हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 143, कुल 185 में से
संदर्भ में पढ़ें१० ] अल्लावदीनामर्षगवर्णनम् ९५
तावद्गर्जन्तु जायन्मदभरतरलाश्चंचला वीरमान्या
वीराः प्रत्यर्थिवीरावलिदलनकलाकेलिकंडूलहस्ताः ।
ज्यारवैर्विस्फुरद्भिर्जगदखिलमपि प्रापयेन्नेडभावं
यावन्नालावदीनः किरति शरभरं प्रावृषेण्यच्छटावत् ॥ ८४ ॥
पाताले प्रविशत्यसौ यदि तदा नूनं खनित्वा ददे
स्वर्गं चेत्समुपैति सैन्द्रमपि तं संपातयाम्यग्रतः ।
दृग्भ्यां चेद्ददृशे न संगरभरे महोद्दर्यीविक्रमः
कर्णाभ्यामपि शुश्रुवे किममुना तर्हि क्षितौ न क्वचित् ॥ ८५ ॥
रे रे हम्मीर वीरस्त्वमसि परमसो सांप्रतं वीरता ते
नूनं व्यक्तीभवित्री मम नयनपथे प्राप्तपार्थ्यव्रतस्य ।
भ्राम्यत्युच्चैर्वनांते मदमलिनकपोलस्थलो हंत दंती
तावद्यावन्मृगेंद्रः पतति न पुरतो जृंभया व्यात्तवक्त्रः ॥ ८६ ॥
आसारः कमलाकरे मृगगणे सिंहः कुठारस्तरी
भास्वान्संतमसे पविः क्षितिधरे दावानलः कानने ।
यत्कर्म प्रतनोति संगरभरं प्राप्तस्तदेवाधुना
कुर्वेहं भटसंकुलेपि निखिले श्रीचाहमाने कुले ॥ ८७ ॥
तत्कालं यवनावनीपतिरय प्रोल्लासिमानान् स्फुरन्
मानान्स्वेन शयाम्बुजेन लिखितान् विश्राण्य संप्रेषितैः ।
देशेभ्यो निखिलेभ्य एव निखिलान् दूतैः प्रभूतैरसौ
वीरानाह्वयतिस्म विस्मयकरप्रौदामदोर्विक्रमान् ॥ ८८ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमह
काव्ये वीरांके अल्लावदीनामर्षोनाम दशमः सर्गः समाप्तः ॥
अथैकादशः सर्गः
अंगस्तिलंगो मगधो मसूरः कलिंगवंगौ भटमेदपाटौ ।
पंचाल बंगाल धमीम भिल्ल नेपाल डाहल हिमाद्रिमध्याः ॥ १ ॥