हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 148, कुल 185 में से
संदर्भ में पढ़ें१०० श्रीहम्मीरमहाकाव्ये [सर्गः
त्यक्तान्यकार्यैरथवीरवर्यै विलोक्यमानो वदतीति किं किं ।
प्रणम्य भूपं दरनम्रमौलिः प्रचक्रमे व्यक्तमिदं प्रवक्तुं ॥ ५३ ॥
"स्वतेजसैवारिगणं विजित्या—कुतोभयं संसृजतः स्वराज्यं ।
वृथैव वर्षासनमाददाना ललज्जिरे यस्य भटा निकामं ॥ ५४ ॥
दुर्गाणि दुर्ग्राह्यतराणि शाणो—लीढानि शस्त्राणि भटा रणोत्काः ।
अभ्रंलिहाग्रा गिरयो यदग्रे न वास्तवीं वृत्तिमयुः कदाचित् ॥ ५५ ॥
दुर्गाणि दुर्ग्राह्यतराणि यः श्री-देवाद्रिमुख्यान्यपि मंक्षु भंक्त्वा ।
अपींद्रमुद्यद्दरदंतुराक्षी-चकार कारायमितारिचक्रः ॥ ५६ ॥
दुर्गाणि दुर्ग्राह्यतराण्यरीणां भजन्ननेकान्यपि लीलयैव ।
आजन्मभग्नत्रिपुरैकदुर्गे दुर्गापतौ योत्र घृणां बिभर्ति ॥ ५७ ॥
यद्यन्मनस्थ्यप्यमुना नरेंद्र ! निधीयते तत्तदहो तदात्वं ।
संपादयन् सोपि विधिर्विशंके न शासनं यस्य विहंतुमीष्टे ॥ ५८ ॥
अल्लावदीनस्य नृपस्य तस्या—नुजौ किलोलूभिसुरत्तखानौ ।
देशं तवाक्रम्य तदाज्ञयैव त्वामाहतुः स्मेति मदाननेन ॥ ५९ ॥
हम्मीर ! राज्यं यदि भोक्तुमीहा तत्स्वर्णलक्षं चतुरो गजेंद्रान् ।
अथोरसानां विशतीं सुतां च दत्वा किरीटीकुरु नो निदेशं ॥ ६० ॥
इदं विमुक्तं यदि वा परंतु तथास्तदाज्ञाप्रविलोपिंनो ये ।
षाग्मुद्गलांस्तांश्चतुरोपि दत्वा क्रोडीकृतां क्रीडय राज्यलक्ष्मीं ॥ ६१ ॥
त्यक्त्वा यथैतं तव दुर्गरोधं देशान् पुरः साधयितुं व्रजामः ।
न चेद्विधाता प्रतिधोचितं स्व-राभ्यां तु तत्तेनुभवोऽभिधाता ॥ ६२ ॥
इत्येतदीयानि वचांसि भूपः श्रुत्वाथ भीमां भृकुटीं दधानः ।
नवोल्लसत्क्रुद्विषवलिसून—द्विरेफलीलाक्षरमित्युवाच ॥ ६३ ॥
वशिष्टयुक्त्या यदि नाभविष्य दाजग्मिवानत्र भवान् कथंचित् ।
तदा त्वयोगादि ययेदमर्वाक् जिव्हां ध्रुवं तां निरक्रासयिष्यं ॥ ६४ ॥
दंतौ द्विपस्येव मणिं भुजंग—स्येवेणशत्रोरिव केशरालीं ।
श्रीचाहमानस्य धनं बलेन न जीवतः कश्चन लातुमीष्टे ॥ ६५ ॥