हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 150, कुल 185 में से
संदर्भ में पढ़ें१०२ श्रीहम्मीरमहाकाव्ये [सर्गः
समं च्छुटद्भिर्भटपाणिपद्मा द्व्राणैस्तमिस्रं ककुभां बभूव ।
निर्घोषपूरैरपि कार्मुकाणां विश्वं समग्रं बधिरत्वमाप ॥ ७९ ॥
नीरन्ध्रमाकाशमनूज्झितेषु काण्डेषु क्लृप्ताम्बुदताण्डवेषु ।
आग्नेयबाणा भृशमुत्पतंत आकालिकीकेलिकिलीबभूवुः ॥ ८० ॥
आकर्षतां संदधतां रयेण विमुंचतां बाणगणान् भटानां ।
विलोकमनैरपि निर्निमेष मलक्षि नैवांतरमंबरस्थैः ॥ ८१ ॥
तपात्ययांभोदपटुच्छटावत् दुर्गादवर्षन् सुभटाः शरौघान् ।
कौक्षेयदाक्ष्येण मृणालनाल--वच्चिच्छिदुस्तान् यवना जवेन ॥ ८२ ॥
मिथोपि वीरव्रजपाणिमुक्त--पृषत्कवक्त्रास्फलनप्रभूताः ।
रेजुः पतंतोऽग्निकणाः प्रदग्धुं पलायितानामिव कीर्तिवल्लीं ॥ ८३ ॥
क्षत्रप्रकांडप्रविमुक्तकांड--पक्षोद्भवः कोपि स वायुरासीत् ।
यत्रोन्मदिष्णौ रिपुदर्पसर्पो--प्यासीत्क्षणं व्याकुलचित्तवृत्तिः ॥ ८४ ॥
आकर्णमाकृष्य भटैर्विमुक्तैरधोमुखैरूर्ध्वमुखैश्च बाणैः ।
उत्पातहेतोर्ववृषुः शकाना मघोमुखा ऊर्ध्वमुखाश्च मेघाः ॥ ८५ ॥
शिलीमुखौघैर्यवनप्रणुन्नै र्वप्रः समंताच्छुशुभे चितांगः ।
विगाहमानो रिपुदर्पसर्प--विनाशहेतोरिव जाहकत्वं ॥ ८६ ॥
भ्रमंभ्रमं वीरवरैर्निजांगो--परि प्रणुन्नाः प्रतिशत्रुवीरान् ।
कुंता विरेजु र्निशिताः पतंतः स्फुटाः कटाक्षा इव भानुसूनोः ॥ ८७ ॥
सद्यांत्रिकैर्भैरवयंत्रगोला मुक्ता मिथोऽप्यूर्ध्वमधः पतंतः ।
अपि द्वयानामरुचन् भटानां पीना उरोजा इव वीरलक्ष्म्याः ॥ ८८ ॥
दूरोन्नमड्डिंडुलिकाग्रहस्ताः शौर्यश्रियः क्षत्रकुलोद्भवस्य ।
समुत्पतद्गोलकदंबदंभात् पंचेष्टकैः पर्यश्नन्निवैताः ॥ ८९ ॥
प्रक्षिप्तरालावलितप्रतैल--संगज्वलत्कुंतलकैतवेन ।
क्षत्रेषु कोपाग्निरमानिवांतः शंके शकानां बहिरुल्ललास ॥ ९० ॥
प्राकारभित्तेः खनने प्रवृत्तान् शकप्रवीरान् कुशटंकहस्तान् ।
विभिद्य शूलैर्वटकानिवोच्चै रुचिक्षिपूः क्षत्रकुलावतंसाः ॥ ९१ ॥