सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 149, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 149

११] हम्मीरभापगवर्णनम् १०१
स्वर्णं गजा दंतितुरंगमानां पदे प्रदेया यदि खड्गघाताः ।
भवत्प्रभू सूकरमांसमेव सद्यः स्वेदेतां यदि जातु यातः ॥ ६६ ॥
द्विषामपि स्याच्छरणागतानां रक्षासु मंदोपि निबद्धकक्षः ।
तद्युद्धलग्नो ननु याचमानौ न किं तदीशौ जडधीर्वतंसौ ॥ ६७ ॥
शतांशमप्येकविशोपकरस्य न प्राणमोक्षेपि ददे बलेन ।
यद्रोचते नाम भवत्प्रभुभ्यां तत्तूर्णमेवाचरतां यथेच्छं ॥ ६८ ॥
एवं विनिर्भर्त्स्य मुहुर्मुहुस्तं वशिष्टपाशं गलहस्तयित्वा ।
निष्कासयामास पुराद्भटानां त्रातुं च दुर्गं ददिवान् विभज्य ॥ ६९ ॥
उत्तंभितान्युद्धतघर्मघर्म—च्छिदेधिशालंपटमंडपानि ।
दिवानिशं संगरजागरूकभुजैर्विरेजुर्निभृतं भृतानि ॥ ७० ॥
वंगोपलिप्तस्फुटलोहबंध—दृढोलसत्कँकुलियष्टिदंभात् ।
शालोपि युद्धाय विवृद्धमन्युः संवर्मयामास भुजानिव स्वान् ॥ ७१ ॥
रालाविलं तैलमयःकटाहे तप्तं प्रकामोत्कलिकाछलेन ।
दग्धुं युयुत्सून्प्रतिपक्षपक्षान् अलक्षयतौत्सुक्यमिवादधानं ॥ ७२ ॥
चेतश्चमत्कारिकलोत्सृतानि संश्चक्रिरे भैरवयंत्रकानि ।
व्यामोहहेतोः स्फुटमिंद्रजाला—नीवागतानां शकपुंगवानां ॥ ७३ ॥
दूतः प्रभूतप्रतिघोध गत्वा निजप्रभुभ्यामखिलं तदुक्तं ।
न्यवेदयत्तावपि निर्विलंबं युद्धाय सैन्यं-गुणं व्यधत्तां ॥ ७४ ॥
ब्रह्वेव मध्ये पुरमाहवाय ससर्ज यान् यान् नृपतिः प्रयोगान् ।
तांस्तानमर्षात्कुशिकांगभूवत् सद्यः शकेंद्रोपि वहिस्ततान ॥ ७५ ॥
शक्रेषु वाद्येषु भृशाहतेषु दंडैः स्वना ये प्रकटीबभूवुः ।
प्रतिस्वनैः स्तांस्तिरयन् गिरींद्रो न स्वामिभक्तव्रतमुज्झतिस्म ॥ ७६ ॥
निषादिनो दंतिवरांस्तुरंगा नप्यश्ववारा रथिका रथांश्च ।
समंततो प्यारुरुहुः पदा (ति?) पूगा वितेनुः श्रममाहवाय ॥ ७७ ॥
महीभ्रमभ्रंकषमप्यमुं स्व-वीर्याग्रतः क्षुद्रमिवेक्षमाणाः ।
दुढौकिरे योद्धुमतिप्रवृद्धो—त्साहास्ततस्ते समरोत्कवाहाः ॥ ७८ ॥