सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

ऽसीदिति (with two avagrahas).

Line 11:
“यस्य दत्ता भवेत्कन्या वाचा सत्येन केन चित् ।
Wait, "केन चित्" - space between केन and चित्.

Line 12:
सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥” इति ॥ ७ ॥

Line 13:
अथाधानस्य कालान्तरमाह—

Line 14:
जायाया वा पाणिं जिघृक्षन् ॥ ८ ॥

Line 15:
यदि ब्रह्मचर्यसमापकान्त्यसमिदाधानकाले दैवादग्निग्रहणं न कृतम्भवेत्तदा
Wait, "कृतम्भवेत्तदा" or "कृतं भवेत्तदा"?
It is printed together: "कृतम्भवेत्तदा".

Line 16:
पूर्वपूर्वदिनवद्गुरोरग्नावेव तामन्त्यां समिधमादधीत ॥ पुनः कोऽग्निग्रहण-

Line 17:
कालः ? इत्याह जायायावेति । वा-अथवा । जायाया जायात्वेनाभि(३)संहि-
Wait, "जायायावेति" -> "जायाया वेति" or "जायायावेति"?
In line 17: "जायायावेति" (one word, without space).
Then: "वा-अथवा । जायाया जायात्वेनाभि(३)

१ कण्डिका ] गोभिलगृह्यसूत्रे- ७
अथाग्न्याधानविधिः
अनुगुप्ता अप आहृत्य प्रागुदक्प्रवणन्देशं समं वा परिसमुह्योपलिप्य
मध्यतः प्राचील्लेिखामुल्लिख्योदीचीञ्च संहतां पश्चात् मध्ये प्राची-
स्तिस्र उल्लिख्याऽभ्युक्षेत् ॥ ६ ॥
अनुगुप्ता आच्छादिताः “कुशैर्-”ति शेषः । “कुशैराच्छादिता अप आ-
नयन्ती-”ति गृह्यान्तरसंवादात् । प्रच्छादनञ्च पतितादिभिरुदकदर्शनं मा भू-
दित्येतदर्थम् । अदृष्टाश्च वा । अप उदकम् आहृत्य-अनिषिद्धजलाशयादानी(१)
य । प्रागुदक्प्रवणम्-प्राग्वा उदग्वा प्रागुद्गवा(२) प्रवणं क्रमनिम्नम् । “प्रवणं
क्रमनिम्नोर्व्याम्” इत्यमरः । देशं-भूमिभागं, समं-अपाङ्नीचादिरहितम् ।
वाशब्दो विकल्पार्थः । तद्व्यवस्थामाह-गृह्यासङ्ग्रहः
“प्राङ्नीचं ब्रह्मवर्चस्यमुदङ्नीचं यशोन्नतम् ।
पित्र्यन्दक्षिणतोनीचं प्रतिष्ठासम्भकं समम्” ॥ इति ।
प्रतिष्ठासम्भकम्-प्रतिष्ठाप्रापकम् ॥ परिसमुह्य-परि-सर्वतः । समुह्य-
कुशैः पांश्वादिकमपसार्य । तथाच भरद्वाजः-
“कुशैः संमार्जयेद्भूमिं शुद्धामादौ, शुचिस्ततः ।
हस्तमात्राञ्चतुरस्राङ्गोमयेनोपलेपयेत्” ॥ इति ।
यद्वा “परिसमुह्य वितस्तित्रये उत्तरत उत्करं करोती”ति गृह्यान्तरदर्शना-
दुत्तरस्यान्दिशिवितस्तित्रयोपरिदेशे प्रक्षिप्य । वितस्तिर्द्वादशाङ्गुलः । अत्र-मान
कर्त्तारमाह कर्म्मप्रदीपः-
“मानक्रियायामुक्तायामनुक्ते मानकत्तरि ।
मानकृद्यजमानः स्याद्विदुषामेष निर्णयः” ॥
इति । परिसमूहनकुशानाञ्च परित्यागोविधेयः । अन्यत्र तथादृष्ट-
त्वात् । यथा “सम्मार्जनान्यपास्यती”ति । परित्यागश्चैशान्यम् “द्वारमेव हि
द्रव्याणां प्रागुदीच्यान्दिशि स्मृतम्” इति वचनात् । प्रागुदीची-ऐशानी ॥
उपलिप्य-गोमयोद(३)केनेति वाक्यशेषः । “गोमयोदकेन समन्तं (स्तं) पर्यु-


(१) अत्र “ताभिः प्रक्षालितपाणिपादः” इति भट्टभाष्यन्त“दाचान्तोदकेने”ति
(१।१।२) सूत्रेण गतार्थम् ।
(२) अत्र“दिङ्नामान्यन्तराले” (पा०२।२।२६) इति बहुव्रीहिणा ऐशानीति तदर्थः ।
(३) गोमय मिश्रितोदकेनेति मध्यमपदलोपी समासः (पा०२।१।६० वा०) एतेन गो-
मयोदकाभ्यामिति वक्तव्ये “सर्वोद्वन्द्वोविभाषैकवद्भवतीत”ति परिभाषाम्रयणं मुरारिमिश्रा-
णामपार्थकम्वोध्यम् । तथा चोक्तम्भारद्वाजवचने “गोमयेने”ति सवारिणेत्येतदाक्षिपति ।
तथा च शौनकः “गोमयेन सवारिणा । उपलिप्य स्थण्डिलन्तु चतुरस्रन्तु सर्वतः” इति ।

' in Devanagari is just त्. Wait, त् has a stem? त् is half of त! In old fonts, final त् is often written as a full त with a halanta, or a special final form.
Wait, look at line 33 again:
"इत्युपसंहारदर्शनात् ।"
Wait, why did I think it was 'व'? Look at the character:
It's an avagraha? No, it's after 'दर्शना':
द - र्श - ना - त्
Wait, it has a virama underneath! Yes, it's definitely 'त्'!
Wait, why does it look a bit like a 'व' to a quick glance? Because the virama connects to the curve. But grammatically and visually, it's त् with virama: "दर्शनात् ।"

Let's check line 33-34:
"स्थूलत्वात्ता-"
"भ्यामङ्गुलित्रयस्थलव्यापनात् षडङ्गुलांस्त्यक्तेत्येव युज्यते । अत एव षडङ्गुलान्तरालाः"
Wait, "स्थूलत्वात्ताभ्यामङ्गुलित्रयस्थलव्यापनात्":
Line 33 ends with: "स्थूलत्वात्ता-"
Line 34 starts with: "भ्यामङ्गुलित्रयस्थलव्यापनात्"
Yes: ताभ्यां (by them) + अङ्गुलित्रयस्थलव्यापनात्.

Let

तायाः संलग्नां, पश्चात्-पश्चिमे-प्राग्गताया इत्यादिः । मध्ये-अनन्तरोक्तत्वादु-
द्गतायाः । संलग्नाः प्राचीः प्राग्गतास्तिस्रोलेखाः । तत्र मध्ये द्वे प्रादेशप्रमाणे ।
अन्त्या द्वादशाङ्गुला । सर्वाः षडङ्गुलान्तराला(१) दक्षिणात उपक्रमदर्शनादु-
त्तरोत्तरा उल्लिख्य । आसाञ्च तिसृणां लेखानामेका प्राजापत्या कृष्णवर्णा,
द्वितीया चैन्द्री नीलवर्णा, तृतीया सौमी शुक्लवर्णेत्यवगन्तव्यम् ।।
तदेतत्सर्वं छन्दोगपरिशिष्टवचनात्स्मृत्यन्तरसंवादाच्चावसीयते । तथाचा-
ङ्गिराः—
“प्राग्गता(२) पार्थिवी ज्ञेया चाग्नेयी चाप्युदग्गता ।
प्राजापत्या तथा चैन्द्री सौमी च प्राक्कृता(३) स्मृता ॥
पृथिवी पीतवर्णा स्यादाग्नेयी लोहिता भवेत् ।
प्राजापत्या भवेत्कृष्णा नीलामैन्द्रीं विनिर्दिशेत् ॥
श्वेतवर्णा च सौमी स्याद्रेखाणां वर्णलक्षणम् ॥”
इति । रेखाणां-लेखानाम् । “लेखा लिपिराजिकयोर्म्मता” इति मेदिन्यां
“लेखास्त राजयः” इत्यमरे च लादित्वस्यैव श्रवणात् । रलयोरैक्याद्रे-
खामुलिखेदिति पाठः । आसां वर्णांश्च यथोद्दिष्टा ध्येया एव न तु द्रव्या-
न्तरेण तद्वर्णकरणम् । “विनिर्दिशेद्”िति वचनस्वरसादिति शुभकर्मनिर्णये
मुरारिमिश्राः । अतएव ध्येयपीतवर्णा लेखा लिखितव्येति पद्धतिकृतः
( महामहत्तकवीरेश्वरादयः ) पठन्ति । एतच्च लेखोल्लेखनं यावदग्निस्थापनं
सव्यहस्तं भूमौ निधाय कर्त्तव्यम् इत्याहाङ्गिराः-
“सव्यं भूमौ प्रतिष्ठाप्य प्रोल्लिखेद्दक्षिणेन तु ।
तावन्नोत्थापयेत्पाणिं यावदग्निं निधापयेत्” ॥
( १ ) तथाचाङ्गिराः—“पार्थिवीं चैव सौमीञ्च लिखेद्द्वे द्वादशाङ्गुले । एकविंशति-
राग्नेयी प्रादेशिन्यावुभे स्मृते ॥ षडङ्गुलान्तराः कार्या आग्नेयी संहतास्तु याः । पार्थिव्या-
श्चैव रेखाया-स्तिस्रस्ता उत्तरोत्तराः” ॥ इति ॥ ननु-“शेषाः प्रादेशमात्रिकाः” इति
कात्यायनवचनेन सौम्या अपि प्रादेशप्रमाणकत्वबोधनाद्विरोध इति चेन्नैवम् । तस्य
न्यूनसंख्याव्यवच्छेदमात्रपरत्वात् । अन्यथा विरोधस्य परिहर्तुमशक्यत्वात् । अत एव
“द्वादशाङ्गुलप्रमाणा सोमदेवताका” इति निर्विचिकित्सितं स्वस्वपद्धतौ वीरेश्वरादयो-
लिखितवन्तः । यद्वा ऐच्छिको विकल्पः । फलभूमा व्यवस्थितैति दिक् । द्वादशाङ्गुलत्वा-
दिकन्तु यजमानाङ्गुलिबृहत्पर्वभिः कार्यम् । तथाच कात्यायनः—
“मानक्रियायामुक्तायाम्”इत्याद्युक्तवचनान्ते “अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदि-
श्यते । तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदा” ॥ इति ॥
[

? Look at केषाञ्चिद्वयाख्यानम्: केषाञ्चिद्व्याख्यानम्! Wait, in केषाञ्चिद्व्याख्यानम्: द्+व+या->द्वयाख्यानम्! And what about the first word: अवाहरणाभ्युक्षणान्तमितिorअबाहरणाम्युक्षणान्तमिति? Look at भ्यु: it has म्यwithु? No, भ्यु! Wait, it has a loop: भ्यु. Wait, look at अवाहरण: could it be उद्धरण? No, starts with अ`.

Footnote 4:
Line 27:
( ४ ) यत्र यत्राग्निप्रणयनं क्रियते तत्र तत्र भुवः संस्कारविधानाद्भूसंस्कारकम् ।
Let's check:
( ४ ) यत्र यत्राग्निप्रणयनं क्रियते तत्र तत्र भुवः संस्कारविधानाद्भूसंस्कारकम् ।
Yes!

Line 28:
अनुगतेऽग्नौ संस्कृताया अपि भूमेः पुनः संस्कारविधानादग्निसंस्कारकम् ॥
Let's check:
अनुगतेऽग्नौ संस्कृताया अपि भूमेः पुनः संस्कारविधानादग्निसंस्कारकम् ॥
Yes!

Footnote 5:
Line 29:

:
First letter: पो
Second letter: रि (it's र with ि matra)
Third letter: प्र
Fourth letter: मि
Fifth letter: ति
पोरिप्रमिति!
Combined with रे- at the end of line 11:
रे- / पोरिप्रमिति -> रेपो रिप्रमिति!
Brilliant! Nirukta 4.21: "रेपो रिप्रमिति पापनामनी भवतः"!
In line 11, the end is: निरुक्तम् “रे- (Wait, let's look at रे-: yes, it has an e-matra: रे-).
And line 12 starts with: पोरिप्रमिति पापनामनी भवतः” ( ४।२१ ) इति । अत्राङ्गिराः-

  • Line 13:
    “सर्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः । विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु”
  • Line 14:
    इति । इदञ्च ध्यानपरम् । स्वरूपाख्यानस्य प्रयोजनान्तराभावादिति द्रष्टव्यम् ॥ यथाहुः
    Wait, is there a space: यथाहुः or यथाहुः-? Just `

१२ अग्न्याधानविधिः। [ १ प्रपाठके
पादानमाह—गृह्यसङ्ग्रहः—
“कपालैर्भिन्नपात्रैर्वा न त्वास्मैलौमयेन वा ।
अग्निप्रणयनङ्कार्यं यजमानभयावहम् ॥
अल्पः प्रणीतोविच्छिन्नोऽसमिद्धश्चापरिश्रुतः ।
त्वरया पुनरानीतोयजमानभयावहः ॥
तस्माच्छुभेन पात्रेण अविच्छिन्नाङ्कुशं बहु ।
अग्निप्रणयनं कुर्याद्यजमानसुखावहम् ॥
शुभं पात्रन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद्बुधः ।
तस्याभावे शरावेण नवेनाभिमुखञ्च तम् ॥” इति ।
यत्तु—“शरावे भिन्नपात्रे वा कपाले वोन्मुखेऽपि वा ।
नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम्” ॥
इति स्मृत्यन्तरन्तदुदाहृतवचनविरोधात्कौथुमादिव्यतिरिक्तविषयम् ।
कांस्यादिपात्रसद्भावे शरावनिषेधकमिति राघवभट्टप्रभृतयः ॥ ११ ॥
एवं लक्षणादिकर्म्माभिधायाथान्यानपि आधानकालानुपदिशति—
त्रिभिः सूत्रैः
प्रेते वा गृहपतौ परमेष्ठिकरणम्॥ १२ ॥
वा-अथवा गृहपतौ गृहस्वामिनि पितरि । अत्र वा शब्दोवैकल्पिकत्वमस्य
( आधानकालस्य ) दर्शयति(१) । प्रेते-इति प्रपूर्वा “इण्गताविति (अ०
प०) धातोः “गत्यर्थाकर्मके”—( पा० ३।४।७२ )-त्यादिना कर्त्तरि क्तः । प्रक-
र्षेण इते गते अस्माल्लोकाल्लोकान्तरं , मृते इति तदर्थः । भ्रातृमतस्तु ज्येष्ठेन
सर्वानुमतेन पैतृकधनविभागकाले(२) परमेष्ठिकरणम् । परमे श्रेष्ठे स्थाने ति-
स्वीयमधिकारं प्रकर्षेण जानानः । देवेभ्योऽस्मत्प्रत्तं हव्यं हवनीयं ( हविः ) वहतु-
प्रापयतु । इति ॥
( १ ) वस्तुतस्त्वनास्थायाम् । अग्रिम-( १।१।२० )-सूत्रदर्शनेन कालद्वयस्यैव
मुख्यत्वेन सूत्रकृतोपसंहृतत्वावगमात् ॥
( २ ) एतच्च गौतममतम् । वस्तुतस्त्वेतज्ज्येष्ठक्रमन्नानुरुन्धे । पृथक् पृथक् धन-
स्वाम्यात् । यद्येकत्र तिष्ठेत्तदा तत्र—“ज्येष्ठः कुर्यात्तथाधानम्” इति कात्यायनस्वरसः ।
तथाच गौतमः । “भार्यादिरग्निर्दायादिर्वा” इति । “दायाद्यकाल एकेषाम्” इति च गृह्या-
न्तरम् । दायः पैतृकन्धनम् । परेते हि गृहस्वामिनि दायसम्बन्धः पुत्राणामिष्यते ।
“ऊर्ध्वम्पितुश्च मातुश्च समेत्य भ्रातरस्समम् । भजेरन्पैतृकमृक्थमनीशास्ते हि जीवतोः ॥
इति“पितर्युपरते पुत्रा विभजेयुर्धनं पितुः । अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थिते”इति
चैवमादि । तच्चैकादशेऽहनि स्यात्प्रागनधिकारात् । दोषश्चाऽयथाविनियोक्तृत्वादिः ।
तथाच याज्ञवल्क्यः “अयथा विनियोक्ता च न विभागे पिता प्रभुः”इति । कर्कोपाध्याया-
स्त्वाहुः व्यवस्थितोऽयं गौतमाद्युक्तोविकल्पः । अभ्रातृकस्य दारकालः । भ्रातृमतोदायाद्य-

१ कण्डिका ] गोभिलगृह्यसूत्रे- १३
ष्टतीति परमेष्ठी अग्निरुतस्य करणं यथोक्तेन विधिना स्वीकरणं समाधानं
"कर्त्तव्यमि"ति वाक्यशेषः । अन्येत्वाचक्षते—क्रियाविशेषणमेतत् । परमेष्ठि-
तयाग्नेः स्वीकरणं यथा स्यात्तथाऽग्निसमाधानं कुर्वीत ( १।२।१४) इति । त-
न्मते तु परमेष्ठीकरणमिति पाठः । एतच्चैकादशेऽहनि स्यात्प्रागनधिकान् । इति
भट्टभाष्यम् ॥ कात्यायनस्तु—
"एतद्गृहपतौ प्रेते कुर्यादेकादशेऽहनि ।
प्रागेवैकादशाच्छाद्धात्सद्योजागरणादिकम्" इत्यभिधाय—
"ज्येष्ठः कुर्यात्तथाधानं कनीयांश्च विवर्जयेत् ।
सैकादशेऽह्निकुर्वीत द्वादशे वा विचक्षणः" ॥
इत्याह । तदत्र वृद्धिश्राद्धन्न भवति--
"न तत्पूर्वयतः प्रोक्तः सपिण्डनविधिः क्वचित् ।
वृद्धिश्राद्धस्य लोपः स्यादुभयोरपि पक्षयोः" ॥
इति कर्म्मप्रदीपदर्शनात् ॥ १२ ॥
तथा तिथिनक्षत्रपर्वसमवाये ॥ १३ ॥
तथेति । अग्न्याधाने यथाऽन्त्यसमिदाधानादिः (१)कालोऽपेक्षितस्तद्वदित्य-
र्थः । तिथिनक्षत्रपर्वणान्त्रयाणामेवैषां शुभानां यथोक्तानां समवाये-संयोगे सति
अग्निसमाधानङ्कुर्वीते-( १।२।१४ )-ति परेणाभिसम्बन्धः । केचित्तु व्याचक्ष-
ते-तथेति वैकल्पिकत्वं दर्शयति । नक्षत्रशब्दश्चैकौन्नप्रवद्द्बूह्वण्यः(२) ति
काल इति । तेषामयमाशयः विभागमन्तरेण साधारणधनस्य परित्यागासम्भवादनधि-
कार एवाविभक्तानां धनसाध्येष्वाधानादिषु । अतो भ्रातृमतोविभागकाले एवाधि-
कारः । स एव कालोदायाथकाल इत्युच्यते । इति । गोभिलाचार्यैस्तु-"प्रेते वा गृह-
पतावि"-ति द्वितीयवाशब्देन त्रिविध एव कालोऽनुमन्यते । तत्राद्यौ मुख्यावन्त्योगौणः ।
न चाविभक्तधनस्य कथं परित्याग इतिवाच्यम् । स्वस्वत्वस्य तथाप्यविशेषात् । निर्-
दोषे पितरि स्थिते पुत्राणामस्वाम्यमिति स्मरन्मुनिः प्रेते पितरि स्वाम्यमेषामनुमन्यते ।
नारदोऽपि स्मरति-
"यद्येकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक् कर्म्मगुणोपेता न चेत्कार्येषु सम्मताः ॥
स्वभागाद्यदि दद्युस्ते विक्रीणीथुरथापि वा ।
कुर्युर्यथेष्टन्तत्सर्वमीशास्ते स्वधनस्य व ॥" इति ॥
( १ ) आदिना जायापरिग्रहेच्छा-पितृमरणे । यत्तु-
"आधानस्य तु चत्वार उक्ताः कालाः पृथक् पृथक् ।
अन्त्या समिद् १ विवाहंश्च २ विभागः ३ परमेष्ठिनः४ ॥"
इति गृह्यसंग्रहवचनम् । तत्र तृतीयः कालोगौतमीयानाम् ।
तदितरे राणायनीयकौथुमानाम् ॥
( २ ) तन्त्रान्वृत्तिन्यायेन सोऽन्नाथैवशादुज्ञेयः । तिथिनक्षत्रपर्व्वणामेकत्र समवाया-

१४ अग्न्याधानविधिः । [प्रपाठके १

थिश्च नक्षत्रं च तिथिनक्षत्रे । नक्षत्रञ्च पर्व च नक्षत्रपर्वणी । तयोस्तयोश्च
समवायः संयोगस्तस्मिन् । तिथिरत्र पर्वेतरा(१)पर्वेति पुनः करणात् । नक्षत्रं
(२)मघामृगशिरोहस्तादि । तयोः समवाये । पर्वाणि तु(३)—
“चतुर्द्दश्यष्टमीचैव अमावास्या च पूर्णिमा ।
पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च” ॥
इत्यन्यत्रोक्तानि । अत्र रविसङ्क्रान्तिरित्‍येकम्पदम् । “पञ्च पर्वाणी”ति
पृथक् स्मृतेः । ततश्च तिथिनक्षत्रयोः, नक्षत्रपर्वणोश्च समवाये इत्यर्थः । उपलक्ष-
ञ्चैदम्—
“वह्निग्रहं कुज-गुरु-ज्ञ-दिनेश-वारे माघादिषट्सु च मृदुध्रुववाह्रभेषु ।
कुम्भान्तभांशकविलग्नमशुद्धकालं लभ्नस्थशीतगुसितौ च विहाय कुर्यात्”
इत्यादे र्ज्योतिःशास्त्रोक्तकालविशेषस्य ॥ १३ ॥
तादृशः समयः शीघ्रं न घटेत चेत्तत्राह—
दर्शे वा पौर्णमासे वाऽग्निसमाधानङ्कुर्वीत ॥१४॥
वा-अथवा दर्शे-अमावास्यायाम् । पौर्णमासे-पूर्णिमायां वा अग्नि
समाधानम् । अग्नेः सम्यक्(४) ( यथाशास्त्रम् ) आधानम्-आभिमुख्येन स्था-


सम्भवात् । एवमर्थकरणं युज्यत एव । भट्टभाष्येतु-“नक्षत्रशब्दः काकाक्षिगोलक न्याया-
दुभयत्र संबध्यते” इत्युक्तम् । वाशब्दोल्लुप्तवद्द्रष्टव्य” इतिच ॥
( १ ) “पौर्वापर्ये सति पूर्वदौर्बल्यम्” इतिन्यायात् । एषन्यायः “विप्रतिषेधे परं
कार्यम्” ( १।४।२ ) इति पाणिनिस्मृतिमूलकः ॥
( २ ) अत्र नक्षत्रं माससंज्ञानिमित्तं चित्रादिकमितिचन्द्रकान्तभाष्यम् । वसन्तर्त्तो-
रेवाग्न्याधानकालत्वेन विप्रेषु प्रसिद्धेश्चित्रायाः स्वोपलक्षितमासस्य वर्षादिज्ञापकत्वात् ।
वस्तुतस्तु न चित्राया एवस्वोपलक्षितमासान्तस्य वर्षादिज्ञापकत्वम् । अतएवाग्रहायणिक
इतिसमाख्या कोशेषु वर्षादिमासस्योपपद्यते । मघाद्यानामेवाधानत्वंज्योतिषे । यथा-
चोपरिष्टाद् व्यक्तीभविष्यति ॥
( ३ ) अत्रपर्व पौर्णमासम् । तयोः समवाये वाऽग्निसमाधानं कुर्वीतेति चन्द्रकान्त-
भाष्यम् । यद्वाऽत्र (उत्तरवाक्ये) नक्षत्रपदं श्रुत्युक्तनक्षत्रपरं, तथाच “कृत्तिकासु रोहिण्यां
मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषां कस्मिंश्चित्” इतिश्रौताश्व-
लायनयोः “या वैशाखस्यामावास्या रोहिण्या सम्बध्यते तस्यामादधीत” इति श्रुत्यु-
क्तयोर्वा समवाये इत्यर्थः । तदिदमाधानकालद्वयं, यच्च तिथिनक्षत्रसमवायः । यश्च नक्षत्र-
पर्वसमवायः । इति ।। भट्टभाष्येतु तिथिया पौर्णमास्या यानि नक्षत्राणि समाख्या-
यन्ते तानि तिथिनक्षत्राणि मघादीनि द्वादश । तेषामन्यतमस्य पर्वेणा पौर्णमासेन सम-
वायः संयोगस्तिथिनक्षत्रपर्वसमवायस्तस्मिन् इत्युक्तम् । अस्मिंश्च नयेऽनेन सूत्रेणैक
एवाधानकालोऽभिहित इत्यवगन्तव्यम् ॥
( ४ ) अन्ये तु व्याचक्षते—समेत्य मिलित्वा आधानं समाधानम् । अन्यथाऽन्वा-
धानं कुर्वीतेत्युक्त्यापि प्रकृतार्थसिद्धिसम्भवात्समिति व्यर्थं स्यादिति । केनेति सहका-

१ कण्डिका ] गोभिलगृह्यसूत्रे- १५
पनं तदनु पोषणं (रक्षणं) (१) च कुर्वीत । इदञ्चाधानमग्रजे क्लीबत्वादिदोषरहिते
तदैव कार्यं, यदासौऽनुमन्यते नान्यथा । तथा चोक्तं शङ्खेन--
अग्रजः स्याद्यदाऽनग्निरधिकार्यनुजः कथम् ? ।
अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि” ।।
इति पितर्य्यनग्नावपि पुत्रस्याधानाधिकारोन विहन्यते तथाचोक्तं तेनैव(श०)
“पितुर्यस्य न चाधानं कथम्पुत्रस्तु कारयेत् ? ।
अग्निहोत्राधिकारोऽस्ति शङ्खस्य वचनं यथा” ।।
आधानपरिपाटी चाचार्य्येणानुक्ताऽपि-
“परिधायाऽहतं वासः प्रावृत्य च यथाविधि” इत्येवमादिकर्म्मप्रदीपवच-
नेभ्य एवावगन्तव्यन्त्रत्वध्वर्य्युभ्योगृहीतव्यम् । परोक्त(२)त्वात् । वा शब्दद्वयं
तुल्यवद्विकल्पार्थम् । इति भाष्यकृतः । वस्तुतस्तु । कालविलम्बस्य सोढुमयो-
ग्यत्वात् यदा तदा वा झटिति समाधान(३)मग्नेः कुर्वीतेति-अनास्थायामप-
रोवाशब्दः ॥ १४ ॥
र्य्याकाङ्क्षायामाह कर्मप्रदीपः--“नैकयाऽपि विना कार्य्यमाधानं भार्यया द्विजैः । अकृत-
न्तद्विजानीयात्सर्वा न त्वारभन्ति यत्” इति । अत्र विशेषमाह-कात्यायनः--
“वर्णज्यैष्ठ्येन बह्वीभिः सवर्णाभिश्च जन्मतः ।
कार्यमग्निच्युते नाभिः साध्वीभिर्मन्थनं पृथक् ।।
नात्र शूद्रां नियुञ्जीत न द्रोहद्वेषकारिणीम् ।
नाशासनस्थां नान्येन पुंसा च सह संगताम् ।।
ततः शक्तिवरा पश्चादासांमान्यतमैव या ।
उपेतानाञ्चान्यतमा मन्थेद्वाग्निं निकामतः ॥” इति ॥
( १ ) दधातेर्द्धारणपोषणोभयार्थत्वस्मरणात् । पोषणमत्र संरक्षणन्दधातेरर्थः ।
( २ ) परोक्तत्वेनाक्रियात्वात् । तथाचच्छन्दोगपरिशिष्टम्-
“अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्म्मकारिणाम् ।
अक्रिया च परोक्ता च तृतीया चायथाक्रिया ।।
स्वशाखाश्रयमुत्सृज्य परशाखाश्रयञ्च यः ।
कर्त्तुमिच्छति दुर्मेधा मोघन्तत्तस्य चेष्टितम् ।।” इति ॥
( ३ ) दश वा पौर्णमासे वा यस्मिन्कस्मिन्नप्येकस्मिन् तु नक्षत्रयोगाद्यपेक्षया
करणविलम्बी स्यात् । “न श्वः श्वरुपासीत कोहि मनुष्यस्य श्वोवेद” इति श्रुतेः । “श्वः
कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् । नहि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाकृतम्” इति
स्मृतेश्च । कालाऽतिक्रमेऽप्यग्न्याधानस्य प्रायश्चित्तमाहकात्यायनः “यावन्त्यब्दान्यती
तानि निरग्नेर्विप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धोम्यन्दद्याद्यथाविधि” ॥ इति । तथा
चातिक्रान्तसंव्वत्सरसंख्यया प्राजापत्यव्रतरूपं प्रायश्चित्तम्मुख्यविधिना चरित्वा तद-
शक्तौ प्रतिप्राजापत्यन्धेनुं तन्मूल्यं वा दत्त्वा द्वादशब्राह्मणभोजनमयुतगायत्रीजपं वा
गायत्र्या तिलाज्यसहस्रहोमं वा शक्त्यपेक्षयाऽन्यतमं विधाय होम्यं-सायम्प्रातर्होमद्रव्यं
प्रत्यहमाहुतिचतुष्टयपर्याप्तमतिक्रान्तदिवसान्गणयित्वा ब्राह्मणेभ्योदद्यात् । अत्र प्रशंसा

१६ अग्न्याधानविधिः । [ १ प्रपाठके-
अथ कुतोऽग्निरुपादेय इत्यग्नियोनयस्त्रिभिः सूत्रैरभिधीयन्ते—
वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहत्याऽभ्यादध्यात् ॥ १५ ॥
वैश्योद्विजेषु तृतीयोवर्णः शुद्ध एवाभिजनतस्तस्य कुलाद्गृहात् “कुलञ्ज-
नपदे गोत्रे सजातीयगणेष्वपि । भवनेऽपि तनौ क्लीबं कटकटार्यार्बधे कुली”
इति मेदिनी । वा-अथवा । अम्बरीषात्-भ्राष्ट्रात् । (यवादिभर्जनसाधनात्)
“अम्बरीषञ्च भ्राष्ट्रोना”इत्यमरः । अग्निमाहृत्यानीय अभि-आभिमुख्येनादध्या-
त्स्थापयेत् - वा शब्दौ(१) व्याख्यातौ । स खल्वयमग्निर्हुतोच्छिष्टः संस्कृतोवा
गृह्यते । अविशेषादिति कर्कोपाध्यायाः ॥ १५॥
अपिवा बहुयाजिन एवागाराद्ब्राह्मणस्य वा राजन्यस्य वा ॥१६॥
अपिवा-अथवा । इत्यम्बरीषात्पक्षान्तरमुपदिशति । बहुभिः (सोमैः)
येनेष्टं स बहुयायीत्युच्यते । तस्यैवेत्येवकारस्तदितरं व्यवच्छिनत्ति । (२)अगा-
रात्-गृहात् । “गृहङ्गेहोद्वसितं + + + भवनागारमन्दिरम्” इत्यमरः ।
अग्निमाहत्याभ्यादध्यादिति गतेनाभिसम्बध्यते । कस्य बहुयाधिन इत्यपेक्षाया-
माह ब्राह्मणस्य वेत्यादि । तदयमर्थः । बहुयाजिनोऽग्न्याहरणं विधेयम् । स च
त्रयाणामन्यतमोयः कश्चन भवेन्नाम । वाशब्दत्रयं तुल्यवद्विकल्पार्थम् । वैश्य-
कुलादिति सामान्यतोऽभिधाय तस्यैव बहुयाजित्वविशेषेण पुनरुपादानमपुन-
रुक्तिरेव । पूर्वत्रानुपादाने बहुयाजिन एव ततोऽग्निराधेयः स्यान्नाबहुयाजिनो-
पीत्यत उभयत्रोपादानम् ॥ १६ ॥
अपिवाऽन्यं (३) मथित्वाऽभ्यादध्यात् ॥ १७ ॥
अपिवा-अथवा मथित्वा । “अरणिद्वयमि”-ति शेषः । तल्लक्षणन्तु-
“अश्वत्थोत्थः समीगर्भः प्रशस्तोर्वीसमुद्भवः ।
तस्य या प्राङ्मुखी शाखा वोदीची वोर्ध्वगाऽपिवा ।
वाक्यं तत्र गृह्यकाण्डे—
“नावसथ्यात्परोधर्मोनावसथ्यात्परन्तपः ।
नावसथ्यात् परन्दानं नावसथ्यात्परन्धनम् ॥
नावसथ्यात्परं श्रेयोनावसथ्यात्परोयशः ।
नावसथ्यात्परा सिद्धिर्नावसथ्यात्परा गतिः ॥
नावसथ्यात्परं स्थानं नावसथ्यात्परं व्रतम् ।”
इत्यावश्यकत्वाच्चित्यम् । श्रुतिरपि— “यावज्जीवमग्निहोत्रञ्जुहुयादि”ति । तस्मा-
त्तदकरणे प्रत्यवाय इति तत्क्षयार्थम्प्रायश्चित्तमुचितम् ॥
( १ ) अनुपदे १४ सूत्रे ॥
( २ ) कथंनाम यद्योनिकः प्रथमाधानेऽग्निराहितोऽनुगतोऽपि पुनस्तस्या एव योने-
राहार्थ इति । तथाच शाखान्तरम् “पूर्व वाऽनुगतेऽग्नौ योनिः पुनराधेये”-ति ।
( ३ ) परिशिष्टप्रकाशे तु “अपिवाऽरणिम्” इति पाठः ॥

curve, but wait, 'र्द्धु' is on the next letter! Let's transcribe faithfully. It looks like नादूर्धुकः or नानर्द्धुकः. Wait, look closely: it's नादूर्धुकः - wait, the loop goes down, like 'दूर्धुकः'.

Line 29:
आरणेयः स्वनिष्ठद्धिसाधनहोमैः शक्नोति प्रणाल्या ऋद्धिं साधयितुमित्यदोषः । अतए-
Wait, "स्वनिष्ठद्धिसाधनहोमैः" or "स्वनिष्ठर्द्धिसाधनहोमैः"?
स्वनिष्ठ + ऋद्धि = स्वनिष्ठर्द्धि! Look at the text:
'स्व', 'नि', 'ष्ठ', 'र्द्धि'! Yes, "स्वनिष्ठर्द्धिसाधनहोमैः".

Line 30:
वाह कर्म्मप्रदीपः-“पुण्यमेवादधीताग्निं स हि सर्वैः प्रशस्यते । अनर्द्धुकत्वं यत्तस्य का-

Line 31:
म्यैस्तन्नीयते शमम्” इति ॥

Footnote (2):
Line 32:
( २ ) तदेतदनुपदमुक्तं गृह्यान्तरव्याख्यायाम् ।

Footnote (3):
Line 33:
`( ३ ) राजन्यात्तत्कुलादेवमग्रेऽपि व्याख्ये

१८ अग्न्याधानाविधिः । [ १ प्रपाठके-
स-यथोक्तः कर्त्ता। यदेव(१) यस्मिन्नेवाग्नौ-अन्त्यां समिधमादधाति।
यस्मिन्नेव वा जायायाः पाणिञ्जिघृक्षुञ्जुहोति। लाजादिकमित्यर्थवशादुन्नेयम्।
तमग्निमभिसयँच्छेत्-यत्नेनरक्षेत् ॥ २० ॥
स एवास्य गृह्योऽग्निर्भवति ॥ २१ ॥
स यथोक्त एव न पुनरन्य इत्यन्यस्मिन्नग्नावस्य होमस्य प्रतिषेधोगृह्याग्निसं-
पाद्यकर्म्मसु, अन्याहिते गृहेऽपीति विज्ञायते(२)। अस्य-आधातुः गृह्यः गृहाय
हितः। गृहकर्म्मोपयोगी (३)गृहनामा वा ऽग्निर्भवति। सोऽयमग्निरस्याधातुुरेव
गृह्योभवति। न पुनरन्यस्येति वा सूत्रार्थः। तदेतत्सर्वमाह कात्यायनः—
“नह्याहिताग्नेः स्वङ्कर्म्म लौकिकेऽग्नौ विधीयते” इति।
तथा—
“यस्याग्नावन्यहोमः स्यात्स वैश्वानरदैवतम्-
चरूं निरुप्य जुहुयात्प्रायश्चित्तन्तु तस्य तत्॥” इति।
“परेणाग्नौ हुते स्वार्थे परस्याग्नौ हुते स्वयम्”॥
इति चैवमादि। अस्य चापवादः पुरस्तादेवोक्तः(४) ॥ २१ ॥
अपिच—
तेनैवास्य प्रातराहुतिर्हुता भवतीति ॥ २२ ॥
तेनैव अन्त्यसमिदाधानेन लाजहोमेन वा अस्याग्नेराधातुः प्रातरा-
हुतिः हुता दत्ता भवति। तद्दिने अपरा प्रातराहुतिर्नापेक्ष्यते(५) इतिभावः।
अयमर्थः। दिवा रात्रौ वा विवाहे तद्दिनेऽपरदिने वा सायमेवाहुतिर्भवति
नापरेद्युः प्रातरिति। तथाचोक्तम्— “यदा अह्नि विवाहहोमस्तदा सायं काले-
होमारम्भः। यदा तु रात्रौ विवाहहोमस्तदोत्तरेद्युः सायङ्काल एव होमारम्भः”
इति। तथाच स्मृत्यन्तरम्—
“यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्य तु।
परिचर्य्या विवाहाग्नेर्विदधीत स्वयं द्विजः॥
(१) चन्द्रकान्तस्तु—एवकारादितिकर्त्तव्यतान्तरं व्यवच्छिनत्ति। तथाच तमेवा-
ग्निमाभिमुख्येन (पूर्णाहूत्या संस्कृतम्) सयँच्छेद्धारयेत् (रक्षेत्) नान्यामिति कर्त्त-
व्यतामपेक्षेतेति तदर्थः॥ आधानं प्रत्यविलम्बितत्वज्ञापनाय हि पुनर्वचनम्। इति। अत्र
यदितियस्मिन्नर्थेऽव्ययम्॥
(२) एवकारस्वरसात्।
(३) गृहपदमत्र गृहस्थपरं तदाश्रमस्थस्य सायम्प्रातराहुत्यादिसकलश्रौतस्मार्त्त-
कर्म्मोत्र गृहकर्म्माभिधीयते। न लौकिकाग्निसाध्यम्पाकादीति बोध्यम्॥
(४) ब्रह्मचार्यांत्यादिसूत्रे (१।१।७)॥
(५) तत्कार्य्यस्य तेनैव निष्पत्त्यभ्युपगमात्॥

१ कण्डिका ] गोभिलगृह्यसूत्र — १६
यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति ।
उत्पन्नस्योत्तरस्याह्नः सायं परिचरेदमुम्” ॥ इति ।
इति शब्द आधानप्रकरणसमाप्तिद्योतकः ॥ २२ ॥
( इत्यग्न्याधानप्रकरणम् )
उक्तमर्थमनुवद्-नित्यहोमकालारम्भ उच्यते—
सायमाहुत्युपक्रम एवात ऊर्ध्वं गृह्येऽग्नौ होमोविधीयते ॥ २३ ॥
अतः यथोक्ताग्निपरिग्रहात् । ऊर्ध्वम् अनन्तरम् । प्रातराहुत्युपक्रमः । प्रातरा-
हुत्या य उपक्रम्यत आरभ्यते स तथाविध एव होमो(१)गृह्येऽस्मिन् अग्नौ ।
विधीयते-उपदिश्यते(२) । आचार्येण । एवकारेणैतद्दर्शयति यत्केषाञ्चिच्छा-
खिनामग्निहोत्रं यथाप्रातराहुत्याऽऽरभ्यते सायमाहुत्या च सन्तिष्ठते(३) न तथा
कौथुमादीनामिति । तदत्र सायमाहुत्युपक्रमं प्रातराहुत्यन्तमेकङ्कर्मेति विज्ञा-
यते । यथाह कात्यायनः—
“सायमादिप्रातरन्तमेकङ्कर्म प्रचक्षते” इति ॥ २३ ॥
पुरा प्रादुष्करणवेलायाः सायम्प्रातरनुगुप्ता अप
आहरेत्परिचरणीयाः ॥ २४ ॥
प्रादुष्करणवेलायाः “पुरस्तादग्निमप्रादुष्कृत्ये”—( १-१-२२८ )-त्या-
दिसूत्राभ्यां वक्ष्यमाणायाः पुरा पूर्व सायं प्रातश्च(४) अनुगुप्ता अप आहरेत्
काः ? परिचरणीयाः परिचर्यन्ते निर्वर्त्यन्ते आचमनादीनि याभिरिति बाहुल-
कात् ( पा० ३।३।११३ ) करणेऽनीयर् ॥ २४ ॥
अपि वा सायम् ॥ २५ ॥
अपि वा-अथवा सायम् । पुनर्वचनात्सायमेव अप आहरेत्परिचरणीया
इति सम्बध्यते । सायमाहृताभिरेवाद्भिः सायम्प्रातश्च परिचरेदित्यर्थः ॥ २५ ॥
अपि वा कुम्भाद्वा मणिकाद्वा गृह्णीयात् ॥ २६ ॥
( १ ) देवतोद्देशेन समन्त्रं द्रव्यत्यागोहोमः । स च येनैव हविषा कृतेनाकृतेन वा
दध्ना पयसा वा सायं होमः कृतस्तेनैव प्रातर्होमोऽपि समापनीयोऽन्यत्र प्रतिनिधिः । प्रति-
निधिश्च कात्यायनेनोक्तः । “यथोक्तवत्सत्वसम्पत्तौ ग्राह्यन्तदनुकारियत् । यवानामित्र
गोधूमाः व्रीहीणामिव शालयः ॥” इति ॥
( २ ) अत्राऽपवर्गविहितमप्यभिरूपभोजनं प्रातराहुत्यनन्तरमेवेति बोध्यम् ॥ अनु-
पदं प्रदर्शयिष्यमाणकात्यायनवचनात् । उपदेशश्च तत्प्रकारस्यानन्तरसूत्रैः पञ्चभिः ॥
( ३ ) समाप्तिङ्गच्छति । “संस्थाऽऽधारे स्थितौ मृतौ” इत्यमरः ॥
( ४ ) आदिना राणायनीयपरिग्रहः ॥
( ५ ) विनाऽपि चं समुच्चयो द्योत्यते “गामश्वं पुरुषं पशुम्” इत्यत्र यथा ।

२० अग्न्याधानसमयविधिः । [ प्रपाठके १
अपिवा-अथवेत्याहरेदित्यपेक्षया विकल्पार्थः । अपिवा गृह्णीयादिति ।
कुम्भात् घटात् वा मणिरंव माणिकस्तस्मात् अलिञ्जरात् वा “अलिञ्जरः
स्यान्मणिक” इत्यमरः । महतोजलकुम्भाद्वा । वाशब्दद्वयन्तुल्यवदनयोर्विक-
ल्पार्थम् । गृह्णीयात्-प्रकृतत्वादपः परिचरणीयाः । “निर्णिक्तकरचरणमुखी-
पत्नी शिष्योवाऽऽचम्य कुम्भादेरप उद्धृत्याऽऽचमनन्दद्यात्ताभिः परिचरेदि”ति
भट्टभाष्यम् ॥ ६ ॥
पुरास्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिञ्जुहुयात् ॥ २७ ॥
पुरा-प्रथमम् । कस्मात् ? अस्तमयाद् अर्थात्सवितुः । कात्यायनोऽप्याह—
“सूर्येऽस्तशैलमप्राप्ते षट्त्रिंशद्भिरथाङ्गुलैः ।
प्रादुष्करणमग्नीनां पुरा भासाञ्च दर्शनात्” ॥ इति ।
तस्मिन्काले अग्निमाहितं प्रादुष्कृत्य प्रकटीकृत्य प्रज्वाल्य अस्तमिते स-
वितरि ।
“यावत्सम्यङ् न भाव्यन्ते नभस्यृक्षाणि सर्वतः ।
न च लौहित्यमापैति तावत्सायञ्च हूयते” ॥
इति कर्मप्रदीपपरिदर्शिते काले सायमाहुति-मग्निहोत्रलक्षणा ञ्जुहुयात् २७
पुरोदयात्प्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिञ्जुहुयात् ॥२८॥
इतिगोभिलीये गृह्यसूत्रे प्रथमप्रपाठकस्य प्रथमाकण्डिका ॥ १ ॥ १ ॥ ❀ ॥
पुरा-पूर्व्वमुदयात् सवितुः । तमिमं सामान्येनाभिहितं कालं विशिनष्टि प्रा-
तरिति “चतस्रोधटिकाः प्रातररुणोदय उच्यते” इति स्मृत्युक्तक्षणे इत्य-
र्थः । अत एव कात्यायनोऽपि “प्रातर्भासाञ्च दर्शनात्” इत्याह ।
एतस्मिन्नेव खलु काले प्राचीदिगरुणकिरणारुणीकृता भवति । तदैत-
स्मिन् काले प्रादुष्कृत्य प्रज्वाल्य प्रकृतत्वादग्निम् । उदिते उद्गते रवौ—
“हस्तादूर्ध्वं रविर्यावद्गिरि हित्वा न गच्छति ।
तावद्धोमविधिः पुण्यो नान्योऽभ्युदितहोमिनाम्” ॥
इति कर्म्मप्रदीपस्पष्टीकृते काले अनुदितेऽल्पो(१)दित इति चन्द्रकान्त(२)
( १ ) नञोल्पार्थत्वमनुदराकन्येत्यादौ दृष्टम् । यथाहुः “तत्सादृश्यमभावश्च तद-
न्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” इति ॥
( २ ) तस्यायमाशयः “रेषामात्रन्तु दृश्येत रश्मिभिश्च समन्वितम् । उदयन्तं विजा-
नीयात् होमङ्कुर्याद्विचक्षणः” इति गृह्यपरिशिष्ट-( गृ० सं० )-वचने उदयमित्यल्पोदयपरं
“अल्पत्वादसत्त्वमुपचर्य्यते” इति न्यायस्याल्पघनोऽधन एकपुत्रोऽपुत्र इत्यादौ दर्शनात् ।
तथाभूत उदयोऽनुदय एव । अत एवोदितहोमिनाङ्कालः कर्म्मप्रदीपेन “हस्तादूर्ध्वं रवि

कण्डिका ] गोभिलगृह्यसूत्रे- २२
भाष्यम्। रात्रेः षोडशमे भागे इति प्रामाणिकाः। तथाच गृह्यसङ्ग्रहे कात्यायनः।
“रात्रेः षोडशमे भागे ग्रहनक्षत्रभूषिते।
अनुदयं विजानीयाद्धोमस्तत्र प्रकल्पयेत्”॥
इति। तथाचानुदित इत्यस्योदयमप्राप्त इत्येवार्थः। प्रातराहुतिमग्निहोत्रल-
क्षणम् जुहुयात्। वाशब्दादुदितानुदितहोमयोर्वैकल्पिकत्वं दर्शयति।
तथाह मनुः-
“उदितेऽनुदिते चैव समयाध्युषिते तथा।
सर्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः॥”
इति। सम्पूर्णादित्यमण्डलरूपदर्शनोपलक्षितः काल उदितः। उदयात्पूर्व-
मरुणकिरणवान्प्रविरलतारकोऽनुदितः। सूर्यनक्षत्रवर्जितः कालः सम(१)या-
ध्युषितः। अनयोरनुदित एवान्तर्भावः। तत्र वाजसनेयिनां नियमेनानुदितहो-
मः। “सूर्योह वा अग्निहोत्रम्” इत्यारभ्य “तस्मादुदितहोमिनां विच्छिन्नमग्नि-
होत्रं मन्यामहे” इत्यन्तेन ( श० प० ) श्रुत्याम्नायेनोदितहोमनिन्दापूर्वकम्-
नुदितहोमस्य समर्थितत्वात्। छन्दोगानामुदितानुदितयोर्विकल्पः। आश्वलाय-
नानां पुनरुदितहोमनियमः। तथाच तैत्तिरीयब्राह्मणम्-
“प्रातः प्रातरनृतन्ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्।
दिवा कीर्त्यमदिवा कीर्त्तयन्तः सूर्योज्योतिर्नच ज्योतिस्तदैषाम्”॥
इति अनुदितनिन्दार्थवादपुरस्सरमुदितहोमस्यैव “उदिते होतव्यम्” इति
श्रुत्या बोधनात्॥
अत्र भट्टभाष्ये—“प्रादुष्करणोपदेशाच्च पृथगग्न्यगारन्दर्शयति पृथक् च
महानसम्। अग्न्यगारात्प्रभृति धूमं शातयन्निति च लिङ्गात्। अन्यथा सदैव
प्रादुष्कृतत्वात् प्रादुष्करणमेव न स्यात्। यत्रार्थयुक्त्या महानसादावग्न्यवयवाः
र्यावदि” त्यादिना स्पष्टीकृतः। व्याख्यातञ्च परिशिष्टप्रकाशकृता “अभ्युदित” इत्यभि-
शब्दस्य सर्वतोभावार्थकस्योपादानात्सम्पूर्णसूर्य्यमण्डलदर्शने उदितहोमो न त्वर्धोदिता-
दावित्यवगन्तव्यमिति। अत एव मन्वर्थमुक्तावल्यां हरिहरभाष्ये च सम्पूर्णसूर्य्यमण्डल-
रूपदर्शनोपलक्षितः कालएवोदितपदेनोक्तः। एवमुक्तलक्षणे रेखामात्रोदितरूपानुदिते
कुतश्चित्प्रतिबन्धाद्धोतुमशक्नुवतामनुदितहोमिनां लोप एव प्रातराहुतेरापद्येतातस्त-
त्राशक्तोऽभ्युदिते जुहुयादिति कर्मप्रदीपवचनार्थः। श्रुतिश्चास्यामेवाशक्तिदशायामुदित-
होमं निन्दति “श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोती”ति। “यथाऽति-
थये प्रद्रुतायान्नमाहरेयुस्तादृक् तद्यदुदये जुहोतीति” चैवमादिका॥ श्यावः श्वानविशेषः।
“श्वानौ द्वौ श्यावशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां पिण्डं प्रयच्छामि स्यातामेताव-
हिंसकौ॥ इत्यत्र तथाभिधानात्॥
( १ ) तथाच “ततः प्रभातसमये नष्टे नक्षत्रमण्डले। रविबिम्बं न दृश्येत समयाध्यु-
षितं स्मृतम्” इति॥ मन्वर्थमुक्तावल्यादावप्येवमेव॥

प्रणीयन्ते । तत्र तदर्थनिर्वृत्तौ पुनस्तत्रैवोल्मुकं नयेत् । यत्र तु वचनात्-यथा
'पुरस्ताच्छालाया उपलिप्य शालाग्नेरग्निं प्रणयन्ती'ति तत्र नेति(१) ॥ २८ ॥
इतिश्रीमद्रोमिलीयगृह्यसूत्रव्याख्यायां "मृदुला"ख्यायां मुकुन्दशर्म्मसङ्कलितायां
प्रथमप्रपाठकस्य प्रथमा कण्डिका ॥ १ ॥ १ ॥ * ॥
अथ द्वितीया कण्डिका ।
( अथोपवीतविधिः )
पूर्वं “यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम्” इत्यनेन यज्ञोपवीताचम-
नयोः कर्माङ्गतोक्ता । अथेदानीन्तदुभयमपि क्रमेण व्याचिख्यासुः शिष्यानुजि-
घृक्षया यज्ञोपवीतन्तावदाह—
यज्ञोपवीतकुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव ॥ १ ॥
कुरुत इति विधौ लेट् ( पा० ३।४।७ ) कुर्यात्-धारयेदित्यर्थः । कीदृशन्त-
दित्याह—सूत्रम्—सूत्रनिर्मितम् । तच्च नवभिस्तन्तुभिस्त्रिवृद्भवति ।
तथाच—
“त्रिवृ(२)दूर्ध्ववृतङ्कार्य्यन्तन्तुत्रयमधोवृतम् ।
त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते” ॥
इति कर्म्मप्रदीपोक्तलक्षणमित्यर्थः । अत्र मनुः—
“कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्”॥
इति चैवमादि स्मृत्यन्तरेभ्योऽवगन्तव्यम् । त्रिवृदिति नवगुणं सूत्रनवकम-
त्यर्थः । “नवैव त्रिवृदि”ति श्रुतेः । तथाच देवलः “यज्ञोपवीतङ्कुर्वन्ति सूत्रेण
नवतन्तुकम्” इति । मुख्यश्चायं पक्षः(३) । इह वाशब्दाभावात् । उत्तरत्र वा-
( १ ) अत्र पांशुतुषारादिनाऽन्तर्हिते रवौ कर्माह कात्यायनः—
"रजोनीहारधूमाभ्रवृक्षाग्रान्तरिते रवौ । सन्ध्यामुद्दिश्य जुहुयाद्व्रतमस्य न लुप्यते”
इति' सन्ध्यासमयमेव सायं प्रातश्च विधेयाम् । तामुद्दिश्य यथा यदा सा समुपास-
नीया तथा तदैव जुहुयादपि । उभयोरेक एव काल इत्यर्थः ॥
(२) “ऊर्ध्वन्तु त्रिवृतङ्कार्य्यमि”ति प्रचुरः पाठः । तत्रायमर्थः । वामावर्त्तवलितसूत्र-
त्रयं त्रिगुणं कृत्वा तदेव त्रिगुणं सकृद् दक्षिणावर्त्तवलितं कार्य्यन्तदेव त्रिवृतं त्रिसरं सदेक-
मुपवीतम् । तस्य चैको ग्रन्थिरेकमेव कौटिल्यं, भ्रमिस्तु प्रवरानुसारेणेति ॥
(३) अत्र संस्कारदीपे निगमे-“कार्पास-क्षौम-गोबाल-शण वल्क-तृणोद्भवम् । सदा
सम्भवतोधार्य्यमुपीतं द्विजातिभिः ।"इति । तृणमुलपादि । सम्भवत इत्यभिधानात्पूर्व्वपू-
र्वाभावे : परोत्तरविधिः । अत्र निगमपरिशिष्टम् "वाससा यज्ञोपवीतकुरुते तदभावे त्रिवृता
सूत्रेण । कुश-मुञ्ज बाल प्रतिसर-रज्जुभिर्वा" इति । बालो गोबालः । प्रतिसर उलपादिः ।

शब्दााम्नानात् । वस्त्रं वा । वाशब्दोऽभावविकल्पार्थः । अरण्यादावुपवीतनाशे
सूत्रलाभासम्भवात् । तद्यज्ञोपवीतङ्कुरुते । अन्यथा व्युपवीतस्य मेहनादावनर्थः
स्यात् । उद्भूतमूत्रपुरीषक्षुत्पिपासादिवेगस्य क्षणमपि स्थातुमशक्यत्वात् ।
“पिबतोमेहतश्चापि भुञ्जतोऽनुपवीतिनः ।
प्राणायामत्रिकं षट्कं नवकञ्च क्रमान्मतम्” ॥
इति स्मरणात् । अपिवा-अथवा ( चौरादिभिररण्यादौ वस्त्रस्याप्यपहारे )
कुशरज्जुमेव यज्ञोपवीतङ्कुरुते । एवकारो(१)ऽत्र सदोपवीतित्वनियमार्थोऽन्यथा
कर्माधिकार एवाम्नानात्कर्म्माङ्गमेव यज्ञोपवीतमिति मन्यमानः कर्म्मण्येवोप-
वीती स्यान्न सदैवति वदेत् । तच्च नो युज्यते तथाचोक्तम्मनुकात्यायनाभ्याम्-
“सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखो व्युपवीतश्च यत्करोति न तत्कृतम्” ॥ इति ।
अस्य लम्बत्वप्रमाणमाह मनुः —
“पृष्ठवंशे च नाभ्याञ्च धृतर्य्यद्भिन्दते कटितम् ।
तद्धार्यमुपवीतं स्यान्नातिलम्बं न चोच्छ्रितम्”
इति । इदञ्च वामस्कन्धे धृत्वा परिमेयम् । अत्र स्मृत्यर्थसारे-
“विच्छिन्नं वाप्यधोयातं भुक्त्वा निर्म्मिर्तमुत्सृजेत् ॥ ”
मनुः —
“मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्”
इति । मन्त्रवत्-समन्त्रकम् । मन्त्रश्चात्र उपनयनप्रकरणे प्रदर्शयिष्यते ॥१॥
तस्यैव खल्विदानीं यज्ञोपशीतस्य विन्यासविशेषःपरिभाष्यते विनियोग
विशेषविवक्षया-द्वाभ्याम—
दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽंशे प्रतिष्ठापयति ।
दक्षिणं कक्षमन्ववलम्बं भवत्येवं ज्ञयोपवीती भवति ॥२॥
दक्षिणं बाहुमुद्धृत्य उत्क्षिप्य शिरः मूर्द्धान-मवधाय वेष्टयित्वा सव्ये दक्षि-
णेतरे वामेऽंशे स्कन्धे इत्यर्थः । प्रति विशिष्टेन प्रकारेण स्थापयति । यज्ञोपवी-
तम् (तथासति) दक्षिणं कक्षं बाहुमूलकोटरप्रदेशम् अनुअधः अवलम्बं लम्ब-
मानं भवति यज्ञोपवीतमर्थात् । पुरुषस्तु एवमनेन प्रकारेण यज्ञोपवीती भवति ।


अत्र वस्त्राभावे सूत्रविधानं त्रितन्तुकमात्रपरमतो न प्रकृतसूत्रविरोधः । अत्र वाससा
यज्ञोपवीतार्थः स्त्रीशूद्राणाङ्कृते देवपितृकर्मणोरुपपद्यत इति द्रष्टव्यम् ॥
( १ ) अत्र संस्कारदीपे मैथिलमहामहोपाध्यायहर्षनाथशर्म्माणस्तु—“एवकारोऽयं
वस्त्रकुशरज्ज्वोर्यज्ञोपवीतानुकल्पयोस्त्रिसूत्रत्वादिव्यवच्छेदकः । सूत्रं - सूत्रविशेषः ।
इत्येवमाहुः ॥

२४ उपवीतविधिः । [ १ प्रपाठके-
सेयं परिभाषा कर्माार्था । “उपवीतं देवानामुपव्ययते” इत्यादिशास्त्रशेषभूता
च । विध्येकवाक्यतया खल्वर्थवादानां प्रामाण्यमनुमन्यन्ते तान्त्रिकाः “विधिना
चैकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः-”ति ( जै० सू० १।२।१ ) ॥ २ ॥
सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति ।
सव्यं कक्षमन्ववलम्बं भवत्येवं प्राचीनावीती भवति ॥३॥
सव्यं वामम् “वामं शरीरं सव्यं स्यादपसव्यन्तु दक्षिणम्” इत्यमरः ।
व्याख्यातमन्यत् । यज्ञोपवीतिना कृत्यमित्येतद्व्याचिख्यासुराचार्यः प्राचीनावी-
तित्वमप्यभिदधानोयज्ञोपवीतमस्यास्तीत्यमुमेवार्थन्तन्त्रावगमयति भाष्यकल्पा-
खल्वेषा काण्डिका यज्ञोपवीतिनेति सूत्रस्य ॥ ३ ॥
यदर्थं विन्यासविशेषः परिभाषितः स विनियोगविशेष इदानीमभिधीयते—
पितृयज्ञे त्वेवं प्राचीनावीती भवति ॥ ४ ॥
पितृभ्यः पितॄणां वा यज्ञः “यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृता-
र्थत्वात्” ( जै० सू० ४।२।२२ ) इत्युक्तलक्षणस्तस्मिन् पितृयज्ञे पितृकर्मणि ।
तु शब्दश्चशब्दार्थोऽन्यदपि सव्यजान्वञ्चनादि समुच्चिनोति । तदाह कात्यायनः–
“दक्षिणं पातयेज्जानु देवान्परिचरन् सदा ।
पातयेदितरज्जानु पितॄन्परिचरन्नपि ॥” इति ।
एवशब्दश्चान्यदैवतकर्ममध्यपातिन्यपि पित्र्ये कर्मणि प्राचीनावीतित्वं निय-
मयति । स्मरति च भगवान्मनुः—
प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।
पित्र्यमा निधनात्कार्यं विधिवद्दर्भपाणिना” ॥ इति ।
ऋज्वर्थमन्यत् ॥ ४ ॥
( इत्युपवीतविधिः )
( अथाचमनविधिः )
एवं यज्ञोपवीतिना कृत्यमित्यंशं व्याख्यायाचान्तोदकेन कृत्यमित्येतदिदानीं
व्याख्यायते—
उदगग्नेरुत्सृप्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेद्द्विः
परिमृजीत ॥ ५ ॥
अग्निसाध्यस्याग्निहोत्रस्य प्रकृतत्वादगृह्यकर्मणाञ्च प्रायेणाग्निसाध्यत्वादु-
दगग्नेरित्याह । उदगुत्तरतः । कस्य ? अग्नेः । उत्सृप्य-उत्क्रम्य गत्वेत्यर्थः ।
सृपिर्गत्यर्थः (भ्वा. प.) पाणी हस्तौ पादौ चरणौ च प्रक्षाल्य प्रकर्षेणाद्भिः शोध-
यित्वा । “क्षलशौचकर्मणि” ( चु. प. ) तदितिकर्त्तव्यतामाह देवलः !

कण्डिका १ ] गोभिलगृह्यसूत्रे- ३५
“प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः ।
उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः” इति ॥
क्रमश्च पादप्रक्षालने “सव्यं पादमवनेनिजे” इति सव्यं पादं प्रक्षालयेत् ।
“दक्षिणं पादमवनेनिज” इतिदक्षिणम्पादं प्रक्षालयेद्”-( ४-१०-१० ) ति
लिङ्गदर्शनादवगन्तव्यः ।
“सव्यं प्रक्षाल्य दक्षिणं प्रक्षालयती”ति गृह्यान्तरम् । उपविश्य ।
“अन्तर्जानु शुचौ देशे उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजोनित्यमुपस्पृशेत् ॥”
इतिस्मृत्यन्तरोक्तप्रकारेणेत्यर्थः । त्रिः त्रिवारम् । क्रियाभ्यावृत्तिगणने
“द्वित्रिचतुर्भ्यःसुच्” (पा०५।४।१८) इति सुच्प्रत्यय एवमग्रेऽपि । आचामेत् ।
“आचान्तोदकेन कृत्यम्” इत्यस्य परिदर्शकवतया अप इति वाक्यशेषः । “त्रिः
पिबेदम्बुवीक्षितम्” इति च स्मृत्यन्तरम् । अत्र त्रिराचामेदित्यभिधान आचा-
र्य्यस्त्रिरवभक्षणमाचमनमन्यदितिकर्त्तव्यतेति दर्शयति । मन्वर्थमुक्तावल्यामप्ये-
वम् । द्विः द्विवारम् परिमृजीत(१) “संवृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम्”
इतिदत्तस्मरणात्संवृतं मुखमङ्गुष्ठमूलेन प्रमृज्यादित्यर्थः ॥ ५ ॥
पादावभ्युक्ष्य शिरोऽभ्युक्षेत् ॥ ६ ॥
अद्भििरिति सामर्थ्यात् । ऋज्वन्यत् । विसमासकरणं पादाभ्युक्षणशेषेण शि-
रोऽभ्युक्षणनिषेधार्थमिति भट्टभाष्यम् ॥ ६ ॥
इन्द्रियाण्यद्भिः संस्पृशेत् ॥ ७ ॥
इन्द्रियाणि । इन्द्रियाणाममूर्त्तत्वात्तदायतनानि । अद्भिः करणभूताभिः
उदकार्द्रेण हस्तेन प्रतीन्द्रियमित्यर्थः । संस्पृशेत् । सम्यक् स्मृत्यन्तरोक्त(२)
प्रकारेण स्पृशेत् ॥ ७ ॥
कानि तानीन्द्रियाणीत्याह-
( १ ) “मृजूशौचालङ्कारयोः” ( चु०उ० ) इत्यस्याधृषीयत्वान्णिजभावपक्षे विधा
लिङि रूपम् । प्रमृज्यादिति तु “मृज शुद्धौ” (अ०प०) इत्यस्य । अत्र कात्यायनः “त्रिः
प्राश्यापोद्विरुन्मृज्य मुख, मेतान्युपस्पृशेत् । आस्यनाशाक्षिकर्णांश्चनाभिवक्षः शिरोंऽसकान्”
इति । एतच्चाचान्तोदकेनेति सूत्रांशं स्फुटीकरोति । वारत्रयमपः प्रकर्षेण भक्षयेत् । अक्षेण-
प्रकर्षश्च कर्म्मकरणकर्तृप्रकर्षात् । तत्रकर्म्मप्रकर्षोऽनुष्णत्वादफेनत्वाबुद्बुदत्वहृदयगामित्वा-
दिरूपः । कर्तृप्रकर्षश्च कृतपाणिपादशौचत्वासीनत्वप्राङ्मुखत्वादिरूपः । करणप्रकर्षश्चात्र
ब्राह्मतीर्थत्वादिः । एवमपोभक्षयित्वा मुखं वारद्वयमूर्ध्वं लोमस्थाने मार्जयेत् । नत्वलोमके ।
पुनराचमनेऽनवस्थाप्रसङ्गात् । तथाच परिशिष्टम् “आचान्तःपुनराचामेत् वासश्चपरिधायो-
ष्ठौ संस्पृश्य यन्नालोमकौ” इति ।
( २ ) तथाच मनुः “त्रिराचामेदपः पूर्वं द्विःप्रमृज्यात्ततोमुखम् । खानि चैव स्पृशेद-
द्भिरात्मानं शिर एव च ॥” इति । अस्यार्थः । प्राङ्मुख उदङ्मुख ईशान्याभिमुखोवाऽनु-
४ गो० गृ० सू०