सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

६६ श्रीहम्मीरमहाकाव्ये [ सर्गः
ततश्च संवन्नववह्निवह्नि—भूहायने माघवलक्षपक्षे ।
पौष्यां तिथौ हेलिदिने सपुष्ये दैवज्ञनिर्दिष्टबले ऽलिलग्ने ॥ ५६ ॥
पुरा पुरोधास्तदनु क्षितीन्दु भूपास्ततोन्ये सचिवास्ततश्च ।
ततो महेभ्यास्तदनु प्रजाश्च तस्याभिषेकं रचयांबभूवुः ॥ ५७ ॥ युग्मं ॥
छायाकरैस्तस्य सितांशुशुभ्रं यदातपत्रं विभरांबभूवे ।
छायाखिलस्यापि जगत्त्रयस्य बभूव तेनाऽद्भुतमेतदुच्चैः ॥ ५८ ॥
एवं पतिष्यत्यसकृत् पदेऽस्य क्षितिक्षितः ख्यातुमिवेति लोके ।
शिरोभितोप्यापतती नृपस्य तस्याञ्च वालव्यजने व्यभातां ॥ ५९ ॥
अपाठिषुुर्विद्विजनास्तदानी मराणिषुर्मंगलतूर्यकाणि ।
अनर्त्तिषुर्नर्त्तविदश्च गीत मगासिषुुर्गायकमंडलािन ॥ ६० ॥
पदेपदे वंदनमालिकानां माला निबद्धा बभुरुल्लसंत्यः ।
गृहावलीनां नयनायमान—द्वारामिव भ्रूलतिकाः सलीलाः ॥ ६१ ॥
नरेंद्रमार्गेष्वभितो विकीर्णा विस्मेरपुष्पप्रकरा विरेजुः ।
कांतं नवीनं प्रति भूमिदेव्या हासा इव स्फारतरप्रकाशाः ॥ ६२ ॥
हर्षप्रकर्षेण समंततोपि सद्यस्रक्वाल्हीकजलप्रसिक्ताः ।
नवे हृदीशे प्रकटीकृतात्म—रागा इवोद्रंगभुवो विरेजुः ॥ ६३ ॥
प्रत्यालयोत्तंसितशातकुंभ—मांजिष्ठकौसुंभिककेतुदंभात् ।
अधीश्वरं प्राप्य नवं हमीर—देवं विशंके पुरमप्यरज्यत् ॥ ६४ ॥
साम्राज्यलब्ध्या मुदितोप्यमुष्य भूभंगमाशंक्य शिरांस्यधुन्वन् ।
वृथा व्यषीदत्फणिराट् विवेद —————— ॥ ६५ ॥
हृत्वा श्रियं शात्रवकैरवाणां सुहृज्जनांभोजकुले दधानः ।
प्राप्तोदयो भूवलये स राजा ऽऽऽ न कस्याऽजनि विस्मयाय ॥ ६६ ॥
विश्राणने कर्णनृपस्य नीतौ रामस्य शौर्ये च धनंजयस्य ।
काले कलौ पंडितमंडलीनां किं जायतोदाहरणं समास्म ॥ ६७ ॥
धर्मो जगर्जैव दरिद्रमुद्रा काचिन्ननाशेव बभाविव श्रीः ।
समुल्ललासेव नयद्रुमोपि समं जनैरेव तदीयराज्ये ॥ ६८ ॥

४. अलाउद्दीन खिलजी की सेना का घेरा व भीषण युद्ध

८] हम्मीरदेवराज्याप्तिवर्णनम् ६७
कालानलो ना ऽजनि नाभिरामो रामो भवन्नो भरती रतोभूत् ।
आसीन्न चित्ते जनकोपि कोपि हम्मीरमालोकयतां जनानां ॥ ६९ ॥
अहानि तान्येव सुखावहानि हम्मीरदेवो ऽजनि येषु भूपः ।
लोकास्त एवात्तशुभावलोका वक्त्रांबुजं ये ददृशे ऽदसीयं ॥ ७० ॥
विकासिकाशाभिनवप्रवाल-जिद्दंतदंतच्छददीप्तिर्भाक् ।
दृग्दुलसद्भाङ्गररागसिंधो विस्तारयंस्तारतरानिवोर्मीन् ॥ ७१ ॥
रूजार्दनादित्यथ जैत्रसिंहः स्वस्यावसानं निकटं विजानन् ।
स्नेहेन हम्मीरनृपाय राज्य-शिक्षामिमां प्रारभत प्रदातुं ॥ ७२ ॥
स्त्रीणां श्रियां वा क्वच नापि मागा विश्वासमासां क्षणभंगुराणां ।
रक्ता विरक्ताश्च सतामपि स्युः पदे पदे ऽमूर्विपदे यदाशु ॥ ७३ ॥
साम्राज्यमासाद्य महत्तमेषु स्म विस्मरो मा विनयं नरेश ।
पुमान् वृद्धानुरिवाविनीतः कुलस्य सर्वस्य विनाशहेतुः ॥ ७४ ॥
अप्यार्यकार्याणि विचार्य कुर्वन् विवेकवानेष जगज्जनेष्टः ।
जगन्निवासा तदियं नृपत्व-लक्ष्मीः कथं तं विजहाति तात ॥ ७५ ॥
शक्तोपि देह्यप्रकटीकृतात्म-शक्तिः पराभूतिपदं सदैव ।
कारीषवह्निर्वद वत्स कस्य कस्याशु न स्यादतिलंघनीयः ॥ ७६ ॥
सदा सदाचारपरो नरेंद्रः सेव्यो मुनीनामपि निस्पृहाणां ।
कुशीलताभाप्रवरं खलोपभोगाय तैलीव भवत्यवश्यं ॥ ७७ ॥
धर्मार्थकामा इव सामदान-भेदाः क्रमेणैव पुरा प्रयोज्याः ।
सर्वात्मनैषामसति प्रचारे धार्या मतिर्मोक्ष इवाथ दंडे ॥ ७८ ॥
अनंतरो यो विषयेषु राजा संवर्धितः क्लेशकरः स्व एव ।
गृहांगणातंविषवृक्ष उत्त कालं कियंतं कुशलं गृहस्य ॥ ७९ ॥
राज्यस्य धर्माः किल पंच ये तान् पंचेंद्रियाणीह वदंति संतः ।
प्रलीयमानेषु तदेषु राज्य मपि प्रलीयेत वपुर्यथैव ॥ ८० ॥
शक्तिं समासाद्य सदोद्यतेन कार्या मति विक्रम एव पुंसा ।
तिर्यक्षु भूरिष्वपि पश्य सिंहः पराक्रमादेव न किं मृगेंद्रः ॥ ८१ ॥

नये धियं सम्यगनास्यिला युक्तः प्रयुक्तो न पराक्रमोपि ।
छलावलंबेन विनैव तावत् सिंहोपि हंतुं प्रविशेटिभं किं? ॥ ८२ ॥
बुद्धचैव सिद्धिर्यदि तन्नपुष्पै रपि प्रहर्त्तव्यविधिर्विधेयः ।
पश्य प्रसूनैरपि युध्यमानः स्मरो हरात्कां गतिमाससाद ॥ ८३ ॥
शौर्यं च बुद्धिर्मिथुनं तदस्मात् अदूषिताद्राज्यमुदेति नित्यं ।
न चैकतो विश्वमपि प्रपश्य संजायते द्वंद्वत एव सर्वं ॥ ८४ ॥
जिगीषुणाऽसौ बलशालिनापि यात्रा विधेया खलु जेय एव ।
ज्वालाजटालीकृतदिङ्मुखोपि नांबूनि दग्धुं क्रमते दवाग्निः ॥ ८५ ॥
रिपोरपि स्वाश्रयमागतस्य करोति सत्कारविधिं विधिज्ञः ।
तथाहि मीनांशमुपागतस्य् नोच्चं पदं किं भृगुनंदनस्य ॥ ८६ ॥
यथा न पीडा भवति प्रजानां ग्राह्य स्तथा धीधन तत्करोपि ।
किं नाम पुष्पाणि चिनोति पुष्प—लावी लतानां जनयन्त्रिबाधां ॥ ८७ ।
निवासिता येन स एव वेत्ति प्रायः प्रजानां सुखदुःखभावं ।
वंध्या विजानाति किमंग गर्भ—प्रपोषणं वा वहनक्लमं वा ॥ ८८ ॥
धनं प्रजानामयथाऽपराधं गृह्णन् विजानाति न तच्च ताः स्वाः ।
इदं नृपस्याऽशकुनं तथाहि राज्यस्य नाशेऽस्य न तच्च ताश्च ॥ ८९ ॥
सर्वस्वनाशोपि कुले विरोधोद्बोधं सुधीर्नो विदधीत कश्चित् ।
कुले विरोधो रचितो निनाय सुयोधनं किं निधनं न सद्यः ॥ ९० ॥
प्रजासु पीडा स्वकुले विरोधः पक्षद्वयं पेषणयंत्रमस्मिन् ।
चूर्णीकृतं धान्यमिव प्ररोढुं पुनर्न राज्यं समुपैति शक्तिं ॥ ९१ ॥
स्वमेव पुष्णन् प्रभुवंचनेन नार्हत्युपेक्षामनुजीविवर्गः ।
कर्षद्रसाया रसमात्मने किं नोन्मूल्यते क्षेत्रगतं तृणादि ॥ ९२ ॥
मातेव राजा हितकृत् प्रजानां मातुः सपत्नीव नियोगिवर्गः ।
तयार्पितानां च करे तदस्याः क्व वृद्धिरासां क्वच जीवितव्यं ॥ ९३ ॥
स्वतः कुलीनोप्यधिको विधेयो राज्ञानुजीवी न कदाचिदेव ।
यतो जडात्मा वटवत्प्रवृद्धः स राज्यसौधस्य विनाशहेतुः ॥ ९४ ॥

[Header]
हम्मीरदेवराज्यप्राप्तिवर्णनम् ६९

प्राज्ञः सपत्नैः परिभूयमानो—प्युद्दीपनं न त्यजति स्वदेशं ।
दिवाकरालुप्तकरोप्यनुद्यन् नभः शशांकः पुनरभ्युदेति ॥ ९५ ॥
चिरंतनान्मंत्रिवरान् विहाय साम्राज्यभारो निहितो नवेषु ।
क्षणेन मूलादपि नाशमेति यथाऽविपक्वेषु जलं घटेषु ॥ ९६ ॥
स्याद्राज्यमंत्रेषु किलैक एव श्रेयानमात्यो न पुनर्द्वितीयः ।
आरोहणं यानयुगस्य तज्ज्ञा न प्राणसंदेहकरं स्मरंति ॥ ९७ ॥
यो यत्र रक्तो यदि वा विरक्तो भवे विवेको नहि तस्य तत्र ।
अतो न तन्मंत्रविधौ विधेया शिक्षा तदीया सुविचक्षणेन ॥ ९८ ॥
मंत्रान्वहूनामपि धीसखानां श्रेयस्करात्रैव वदंति संतः ।
गर्भस्य मातुश्च कुतः शिवाय करा बहूनां बत सूतिकानां ॥ ९९ ॥
पूर्वं स्वहृद्येव विचार्य सम्यक् मंत्रं ततः सम्मतिमाददीत ।
संवादता चेत् तदिदं विधेयं नोचेत्तदूहै र्मतिराविरास्या ॥ १०० ॥
विराध्दपूर्वः पुरुषः प्रधानपदे कदाचिन्न पुनर्विधेयः ।
तादृग्छलं प्राप्य तथाविधा हि द्रुह्यंति नूनं धृतगुप्तवैराः ॥ १०१ ॥
पुमान्विराद्धो विजहाति नैव धीमन् युगांतेपि विरोधभावं ।
अद्यापि पश्चार्यमणं विधुं वा तुदन्निवर्तेत विधुंतुदो न ॥ १०२ ॥
महाबलेनापि कलिर्न कार्यः समं शकेनेन लसच्छलेन ।
तथा समर्थोपि बलिर्विजिग्ये छलप्रधानेन जनार्दनेन ॥ १०३ ॥
पुरः पुरो जाग्रदुदग्रकष्टं दुरोदरं दूरत एव हेयं ।
दुरोदरारंभवशेन कां कां विडंबनां पांडुसुता न जग्मुः ॥ १०४ ॥
बलाबलं सूत्रगतं विचार्य सविग्रहं यो विदधीत वृत्ति ।
स एव तत्तद्गुरुगौरवार्ह — शास्त्रज्ञधुर्यल मुपैति तात ॥ १०५ ॥
दत्वेति शिक्षां शुभवद्गराख्यां गेहेच देहेच निरीहचित्तः ।
जैत्रप्रभुः स्वात्महितं चिकीर्षन् श्रीभ्राश्रमं पत्तनमन्वचालीत् ॥ १०६ ॥
शिवापि जंबूपथसार्थवाही विराजते यत्र शिवः स्वयंभूः ।
यो ध्यातमात्रोप्युरुभक्तिभाजां दत्ते न किं भुक्तिमिवाशु मुक्तिं ॥ १०७ ॥

७० श्रीहम्मीरमहाकाव्ये [ सर्गः
मज्जच्छचीदृग्युगलाकुवेल—विश्वग्गलत्कज्जलमेचकांबु ।
चर्मण्वती यत्र सरिद्वहंती पुण्यश्रियो वेणिरिवाविभाति ॥ १०८ ॥
ज्वलिष्यदेतद्विरहाग्नितप्त मिवांब्रकाब्जस्रवदम्बुवर्षैः ।
पृष्टेऽथ हृत्सेसिंचतः समेत्य व्यजिज्ञपन्नेनममात्यमुख्याः ॥ १०९ ॥
साम्राज्यलक्ष्मीं विरहय्य पूर्वं मुमुक्षतोऽस्मानपि संप्रतीश ।
खद्योतवत् तद्विरहांधकारे भाग्यानि नो यांति पुरा प्रकाशं ॥ ११० ॥
भवत्दृगलोकनमुक्तयोगं प्रपत्स्यतेऽदो नगरं नरेश ।
रंगत्पतंगोज्वलंबिंबडिंब—विवर्जितस्य श्रियमंबरस्य ॥ १११ ॥
वृष्ट्या सुधाया इव सौम्यदृष्ट्या सिंचन्नथैतान्निजगाद भूपः ।
मा कार्ष्ट कष्टं विदुषामनिष्टं कृते मम स्वात्महितं चिकीर्षोः ॥ ११२ ॥
इदं पुरव्योममदंशुमालि—प्रतारोचिश्चयशून्यशोच्यं ।
हंमीरचंद्रेभ्युदिते प्रकाम—श्रीकं भविष्यत्यचिरेण नूनं ॥ ११३ ॥
मद्वंशपाथोरुहराहहंसस्तैस्तै र्गुणैर्विश्वकृतप्रशंसः ।
संसेव्यमानोहमिव प्रसाद—दानैः सदानंदयितैष युष्मान् ॥ ११४ ॥
इत्थं सहैतान् विसृजन् अवापत् पल्लीं पुरीं यावदसौ नरेशः ।
लूता विनिर्गत्य पपात तावत् स्वयं च भेजे लघु देवभूयं ॥ ११५ ॥
असासहीभिर्विरहं प्रियाभिरष्टाभिरिष्टाभिरथान्वितस्य ।
तत्रैव संस्कारविधिर्विधिज्ञैः श्रीजैत्रसिंहाधिपते र्वितेने ॥ ११६ ॥
अथाभिषिञ्चन्नवशोकभूपं नवावतारं हृदि बाष्पपूरैः ।
चकार मोहग्रिहिलीकृतात्मा हम्मीरदेवः परिदेवनानि ॥ ११७ ॥
तातेति तातेति वचः प्रघोष—शुष्यद्गलस्यापि ममाऽवनीश ।
यद्दर्शनं न प्रददासि तत्क्वा तवौचिती संगतिमंगतीयं ॥ ११८ ॥
विश्वत्रिलोकीतिलकायमानं व्यधात् विधेयस्तव पाणिरेनं ।
कथं स एवास्य विनाशहेतोः प्रागल्भ्यमभ्यस्यति हे हताश ॥ ११९ ॥
हुताशनाऽसज्जनकालकूटान् परंतपोर्जीनिति को व्यधत्त ।
श्रीजैत्रसिंहं नृपतिं प्रणिघ्नन्नजायतास्योत्तरमद्य वेधाः ॥ १२० ॥

हम्मीरदेवराज्याप्तिवर्णनम् ७१
धातर्विगर्हादभितोपि लोका—पवादतो यद्यपि नासि भीतः ।
तयापि पाणी कथमत्सहेतां नृरत्नमेनं तव हंत हंतुम् ॥ १२१ ॥
केनापि शंके पविशैलसाराण्यादाय चक्रे हृदयं विधातुः ।
क्रंदत्यपीत्थं मयि मुक्तकंठं नाद्यापि यत्तत्करुणा रुणद्धि ॥ १२२ ॥
कंठस्य हाहेति वचांसि दृष्टगो रक्तं कपोलस्य कराब्जक्रोडाः ।
चित्तस्य शोकः शरणं हम्मीर—देवस्य तत्राहान जायते स्म ॥ १२३ ॥
इत्थं महाशोकसमुद्रमग्नं उद्धर्तुमेनं जनताहिताय ।
अकर्णधारायतविप्रवीणैत्राजदित्यादिभिर्ब्रह्मविदां वरेण्यैः ॥ १२४ ॥
जगाम तातो निधनं ममेति वृथा कृथा मा क्षितिपाल खेदं ।
कस्याप्यवंध्या निधनस्य शस्य दृष्टाः श्रुता वा पितरो च विश्वे ॥ १२५ ॥
श्वासावधि स्यात्खलु जीवितव्यं श्वासः प्रसिद्धः स तु वायुरेव ।
वायोरिहान्यत्तरलं न किंचिद्यज्जीव्यते तन्महदेव चित्रम् ॥ १२६ ॥
क्रीडां करिष्यति कियच्चिरमेष हंसः
स्निग्धोल्लसत्कलरवोत्न शरीरवाप्यां ।
कालारघट्टघटिकावलिपीयमान
मायूर्जलं झगिति शोषमुपैति यस्मात् ॥ १२७ ॥
इयं मायारात्रिर्बहलतिमिरा मोहललितैः
कृताज्ञाना लोकास्तदिह निपुणं जाग्रत जनाः ।
अलक्ष्यः संहर्तु ननु तनुभृतां जीवितधना-
न्ययं कालश्चौरो भ्रमति भुवनांतः प्रतिदिनं ॥ १२८ ॥
लंकाभर्तुर्निधनरुचिना चापहस्तेन येन
क्षिप्तास्तास्ताः पितृपतिमुखे कोटयो राक्षसानां ।
सोपि स्फूर्जद्दिवसरजनीघोरवक्त्रेण राम-
स्ताम्यन्मूर्तिर्झगिति गिलितः कालनक्तंचरेण ॥ १२९ ॥
सूनोर्मन्मन्भाषितानि शिशुता हृदयस्य जीवादिशे-
त्युक्तौर्यौवनगस्य यस्तव पिता माधुर्यधुर्याण्यपात् ।

७२ श्रीहम्मीरमहाकाव्ये [सर्गः
क्व स्वर्गो वसुधासुधाकरसुधास्वादोऽधुना प्रीतये
तस्य ह्यद्यशसैव तृप्तिरमरीगीतेन पीतेन चेत् ॥ १३० ॥
इत्थं स्मार्तविनोदमोदिहृदयप्रज्ञालवक्त्रांबुज-
प्रादुर्भूतविशेषतत्वभणितिश्रेणीप्रबुद्धाशयः ।
शोकद्वेषिचमूरमूर्दलयितुं वीरं विवेकं सृजन्
वेश्मेव स्वमपालयत्क्षितितलं हम्मीरदेवस्ततः ॥ १३१ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा-
काव्ये वीरांक श्रीहम्मीरदेवराज्याप्तिवर्णनो नामाष्टमः सर्गः समाप्तः ॥
अथ नवमः सर्गः
अथास्य षड्गुणाँस्तिस्रः शक्तीर्भूपस्य बिभ्रतः ।
दिग्जयायानपायाय स्पृह्यालु मनो ऽभवत् ॥ १
ततो दैवज्ञविज्ञात--लग्ने लग्नेद्धरुग्ग्रहे ।
वंद्याभिर्गोत्रवृद्धाभिः कृतयात्रिकमंगलः ॥ २ ॥
पश्चाद्धृतोष्णरुग्बिंब ऊर्ध्वाकृष्टसमीरणः ।
नृपस्तुरंगमारुक्षत्पुरस्कृतसितद्युतिः ॥ ३ ॥ युग्मं
स्वतोधिकौजसं वीक्ष्य माम्लासीदेनमुष्णरुक् ।
इतीवास्योज्वलं शीर्षे छत्रं छायाकरैर्दधे ॥ ४ ॥
पास्यंत्यस्याखिलं सैन्या मद्धारीति विशंकिनी ।
तं वालव्यजनव्यांजा--दागाद्गंगेव सेवितुं ॥ ५
चंपाया इव चंपेश स्त्रिपुरस्त्रिपुरादिव ।
प्रकंपयन् धरां धीरो निर्ययौ नगराद्बहिः ॥ ६ ।
पराग इव पाथोजा त्पार्थपाणेः शरा इव ।
पुरतः स्फुरितोत्साहाः पृष्ठे सैन्या विनिर्ययुः ॥ ७
निर्मिमाणा मदांभोभि र्विश्वकर्दमिलामिलां ।
गर्जसंतर्जिताराति--शौंडीर्या निर्ययुर्गजाः ॥ ८

९ ] हम्मीरदेवदिग्विजयवर्णनम् ७३
प्रखरप्रस्फुरत्पक्षा आरूढपुरुषोत्तमाः ।
चेलुस्तार्क्ष्याः परोलक्षाः प्रत्यक्षास्तार्क्षका इव ॥ ९ ॥
उच्चैर्घर्जालीबिभ्राणैः प्रशस्तस्पंदनैस्तथा ।
यथा तदंतर्वििक्षिप्तै स्तिलैर्भजे न भूतलं ॥ १० ॥
वियत्कुक्षिंभरिस्फार—हुंकारमुखराननाः ।
पत्तयो वल्गु वल्गंतो नृपचित्तममूमूदन् ॥ ११ ॥
वात्याव्यतिकराक्रांत—पताकार्पितदृष्टयः ।
मिथो हहेति जल्पाका रेजिरे वैजयंतिकाः ॥ १२ ॥
पदप्रपातोद्भूतै रभितोपि रेजोव्रजैः ।
छायार्थमिव सैन्यस्य प्रतेने दिवि मंडपः ॥ १३ ॥
केचिद्गजानां केचिच्च पत्तीनां केपि वाजिनां ।
रथानां केच नावोचन् सैन्ये तस्य प्रभूततां ॥ १४ ॥
परःसहस्रैर्गंधर्वैः परो लक्षैश्च पत्तिभिः ।
क्रमात्क्रामन्धरां धीरो प्रापद्भीमसरं पुरं ॥ १५ ॥
तत्र श्रिताभ्यमित्रत्वं गर्जन्नर्जुनभूपतिं ।
कुट्टयित्वासिदण्डेन स्वनिदेशवशं व्यधात् ॥ १६ ॥
ततो मंडलकृत् दुर्गा त्करमादाय सत्वरं ।
ययौ धारां धरासारं वारांराशिर्महौजसां ॥ १७ ॥
परमारान्वयप्रौढो भोजो भोज इवापरः ।
तत्रांभोजमिवानेन राज्ञा म्लानिमनीयत ॥ १८ ॥
ततोति बलभारेण कासारितमहीतलः ।
व्यधादवंतीं दंतींद्र—मदाक्रांतकाननां ॥ १९ ॥
शिप्रां विप्रंजलिमुक्तैः सिक्तवप्रां पयःकणैः ।
दृष्ट्वा तस्यामभवन् सैन्याः सज्जा मज्जनहेतवे ॥ २० ॥
विमुक्तबंधनास्तत्र कृतमज्जनकौतुकाः ।
नासन् रेवानदीरोवा—हेवाकिहृदया गजाः ॥ २१ ॥
10 k

धुन्वंतः कंधराकेशान् वाजिनः स्नातनिर्गताः ।
आसारं तेनिरे तीरे तटिन्याः पटुक्रांतयः ॥ २२ ॥
उन्मज्जत्कुंभिकुंभा सा स्रवंती सैनिकाशयं ।
हरतिस्म चकोराक्षी यथा पीनोन्नमत्कुचा ॥ २३ ॥
नृपोपि निर्मितस्नानो हितदानैकतानधीः ॥
तत्रानर्च महाकालं--कालं दुष्कर्मवैरिणां ॥ २४ ॥
प्रविश्य मध्ये मेध्यश्री-विशालां तां निभालयन् ।
नैकशो विक्रमादित्यं सस्मार स्मेरविक्रमः ॥ २५ ॥
विनिर्वृत्तस्ततो विश्वां विशां स्वकरणात्तिनीं ।
सृजन् शौर्यवतां धुर्य श्चित्रकूट मकुट्टयत् ॥ २६ ॥
ततः स्फुटं नटन्मेद--पाटपाटनपाटवे ।
प्राप्यार्बुदाद्रिं सांद्रश्री स्तनावासान्न्यवेशयत् ॥ २७ ॥
प्रतीभबुद्ध्या बिंबान् स्वान् स्फाटिकीषु शिलास्विह ।
संपश्यतो ऽभवं स्तस्य सिंधुराः प्रधनोद्धुराः ॥ २८ ॥
हरिन्मणिगणस्यात्र प्रोल्लसंत्यो मरीचयः ।
नवदूर्वावणभ्रांतिं तद्धयानामजीजनन् ॥ २९ ॥
श्रमेण वर्मभिः सैन्यै रधिशाखं निवेशितैः ।
रेजिरे शैलराजस्य सुभटा इव शाखिनः ॥ ३० ॥
तत्र विश्रम्य विश्रम्य पादपानां तले तले ।
गीयमानानि भिल्लीभिः स्वयशांस्यशृणोन्नृपः ॥ ३१ ॥
घनधीध्याततन्भाग--प्रमोदिशिखिकूजितैः ।
जगाविवार्बुदो ऽमुष्य दिग्विजयप्रभवं यशः ॥ ३२ ॥
कुंभिकुंभमदांभोभि र्द्विगुणीकृतनिर्झरः ।
आरुह्य पृष्ठमस्याद्रे श्वारिमानमलोकत् ॥ ३३ ॥
वसतौ विमलात्मायं विमलस्याऽर्षभप्रभुं ।
ननाम नोत्तमानां हि चित्ते स्वपरकल्पना ॥ ३४ ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ७५
तत्र श्रीवस्तुपालस्य कीर्तनं कलिकर्त्तनं ।
दृष्ट्वासौ विस्मितो नैक-वेलं मौलिमकंपयत् ॥ ३५ ॥
प्रणम्य महतीभक्तिः सर्वदामर्त्तुदां ततः ।
आश्रमेऽरुंधतीजाने र्विशश्राम क्षणं नृपः ॥ ३६ ॥
मंदाकिन्यां विधायोच्चैः क्षपनं शमनं रुजां ।
अपूजयज्जगत्पूज्य मथासावचलेश्वरम् ॥ ३७ ॥
साक्षाद्धनंजयस्येह धारातर्षस्य धन्वितां ।
निरीक्ष्य नृपतिर्जज्ञे विस्मयोत्तानलोचनः ॥ ३८ ॥
प्रचलद्धलपाथोधि-मैनाकीकृतवैरिणः ।
अत्राभूत्सर्वदो गर्वः सर्वदोस्यार्बुदेश्वरः ॥ ३९ ॥
ततोवतीर्य वर्यश्री र्निधनं वर्धनं पुरं ।
चंगामपि गलद्रंगां चक्रे चक्रेरिविक्रमः ॥ ४० ॥
अजयोपपदं मेरुं मध्ये कृत्य स कृत्यवित् ।
पुष्करं तीर्थमाराद्य दुष्करं पुण्यमर्जयत् ॥ ४१ ॥
आनर्च भूपस्तत्रादि-वराहाख्याधरं हरिं ।
चित्रं दशावतारोपि न यो दाहात्मतां गत ॥ ४२ ॥
प्रयाणपटहध्वान-प्रतिध्वनितकंदरान् ।
पश्यन्स्वकीर्तिगानैक-तानानिव धराधरान् ॥ ४३ ॥
ततः शाकंभरीद्वारि वारस्त्रीवारलोचनेः ।
अभून्निपीतलावण्य-सर्वस्वो वसुधेश्वरः ॥ ४४ ॥
अदसीयरिपुस्त्रीण-गलल्लोचनवारिभिः ।
तदादिलवणस्येह मन्ये खानिरजायत ॥ ४५ ॥-
धस्तराष्ट्रं महाराष्ट्रं खंडिल्लं खंडितप्रभं ।
चंपां च विस्फुरत्कंपां भूपस्तदनु तेनिवान् ॥ ४६ ॥
ककरालं करालश्रि कृत्वाथास्यात्र तस्युप ।
श्रीमांस्त्रिभुवनाद्रींद्रो मिलद्दत्तमहोपदः ॥ ४७ ॥

७६ श्रीहम्मीरमहाकाव्ये [ सर्गः
चतसृष्वपि दिक्ष्वेवं स्वाज्ञां राज्ञां स मौलिषु ।
मौलिलीलायितां बिभ्रन् स्वपुरोपांतमासदत् ॥ ४८ ॥
अमान् पुरांतरे पौर—रागांभोधिर्नृपागमे ।
चेलद्रक्तध्वजव्याजात् दधावुद्वेलतामिव ॥ ४९ ॥
द्वारि निर्यज्जनप्रौढ—द्युतिदिव्यांशुकच्छलात् ।
पुरमप्यहसत्स्फीत—प्रीतीवोपेयुषि प्रभौ ॥ ५० ॥
उदंचितकरैर्विप्रै र्दत्ताः शृण्वन्नथाशिषः ।
वंदिवृंदजयारावै र्मुखरीकृतदिङ्मुखः ॥ ५१ ॥
धर्मसिंहादिभिर्मुख्यै रम्येश्च प्रणतक्रमः ।
पुरं प्राविशदुर्वींदु र्तुच्छोत्सवसच्छविः ॥ ५२ ॥
उत्तंमिताः प्रतिद्वारं पौरैरुत्सववांछया ।
कलशा रेजिरे सद्य—श्रीणामुरासिजा इव ॥ ५३ ॥
स्फूर्जत्तूर्यावलीध्वानै राहूता इव सर्वतः ।
त्यक्तान्यकार्या नार्योथ द्रष्टुमेनं दधाविरे ॥ ५४ ॥
क्षिप्त्वैकं कुंडलं कर्णे करेऽन्या बिभ्रती परं ।
रेजे पुरः स्फुरच्चक्रा सेनेवानंगभूपतेः ॥ ५५ ॥
एकेनैव कटाक्षेण विश्वं जेतुमहं सहा ।
आख्यांतीवेत्यशोभिष्ट परैकांजितलोचना ॥ ५६ ॥
असमाप्ततयाऽन्यस्या वेणिः पंचांगुलीधृता ।
पद्मकोशविनिर्गच्छत्—भृंगश्रेणिभ्रमं दधौ ॥ ५७ ॥
दंतक्षतार्द्रा कस्याश्चिद्विद्रुते वीटिका करे ।
भालेनास्याजिता कृष्णा कृशा लेखेव सीतगोः ॥ ५८ ॥
उपरुध्य करेणैव वेगान्नीवीमसंयता ।
प्रस्थिताभात् परासादी वल्गुवल्गात्करो यथा ॥ ५९ ॥
प्रसाधिकाकरात्पादं रभसाक्षिप्य काचन ।
चचालालक्तकांकानु—मितांघ्रिस्पृष्टभूतला ॥ ६० ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ७७
कुंभिकुंभेक्षणादात्म—स्तनापहतिशंकिनी ।
काचिदन्वेषयामास पाणिना स्वमुरो मुहुः ॥ ६१ ॥
सव्यांगभूषणं सव्ये—तरांगे विभ्रती परा ।
साम्यं मिथोऽनयोरेव स्माहेव जितविश्वयोः ॥ ६२ ॥
पश्यंत्युदंचितग्रीवं पादाग्राक्रांतभूः परा ।
विजेतुं कुंभिनः कुंभा निवाभादुन्नमत्कुचा ॥ ६३ ॥
धम्मिल्लबंधे कस्याश्चि दंगुल्यंतर्विनिर्गता ।
कलिका चंपकस्येव रेजे पत्रावलीवृता ॥ ६४ ॥
कराब्ज एव बिभ्राणा रेजेन्या कनकावलीं ।
यूनां नेत्रकुरंगाणां क्षेप्तुकामेव वागुरां ॥ ६५ ॥
सुप्रसाधितसव्यांघी रणद्भिर्नूपुरैः परा ।
अर्धनारीश्वरलोक—रागिणां रागमदधे ॥ ६६ ॥
शिरस्यपिहितेन्यस्या रक्षा वेणिमुखस्थिता ।
फणाभृतः फटाटोपे फणामणिरिवावभौ ॥ ६७ ॥
तानवं प्रापयन्मध्यं वक्षोजौ गौरवं नयत् ।
स्त्रीणामूर्ध्वस्थितं रेजे प्रभुशक्तिमिवाश्रितं ॥ ६८ ॥
दृग्द्वयेन पिबंत्योस्याऽसीमं लावण्यवारिधिं ।
जिग्युश्चुलुकयापीत—ससीमाऽब्धिं मुनिं स्त्रियः ॥ ६९
अवाप्तावसराः काश्चित्कटाक्षैर्विध्यधुर्नृपं ।
ता धानुष्क इवाऽमुष्य कामः कांडैर्व्यडंबयत् ॥ ७० ॥
पिबंत्यो नृपलावण्य—सुधां तृप्तिं न लेभिरे ।
तथापि शिरसः कंपं सद्यः काश्चन तेनिरे ॥ ७१ ॥
इत्थं पुरवरांगीभि र्मनोहृद्य दृगंचलैः ।
निपीयमानलावण्यः स स्वं प्रासादमासदत् ॥ ७२ ॥
अहितापकरस्फार—विक्रमाक्रांतभूतलः ।
अच्युतस्थितिरप्यासी न्न स कापि जनार्दनः ॥ ७३ ॥

७८ श्रीहम्मीरमहाकाव्ये, [ सर्गः
व्याख्या धर्मार्थकामाख्याः पुरुषार्थास्त्रयोप्यमी ।
यथायोगमवाप्तात्मा ऽवसरांस्तं सिषेविरे ॥ ७४ ॥
अहिंसाटोपमाविभ्रद्विलसत्सर्वमंगलः ।
महेश्वरोपि तद्राज्ये न विषादी जनोऽद्भुतं ॥ ७५ ॥
कोटियज्ञफलं राज्ञा पृष्टोन्वेद्युः पुरोहितः ।
विश्वरूपाख्ययाख्यातो व्याचख्याविति तं पटुः ॥ ७६ ॥
जित्वा भुजबलेनोर्वी कोटियज्ञं यथोदितं ।
निर्निमाणो नृपः प्रीति-पात्रं स्यात् त्रिदिवश्रियाम् ॥ ७७ ॥
इति स्मृतिसुधांभोधि-छटाछोटपटुच्छविं ।
निशम्य तद्विरं भूपस्तं क्रतुं कर्तुमैहत ॥ ७८ ॥
आहूताः पुरुहूतेन ततो भूमेः प्रमोदिना ।
मिमिलुर्वाडवास्तत्र दुष्कर्मोदधिवाडवाः ॥ ७९ ॥
अंतःस्फुरच्चतुर्वेद-सुधांभोधेरिवोर्मयः ।
रेजिरेऽङ्गेषु विप्राणां गोपीचंदनभंगयः ॥ ८० ॥
नित्यस्नानवशात् पिंगी-भूतकुंतलकैतवात् ।
बिभ्राणैः परमं तेजः शिरस्यंतरमादिव ॥ ८१ ॥
द्विभ्रमक्षितरुद्राक्षा-क्षमालाव्यपदेशतः ।
भृंगैरिवांबुजभ्रांत्या लीनैर्भूषितपाणिभिः ॥ ८२ ॥
अंहोराशिपरित्रासि-काशीवासप्रकाशिभिः ।
आययानं परानंदवर्षिभिश्च महर्षिभिः ॥ ८३ ॥ त्रिभिर्विशेषकं ॥
मारेर्निवारणं सप्त व्यसनानां च वर्ज्जनं ।
मोक्षणं गुप्तिगुप्तानां प्रावर्त्तत तदा पुरे ॥ ८४ ॥
तोरणभूलतोत्तुंग-कल्याणकलशस्तनी ।
शुशुभे वेदिका तत्र यज्ञश्रीरिव देहिनी ॥ ८५ ॥
धूमस्तोममिषादूप-किल्बिषं विक्षिपन्निव ।
ज्वालाजिव्होत्र जज्वल ज्वालाजटिलितांबरः ॥ ८६ ॥

९] हम्मीरदेवयागवर्णनम् ७९
द्विजादेशान्नृपो यज्ञ—दीक्षामीक्षाकटाक्षितः ।
स कृतोपनिषद्देवी वेदीपाश्र्वमशिश्रियत् ॥ ८७ ॥
मंत्राहूतत्रयस्त्रिंश—द्धनुजद्वेषिकोटयः ।
जुह्वति स्म बृहद्भानौ वाडवा द्रव्यमंडलं ॥ ८८ ॥
वेदमंत्रानुभावात्सा रुचिना शुचिना ऽमुना ।
पिपिरे सर्पिषां विप्रा—र्पिताः स्फीताः परंपराः ॥ ८९ ॥
तदर्यास्यसुधायागात् दाहभीचकिता इव ।
आपतंत्यपि हव्यानि तदा जगृहिरे सुराः । ९० ॥
गायत्सु मधुरं वेदी—ऋचो विप्रेषु हर्षतः ।
चलत्कीलावलीव्याजा ननर्तेव हुताशनः ॥ ९१ ॥
नृपपुण्यप्रभावेण निःप्रत्यूहं द्विजेश्वराः ।
ययुः क्रतुक्रियापारं भवपारं तपस्विवत् ॥ ९२ ॥
हाटकानां ततः कोटिं क्षोणी.. ..गसंपदं ।
भूदेवेभ्यो नृदेवोऽदा दक्षिणां चारुलक्षणां ॥ ९३ ॥
नृपविश्राणितस्वर्ण—कूटेपु नटतो द्विजान् ।
निरीक्ष्य निर्जरा मेरु—क्रोडक्रीडामदं जहुः ॥ ९४ ॥
इहैव स्वर्णदानेन तथाऽभूतूपदार्थिनः ।
तान्विहायोच्चकैर्दातु नृपास्यित यथार्थता ॥ ९५ ॥
रत्नराशिप्रदं केचि त्केचित्पुष्कलनिष्कदं ।
गजदं वाजिदं केचित् श्रीहम्मीरं तदाम्तुवन् ॥ ९६ ॥
विश्राणनं सृजन् चिंता—कल्पनाकामनातिगं ।
स चिंतामणिकल्पद्रु—कामकुंभेष्वधात् घृणां ॥ ९७ ॥
सितोपलामिलन्मुग्ध—दुग्धादिरसपेशलं ।
राज्ञा तदा मुदा तेने प्राज्यं भोज्यं द्विजन्मनां ॥ ९८ ॥
ततः पुरोहितेनाभि—युक्तो युक्तं पुरोहितं ।
आददे नृपतिः प्रीतो मासमेकं मुनिव्रतं ॥ ९९ ॥

८० श्रीहम्मीरमहाकाव्ये [ सर्गः
इतश्च शत्रुहृद्द्लचां दिल्लचां शकमतल्लिका ।
बभूवाल्लावदीनाख्यो व्याख्यातः शौर्यवतां धुरि ॥ १०० ॥
ज्ञातभूपस्वरूपेण तदा तेन स्वसोदरः ।
उल्लूखानाऽख्यया ख्यातो जगदे जगदेकजित् ॥ १०१ ॥
रणस्तंभपुराधीशो जैत्रसिंहोऽभवत्पुरा ।
प्रददौ स सदा दंडं मम चंडौजसो भयात् ॥ १०२ ॥
हम्मीरनामा तत्सूनु रधुनाऽखर्वगर्ववान् ।
दंडं दूरत एवास्तु न वाक्यमपि यच्छति ॥ १०३ ॥
स महौजस्तया शक्यो जेतुं नाभूदियच्चिरं ।
व्रतेस्थितिर्तयेदानीं लीलयैव विजीयते ॥ १०४ ॥
तद्गत्वास्यारणस्तंभ—तलं देशं विनाशय ।
हते देशे स संस्थातुं सासहिः कति वासरान् ॥ १०५ ॥
इत्यवाप्य प्रभोराज्ञा—मुल्लूखानोयमर्पणः ।
प्रतस्थेष्टायुतीमाना—श्ववारस्फारविक्रमः ॥ १०६ ॥
रंगत्तुरंगतुंगोर्मि गर्जद्द्विरदवारिदः ।
शाणोलेखितशस्त्रौर्वी रेजेऽस्य बलवारिधिः ॥ १०७ ॥
भुग्नयन् बलभारेण फटाटोपं स वासुकेः ।
प्रवेष्टुमक्षमोभ्यंत—र्वर्णनाशातटे स्थितः १०८ ॥
ज्वालयन्मुद्गसान् ग्रामान् आर्द्रवह्वांश्च चारयन् ।
आसन्नाष्टादशान् घस्रान् सुखेनैषोत्यवाहयत् ॥ १०९ ॥
त्रिशुद्ध्योच्चात्तव्रतत्वेन जोषं तस्थुषि भूपतौ ।
भीमसिंहोथ सेनानी—र्धर्मसिंहधियोद्धुरः ॥ ११० ॥-
उत्फालसमरोत्ताल—वीरवाराकुलं बलं ।
सहादाय महावीर्य श्चाचालारिबलं प्रति ॥ १११ ॥ युग्मं ॥
चाहमानबलेवाद्य—माननिस्नाननिस्वनन् ।
निशम्य व्याकुलीभावं शिबिरे दधिरे शकाः ॥ ११२ ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ८१
वारणेष्वक्षिपन् केपि प्रखरान् प्रखरा रणे ।
वाहनभ्युद्यतोत्साहा मंक्षु पर्याणयन् परे ॥ ११३ ॥
अबध्नंकेपि तूणीरा नगृह्लन् केपि मुद्गरान् ।
अकर्षन् केपि निस्रिंशा नन्वहन्के हि खेटकान् ॥ ११४ ॥
चंडदंडप्रपातेन केचित् वादान्यवीवदन् ।
योद्धृन् ज्ञापयितुं योद्धुं सन्निधीभवितुं रयात् ॥ ११५ ॥
धीरत्वं प्रापयन् सैन्या नथोल्लूखाननायकः ।
निर्ययौ स्वयमारुह्य सिंधुं सिंधुरोजसो ॥ ११६ ॥
वंशाग्रलंबितश्याम—सितचामरैकत्वान् ।
लग्नंगायमीलक्षं अंतरिक्षमजायत ॥ ११७ ॥
शक्राणां बाहुजानां च मिथोष्यथ निरीक्षणात् ।
अजागरीन्महावैरं दैत्यानां द्युसदामिव ॥ ११८ ॥
पदगः पदगं सादी सादिनं रथिनं रथी ।
निषादिनं निषादीचे—त्यवृण्वन् सैनिका मिथः ॥ ११९ ॥
माभूदुद्दरसच्छेदो ऽस्माकं तापनतापनात् ।
इतीव प्राक् भटास्तेनु र्गगने कांडमंडपं ॥ १२० ॥
अंगे लगंत प्रत्यर्थि—पत्रिणो वीरकुंजरान् ।
सुखयामासुरेणाक्षी—कटाक्षा इव कामिन ॥ १२१ ॥
वीरा. सर्वांगसंलग्ने रिपुक्षिप्तैः शिलीमुखैः ।
रेजु र्जयरामाश्लेष—सुखाद्रोमांचिता इव ॥ १२२ ॥
नीरंध्रप्रसृतैर्बाणैः कल्पिते मेघमंडले ।
युक्तमेवोदडीयंत हंसा हृत्सरसौजगिनां ॥ १२३ ॥
वैरिवक्त्रसरोजेषु भ्रामयित्वा शिलीमुखान् ।
अपाययन्मनोह्त्य तज्जीवितरसान्परे ॥ १२४ ॥
हर्षात्प्रनृत्यतां वीर—कोटीराणां रणांगणे ।
खङ्ङ्गाराः खड्गदंडानां कस्यासन्न मनोमुदे ॥ १२५ ॥
11 k

८२ श्रीहम्मीरमहाकाव्ये [ सर्गः
क्षणयायावरैः प्राणै श्चिरस्थास्नुयशोर्जनात् ।
भेजिरे भटकोटीरा दिव्यां व्यवहृतिक्रियाम् ॥ १२६ ॥
उत्प्लुत्योत्प्लुत्य धावंतः सादिशीर्षच्छिदेच्छया ।
जीवंतोपि यियासंत इव स्वर्गं बभुर्भटाः ॥ १२७ ॥
असृजारुणिता रेजु वीराणां तरवारयः ।
लोला इव पलादानां रणे कीलालपायिनां ॥ १२८ ॥
लग्नमात्रा अपि भटान् प्रापयंत्यो यमोदरं ।
यमदंष्ट्रानिर्ज नाम निन्यिरे चरितार्थतां ॥ १२९ ॥
खड्गळूनपतन्मुंड—दंतुरेपि रणांगणे ।
धावंतो नास्खलन्वीराः स्वशौर्यालंबिता इव ॥ १३० ॥
खत्कुचोन्नतिहत्कुंभा कुंभिनोद्य हता रणे ।
इयेके स्त्रीप्रतीत्यर्थं दंतिदंतानलांसिषुः ॥ १३१ ॥
समप्रदेशमापन्नान् यवना वीक्ष्य बाहुजान् ।
अधावंत पुरस्कृत्य वारणान्वीरवारणान् ॥ १३२ ॥
चाहमानैरुःपूरं पूरिता मर्मभिच्छरैः ।
तस्थुरूष्वंदमा एव द्विट्गजा स्तंभिता इव ॥ १३३ ॥
तदा भटप्रकांडानां युद्धं किमिव वर्ण्यते ।
यदयुध्यत शस्त्राण्य—प्यन्योन्यास्फालनच्छलात् ॥ १३४ ॥
बलोच्छलितधूलीभि र्महाध्वांते प्रसर्पति ।
स्वान्योपलक्षणं जज्ञे केवलं स्वस्वभाषया ॥ १३५ ॥
एवं स्फुरति कीनाश—कोटिहृत्तर्पणे रणे ।
धानापेषं स्म पिंषंति चाहमाना द्विषद्वलं ॥ १३६ ॥
शत्रुभीत्या कबंथांत—र्निंविष्टजनरक्षणात् ।
मृता अपि भटाश्चित्रं न शरण्यव्रतं जहुः ॥ १३७ ॥
दृढात्ततातपतच्छत्रैः पर्यस्तै र्भटपाणिभिः ।
युयुत्सुरिव भाति स्म तदा समरभूरपि ॥ १३८ ॥

हम्मीरदेवदिग्विजयवर्णनम् ८३
दंतिदंते पदं दत्त्वा प्रहरंतो निषादिनः ।
चेतांसि पातयामासुः सादिनां रथिनामपि ॥ १३९ ॥
निषादिनो न ते ते न सादिनो न च ते भटाः ।
उर पूरमपूर्यंत चाहमानशरैर्न ये ॥ १४० ॥
हयान्केचिद्गजान्केचित् शस्त्राण्येके रथान्परे ।
हायं हायं स्म नश्यंति काकनाशां शकायुधाः ॥ १४१ ॥
केचित्तृणं दधुर्दंतैर्निपेतुः केपि पादयोः ।
खङ्गैरिष्यवदन्केपि जीवं त्रातुं शक्नुवः ॥ १४२ ॥
इत्थं भंक्त्वा शतानीकं भीमसिंहो न्यवर्त्तत ।
अनुपतस्थे प्रच्छन्नमुलूखानो प्यमर्षणः ॥ १४३ ॥
बाहुजा लुंठितानेक—स्वर्णकोटीरकंकटाः ।
जितकाशितया भीमं पश्चात्त्यक्त्वाऽगमन्पुरः ॥ १४४ ॥
अद्रिघट्टान् विशन् भीम—सिंहोपि परया मुदा ।
आच्छिद्य स्वीकृतान्युधैः शकवाद्यान्यवीवदन् ॥ १४५ ॥
यत्र यत्र स्वकातोद्य—निर्घोषः प्रसरत्परं ।
तत्र तत्र जयं मत्वा गंतव्यं निखिलैरपि ॥ १४६ ॥
इति संकेतनाद्भ्रांता मन्वाना जयमात्मनः ।
तदाभाव्यर्थभावेन मिमिलुर्यवना जवात् ॥ १४७ ॥
मिलितं स्वबलं वीक्ष्य शको योद्धुमढौकत ।
वव्रे भीमसिंहोपि तादृशाः किमु कातराः ॥ १४८ ॥
तत्र कृत्वा महायुद्धं शकान् हत्वा परः शतान् ।
कांडखंडितसर्वांगो भीमसिंहो व्यपद्यत ॥ १४९ ॥
जितकाशी शकेंद्रोपि शिबिरं प्राप्य सत्वरं ।
बाहुजेभ्यः पुनर्बिभ्यत् वव्रे स्वपुरं प्रति ॥ १५० ॥
अथ पूर्णव्रतो धर्म—सिंह मल्याद्रिघट्टकान् ।
हित्वा गतं नृपो भीम—सिंहं मत्वा तमाह्वयत् ॥ १५१ ॥

८४ श्रीहम्मीरमहाकाव्ये { सर्गः
स्फुटिते चक्षुषी नूनं यन्नादर्शि शक्रो बली ।
स्वयं पश्चाद्गदस्थासी स्तन्न पुंस्त्वमपि त्वयि ॥ १५२ ॥
साक्रोशमित्युपालभ्या—भित्सर्त्स्य भूपतिर्मुहुः ।
मुष्कयुग्मच्छिदा पूर्वं तद्दृशौ निरचीकरत् ॥ १५३ ॥
षंडोविंदुरवत्तस्य राज्ञोऽभूदनुजो जयी ।
भोजदेवाभिधः खड्—ग्राहीत्यपरनामभाक् ॥ १५४ ॥
धर्मसिंहपदं तस्मै तुष्टोथ प्रददे नृपः ।
तं च निर्वासयन् देशादमुनैव न्यषिध्यत ॥ १५५ ॥
अथापमानात्सोभ्येत्य गुप्तवैरः स्वमंदिरं ।
अधीतीभरते धारां देवीं नृत्यमशिक्षयत् ॥ १५६ ॥
तां च प्रेष्यानिशं नृत्य—च्छलात्पार्थिवपर्षदि ।
वेश्मस्थोपि विदामास स सर्वं नृपतिस्थितिं ॥ १५७ ॥
चिंताचितांगी सान्येद्यु रागता नृपपर्षदः ।
पृष्टांऽधेन जगौ चिंता—कारणं हृद्दिदारणं ॥ १५८ ॥
ताताद्य वेधरोगेण मृताऽश्वश्रवणात् विभोः ।
प्रीत्यै न गीतनृत्यादि चिंता तेनेयमुल्बणा ॥ १५९ ॥
श्रुत्वेयसाविमामाह चिंता मास्म कृथा वृथा ।
तं प्राप्तावसरं किंतु पार्थिवं प्रार्थयेरिति ॥ १६० ॥
आसाद्यते विभो धर्म—सिंहश्चेत्स्वपदं पुनः ।
मृतेभ्यो द्विगुणानश्वा न्तदसावानयेत्पुनः ॥ १६१ ॥
ओमिति प्रतिपद्यैषा गता राज्ञे तदूचिषी ।
लोभात्सोप्यंधमाहूया—ध्यक्षार्षीत्स्वपदे पुनः ॥ १६२ ॥
विवेकदीपो दीप्येत तावद्धृदि सतामपि ।
तृष्णाझंझामरुद्याव न्न भजेदुन्मदिष्णुतां ॥ १६३ ॥
तृष्णावलिरियं कापि नैवेव प्रतिभासते ।
सद्विवेककुठारोगा न्न वरं यत्र कुंठतां ॥ १६४ ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ८५
बिंदवोपि स्फुरल्लोभ—मदेनांधंभाविष्णवः ।
सपत्नान्सोदरीयंति सपत्नीयंति सोदरान् ॥ १६५ ॥
प्रचिकीर्षन्नथामर्षा दंधो वैरप्रतिक्रियां ।
चक्रे तद्राज्यमुच्छेत्तुं स उपायान्दुराशयान् ॥ १६६ ॥
लोभदृष्टिं नृपं कृत्वा द्रविणादानवर्त्मना ।
स प्रजाः पीडयामास चंडदंडप्रपातनैः ॥ १६७ ॥
गृह्णन्नश्वधनेभ्योऽश्वान् धनवद्भ्यो धनानि च ।
क्रूरकर्मा स लोकानां क्षयकाल इवाभवत् ॥ १६८ ॥
द्रव्यैः संपूरयन्कोशं राज्ञोऽभूत् भृशवल्लभः ।
वेश्यानां च नृपाणां च द्रव्यदो हि सदा प्रियः ॥ १६९ ॥
प्रजादंडेने यत्तेने प्रतेने कोशवर्धनं ।
तत्किं स्त्रस्यैव मांसेन न स्वदेहोपबृंहणं ॥ १७० ॥
अथ स्वपदभोक्तृत्वात् बद्धवैराश्चिरं हृदि ।
स भुक्ताव्दव्ययादाय—शुद्धिं भोजमयाचत ॥ १७१ ॥
क्रुद्धौऽधस्फूर्तिमालोक्य भोजदेवोथ सत्वरं ।
गत्वा व्यजिज्ञपत् भूपं मौलिमौलीपितांजलिः ॥ १७२ ॥
देवस्य यदि मे प्राणैः कार्यं गृह्णातु तर्हि तान् ।
न सहे परमंधस्य वाक्यतोदकदर्थनां ॥ १७३ ॥
निजगाद नृपो यस्य मयि भक्तिरनश्वरी ।
न लुप्यतेऽत्र केनापि धर्मसिंहस्य शासनं ॥ १७४ ॥
स्वामीव स्वामिनां मान्यः सेवनीयो ऽनुजीविभिः ।
सुस्थिरस्थाणुसत्कारात् अनड्डान् किन्न पूज्यते ॥ १७५ ॥
भाषणेनामुना रौद्र—दृग्वक्त्रालोकनेन च ।
नृपं दुष्टाशयं ज्ञात्वा भोजदेवः स शुद्धधीः ॥ १७६ ॥
निरीहचित्तवत् तस्य सर्वस्वमपि दत्तवान् ।
मूलाद्विनष्टे कार्ये हि किं कुर्यात् बलवानपि ॥ १७७ ॥ युग्मं ॥