सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

८६ श्रीहम्मीरमहाकाव्ये [ सर्गः
तथाप्येषोभिजातत्वा दजहन् स्वामिभक्ततां ।
योगीव परमं ब्रह्म भोजो भूपमसेवत ॥ १७८ ॥
अन्येद्युर्नृपतिर्वैज - नाथयात्रामुपागतः ।
दृष्ट्वा पृष्ठस्थितं भोज मन्योक्त्येदमभाषत ॥ १७९ ॥
संख्येयांत्र पदे पदेपि बहवः क्षुद्रा निकामं खगा
नो कुत्रापि समोस्ति गर्ह्य इतरः काकाद्धराकात्परं ।
क्रोधाविष्ट पटिष्ट घूकनिकरास्याग्रोत्थकोटिक्षतै-
स्नुत्यत्पक्षचयोपि यत्तरूतटं नापत्रपः प्रोज्झति ॥ १८० ॥
अनयाऽन्योक्तिकौमुद्या भोजोऽम्भोजमिवास्तरूक् ।
वेश्मागत्य रहः पीथ - सिंहं सोदरमब्रवीत् ॥ १८१ ॥
देवोद्यकल्प उत्पश्य वचनैर्दुर्मनायितः ।
सेवा हेवाकिनोप्यस्मा न्तृणान्यापि मन्यते ॥ १८२ ॥
अवाप्तामेयसाम्राज्य -- मदमोहितमानसाः ।
यदि वा पार्थिवा नैव क्वचिदेकांतवत्सलाः ॥ १८३ ॥
यात्राव्याजेन तद्यामो दिनानि कतिचित् बहिः ।
कालक्षेपोऽशुभे श्रेयान् नीतिविद्भि र्जगे यतः ॥ १८४ ॥
संमंत्र्य सोदरेणैवं भूपं गत्वा व्यजिज्ञपत् ।
काश्यां व्रजामि यात्रायै यद्यादिशति भूपतिः ॥ १८५ ॥
जगाद भूपति र्यासि परतः परतो न किं ।
विना भवंतमप्येवं पुरं संशोभते पुरा ॥ १८६ ॥
इत्याकृष्टोपि कौलिन्या त्क्षमामेव क्षमापतौ ।
बिभ्राणः प्रचचालैषो ऽनुकाशीं सपरिच्छदः ॥ १८७ ॥
तस्मिन् गते क्षितिपतिः प्रसरत्प्रमोद-
र्दण्डनायकपदे रतिपालवीरं ।
युक्त्याभिषिच्य जगदेकहितत्रिवर्ग-
संसर्गतोतिसरसान् दिवसाननैषीत् ॥ १८८ ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ८७
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरम-
हाकाव्ये वीराङ्के हम्मीरदेवदिग्विजयवर्णनोनाम नवमः सर्गः ॥
॥ अथ दशमः सर्गः ॥
धरणीरमणापमानना दथ भोजः सशिरोरुहामगतः ।
परिभाव्य मुहुः स्वदुर्दशा मभिमानेन हृदीयचिंतयत् ॥ १ ॥
विततान विनापि कारणं नरनाथो मम यां तिरस्क्रियां ।
विदधे यदि तत्प्रतिक्रियां न तदा केव मनस्विनां गतिः ॥ २ ॥
गुणवानपि वक्रतां गतः पुरुषश्चाप इवातिभीषणः ।
स शरैरिव दुर्जनैर्नयतो गुणमुक्तैस्तनुतेऽतिपीडनं ॥ ३ ॥
अपमानपरेपि यो नरे शममेव प्रयतोऽवलंबते ।
अपि शूकशिखा ततो वरं व्यथयत्यंघ्रिमसौ तदाऽहता ॥ ४ ॥
अपकारपरान्सहोदरान् अपि हन्यान्निल नास्ति पातकं ।
अभिमानवतां नयोन्मुखैः स्थितिरेशा जगदे सनातनी ॥ ५ ॥
सुहृदां यदि वा विरोधिनां क्रिययैव क्रियते परीक्षणं ।
सुहृदप्यपकारकृत् द्विष न्नुपकारी तु सुहृद्विपन्नपि ॥ ६ ॥
सहतेऽरिकृतं पराभवं ननु यः क्लीबमना मनागपि ।
जनिरेव जनिष्ट तस्य मा जननी यौवनगर्वगर्हिणी ॥ ७ ॥
परिपृच्छय ततः सहोदरं पिथर्म सन्मतिवासमंदिरे ।
अगमल्लघुयोगिनीपुरं यवनानां समगच्छदीश्वरं ॥ ८ ॥
तादृक्कुलीनोपि तदा स भोज - देवोऽधुनाऽङ्गीकृतवान्यदेवं ।
तन्म्लेच्छभूजृंभितमेव तस्मात् सतां न तद्रूरपि वासयोग्या ॥ ९ ॥
तत्समागममहर्षवशात्मा ऽल्लावदीननृपतिः स ततोऽस्मै ।
वस्त्रनिर्वपणपूर्वमयच्छ न्मुद्गलेशनगरीं जगरां तां ॥ १० ॥
तत्र चित्ररुचिभाजि स भोजः सोदरं स्वमदरं परिमुच्य ।
छाग् स्वयं पुनरुपेत्य च दिल्हीं सेवतेस्म शकनायकमॆव ॥ ११ ॥

८८ श्रीहम्मीरमहाकाव्ये [सर्गः

प्रौढमानमनुघस्रममानैः कांतकांचनहयादिकदानैः ।
तं तथापुषदसावपि भूपो जायतेस्म स यथा निज एव ॥ १२ ॥
तं विपक्षर्माप यत्सदकार्षीत् साक् शक्रस्तदुचितोचितमेव ।
अन्यथा कथमिवारिजयेऽसौ जागदीति निरपायमुपायं ॥ १३ ॥
आत्मनीनमधिगत्य समुच्चै रन्यदेति यवनेदुरपृच्छत् ।
ब्रूहि भोज कथमेष हम्मीरो जीयते युधि मया द्रुतमेव ॥ १४ ॥
सत्यमेव यदि पृच्छसि कार्य स्तर्हि नो मम गिरीश्वर कोपः ।
इत्युदीर्य गिरमाहितभारा माततान गतभीरथ भोजः ॥ १५ ॥
शैथिल्यं कुंतलेषु प्रसभमुपनयन् पीडयन्मध्यदेशं
स्थानभ्रष्टां च कांचीं विदधदुपचयन् काममंगेषु लीलां ।
यो भूमेश्चंचलाक्ष्याः पतिरिव तनुते भाग्यसौभाग्यलक्ष्मीं
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १६ ॥
दीपः पर्यायशेषः स्फुरदरुणमणीदीप्तिराकारशेषः
सूरोप्याख्यानशेषः प्रलयशिखिशिखाश्रेणिराभासशेषः ।
यस्य प्रौढप्रतापे प्रसरति नितमां क्षोणिपीठे क्षितींदोः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १७ ॥
यस्मिन् शश्वन्निवासा ऋतव इव गुणा हायने षट् क्षितींदौ
श्रित्वा तिस्रोपि तस्थुः पुरुषमिव गुणा यं परं शक्तयोपि ।
अंगैः स्फीता यथोक्तैः प्रथयति पटुतां यस्य विद्येव सेना
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १८ ॥
यं व्यालोक्यापि खड्गग्रहणपटुकरं बिभ्यतां पार्थिवानां
निःश्वासो नासिदंडो न च कुलममलं नापि शौर्यं न धैर्यं ।
किंचैकं तूर्णमेवापसरणमयते ध्यानमार्गेऽध्वगवं
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १९ ॥
अश्रांतस्त्राविदानोच्छलितपरिमलाकृष्टगुंजद्विरेफ-
श्रेणीदिट्टुंभिकुंभस्थलदलनकलाकेलिकंदूलहस्तः ।

१० ] भोजदेवसंवादवर्णनम् ८९
सोदर्यो यस्य वीरव्रजमुकुटमणीर्वीरमो विश्वजेता
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २० ॥
तद्वातुलुंठितार्थाऽर्यननिविदमते र्मानमुन्मूलयंन्तो
निःशंके मेनिरे तां स्फुटसुभटतया ये तृणायापि नैव ।
औदीच्यास्तेऽपि सेवां विदधति महिमासाहिमुख्या यदीयां
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २१ ॥
देशो यस्याप्युदग्रं कृतसुकृतजनाचारचारुप्रदेशो
दुर्गे दुर्गाह्यमेवाहितधरणिभुजां श्रेणिभिश्श्वेतसापि ।
अन्योन्यस्पर्द्धिवीर्याऽजिनगुणिगणसोप्याहवे वीरवाराः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २२ ॥
अंगो नांगानि धत्ते कलयति न पुनर्युद्धलिंगं कलिंगः
काश्मीरः स्मेरमास्यं न वहति तनुते शौर्यसंगं न वंगः ।
गार्जे नो गुर्जरेंद्रः प्रथयति पृथुधीर्धैर्य्य कौशेयकापे
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २३ ॥
यस्याग्रे नैव किंचिद्————पतिर्भातिशुष्कोठकंठो
र्यं नात्यक्षनाथः प्रथितकृपणधीर्जीवरक्षामभीप्सुं ।
आत्मक्षेमाय मंत्रं जपति गजपतिर्यत्कटाक्षेण दृष्टः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २४ ॥
शूरः कश्चन कश्चनापि मतिमान्दाक्षिण्यवान्कश्चन
प्राज्ञः कश्चन कश्चनापि सुकृती दाता पुनः कश्चन ।
इत्येकैकगुणप्ररूढमहिमा जागर्ति भूयान् जनः
सर्वैः श्रेष्ठगुणैरधिष्ठिततनुर्हम्मीरवीरः परं ॥ २५ ॥
एतस्याधिपतेस्तयोन्नतकरांभोजप्रसादोदयात्
दोष्मंतः श्रियमाप्नुवंति तदिदं मंस्या स्म मात्यद्भुतं ।
किं चिंतामणयः स्फुरंति न नखाः किं कामधेनो स्तना
नांगुल्यस्तलमस्य वा किसलयाः कल्पद्रुमाणां न किं ॥ २६ ॥
12 k

९० श्रीहम्मीरमहाकाव्ये [सर्गः
संग्रामेष्वस्य तुरंगनिष्ठुरखुरोत्खातैरजोभिः क्षणात्
पंकत्वं गमिते मिलद्रिपुशिरश्छेदोच्छलच्छोणितैः ।
व्योम्नो मध्यपथे रथस्खलनतामाशंकमानोर्यमा
ऽवाचीं कर्ह्यपि चंचरीति भगवान् कर्ह्युप्युदीचीमपि ॥ २७ ॥
दीपस्येव समीरणः सरसिजश्रेणेरिवांभोधरः
सूर्यस्येव दिनात्ययो यतिवरस्यैवेणदृक्संगमः ।
देहस्येव गदोदयो गुणगणस्यैवातिलोभाश्रयः
तद्राज्यस्य विनाशहेतुरधुनैकोधः परं दीव्यति ॥ २८ ॥
तदमुं जिगीषसि यदीश सर्वथा त्वरया तदा प्रवितर प्रयाणकं ।
यदमुष्य नीव्वदधुना न वोल्लसत् सुमनप्ररोहहरितीकृताव्निः ॥ २९ ॥
ननु तेषु मक्ष्वपि कथावशेषतां गमितेषु भूप भवदीयसैनिकैः ।
जहति प्रजा अमुमिता निराशातां गतनेत्रचंडतरदंडनात्पुरा ॥ ३० ॥
आचम्येत्थं तस्य वाचं शकाना मीशो ऽप्युल्लूखानमाहूय सद्यः ।
दत्वा लक्षं सादिनः सादितारीन् देशं येनाचीचलचाहमानं ॥ ३१ ॥
उल्लूखानः पूरवत्सोथ वार्धे वृत्तिं शत्रून् प्रापयन् वैतसीं खाक् ।
क्षत्रोत्तंसान्मन्यमानस्तृणांशान् हिंदूवाटं प्राप तीव्रप्रतापः ॥ ३२ ॥
चरैरथोकारिसमागमोऽसौ हम्मीरदेवः क्षितिपालमौलिः ।
न्यपातयत्पर्षदि हर्षहेला—मयेषु वीरेषु दृशं सभावां ॥ ३३ ॥
राज्ञश्चेष्टासौष्ठवं तद्विभाव्य हृष्यच्चित्ता वीरमाद्या अथाष्टौ ।
वीराः स्मेरास्यांबुजाम्लेच्छभृत्सेनामेनामन्वधावंत वेगात् ॥ ३४ ॥
दृष्ट्वा म्लेच्छान्मारितान्मत्प्रकाशे सूरीन् भूवन् काव्यमी मावसन्नाः ।
इत्थं ध्यात्वेवास भास्वान् प्रतीची—भूभृच्चूलाचुंबिविंबस्तदानीं ॥ ३५ ॥
जीवं लात्वा द्राक् शका यात रेरे प्राप्ता ह्येते बाहुजास्तीव्रकोपाः ।
व्याचक्षाणामितीव प्रकामं व्यापे विश्वं कूजितैर्व्योमगानां ॥ ३६ ॥
गलद्विचारोलसितानि भास्वत् गवां विनाशे रुचिरद्युतीनि ।
तमांसि संगंतुमिव स्वबंधून् शकान्प्रसस्रुर्भुवनेभितोपि ॥ ३७ ॥

१० ] हम्मीरदेववीरयुद्धवर्णनम् ९१

श्रीवीरमेंद्रो दिशि माघवत्यां दिशि प्रतीच्यां महिमाख्यसाहिः ।
श्रीजाजदेवो दिशि दक्षिणस्यां दिश्युत्तरस्यामपि गर्भंरूकः ॥ ३८ ॥
आग्नेयभागे रतिपालवीरः समीरभागे तिचरः शकेशः ।
ईशानभागे रणमल्लमल्लः श्रीवैचरो नैर्ऋतनामभागे ॥ ३९ ॥
इत्थं यथाशक्तिकृतप्रतिज्ञा वीरा रणोत्साहलसच्छरीराः ।
हम्मीर हम्मीर इति ब्रुवाणा शकाधिपीये शिबिरे निपेतुः ॥ ४० ॥
द्रुतमेव केपि परिखामपूरन् अदहन्परे दलिकदुर्गमुच्छ्रितं ।
न्यविशंत चांतरितरेतिगत. पटवासरज्जुनिचयानपरेऽलुनन् ॥ ४१ ॥
धीरं धीरं यातरे माऽ कुलत्वं चापाग्रे नो बाहुजा संतु के ऽमी ।
दूर्वालाचं मंख्यपीमान् लुनीमः शब्दाद्वैतं जातमेवं शकानां ॥ ४२ ॥
केचित्कृपाणाँलगुडाँश्च केचि चापान्परे केचन मुद्गराँश्च ।
आक्रम्यमाणा नृपवीरवौरै स्तदाशकेंद्रा जगृहुर्जवेन ॥ ४३ ॥
श्रुत्वाखिलास्वपि ककुप्सु मृदंगनादान्
आतंककंपितहृदो यवना जवेन ।
संदेहमूर्ज्जितमिताः किल जीवितव्ये
कर्त्तं किमद्य भवितेत्यवदन्सदैन्यं ॥ ४४ ॥
श्रावं श्रावं सिंहनादान् भटानां भीताश्चक्रु- सारसी यामिमेंद्राः ।
तामाकर्ण्य त्राससंतोतिजीवं लावा क्वापि क्वापि नेशुस्तुरंगाः ॥ ४५ ॥
कराग्रायग्रनिशितासिदंड—दीप्रप्रभाप्रज्वलितप्रदीपैः ।
उत्सारितध्वांतचया वितेनु वीरा यथेच्छं रणरंगलीलां ॥ ४६ ॥
निष्कासयामास रणाय यो यः शकः क्षुधांधो युधि यद्यदंगं ।
तत्तल्लुनानाः किल तस्य तस्य न चाहमान. कुतुकाय कस्य ॥ ४७ ।
भीता जीवाघातमाकर्ण्य सद्यो म्लेच्छा यावद्दिक्षु चक्षु. क्षिपंति ।
बाणास्तावत्प्रेरिताश्चाहमानै विध्यंति स्मैवाशु मर्माणि तेषां ॥ ४८ ॥
चाहमानभटपाणिपंकजौ-न्मुक्तमार्गणगणैश्वितीकृताः।
रेजिरे करिवरा रणांगणे पर्वता इव नवोलसच्छदाः ॥ ४९ ॥

१० ] हम्मीरदेववीरयुद्धवर्णनम् ९३
अथ क्षितीशो रतिपालशौर्यं अतीभमाकर्ण्य लसत्प्रमोदः ।
मत्तो ममायं गज इत्यमुष्य पादेऽक्षिपत्कांचनशृंखलानिं ॥ ६३ ॥
परेष्वपि प्रीतिकृदंशुकादि दत्वा विसृष्टेष्वथ मानपूर्व ।
नृपेण पृष्टा यवनास्तथैव स्थिताः स्थिते कारणमूचुरेवं ॥ ६४ ॥
अस्मासु जीवत्सु यदिह भोज-देवः कृतघ्नो जगरां भुनक्ति ।
वीरव्रतं तर्हि विलीनमेव संत्रीभवन् मा कतरो नरेश ॥ ६५ ॥
सहामहे यच्च दिनांस्तमेता-न्तोऽत्र हेतुस्तव बंधुतैव ।
त्वद्देशमन्वानयतो ऽधुनारि-बलं विभो का बत बंधुता ऽस्य ॥ ६६ ॥
तद्यात्रायै गंतुमेते नरेश प्रादिश्यतां तेष्विति प्रोक्तवत्सु ।
भद्रा भद्रेण त्वरध्वं त्वरध्वं स्फीतप्रीतिस्तान्नृपो व्याजहार ॥ ६७ ॥
जयश्रियो मोहनमंत्रवत्त मादेशमासाद्य नृपस्य तेऽथ ।
भंक्त्वा पुरीं तां विनियम्य भोजबंधुं समागुः सकुदुंबमेव ॥ ६८ ॥
इतश्च तस्मात्समराद्विनष्टः खानः स उल्लूपपदः कथंचित् ।
समेत्य दिल्लीं निजगाद राज्ञे तचाहमानप्रकृतं समस्तं ॥ ६९ ॥
पलायितः कातरवद्द्ववान् किं ततः क्षितीशे गदतीति सोऽवक् ।
पलायनं चेन्नृप नाकरिष्यं कौतस्तुतस्तर्हि त्वामिलिष्यं ॥ ७० ॥
निःशेषमिति तदुक्त्वा विरराम न यावदेव शकबंधुः ।
मन्यूतीड्महिलः समेत्य तावत्स भोजदेवोपि ॥ ७१ ॥
विस्तार्यसिचयमये गतः सरस्तत्तदद्भुतमतीनां ।
कटुकं विरटन् तदुपरि सुतरां विंलुलोठ भूतचांत इव ॥ ७२ ॥
किमेरे किमेरे जातं पृष्टः शकभूभुजा जगादैषः ।
मरणाव्यपि स्वामि न विस्मरेद्यत्तदद्य संपन्नं ॥ ७३ ॥
हम्मीरवीरनुन्नो महिमासाहिः स वीरकोटीरः ।
हत्वा जगरां बध्वा सपरिच्छदमेव सोदरमयासीत् ॥ ७४ ॥ -
लाभायततां पुंसामभाग्यतः क्वापि मूलनाशः स्यात् ।
अद्यप्रभृति जनोक्ति र्मदुदाहरणा प्रवृत्तेऽसौ ॥ ७५ ॥

३ ] श्रीहम्मीरमहाकाव्ये [
तत्किं करोमि कं वा श्रयामि यामि क्व वा किमु वदामि ।
हृदयं वातांदोलित—तूलतुलां कलयतीदमनुवेलं ॥ ७६ ॥
लुठितोऽसि किमिह सिचयो—परीति पृष्टोऽमुना पुनः सोऽब्रवीत् ।
जानासि किं न निखिला मिलां जितां चाहमानेन ॥ ७७ ॥
रणभंगाकुलसोदर—परिदेवनदलिकसंकुले नितरां ।
नृपहृदि कोपहुताशे घृताहुतिर्भोजभणितिरभूत् ॥ ७८ ॥
तद्वाक्यश्रवणादथप्रसृमरक्रोधप्रकंपोधरो
वाहुष्टंभनमासनं प्रतिलवं सव्यापसव्ये नयन् ।
प्रत्युत्क्षिप्य शिरोवतंसमवनीपीठे तथास्फालयन्
चक्रे काव्यपरंपरामिति तदा म्लेंच्छावनीवल्लभः ॥ ७९ ॥
रेरे भोज विमुंच शोकमखिलं लज्जाकरं दोष्मतां
हे भ्रातस्तत्कीर्तिकेलिसदनं स्थैर्यं त्वमप्याश्रय ।
दुःखेनेव सह क्षणेन युवयोरेतस्य सोऽहं वली
हम्मीरस्य समूलकाषमधुना मानं कषाम्युच्चकैः ॥ ८० ॥
निद्रामुद्रणसांद्रनेत्रयुगुलः सिंहः समुत्थापितो
निर्मोकोज्झनतीव्रकोपफणिनो लातुं मणिः कांक्षितः ।
सर्वांगं प्रचिकीर्षितं च हुतभुक्कीलापरिष्वंजनं
हम्मिरेण बताद्य कोपितवता म्लेंच्छावनीवल्लभं ॥ ८१ ॥
कः कंठीरवकंठकेसरसटां स्पृष्टुं पदेनेहते
कुंताग्रेण शितेन कश्च नयने कंडूयितुं कांक्षति ।
कश्चाभीप्सति भोगिवक्त्रकुहरे मातुं च दंतावलीं
को वा कोपयितुं नु वांछति कुधीरल्लावदीनं प्रभुं ॥ ८२ ॥
देशो यद्यस्ति चंचत्तरसुकृतजनोद्यत्प्रदेशस्ततः किं
दुर्गं यद्यस्ति दुर्गं प्रतिभटनिकरैः कोटिभिर्वा ततः किं ।
वीराश्चेत्संत्यनेके समरभुवि महावीर्यवंतस्ततः किं
कोपिन्यल्लावदीने सकलमपि भजेद्व्यर्थतामेव सद्यः ॥ ८३ ॥

१० ] अल्लावदीनामर्षगवर्णनम् ९५
तावद्गर्जन्तु जायन्मदभरतरलाश्चंचला वीरमान्या
वीराः प्रत्यर्थिवीरावलिदलनकलाकेलिकंडूलहस्ताः ।
ज्यारवैर्विस्फुरद्भिर्जगदखिलमपि प्रापयेन्नेडभावं
यावन्नालावदीनः किरति शरभरं प्रावृषेण्यच्छटावत् ॥ ८४ ॥
पाताले प्रविशत्यसौ यदि तदा नूनं खनित्वा ददे
स्वर्गं चेत्समुपैति सैन्द्रमपि तं संपातयाम्यग्रतः ।
दृग्भ्यां चेद्ददृशे न संगरभरे महोद्दर्यीविक्रमः
कर्णाभ्यामपि शुश्रुवे किममुना तर्हि क्षितौ न क्वचित् ॥ ८५ ॥
रे रे हम्मीर वीरस्त्वमसि परमसो सांप्रतं वीरता ते
नूनं व्यक्तीभवित्री मम नयनपथे प्राप्तपार्थ्यव्रतस्य ।
भ्राम्यत्युच्चैर्वनांते मदमलिनकपोलस्थलो हंत दंती
तावद्यावन्मृगेंद्रः पतति न पुरतो जृंभया व्यात्तवक्त्रः ॥ ८६ ॥
आसारः कमलाकरे मृगगणे सिंहः कुठारस्तरी
भास्वान्संतमसे पविः क्षितिधरे दावानलः कानने ।
यत्कर्म प्रतनोति संगरभरं प्राप्तस्तदेवाधुना
कुर्वेहं भटसंकुलेपि निखिले श्रीचाहमाने कुले ॥ ८७ ॥
तत्कालं यवनावनीपतिरय प्रोल्लासिमानान् स्फुरन्
मानान्स्वेन शयाम्बुजेन लिखितान् विश्राण्य संप्रेषितैः ।
देशेभ्यो निखिलेभ्य एव निखिलान् दूतैः प्रभूतैरसौ
वीरानाह्वयतिस्म विस्मयकरप्रौदामदोर्विक्रमान् ॥ ८८ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमह
काव्ये वीरांके अल्लावदीनामर्षोनाम दशमः सर्गः समाप्तः ॥
अथैकादशः सर्गः
अंगस्तिलंगो मगधो मसूरः कलिंगवंगौ भटमेदपाटौ ।
पंचाल बंगाल धमीम भिल्ल नेपाल डाहल हिमाद्रिमध्याः ॥ १ ॥

इत्यादयोऽन्योन्यमहंयुताभिः संमेलितप्रौढपताकिनीकाः ।
शकाधिराजा निखिला अपीमां पुरीमथायुर्यवनेश्वरस्य ॥२॥ युग्मं ॥
वीरैर्जयश्रीकरपीडनाय लुंठाकवृंदैरपि लुंठनाय ।
व्रजद्भिरन्यैः कुतुकेक्षणाय शून्योभवंतिस्म दिशां प्रदेशाः ॥ ३ ॥
याते मयीदं बलभारभुग्नं कः सासहिर्धत्तुमिमां धरित्रीं ।
इतीव शेषाहिरमुष्य सैन्ये न केवलं गंतुमना बभूव ॥ ४ ॥
साश्वद्विपेष्वेषु चलत्सु भूभृ—न्निदेशमात्रेण दिशो दशापि ।
दिग्दंतिनो दंतिषु यद्यतिष्ठन् भास्वद्रथाश्वाश्च तुरंगमेषु ॥ ५ ॥
पादातिकानां करिणां रथानां चया हयानां च तथा प्रसस्रुः ।
तलं तिलस्यापि तुषानुमेयं रिक्तं यया न काचिदास भूमेः ॥ ६ ॥
ततोऽनुजौ स्फारभुजौ शकाना मधीश उल्लूनिसुरत्तखानौ ।
इदं महावीर्य्य वितीर्य्य सैन्यं अचीचलत् जेतुममुं हम्मीरं ॥ ७ ॥
शकेश्वरोद्यापि समस्तिपश्चात् सृजन्निति क्षत्रकुलेषु भीतिं ।
शरीरमात्रः स्वयमत्र चास्थात् अहो शकानां नृपनीतिवित्त्वं ॥ ८ ॥
लब्ध्वा सहायं निसुरत्तखानं ज्वलन् क्रुधोलूपपदः सखानः ।
इयेष मूलादपि वैरिवंशान् दग्धुं बृहद्भानुरिवाहिंकांतं ॥ ९ ॥
बलं किलैतत् व्रजतिस्म यत्र यत्रैष शेषोपि च तत्र तंत्र ॥
महीतलध्वंसभिया प्रसर्पन्नासीच्छकाज्ञाप्रविलोपिधैर्य्यः ॥ १० ॥
पद्भिः पतद्भिर्ध्रुवमस्मदीयैः शेषो धरां धर्त्तुमसो न शक्तः ।
तन्वीं भुवीतीव वितेनुरेते गतिं तुरंगा गगने तुं गुर्वी ॥ ११ ॥
धावद्वयालीपद्पादजात—रेणूत्करैः पूरिषताब्धयो मा ।
हेतोरिवास्मात् द्विरदा असिंचन् मदांबुपूरैरभितोपि भूमिं ॥ १२ ॥
सहाभविष्याम पुरा वयं चेत् किं बाहुजास्तार्हि पराभविष्यन् ।
इत्यूचुषः कांश्चिदुपेत्पूर्वानाद्यापि किंचित् गतमित्यवोचन् ॥ १३ ॥
गजाः कियंतस्तुरगाः कियंतो रथाः कियंतः कति वा भटाश्च ।
जनैर्जनानामिति वादितानां संख्या न हीत्युत्तरमेकमेव ॥ १४ ॥

११ ] यवनवीरवर्णनम् ९७
सर्वांगसन्नेह निवेशलक्ष्य चक्षुर्द्वयीमात्रतयातिरोद्राः ।
प्रधारमानाः सुभटा विरेजु लौहस्य गोला इव विस्फुरंतः ॥ १५ ॥
क्षणात् शकानां कटकैर्निपीता-शेषाम्भसामध्वनि निम्नगानां ।
गभीरमप्यास तलं सुदर्शं जडात्मनां वा न दुरापमंतं ॥ १६ ॥
भुक्तिं व्यधाद्यत्र न तत्र सुप्तिं यत्राततैतां न च तां च तत्र ।
अयेत्यविश्रांततरैः प्रयाणै र्लक्षीचकारैष विपक्षसीमा ॥ १७ ॥
सैन्यैः शकानां प्रसृतैः समंतात् देशः कृतः शैशवशंवदः सः ।
निर्नाथवन्मंक्षु पलाय्य जीव-ग्राहं प्रयातिस्म यतस्ततोपि ॥ १८ ॥
ततोऽद्रिघट्टान् प्रसमीक्ष्य पूर्वा-नुभूतभीसंस्मरणादयालुः ।
आहूय खानो निसुरत्तखानं सहोदरं सुंदरमित्युवाच ॥ १९ ॥
भ्रातः प्रवेशे विषमा गिरींद्रा भटास्तदीयाः प्रकटौजसश्च ।
तदद्रिघट्टान् विशतो बलस्य भवन्नपायः खलु नो हिताय ॥ २० ॥
तद्द्वाहुजान् संधिमिषेण विप्र-तार्याद्रिघट्टेपु सुखं विशामः ।
उपायसाध्ये खलु कार्यबंधे न विक्रमं नीतिविदः स्तुवंति ॥ २१ ॥
मते मतेऽव्यानुमतेऽमुनापि श्रीमोल्हणं श्वाग् विधिनानुशास्य ।
दिदेश संधानकृते हमीर-(राज्ञः स)मीपे कितवः प्रयातु ॥ २२ ॥
स्वयं च सन्नह्य बलान्यमुष्मि क्षेत्रं छलेनाविशदंतरद्रि ।
मध्ये प्रविष्टः सुखसाध्य एवा-स्माकं भटैरित्यमुपेक्षितश्च ॥ २३ ॥
मुड्यां प्रतोल्यामनुजस्य शस्य श्रीमंउपे दुर्गवरे निजं च ।
सरश्च जैत्रं परितः परेषा मतिष्ठपत्सैन्यमपास्यदैन्यः ॥ २४ ॥
स मोल्हणः प्राप्य कथंचिदंत स्ततः प्रवेशो नृपशासनेन ।
दृष्ट्वा रणस्तंभपुरं तदुच्चै-र्बभूव चित्रार्पितनेत्रपद्मः ॥ २५ ॥
वप्रे यदीये स्फटिकोद्भवानां माला लसंखः कपिशीर्षकाणां ।
दिगंगनानां वदनश्रियं स्वां विलोकितुं दर्पणभावमीयुः ॥ २६ ॥
प्रदेशयोरप्युभयोर्मिलद्भि र्माणिक्यसोपानमयूखजालैः ।
विलासवापीपु पयश्चकासां-बभूव यत्रेव निबद्धसेतुः ॥ २७ ॥
13 k

९८ श्रीहम्मीरमहाकाव्ये [सर्गः
यस्मिन्मृगाक्षीवदनेन्दुभाभि र्विसारिणीभिर्विजितः शशांकः।
खेयांबुपूरप्रतिबिंबदंभात् किमेष दुःखात्प्रददौ न झंपां ॥ २८ ॥
त्यागाय भोगाय विवेकभाजा जनेन शश्वद्विधृता कराब्जे ।
लेभेऽवकाशं चपलापि लक्ष्मीः पलायनं कर्तुमहो न यत्र ॥ २९ ॥
मरुत्तरंगप्रविकंपितायां ध्वजावलौ इभयतमालयेषु ।
लीनेव यत्रास्थिरता न जातु रमासु रामासु समुल्ललास ॥ ३० ॥
जालैर्मणीनामधिकुट्टिमोद्य—द्भासैः समंतात्प्रसरन्मयूखैः ।
प्रासादशृंगेषु दृशौधनावली निन्येवकेशित्वमुषासु यत्र ॥ ३१ ॥
यत्रोज्वलत्स्फाटिकभित्तिभागे ऽप्येणीदृशो दृष्टनिजांगलक्ष्म्यः ।
मांगल्यहेतो र्नवरं निरीक्षां—चक्रुर्विभाते मुकुरेषु वक्त्रं ॥ ३२ ॥
यत्रेभदंतोद्भवचित्रजाल—वातायनस्थाः कृतदिव्यभूषाः ।
विनिद्रपाथोजदृशो विमान मधिश्रिता देव्य इव स्म भांति ॥ ३३ ॥
नृपालयोत्तंसितशातकुंभं—कुंभप्रभा यत्र समुल्लसंत्यः ।
अभ्युन्नतासन्नपयोधराणां वर्षासु संपासमतामगच्छन् ॥ ३४ ॥
अनारतं कौमुदमादधानाः संसेव्यमाना द्विजराजिभिश्च ।
मिष्टैः पयोभिः प्रतिभासमाना विभांति यागा इव यत्तडागाः ॥ ३५ ॥
वातायनाः किं किममी विमाना जनः समं तेष्विति संशयानः ।
अबोधि यस्मिन् मिथुनैस्तु तत्स्थै रेवाऽनिमेषैश्च निमेषिभिश्च ॥ ३६ ॥
विलासिवेश्मोदरदह्यमान—सुगंधिधूपोत्थितधूमसंगात् ।
व्यधायि यस्मिन्नपि किन्नरीभि र्यत्नजन्या पटवासयुक्तिः ॥ ३७ ॥
मद्वृद्धिसंस्पर्धिविवर्द्धिकीर्त्ति परं पुरं किंचिदिहास्ति नो वा ।
इतीव यद्ध्वंशिरोधिरुह्य भुवं दृशा पश्यति गोपुरेण ॥ ३८ ॥
निवासवद्भिः सुमनोभिरेभि र्विमानतास्मासु कृतेति दुःखात् ।
नैवास्वपन्नित्यपि निर्निमेष—कपाटपक्ष्माणि गृहाणि यत्र ॥ ३९ ॥
विसारितक्रांतिचयाभिभूति—द्विरेफितस्वर्णतुलासु यत्र ।
स्त्रीणां मुखानि प्रतिबिंबितानि स्वर्णोत्पलानीव यमीषु रेजुः ॥ ४० ॥

११] हम्मीरराजपुरवर्णनम् ९९
सूर्याश्मकुड्यप्रतिबिंबिनारी—मुखानि यत्राब्जधिया वितर्क्य ।
दधुः सुकेश्यः पततो द्विरेफान् दशन् सखीवक्त्रमीस्ममेति ॥ ४१ ॥
कुशेशयायासिदृशो निशायां रतौ ह्रिया यत्र निशम्य दीपान् ।
ध्वस्तेऽभवन् संतमसेऽवकेशि—यत्नाः स्फुरत्कुड्यमणिप्रभाभिः ॥ ४२ ॥
निशम्य यत्रा[विरतोत्सवेषु मृदंगनादान् ध्रुवमर्जितो यः ।
अद्याप्यमी गर्जिषु वारिवाहा विवृण्वतेऽभ्यासभरं तमेव ॥ ४३ ॥
दृग्मीलनकेलिषु यत्र बाला सखीमहातंकसुनिश्चलागी ।
पांचालिकानां वितनौ निलीना दृष्टापि नाग्राहि सखीजनेन ॥ ४४ ॥
महाकुलकं
निभालयन् लोचनलोभिलाक्ष्मि क्रीडानिकेतं पुरमेतदुच्चैः ।
नृपालयश्रीकरकैरवेषु दृशं भृशं स भ्रमरीचकार ॥ ४५ ॥
स्तंबेरमाणां मदवारिभिन्न—कुंभस्थलीसंचरणप्रमत्ताः ।
झंकारवै र्यत्र सदा द्विरेफा वसंतमाहुः स्म वसंतमेव ॥ ४६ ॥
क्रीडागिरींदैरिव वीरक्ष्म्या यदेकतो राजत वारणेंद्रैः ।
गंगातरंगैरिव दत्तरंगै स्तथा न्यतोश्वैः पदखातविन्धैः ॥ ४७ ॥
भुजंगमाधिष्ठितचंदनद्रु मिवासिहस्तं प्रकृतिप्रशस्तं ।
पूर्वाद्रिचूलाश्रिततिग्मराश्म मिवोरुसिंहासनसन्निविष्टं ॥ ४८ ॥
सिंहासनोत्तर्गतबिंबदंभात् धराधिपैः शीर्ष इवोह्यमानं ।
रंगत्तरंगांगरुचीचयेने—व खर्वयंतं नवहेमगर्वं ॥ ४९ ॥
नक्षत्रचक्रेष्विव शीतरश्मि मर्मर्त्यचक्रेष्विव देवदेवं ।
नरेंद्रचक्रेषु विराज मान मनन्यजन्येन महामहिम्ना ॥ ५० ॥
निबद्धभूर्विवितसभ्यदंभान् सभामधस्तादिव कुर्वतीं गोः ।
अधिश्रितं तत्र सभां विभाव्य हम्मीरदेवं स हृदीति दध्यौ ॥ ५१ ॥
किमेषकामो न यतो ऽननंगः किमेष दक्षौ न यदद्वितीयः।
किमेषविष्णुर्न यतो ऽद्विबाहुः किमेष वज्री न यतो द्विनेत्रः ॥ ५२ ॥

१०० श्रीहम्मीरमहाकाव्ये [सर्गः
त्यक्तान्यकार्यैरथवीरवर्यै विलोक्यमानो वदतीति किं किं ।
प्रणम्य भूपं दरनम्रमौलिः प्रचक्रमे व्यक्तमिदं प्रवक्तुं ॥ ५३ ॥
"स्वतेजसैवारिगणं विजित्या—कुतोभयं संसृजतः स्वराज्यं ।
वृथैव वर्षासनमाददाना ललज्जिरे यस्य भटा निकामं ॥ ५४ ॥
दुर्गाणि दुर्ग्राह्यतराणि शाणो—लीढानि शस्त्राणि भटा रणोत्काः ।
अभ्रंलिहाग्रा गिरयो यदग्रे न वास्तवीं वृत्तिमयुः कदाचित् ॥ ५५ ॥
दुर्गाणि दुर्ग्राह्यतराणि यः श्री-देवाद्रिमुख्यान्यपि मंक्षु भंक्त्वा ।
अपींद्रमुद्यद्दरदंतुराक्षी-चकार कारायमितारिचक्रः ॥ ५६ ॥
दुर्गाणि दुर्ग्राह्यतराण्यरीणां भजन्ननेकान्यपि लीलयैव ।
आजन्मभग्नत्रिपुरैकदुर्गे दुर्गापतौ योत्र घृणां बिभर्ति ॥ ५७ ॥
यद्यन्मनस्थ्यप्यमुना नरेंद्र ! निधीयते तत्तदहो तदात्वं ।
संपादयन् सोपि विधिर्विशंके न शासनं यस्य विहंतुमीष्टे ॥ ५८ ॥
अल्लावदीनस्य नृपस्य तस्या—नुजौ किलोलूभिसुरत्तखानौ ।
देशं तवाक्रम्य तदाज्ञयैव त्वामाहतुः स्मेति मदाननेन ॥ ५९ ॥
हम्मीर ! राज्यं यदि भोक्तुमीहा तत्स्वर्णलक्षं चतुरो गजेंद्रान् ।
अथोरसानां विशतीं सुतां च दत्वा किरीटीकुरु नो निदेशं ॥ ६० ॥
इदं विमुक्तं यदि वा परंतु तथास्तदाज्ञाप्रविलोपिंनो ये ।
षाग्मुद्गलांस्तांश्चतुरोपि दत्वा क्रोडीकृतां क्रीडय राज्यलक्ष्मीं ॥ ६१ ॥
त्यक्त्वा यथैतं तव दुर्गरोधं देशान् पुरः साधयितुं व्रजामः ।
न चेद्विधाता प्रतिधोचितं स्व-राभ्यां तु तत्तेनुभवोऽभिधाता ॥ ६२ ॥
इत्येतदीयानि वचांसि भूपः श्रुत्वाथ भीमां भृकुटीं दधानः ।
नवोल्लसत्क्रुद्विषवलिसून—द्विरेफलीलाक्षरमित्युवाच ॥ ६३ ॥
वशिष्टयुक्त्या यदि नाभविष्य दाजग्मिवानत्र भवान् कथंचित् ।
तदा त्वयोगादि ययेदमर्वाक् जिव्हां ध्रुवं तां निरक्रासयिष्यं ॥ ६४ ॥
दंतौ द्विपस्येव मणिं भुजंग—स्येवेणशत्रोरिव केशरालीं ।
श्रीचाहमानस्य धनं बलेन न जीवतः कश्चन लातुमीष्टे ॥ ६५ ॥

११] हम्मीरभापगवर्णनम् १०१
स्वर्णं गजा दंतितुरंगमानां पदे प्रदेया यदि खड्गघाताः ।
भवत्प्रभू सूकरमांसमेव सद्यः स्वेदेतां यदि जातु यातः ॥ ६६ ॥
द्विषामपि स्याच्छरणागतानां रक्षासु मंदोपि निबद्धकक्षः ।
तद्युद्धलग्नो ननु याचमानौ न किं तदीशौ जडधीर्वतंसौ ॥ ६७ ॥
शतांशमप्येकविशोपकरस्य न प्राणमोक्षेपि ददे बलेन ।
यद्रोचते नाम भवत्प्रभुभ्यां तत्तूर्णमेवाचरतां यथेच्छं ॥ ६८ ॥
एवं विनिर्भर्त्स्य मुहुर्मुहुस्तं वशिष्टपाशं गलहस्तयित्वा ।
निष्कासयामास पुराद्भटानां त्रातुं च दुर्गं ददिवान् विभज्य ॥ ६९ ॥
उत्तंभितान्युद्धतघर्मघर्म—च्छिदेधिशालंपटमंडपानि ।
दिवानिशं संगरजागरूकभुजैर्विरेजुर्निभृतं भृतानि ॥ ७० ॥
वंगोपलिप्तस्फुटलोहबंध—दृढोलसत्कँकुलियष्टिदंभात् ।
शालोपि युद्धाय विवृद्धमन्युः संवर्मयामास भुजानिव स्वान् ॥ ७१ ॥
रालाविलं तैलमयःकटाहे तप्तं प्रकामोत्कलिकाछलेन ।
दग्धुं युयुत्सून्प्रतिपक्षपक्षान् अलक्षयतौत्सुक्यमिवादधानं ॥ ७२ ॥
चेतश्चमत्कारिकलोत्सृतानि संश्चक्रिरे भैरवयंत्रकानि ।
व्यामोहहेतोः स्फुटमिंद्रजाला—नीवागतानां शकपुंगवानां ॥ ७३ ॥
दूतः प्रभूतप्रतिघोध गत्वा निजप्रभुभ्यामखिलं तदुक्तं ।
न्यवेदयत्तावपि निर्विलंबं युद्धाय सैन्यं-गुणं व्यधत्तां ॥ ७४ ॥
ब्रह्वेव मध्ये पुरमाहवाय ससर्ज यान् यान् नृपतिः प्रयोगान् ।
तांस्तानमर्षात्कुशिकांगभूवत् सद्यः शकेंद्रोपि वहिस्ततान ॥ ७५ ॥
शक्रेषु वाद्येषु भृशाहतेषु दंडैः स्वना ये प्रकटीबभूवुः ।
प्रतिस्वनैः स्तांस्तिरयन् गिरींद्रो न स्वामिभक्तव्रतमुज्झतिस्म ॥ ७६ ॥
निषादिनो दंतिवरांस्तुरंगा नप्यश्ववारा रथिका रथांश्च ।
समंततो प्यारुरुहुः पदा (ति?) पूगा वितेनुः श्रममाहवाय ॥ ७७ ॥
महीभ्रमभ्रंकषमप्यमुं स्व-वीर्याग्रतः क्षुद्रमिवेक्षमाणाः ।
दुढौकिरे योद्धुमतिप्रवृद्धो—त्साहास्ततस्ते समरोत्कवाहाः ॥ ७८ ॥

१०२ श्रीहम्मीरमहाकाव्ये [सर्गः
समं च्छुटद्भिर्भटपाणिपद्मा द्व्राणैस्तमिस्रं ककुभां बभूव ।
निर्घोषपूरैरपि कार्मुकाणां विश्वं समग्रं बधिरत्वमाप ॥ ७९ ॥
नीरन्ध्रमाकाशमनूज्झितेषु काण्डेषु क्लृप्ताम्बुदताण्डवेषु ।
आग्नेयबाणा भृशमुत्पतंत आकालिकीकेलिकिलीबभूवुः ॥ ८० ॥
आकर्षतां संदधतां रयेण विमुंचतां बाणगणान् भटानां ।
विलोकमनैरपि निर्निमेष मलक्षि नैवांतरमंबरस्थैः ॥ ८१ ॥
तपात्ययांभोदपटुच्छटावत् दुर्गादवर्षन् सुभटाः शरौघान् ।
कौक्षेयदाक्ष्येण मृणालनाल--वच्चिच्छिदुस्तान् यवना जवेन ॥ ८२ ॥
मिथोपि वीरव्रजपाणिमुक्त--पृषत्कवक्त्रास्फलनप्रभूताः ।
रेजुः पतंतोऽग्निकणाः प्रदग्धुं पलायितानामिव कीर्तिवल्लीं ॥ ८३ ॥
क्षत्रप्रकांडप्रविमुक्तकांड--पक्षोद्भवः कोपि स वायुरासीत् ।
यत्रोन्मदिष्णौ रिपुदर्पसर्पो--प्यासीत्क्षणं व्याकुलचित्तवृत्तिः ॥ ८४ ॥
आकर्णमाकृष्य भटैर्विमुक्तैरधोमुखैरूर्ध्वमुखैश्च बाणैः ।
उत्पातहेतोर्ववृषुः शकाना मघोमुखा ऊर्ध्वमुखाश्च मेघाः ॥ ८५ ॥
शिलीमुखौघैर्यवनप्रणुन्नै र्वप्रः समंताच्छुशुभे चितांगः ।
विगाहमानो रिपुदर्पसर्प--विनाशहेतोरिव जाहकत्वं ॥ ८६ ॥
भ्रमंभ्रमं वीरवरैर्निजांगो--परि प्रणुन्नाः प्रतिशत्रुवीरान् ।
कुंता विरेजु र्निशिताः पतंतः स्फुटाः कटाक्षा इव भानुसूनोः ॥ ८७ ॥
सद्यांत्रिकैर्भैरवयंत्रगोला मुक्ता मिथोऽप्यूर्ध्वमधः पतंतः ।
अपि द्वयानामरुचन् भटानां पीना उरोजा इव वीरलक्ष्म्‍याः ॥ ८८ ॥
दूरोन्नमड्डिंडुलिकाग्रहस्ताः शौर्यश्रियः क्षत्रकुलोद्भवस्य ।
समुत्पतद्गोलकदंबदंभात् पंचेष्टकैः पर्यश्नन्निवैताः ॥ ८९ ॥
प्रक्षिप्तरालावलितप्रतैल--संगज्वलत्कुंतलकैतवेन ।
क्षत्रेषु कोपाग्निरमानिवांतः शंके शकानां बहिरुल्ललास ॥ ९० ॥
प्राकारभित्तेः खनने प्रवृत्तान् शकप्रवीरान् कुशटंकहस्तान् ।
विभिद्य शूलैर्वटकानिवोच्चै रुचिक्षिपूः क्षत्रकुलावतंसाः ॥ ९१ ॥

५. अन्तिम शाका, जोहर, हम्मीर पराक्रम व उपसंहार

११] निसुरत्तखानवधः १०३
उत्प्लुत्य शाखामृगवद्गिरींद्र मारूढवंतः किल केपि वीराः ।
प्रचख्नुरे शालतलं प्रविश्य केचिद्वराहा इव तीव्रकोपात् ॥ ९२ ॥
दुर्गस्थवीरव्रजमौलिमौली—नपाहरन् बाणगणाः शकानां ।
समीरगुंजा इव पादपानां पुष्पाणि शाखाशिखरोद्भवानि ॥ ९३ ॥
अचाक्षुषत्वं प्रगतांस्तनुत्वात् घटैकदेशीयभटप्रणुन्नान् ।
नालीकबाणान् प्रविभिन्नगात्रा न क्-शकानां परिणाम एव ॥ ९४ ॥
उत्खाय शालस्य शिलां प्रविश्य तदंतरे बाहुजघातभीताः ।
स्थिता विरेज्युर्यवनादिवांधा इवातपत्तापनरश्मिसन्नाः ॥ ९५ ॥
निजप्रहारव्रणजर्जरांगान् शकान् गिरेर्निष्पततो निरीक्ष्य ।
वीरा हसान् यान् व्यदधंस्त एव हम्मीरवीरस्य यशांस्यभूवन् ॥ ९६ ॥
श्रित्वा नगागान् गरुडासनेन हृष्टा निविष्टा यवनेशयोधाः ।
विद्धाः शरैर्वीरवरैस्तथैव चित्रं प्रयाता इव रेजुरुच्चैः ॥ ९७ ॥
निश्रेणिमालंब्य धृतासवोऽन्ये दंतैरथारोहणमाचरंतः ।
दुर्गे हता मूर्धनि मुद्गरेण दुर्गस्थितैः पेतुरमातयैव ॥ ९८ ॥
इत्थं सदाप्यौपयिकैरनेकः परिस्फुरद्धौकनसाहसस्य ।
अगाच्छकानां क्षयकालरात्रि रिव त्रिमासी यवनाधिपस्य ॥ ९९ ॥
प्रवर्त्तमाने समरेन्यदीया—पस्फाल गोलः शकगोलकेन ।
प्रभ्रश्यता तच्छकलेन मूर्ध्नि हतो व्यनेशन्निसुरत्तखानः ॥ १०० ॥
अथ गतं सहसापि परासुता ममुमवेक्ष्य परिक्षवदीक्षणः ।
अविदितः परदेवनासबनं भृशमसौ शकपोऽत मध्यमः ॥ १०१ ॥
प्रक्षिप्यैनं तदनु सहसा मध्यमोसौ शकाना-
मीशः स्वर्णस्फुटजटनतामंजुमंजूषिकांतः ।
ढिल्यां धूत्वा कथमपि धृतिं प्राहिणीत्तामभृतं वा
क्षोणीभर्त्तुः स्वसकलकथाज्ञापनपत्रपूर्वं ॥ १०२ ॥
एतद्वीक्ष्याप्तशोकः श्रुतरिपुजनिताशेषतत्तद्विकारः
कृत्वा तस्यांतकृत्यं निखिलमपि यथा युक्तिकोपप्रकंपः ।

वेगादागादमुत्र स्वयमथयवनैकावनौलावदीनो
वीरंमन्या सहंते रिपुजनजनितं कापि किंवा निकारं ॥ १०३ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा-
काव्ये वीरांके निसुरत्तखानवधवर्णनो नामैकादशः सर्गः समाप्तः ॥
अथ द्वादशः सर्गः
अल्लावदीननृपतिं तमागतं श्रुत्वाथ जैत्रिरवनीवनीघनः ।
दुर्गोपरि प्रतिपदं मदादसौ शूर्पाण्यवीवधदुदारधीधनः ॥ १ ॥
दृष्ट्वा तदद्भुतमसौ शकेश्वरो विस्मेरविस्मयविकासिलोचनः ।
पप्रच्छ पाणितलचालसंज्ञये—त्येतत् किमंग वरणोपरि स्थितान् ॥ २
श्रुत्वाऽङ्कतीयभणितिं हम्मीरराट् हर्षप्रकर्षमतिमानमुद्वहन् ।
प्रोदंच्यवक्त्रकमलं हसन्मनाक् प्रोवाचं वाचमिति तं शकाधिपं ॥ ३ ॥
म्लेच्छावनीदयितचारुचारुभो चक्रे व्ययागमदमुत्र यद्भवान् ।
पूर्णे ऽनसि प्रचुरवस्तुसंचयै र्भाराय किं भवति शूर्पसंचयः ॥ ४ ॥
उक्तिं निशम्य स इमां शकाधिपो राज्ञोदितां समुचितामदो वदत् ।
तुष्टस्तवोपरि हम्मीरभूपते याचस्व वांछितमतुच्छविक्रम ॥ ५ ॥
क्षत्रोत्तमोथ निजगाद यद्यद स्तर्हि प्रयच्छ समरं दिनद्वयीं ।
आयोधनादपरमत्र दोषमतां नो वांछितं किमपि वल्गु वल्गति ॥ ६ ॥
तद्वचः श्रवणतः शक्रोत्तमः क्षात्रव्रते स्तुतिमुखो मुहुर्मुहुः ।
प्रातस्तदेव भवितेति भाषुकः स्वावासमासददसादमानसः ॥ ७ ॥
प्रातर्भविष्यति कदेति सत्वरं निध्यायतामथ रणाय दोषमतां ।
भास्वान्प्रियार्थमिव पूर्वपर्वत—स्योत्संगसंगसुभगं वपुर्दधौ ॥ ८ ॥
लक्ष्मीभराभिरमणीयतागुणं धर्तुं तदा प्रबलतामुपागमन् ।
पाथोरुहाणि सलिलाशयोदरे सैन्योदरे च सुभटाननैंदवः ॥ ९ ॥
दोषोदयस्फुरितमूर्त्तिविद्विषत्—ध्वांतव्रजोर्ज्जिततिरश्चिकीर्षया ।
सूरप्रकाश उपमानमानभित् प्रादुर्बभूव गगने बलेपि च ॥ १० ॥

१२] प्रथमदिनयुद्धवर्णनम् १०५
न्युष्टोचितां--------बलिक्रियां युक्त्या वितत्य स ततः क्षितीश्वरः ।
संग्रामसंगमविनोदहेतवे सैन्यान् रयेण समनीनहत्तमां ॥ ११ ॥
अल्पेतरद्युतिविकल्पिताहवाः कल्पप्ररूढरुचिरांगरोचिषः ।
षट्त्रिंशदायुधभृतो धृतोदया वीरा विनिर्ययुरूर्जीयंविक्रमाः ॥ १२ ॥
शृंगारतः समरसंभवो रसो नूनं विशेषमधुरत्वमंचति ॥
हित्वा प्रियांगपरिरंभणादरं वीरा रणाय यदमी प्रतस्थिरे ॥ १३ ॥
संग्रामसंगमविनोदहेतवे स्फूर्तिं गतानि नितमां महीयसीं ।
अंगानि वीरनिकरस्य नो तदा मांतिस्म वर्मसु सुविस्तृतेष्वपि ॥ १४ ॥
कश्चिद्विलोक्य कबरीं भियोद्गमत् सारंगशावकदृशः प्रकंपिनीं ।
ध्यानाध्वगीकृतरणांगणोल्लसत् खङ्गश्चचाल करवालगुद्वहन् ॥ १५ ॥
अंगे लगंत इषवः किमंगना काक्षाः किमंग नितमां प्रियंकराः ।
एतत् विवेचनविधानकौतुकी कश्चिन्महीररणमहीमभूषयत् ॥ १६ ॥
पूर्वं त्वदेकहृदयामरालयं गच्छाम्यहं ज्वलनवर्त्मना ऽमुना ।
किंवा मदेकहृदयोसि वर्त्मना त्वं काप्यवोचदिति सस्मितं हितं ॥ १७ ॥
संभाव्य वैरिकरिणां रणांगणे कुंभान्मम स्तनधियातिकामुक ।
माभूरनंगरसंगकौतुकी—त्येकं जगाद सुमुखी हसोन्मुखी ॥ १८ ॥
प्रेयांस्तवास्मि यदि वल्लभा ततः स्वोत्खातदंतिरदजातकंकणेः ।
पाणी विभूषय ममाद्य कंचिदि—त्यूचे प्रियारचितसाचिलोचना ॥ १९ ॥
स्नेहातिरेकवशतः स्वंपाणिना माताधिमौलितिलकं यदाकरोत् ।
शौर्यात्तदेव कवचाधिकं विदन् कश्चिच्चचाल किल वीरशेखरः ॥ २० ॥
कृत्वा करे दलिकखड्गमुद्धतं तात प्रहंतुमरिवीरकुंजरान् ।
एष्यामि नन्वहमपीति भापुकं कश्चिच्चचाल तनयं हसन् मुहुः ॥ २१ ॥
पुत्राद्य संगरमवाप्य सत्वरं विस्तारये भुजपराक्रमं तथा ।
वीरप्रसूतिलकृतां यथाश्रये कंचिज्जगाद जननी प्रमोदिनी ॥ २२ ॥
मेदस्विवीररससंगसंभव—द्रोमोद्गमत्रुटितवर्म्मसंहतिः ।
मूर्त्तो भयानक रसः स्फुरन्निवा चालीत्परो रुणितदारुणेक्षणः ॥ २३ ॥
14 k

१०६ श्रीहम्मीरमहाकाव्ये [सर्गः
विद्वेषिवीरजनमानदारणो माभूत्प्रवृत्त ऋत एव मारणः ।
संभावयन्निति निशम्य काहलां प्रायात् परः समरजिग्वरखरः ॥ २४ ॥
गृध्रं भ्रमंतमुपरीत्यूवकपरो संवर्म्मयन्नयमिह प्रतीक्ष्यतां ।
मूर्ध्नीतरस्य यदि वात्मनस्तनौ श्रद्धां तनोमि फलिनीं तवाधुना ॥ २५ ॥
स्याज्जीवता युधि यशो मृतस्य तु स्फीतं च तच्च सुरवल्लभा अपि ।
इत्यस्य वीरनिकरस्य निर्यतो जज्ञे न दुःशकुनमध्वनि क्वचित् ॥ २६ ॥
कुंभान्निधाय शिरसि प्रपूरितान् एलालवंगरसभीतलैर्जलैः ।
प्रीत्यानुयातुमसुवल्लभान्निजान् सज्जीबभूव निखिलो भटीजनः ॥ २७ ॥
अल्लावदीनविभुरप्यथोद्भट—द्विट्प्रोन्मथिषुतयाऽकुलाशयः ।
संनह्य सैन्यमनुजादिभिर्वृतः स्थाने प्रतिश्रुतमशिश्रियन्मिथः ॥ २८ ॥
अन्योन्यवीक्षणवशोल्लसन्महा—कोपप्ररूढमहिमप्रसृवराः ।
वीरा रंवाः प्रतिरवैश्च—दिभि योगैर्द्विरुक्तिमिव धातवो ययुः ॥ २९ ॥
अभ्रंकषोलसितचारुचामरे कुक्षिभरिद्विरदबृंहिते दिशां ।
प्रस्पर्धयेव दधतुः परस्परां सैन्ये इमे श्रियमिहाधिकाधिकं ॥ ३० ॥
पुष्णंश्चरंविनमयेन संगरो—त्साहं हृदि प्रधनकारिणां नृणां ।
तूर्याणि पूरितहरिति निस्वनैः सैन्यद्वयेपि नितरामराणिषुः ॥ ३१ ॥
भंक्तुं विपक्षकरिकुंभघर्षणैः कंडूलतां स्वभुजदंडयोरथ ।
चेलुर्भटा अपि बलद्वयाद्रणो—त्साहत्रुटंचुटदशेषकंकटाः ॥ ३२ ॥
पत्तिः पदातिकमियाय सादिनं सादी रथस्थितमहो महारथी ।
मातंगयानगमनो निषादिनं द्वंद्वहवोऽजनि तदेतिदोषमतां ॥ ३३ ॥
ऊर्ध्वाभवंत उरुविक्रमैः शिर—स्त्राणानि वीरनिकरस्य मूर्धजाः ।
स्मोत्स्वासयंति घनकालसंभवा भूस्फोटका इव महीप्रदेशकान् ॥ ३४ ॥
अन्योन्यजातहठतो गतांतरं मुक्तैः पृषत्कनिवहै रणांगणे ।
पाणिग्रहाय विजयश्रियो भटा यत्नेन मंडपमिव व्यरीरचन् ॥ ३५ ॥
कोदंडचंडरुचिमंडलादतो दीप्राः क्षुरप्रकिरणाः प्रपातिनः ।
प्रत्यार्थिवीरतिमिराणि वेगतो—प्यानिन्यिरे युधि कथावशेषतां ॥ ३६ ॥