धवधूरतो नृपसमो वाचस्पतीन्द्वर्कजैः ॥ ११ ॥
वेदी राजपुरोहितोऽतिसुभगः शुक्रेन्दुचण्डांशुजै-
र्गान्धर्वश्रुतिकव्यनाटकपरो जीवज्ञभूनन्दनैः ॥
हीनाङ्गः खलवंशजश्चलमतिः शुक्रारचन्द्रात्मजैः
प्रेष्यः सामयलोचनोऽटनपरस्ताराजभौमासितैः ॥ १२ ॥
शुक्रारेन्द्रपुरोहितैर्नरपतेरिष्टः सपुत्रः सुखी
जीवारार्कसुतैः कृशोऽसुखतनुर्मानी दुराचारवान् ॥
सौरारासुरपूजितैः कृतनयो नित्यं प्रवासान्वितः
शुक्राज्ञामरमन्त्रिभिर्जितरिपुः कीर्तिप्रतापान्वितः ॥ १३ ॥
देवेज्येन्दुजभानुजैरतिसुखश्रीकः स्वदारप्रियो
मन्दज्ञासुरवन्दितैरनृतवाग् दुष्टोऽन्यजायारतः ॥
जातो जीवसितासितैरमलधीर्विख्यातसौख्यान्वित-
श्चन्द्रे पापयुते सदल्पसुखवान् भानौ पितुस्तद्वदेत् ॥ १४ ॥
अत्र त्रिग्रहयोगे पञ्चत्रिंशद्भेदा भवन्ति । यथा हि—१. र. चं. मं. । २. र. चं. बु. ।
३. र. चं. बृ. । ४. र. चं. शु. । ५. र. चं. श. । ६. र. मं. बु. । ७. र. मं. बृ. । ८. र.
मं. शु. । ९. र. मं. श. । १०. र. बु. बृ. । ११. र. बु. शु. । १२. र. बु. श. १३.
र. बृ. शु.। १४. र. बृ. श.। १५ र. शु. श.। १६. चं. मं. बु.। १७. चं. मं. बृ.। १८.
चं. मं. शु. । १६. चं मं. श. । २०. चं. बु. बृ. । २१. चं. बु. शु. । २२. चं. बु. श. ।
२३. चं. बृ. शु. । २४. चं. बृ. श. । २५. चं. शु. श. । २६. मं. बु. बृ. । २७. मं. बु.
शु. । २८. मं. बु. श. । २९. मं. बृ. शु. । ३०. मं. बृ. श. । ३१. मं. शु. श. । ३२.
बु. बृ. शु. । ३३. बु. बृ. श. । ३४. बु. शु. श. । ३५. बृ. शु. श. । इति । एवं फला-
न्यत्रोक्तानि । श्लोकाः स्पष्टार्था इति ॥ ६–१४ ॥
२६६ सटीकजातकपारिजाते-
यदि सूर्य्य, चन्द्रमा तथा मङ्गल तीनों एक स्थानीय हों तो जातक शत्रुओंको मारने
वाला, धनी तथा नीति (कानून) का जानने वाला होवे। यदि सूर्य्य, चन्द्र तथा बुध एक-
त्रित हों तो राजाके समान यशवाला और विद्वान् हो। यदि सू० चं० बृ० एकत्र हों तो वह
गुणवान्, विद्वान्, और, राजाओंका प्रिय होवे। यदि रवि, सोम, और शुक्र एकस्थानी हों
तो वह परस्त्रीगामी, क्रूर, शत्रुसे डरनेवाला, धनिक होवे ॥ ६ ॥
यदि शनि, चन्द्रमा और सूर्य्य एक राशिस्थ हों तो जातक खलबुद्धि, मायावी, विदेश-
प्रिय होवे। सूर्य्य, मङ्गल और बुधके एक राशिमें होनेसे जातक सुख रहित, पुत्र स्त्रीसे
युक्त होवे। बृहस्पति, सूर्य्य और मङ्गलके एकत्र होनेसे लोगोंका विशेष प्रिय हो तथा मन्त्री,
वा सेनापति होवे। चन्द्रमा, सूर्य्य और शुक्र एकत्र हों तो नेत्ररोगी, भोगी, कुलीन और
धनवान् होवे ॥ ७ ॥
शनि सूर्य्य और मङ्गलके एकत्र होनेसे बन्धुओंसे रहित, मूर्ख, धनी और रोगी हो। बृह-
स्पति, सूर्य्य, और बुध एकत्र हों तो चतुरबुद्धि, विद्वान् यशस्वी और धनवान् होवे। सूर्य्य
बुध और बृहस्पति एकत्र हों तो कोमल शरीर, विद्वान्, यशस्वी और सुखी हो। शनि
सूर्य्य और बुधसे बन्धुहीन, धनहीन, वैरी, तथा दुराचारी होवे ॥ ८ ॥
बृहस्पति, सूर्य्य और शुक्रके एकत्र होनेसे पुत्र-स्त्रीसे युक्त, बुद्धिमान्, नेत्ररोगी और
धनवान् होवे। शनि, बृहस्पति और सूर्य्यसे भयरहित, राजप्रिय और सात्विक होवे। सूर्य्य
शुक्र और शनिके एकत्र रहनेपर उत्पन्न हो तो दुष्ट चरित्रवाला, गर्वी, और अभिमानी होवे।
चन्द्रमा, मङ्गल और बुध एकत्र हों तो सदा भोजनमें रत दुष्कर्मी और दूसरोंका दूषक हो ॥
बृहस्पति, चन्द्रमा और मङ्गल एकत्र हों तो रोषयुक्त वचन बोलनेवाला, कामातुर
और रूपवान् हो। चन्द्रमा, मङ्गल और शुक्र एकत्र हों तो विशील, विपुत्र और भ्रमणशील
हो। चन्द्रमा, शनि और मङ्गल एकत्र हों तो चञ्चलबुद्धि, दुष्टात्मा और माताको मारने
वाला होवे। बृहस्पति, चन्द्रमा और बुधके एकत्र होनेसे भारी धनी और राजाका प्रिय होवे। १०
शुक्र बुध और चन्द्रमाके एकत्र होनेसे विद्वान्, नीच कर्म करनेवाला, सेव्य (सेवा
करने योग्य) होता है। चन्द्र-बुध-शनि एकत्र हों तो जातक ज्ञानी, राजपूलित और
गुणवान् होता है। शुक्र, चन्द्रमा और बृहस्पतिके एकत्र होनेसे जातक प्राज्ञ, सुपुत्री और
कलामें निपुण होता है। बृहस्पति, चन्द्रमा और शनिके एकत्र होनेसे जातक पापी,
वृद्धा स्त्रीमें रत और राजाके तुल्य होता है ॥ ११ ॥
शुक्र, चन्द्रमा और शनि एकत्र हों तो वेद जाननेवाला, राजपुरोहित, और अत्यन्त
सुभग होता है। बृहस्पति, बुध और मङ्गलके एकत्र होनेसे गान्धर्व विद्या-काव्य-नाटकका
ज्ञाता होता है। शुक्र, मङ्गल और बुध एकत्र हों तो जातक हीनाङ्ग, दुष्टवंशोत्पन्न और
चञ्चल बुद्धिवाला होता है। बुध, मङ्गल और शुक्रके एकत्र होनेसे प्रेष्य (दूत) नेत्ररोगी
और सदा भ्रमणशील होता है ॥ १२ ॥
शुक्र, मङ्गल और चन्द्रमा एकत्र हों तो राजाका मित्र, सुपुत्री और सुखी होता है।
बृहस्पति मङ्गल और शनि एकत्र हों तो दुबला शरीरवाला, मानी, और दुराचारी होवे।
शनि, मङ्गल और बृहस्पतिके एकत्र होनेसे कुपुत्री, सदा प्रदेशमें रहनेवाला होता है।
शुक्र, बुध और बृहस्पति एकत्र हों तो शत्रुओंको जीतनेवाला और कीर्त्त-प्रतापसे युक्त
होता है ॥ १३ ॥
बृहस्पति, बुध और शनिके एकत्रतासे विशेषसुखी, श्रीमान्, और अपनी स्त्रीका प्रिय
होता है। शनि, बुध और बृहस्पतिके एकत्र रहनेसे झूठ बोलनेवाला, दुष्ट, परस्त्रीगामी
होता है। बृहस्पति, शुक्र और शनिके एकत्र होनेसे स्वच्छ बुद्धिवाला, विख्यात, और
सुखसे युक्त होता है। चन्द्रमा पापग्रह युक्त हो तो जातक अल्पसुखी और सूर्य्य . पापयुत
हो तो उसके पिताको अल्पसुखी जाने ॥ १४॥