सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

२ कण्डिका ] गोभिलगृह्यसूत्रे- १६७

विषया शक्तिः । "धीर्धारणावती मेधा" इत्यमरः । तज्जनयतीति मेधाजननं
सर्पिविशेषणम् । प्राशयेत् निःक्षिपेत् ॥ २० ॥
जातरूपेण वाऽऽदाय कुमारस्य मुखे जुहोति "मेधान्ते मित्रावरु-
( मं० ब्रा० १।५।९ )
णावि"-त्येतयर्चा "सदसस्पतिमद्भुतमि"-ति च ॥२१॥
( छं० ब्रा० २।२।३७ )
जातरूपं-सुवर्णम् । तथाच तत्पर्याये "चामीकरं जातरूपं महारजतका-
ञ्चने" इत्यमरः । वाशब्दः समुच्चये । क्रियाद्वयोपादानं मन्त्रयोः पृथग्विनियोग-
प्रदर्शनार्थम् । जुहोति-जुहुयात् । निःक्षिपे(१)दित्यर्थः । जुहोति पदोपादानमिह
कुमारमुखस्याग्नित्वेन ध्यानलाभार्थम् । अत एव गृह्यसंग्रहे "प्रगल्भोजातकर्म्म-
णो"-त्यग्निविशेषकथनमनर्थवत् । अत एवाग्निविशेषापदेशादत्र व्याहृतिहोमो-
ऽपि कार्य इति कस्य चिन्मतमपास्तम् । प्रमाणान्तराभावादस्य चान्यथासिद्धेः ।
शिष्टाचारोऽप्येवमेव । अत्र गणेश्वरमिश्रादयस्तु-छन्दोगानामन्यस्यान्नप्रा-
शनस्याविधानात्कुमारमुखे यवरसदानमेतदेवान्नप्राशनम् । अन्यथा संस्कार-
न्यूनता स्यात् । अतएव न पृथक्करणमिति(२) । ननु सूत्रकारेण पृथक्सूत्र-
णादत्रान्नप्राशनं संस्कार एव नास्तीति चेन्न सूत्रकारानुक्तत्वमात्रस्याप्रयोजकत्वा-
त् । अन्यथा-कन्यादानकर्णवेधाग्निहोत्राणामकरणप्रसङ्गात् ।
“यन्नाम्नातं स्वशाखायां पारक्यमविरोधि च ।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत् ॥”


( १ ) जुहोति पदोपादानात्स्वाहाकारान्तामन्त्रयोरवगम्यते । मन्त्रयोर्भेदेनोपदेशाद्भेदे-
नैव होमः । अतएव वीरपद्धतौ विनियोगोऽपि पृथगेव दर्शितः । किन्त्वत्र प्रथममन्त्रान्ते
स्वाहाकारोनास्तीति चित्रं प्रतिभाति ॥
( २ ) एषामयमाशयः । शास्त्रप्रामाण्यबलादेकेनापि कर्म्मणा संस्कारद्वयनिष्पत्ता-
वपि न किमप्यनुचितम् । ननु “षष्ठेऽन्नप्राशनं मासि” इति नियतकालत्वमन्नप्राशनस्य
स्मर्यते नामकरणेन व्यवहितत्वञ्चे ति चेच्छृणु - अस्मच्छाखे खल्विदानीमेवान्नप्राशनमुप-
दिश्यते इत्यन्येषामेव नियतकालत्वन्नामकरणेन व्यवहितत्वञ्च, नास्माकम् । नाप्यस्य नि-
यतकालत्वमप्यस्ति-यथा च यमः-“ततोऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि । अष्ट-
मेवाडथ कर्त्तव्यं यद्वेष्टम्मङ्गलङ्कुले” इति कालद्वयमुपदिश्य कालान्तरमप्युपदिशति । मनु-
रपि “षष्ठेऽन्नप्राशनं मासि यद्वेष्टम्मङ्गलं कुले" इति तथैवोपद्दिशति । तदेतदपरे न क्षमन्ते।
जातकर्म्मरूपत्वादेतस्य नान्नप्राशनत्वम् । न खल्वेकेन कर्म्मणा संस्कारद्वयनिष्पत्तिर्युक्ता।
नियतकालत्वादन्नप्राशनस्य नामकरणेन व्यवहितत्वाच्चेति प्राङ्नाभिवर्द्धनात्करणमस्य
न युक्ततरम् । स्वशाखायामनभिधातेऽपि च पारशाखिकोपादानमविरोधेऽनुमतं कात्याय-
नेन । तस्मात्प्रधानहोमदेवतामात्रमेवाध्वर्युभ्योऽग्रहीतव्यम् । पूर्वापरेतिकर्त्तव्यताकलापस्तु
स्वशाखोक्त एव स्यादिति न किञ्चिदेतत् ॥

:
It is मातुरस्पृश्यत्वं यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति बोध्यम् ॥ २३ ॥ or मातुरस्पृश्यत्वैर्य्यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति बोध्यम् ॥ २३ ॥?
Wait! Look at the word:
मातुरस्पृश्यत्वैर्य्यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति
Wait, look at the characters:
म 1
ा
त 2
ु
र 3
स 4
्
प
ृ
श 5
्
य
त 6
्
व
ै ? No, look above 'त्व': there is NO matra.
Wait, look above the letter after 'त्व':
There is a repha: 'र्य्य' or 'य्य'?
Wait, if there's no matra on 'त्व', how could it be 'त्वै'? It CANNOT be 'त्वै'!
So it is NOT 'त्वै'!
Could it be मातुरस्पृश्यत्वं यदभिहितन्तद...?
Wait, look at the space: between 'त्व' and 'द', there is ं य or र्य्य?
Wait, look at the letter: it has a loop on the left, a vertical stem on the right, and a repha on top. That is `

८ कण्डिका ] गोभिलगृह्यसूत्रे- १६६
अथाष्टमी कण्डिका-
( अथ निष्क्रमणम् )
जननाद्यस्तृतीयोज्यौत्स्नस्तस्य तृतीयायां प्रातःसशिरस्कं
कुमारमाप्लाव्यास्तमिते वीते लोहितिम्न्यञ्जलिकृतः पितोपतिष्ठते॥१॥
जननाज्जन्मन आरभ्य तृतीयोयोऽज्यौत्स्नः ज्योत्स्नायुक्तः पक्षः शुक्लपक्षस्त-
स्य तृतीयायां तिथौ सशिरस्कं शिरसा सह । अत्र सशिरस्कमित्यभिधानाद-
न्यदा बालानामशिरस्कं स्नानन्दर्शयति । तथाच ब्रह्मपुराणम्-
“शिरोराभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।
रजस्वलादिस्पर्शे तु स्नातव्यन्तु कुमारकैः ॥”
इति । एवञ्चेदं स्नानमदृष्टार्थम् । न तु शौचार्थमिति ध्येयम् ॥ कुमारं-
बालम् ॥ तथाच ब्रह्मपुराणम्-
“प्राक्चूड़ाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः ।
कुमारस्तावद्विज्ञेयोयावन्मौञ्जीनिबन्धनम् ॥”
इति । आप्लाव्य-स्नापयित्वा । रात्रौ कर्म्मणोविधानाद्रात्रावेव स्नानम्मा-
भूदित्येवमर्थं प्रातरित्युक्तम् । अस्तमिते अस्तङ्गते सवितरि सूर्ये । वीते-विगते।
लोहितिम्नि-लौहित्ये सन्ध्योपरम इत्यर्थः । अञ्जलिकृतः । कृताञ्जलिः । “आहि-
ताग्न्यादिषु” ( पा० २।२।३७ ) पाठात् कृतशब्दस्य परनिपातः । उपतिष्ठते-
आराधयति । अर्थाच्चन्द्रमसम् । “अभिमुखश्चन्द्रमसम्” इति लिङ्गात् । अत्र
“उपान्मन्त्रकरणे” (पा० १।३।२५) इत्यात्मनेपदम् । अत्र “उपाद्देवतापूजासङ्ग-
तिकरणमित्रकरणपथिष्विति वाच्यम्” इति वार्त्तिकादाराधने । अत्र दिशोऽनुप-
देशात् प्राङ्मुख उपस्थानङ्कुर्यात् । “यत्र दिङ्नियमोनास्ती”ति कात्यायनवचना-
दिति भाष्यकृतः । प्रत्यङ्मुख इति पद्धतिकृतः । युक्तञ्चेदं शुक्लपक्षतृतीयायां
चन्द्रमसः पश्चिमदिगवस्थितत्वेन तत्साम्मुख्येनैवोपस्थानस्य न्याय्यत्वात् ॥१॥
अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणत
उदञ्चं पित्रे प्रयच्छत्युदक्शिरसम् ॥ २ ॥
अथ-अनन्तरमेव । शुचिना-निर्णिंक्तेन । आच्छाद्य-आ ईषत्-मुखव-
र्जम् छादयित्वा दक्षिणतः पितुर्द्दक्षिणस्यान्दिशि भूत्वा । अत्र च “आद्या-
दिभ्यस्तसेरुपसंख्यानम्” ( पा० ५ । ४ । ४४ वा० ) इति सप्तम्यन्तात्तसिः ।
एवमग्रेऽपि । उदञ्चम्-उत्तानम् । उदक्शिरसञ्च कुमारं पित्रे प्रयच्छति-
ददाति ॥ २ ॥
स्वयञ्च-
अनुपृष्ठम्परिक्रम्योत्तरतोऽवतिष्ठते ॥ ३ ॥

२०० निष्क्रमणविधिः । [ २ प्रपाठके

अनुपृष्ठं-पत्युः पृष्ठदेशेन । परिक्रम्य-गत्वा । उत्तरतः पत्युत्तरस्यान्दिशि
अवतिष्ठते ऊर्ध्वा तिष्ठति । अत्र “समवप्रविभ्यःस्थः” (पा० १।३।२२) इत्या-
त्मनेपदम् ॥ ३ ॥
अथ जपति-“यत्ते सुसीम” इति । “यथायन्न प्रमीयेते
पुत्रोजनित्र्याअधी”-ति ॥ ४ ॥
( मं० ब्रा० १।५।१०-१२ )
अथे-त्यानन्तर्यार्थम् । परिक्रम्योत्तरतः स्थितायान्तस्याम् । अनन्तरं
पिता जपति-न तु परिक्रममाणायामेव । जप्यमाह-यत्त इति-एवमादि । यथायं
अधीयेतेदन्तम् ।
तदिदन्त्यृचस्या(१)द्यन्तज्ञापनार्थमिति पदद्वयमुक्तमिति बोध्यम् ।
ऋचो यथा—
“यत्ते सुसीमे हृदय ँहितमन्तःप्रजापतौ ।
वेदाहम्मन्ये तद्ब्रह्म माहं पौत्रमघं नि गाम् ॥ १० ॥
यत्पृथिव्यामन्नममृतं दिवि चन्द्रमसि श्रितम् ।
वेदामृतस्याहन्नाम माहं पौत्रमघ ँरिषम् ॥ ११ ॥
इन्द्राग्नी शर्म्ययच्छतं प्रजायै मे प्रजापतिः ।
यथायं न प्रमीयेत पुत्रोजनित्र्या अधि” ॥ १२ ॥ इति ।
आसामर्थः—हे चन्द्र ! “यत्” ‘ते’ तव ‘अन्तः’ मध्ये ‘सुसीमे’ सुषीमे
सुशीमे वा(२) । अतिशीतले ‘प्रजापतौ’ प्रजानामानन्दजनकत्वेन पत्याविव
(स्वामिनीव) ‘हृदयं’ मनः ‘हितम्’ निहितम् अर्पितम् । ‘अहं’ ‘वेद’ जानामि ।
किं ? ‘मन्ये तद् ब्रह्म’ तदेतद्ब्रह्मैवभवतोति ध्रुवमुत्प्रेक्षे(३)। तेन ‘पौत्रम्’ पुत्र-
सम्बन्धि । ‘अघम्’(४)दुःखम् ‘अहं’ ‘मा निगाम्’ मानितरां प्राप्नुयाम् । अय-
मर्थः । यस्मादहं ब्रह्मवित्तस्मान्ममानिष्टसम्बन्धोन सङ्गच्छते इति ॥ १० ॥
‘यत्’ ‘पृथिव्याः’ सकासात् ‘अन्’(५) निर्गतम् । अमृतम्(६) । ‘दिवि’
द्युलोके ‘चन्द्रमसि’ चन्द्रे ‘श्रितम्’ आश्रितम् । तद् ‘अहम्’ ‘अमृतस्य’ ‘नाम’
प्राकाश्यं(७) सम्भाव्यं वा रहस्यम् ‘वेद’ जानामि । ब्रह्मवित्त्वात् । अतः ‘पौत्रं’


( १ ) ऋक्त्रयस्य । ( २ ) “सुषी(शी)मः शिशिरोजडः” इत्यमरः ।
( ३ ) “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षां व्यज्यते शब्दैरिवश-
ब्दोऽपि तादृशः” इति मद्दुकः । तादृशः क्रियापदसङ्गतः । उत्प्रेक्षाभिधायी ।
( ४ ) “अंहोदुःखव्यसनेष्वघम्” इत्यमरः ।
( ५ ) “अम्गत्यादिषु” ( भ्वा० प० ) तस्मात्क्तिनि मस्यनत्वे रूपम् ।
( ६ ) छान्दसोदीर्घः । गुणविष्णुस्तु-अनामृतममृतमित्याह—
( ७ ) “नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने” इत्यमरः ।

Here is the complete line-by-line transcription of the text from the provided image:

८ कण्डिका ] गोभिलगृह्यसूत्रे- २०१
पुत्रसम्बन्धि 'अघं' दुःखम्प्राप्य(१) 'मा रिषम्' हिंसितो माभवेयमित्यर्थः ॥११॥
हे 'इन्द्राग्नी'! युवां 'मे' मम 'प्रजायै' सन्तानाय । 'शर्म्म' कल्याणम् ।
'यच्छतम्' दत्तम् । किम्भूतो ? 'प्रजापती' लोकपालौ । तथाच शर्म्म यच्छतं
'यथायं पुत्रो' 'मम' 'जनित्र्याः' मातुः । 'अधि' उत्सङ्गे स्थितो 'न प्रमीयेत' न
(२)हिंस्येत कदाचिदापुरुषायुषम् ॥ १२ ॥ इति ।
अत्र भविष्यपुराणम्-
"द्वादशेऽहनि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।
चतुर्थे मासि कर्त्तव्यन्तथाऽन्येषाम्मतं विभो ! ॥"
इति । द्वादशेऽहनीति शाखाभेदाद्विकल्पः । तथा-
"चतुर्थे मासि कर्त्तव्यं शिशोश्चन्द्रस्य दर्शनम् ।
तृतीये मासि कर्त्तव्यं शिशोस्सूर्यस्य दर्शनम् ॥"
इति । सूर्यचन्द्रदर्शनयोर्गृह्यानुसारेण व्यवस्था । अतुल्यार्थत्वात्समुच्चय
इति कल्पतरुः । पारस्करः "चतुर्थे मासि निष्क्रमणिका-सूर्यमुदीक्षयति तच्च-
क्षुरिती"ति । अत्र च संस्कारोनिष्क्रमणमेव । तत्परिगणने तस्यैव पाठात् ।
अनयोर्दर्शनयोराभ्युदयिकश्राद्धन्न कुर्वन्ति-"सूपन्दोः कर्मणी ये तु तयोः श्रा-
द्धन्न विद्यते" इति कात्यायनवचनादितिकल्पतरुः ॥ ४ ॥
एवञ्जपित्वाऽथ कुमारम्-
उदञ्चम्मात्रे प्रदाय यथार्थम् ॥ ५ ॥
ऋजुरञ्चरार्थः । यथार्थमिति कर्मणः परिसमाप्तिरुच्यते । इत्यसकृदवो-
चाम । तेन वामदेव्यगानमिदानीङ्कर्त्तव्यम् । तथा च कर्मप्रदीपः-
"अहोमस्र्केऽवपि भवेद्यथोक्तञ्चन्द्रदर्शने ।
वामदेव्यं गणेश्र्वन्ते बल्यन्ते वैश्वदेविके ॥" इति ॥ ५ ॥
अथयेऽत ऊर्ध्वं ज्योत्स्नाः पूर्वोदित (३) एव तेषु पितोपतिष्ठतेऽ-
पामञ्जलिं पूरयित्वाऽभिमुखश्चन्द्रमसम् ॥ ६ ॥
( १ ) केचित्तु- "मा ऋषम्" नावगच्छेयम् । "ऋषी गतौ" ( तु० प० ) माङि-
लुङर्थेलडडभाव आर्षः । अत्रानुस्वारोवर्णव्यत्ययकृतोऽभावमापन्नः । इत्याहुः ।
( २ ) "मीहिंसायाम्" ( दि० आ० ) आशंसायां लिङ् ।
( ३ ) अत्र "प्रथमोद्दिष्टे" इति पाठश्चन्द्रकान्तेन धृतः । प्रथमं यः काल उद्दिष्टः क-
थितस्तस्मिन्नेव काले तृतीयायामिति तदर्थमाह । प्रथमोदित इतिपाठेऽपि प्रथममुदितः
कथितोयः कालस्तस्मिन्निति स एवार्थ इति च । एषोऽर्थः पद्धतिवृतोबीरेेश्वरस्याप्य-
भिमतः । परं स "ततस्तथावस्थितमेव कुमारं मातरि समर्प्य तद्दिने तत्क्षण एव चन्द्रा-
भिमुखः पिता गन्धदुग्धयवफलपुष्पचन्दनसहितमपामञ्जलिं पूरयित्वा चन्द्रोद्देशेन सकृ-
न्मन्त्रेण द्वस्तूष्णीमुत्सृजेदि"त्याह । एतदन्त एव च पात्राल्रेन पुष्पेण चापूयं पूर्ववद्वा-
२६ गो० गृ० स०

ाम्यामितरशौचापकषै- wait,शौचापकर्षे! Look at line 18: अस्यचौचमग्रोऽपि-> wait, look at the letter betweenचौandम: Is it चorल? It looks like लorच. Wait, let's look at वर्षट्यांवत्: Look at द्व: in line 7 द्विरञ्जलिद्वयम्hasद्विandद्व. In line 18: वर्षthenद्व या व त्? Yes! द्वwithया: द्व्याorद्वया? Wait, there is a वandत्: वर्षद्वयावत्? No, वर्षद्वयं यावत्? Look at the character between द्वandवत्: वर्षद्वयांवत्? No, look at: वर्ष द्व या त्? Wait, look at the letters: व र् षthenद्वthenयाthen anusvara onया? No, वर्षद्वयात्? Wait, after वर्षद्व: It's यwithा: या. Then what is above? A dot? Then व`

वाऽहनी" - no, look at the end of L28: "वाऽहनी" (no hyphen visible, just broken word).
Wait, look at L27: "नाम कुर्यात् ।” इति ।" - notice the space and closing quote: नाम कुर्यात् ।” इति ।
Line 31: "ङ्गवचनमतन्त्रम्” इत्यपि परिभाषन्तेस्म पाणिनीयाः ॥"

Everything looks very accurate and well-checked. Ready to output.८ कण्डिका ] गोभिलगृह्यसूत्रे- २०३
'मा रुदम्' मा रुद्याम् । ब्रह्मवित्त्वादेव(१) ॥ १३॥ इति ॥ ७ ॥
( अथ नामकरणम् )
जननाद्दशरात्रे व्युष्टे शतरात्रे संव्वत्सरे वा नामधेयकरणम् ॥ ८ ॥
जननात्-जन्मदिवसादारभ्य दशरात्रे व्युष्टे-अतिक्रान्ते । एवं शत-
रात्रे संव्वत्सरे वा व्युष्टे । नामैव नामधेयम् । “भागरूपनामभ्योधेयः” (पा०
५।४।३६ वा० ) इतिधेयप्रत्ययः स्वार्थे । तस्य करणम् । इति कर्मणोनाम-
धेयम्

[२०४ नामकरणविधिः । [ २ प्रपाठके-]

निगदव्याख्यातम् ॥ १० ॥
प्रदाय च माता—
अनुपृष्ठम्परिक्रम्योत्तरत उपविशत्युदगग्रेषु दर्भेषु ॥११॥
एतदप्युक्तार्थम् ॥ ११ ॥
अथ जुहोति प्रजापतये तिथये नक्षत्राय देवताया इति ॥ १२ ॥
अथेत्यानन्तर्यार्थकम् । उपविष्टायान्तस्याङ्केकुमारं तस्यै प्रदाय जुहोति ।
(१)इतरथा गृहीतकुमारस्य हवनासम्भवान् । इत्येवमेके । गृहीतकुमार एव
जुहोतीत्यपरे । पद्धतावप्येवमेव । कस्मै जुहोति? प्रजापतये । स चायं [ प्रजा-
पतिहोमः ] “मनसा प्रजापतिन्ध्यायेत्तूष्णीं होमेषु सर्वत्रे”त्याश्वलायनवचना-
त्तथा कर्त्तव्यः । अत्राविशेषोक्तेर्देवतापेदन (२)तिथिनक्षत्रोभयदेवतालाभः ।
अत एव च विसमासकरणम् । तदुभयञ्च कुमारजन्मकालिकमेव । तथाच
बह्वचगृहे—“त्रीणि चेतानि सदैवतानि जुहुयाद्यस्मिन्जातः स्यादि”ति । तिथि-
देवतास्तु—
“ब्रह्मा त्वष्टा च विष्णुश्च यमः सोमः कुमारकः ।
मुनिर्वसुः पिशाचश्च धर्मोरुद्रोरविस्तथा ॥
मदनश्चैव यक्षश्च विश्वेदेवास्तथैव(३) च ।
अमायां पितरः प्रोक्ता यज्ञार्थास्तिथिदेवताः ॥”
इति वचनोपात्ता इह ग्राह्याः । न तु पुराणान्तरोक्ताः । परिशिष्टसंवादात् ।
तथाचात्र होमप्रकारे कात्यायनः—
“नामधेये मुनिवसुपिशाचां बहुवत्सदा ।
यक्षांश्च पितरोदेवा यष्टव्यास्तिथिदेवताः ॥” इति ।
पुराणान्तरे मुन्यादिदेवतानभिधानात् । बहुवदिति—बहुवचनान्तशब्देनेत्य-
र्थः । एवमग्रेऽपि नक्षत्रदेवताहोममधिकृत्य तथा—
“आग्नेयाद्येऽथ(४) सार्पाद्ये विशाखाद्ये तथैव च ।
अषाढाद्ये धनिष्ठाद्ये अश्विन्याद्ये तथैव च ॥
( १ ) अनादेशादाज्यन्द्रव्यम् । “आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते” इति
कात्यायनवचनात् ॥
( २ ) तिथयः प्रतिपदाद्याः । तासान्देवता पूर्णिमान्तानां ब्रह्मादयोविश्वेदेवान्ताः ।
तत्र तिथिहोमे “ॐ प्रतिपदे स्वाहा” इत्येवमादिकः प्रयोगः । तिथिदेवताहोमे प्रकारः
कर्मप्रदीपोक्तोऽग्रेव्यक्तः ।
( ३ ) पूर्णिमायाम् ॥
( ४ ) द्विवचनान्तात् सन्धिरत्रार्षः । प्रगृह्यसंज्ञायां [ ( पा० १।१।११) प्रकृतिभाव
( पा० ६।१।१२५ ) स्मरणात् ।

८ कण्डिका ] गोभिलगृह्यसूत्रे— २०५
द्वन्द्वान्येतानि बहुवत्तृक्षाणाञ्जुहुयात्सदा ।
देवतास्वपि हूयन्ते बहुवत्सर्पपितृपः ॥”
इति आग्नेयाद्ये-कृत्तिकारोहिण्यौ । एवमग्रेऽपि । साप-मश्लेषा । शेषमव-
शिष्टम् । द्वन्द्वद्वयं-पूर्वोत्तरफल्गुन्यौ । पूर्वोत्तरभाद्रौ च द्विवद्विवचनान्तम् ।
अवशिष्टानि-मृगशिरः प्रभृतीनि नक्षत्राणि । एकवदेकवचनान्तशब्दे(१)ने-
त्यर्थः । देवाः विश्वेदेवाः ।
ज्यौतिषे—
“अश्वोयमोऽनलोब्रह्मा शशी शर्वोऽदितिर्गुरुः ।
सर्पः पिता भगश्चैव अर्यमा च दिवाकरः ॥
त्वष्टा वातः कृशान्विन्द्रोमित्रश्चैव पुरन्दरः ।
निर्ऋतिः सलिलञ्चैव विश्वेदेवा हरिस्तथा ॥
वसवोवरुणश्चैव तथैव स्यादजैकपात् ।
अग्निर्बु(र्ब्र)ध्न्यस्तथा पूषा क्रमान्नक्षत्रदेवताः ॥”
इति । अत्र अहिर्बुध्न इत्यपपाठः । 'उत्तानाहिर्बु(र्ब्र)ध्न्यः शृणोत्वज एकपा-
त्पृथिवी समुद्र” इति श्रुतौपाठाविवादेन तथा निर्णयात् । सोऽयं होमस्य प्रका-
रविशेष इतिशब्देन सूच्यत-इति द्रष्टव्यम् ॥ १२ ॥
तस्य मुख्यान्प्राणान्संस्पृशन् (२) “कोऽसि कतमोऽसी”
त्येतमन्त्रं जपति ॥ १३ ॥
( मं० ब्रा० १।५।१४-१५ )
तस्य-कुमारस्य । मुख्यान्-मुखप्रभवान् । “शरीरावयवाद्यत्” ( पा० ५।
१।६ ) इति भवार्थे यत्प्रत्ययः । प्राणान्-प्राणनिर्गमोपायभूतान्सप्तच्छिद्रविशे-
षान् । मुखमक्षिणी नासिके कर्णावित्येतरूपानिति यावत् । “कोऽसी”त्येवमा-
दिमन्त्रं जपति । मन्त्रो यथा—
“कोऽसि कतमोऽस्येषोऽस्यमृतोऽसि, आह्स्पत्यं मासं प्रविशासौ” ॥१४॥
स त्वाऽह्ने परिददात्वहस्त्वा रात्र्यै परिददातु रात्रिस्त्वाऽहोरात्राभ्याम्परि-
ददात्वहोरात्रौ त्वाऽर्द्धमासेभ्यः परिदत्तामर्द्धमासस्त्वाम्मासेभ्यः परिददातु मा-
सास्त्वामृतुभ्यः परिददत्वृतवस्त्वा सव्वँत्सराय परिददतु सव्वँत्सरस्त्वाऽऽयुषे
जरायै परिददा

२०६ नामकरणविधिः। [ २ प्रपाठके-
इति। अस्यार्थः-असौ-इत्यामन्त्रणे। हे देवदत्त(१)! त्वं ‘कोऽसि?’
इति स्वरूपप्रश्नः। ‘कतमोऽसि?’ इति जातिप्रश्न. (किञ्जातीयोऽसीति)
‘एषोऽसि’-ति प्रत्यञ्जनिर्देशः। ‘अमृतोऽसि’ अमरणधर्म्माऽसि। (अविना-
श्यसि) यतोऽतस्त्वां ‘आहस्पत्यम्’ अहस्पतेः-सूर्य्यस्य सम्बन्धिनं (सौरं)
‘मासं’ सङ्क्रान्तिचिह्नितम्। ‘प्रविश’ तत्रात्मानमनुप्रवेशय। प्रथमं मासजीवी
भव। ततः क्रमेणामृतत्वमेष्यसीति भावः ॥ १४ ॥
‘असौ’ हे देवदत्त! इतिपुनरामन्त्रणमादरार्थम्। ‘स’ अहस्पतिः सूर्य्यः।
‘त्वा’ त्वाम् ‘अह्ने’ दिवसाय ‘परिददातु’ अर्पयतु। संवर्द्धनाय। यावच्छता-
युष्त्वम्। अत्र मासस्य विशेषणभूतोऽपि अहस्पतिः प्राधान्यात्स इत्यनेन परा-
मृश्यते। इति गुणविष्णुभाष्यम् ॥ १५ ॥
इति। त्र्यवसानोऽयमन्त्रः ॥ १३ ॥
तत्र च मन्त्रे—
“आहस्पत्यम्मासं प्रविशासावि”-त्यन्ते च मन्त्रस्य घोषवदा-
द्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतन्नाम दध्यात् ॥१४॥
इति-एतस्मिन् मन्त्रान्तस्थे चासाविति स्थानद्वयस्थसर्वनाम्नि प्रकृतत्वा-
त्कुमारस्य नाम दध्यात् गृह्णीयात्। इत्यर्थः। कीदृशं नामेत्यपेक्षायामाह—घो-
षवदादीति। वर्गाणाम्प्रथमद्वितीयाः शषसाश्चाघोषप्रयत्नवन्तस्तद्भिन्नाश्च घोष-
वन्तः(२)। तेषाम्मध्ये एकतमोवर्ण आदौ यस्य तद् घोषवदादि। अन्तरन्तः-
स्थम्। अन्तःस्था यरलवाः(३)। तेषाम्मध्ये चैकतमोऽपि वर्णोऽन्तर्मध्ये यस्य
तत्तथा। दीर्घाभिनिष्ठानान्तम्। दीर्घोद्विमात्रोवर्णः। अभिनिष्ठानोविसर्जनीयम-
क्षरम्। “अभिनिष्ठानेऽप्यक्षरमात्रेऽपि स्याद्विसर्जनीयेऽपी”ति मेदिनी। तौ
( तदन्यतरौ ) अन्तौ यस्य तत्तथा। क्वचित्तु—दीर्घाभिनिष्ठानमिति पाठः।
दीर्घेणाभिनिष्ठन्यते समाप्यते यन्नाम तदिति तत्रैव व्याख्या चेति। कृतं-
( १ ) एतच्च यथाशास्त्रं कुलक्रमागतनामोपलक्षणम् ॥
( २ ) तथाच बाह्यप्रयत्नानेकादशोपक्रम्य-शिक्षार्थमवलम्ब्य भट्टोजिदीक्षिताः प्राहुः-
“खयांयमाः खय)(क)(पौ विसर्गः शरएवच। एते श्वासानुप्रदानाअघोषाश्च विवृण्वते ॥
कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः”। इत्यादि। तथा च पाणिनीयशिक्षाऽपि-
“घोषा वा संवृताः सर्व” इति ॥
( ३ ) स्पर्शोष्मणोरन्तर्म्मध्ये स्थिता इत्यन्तःस्था इत्युच्यन्ते, एष चाबन्तेऽपि पठ्यते।
तथा चपा०शिक्षायाम् “अन्तस्तामिश्र संयुक्तम्”इति। तइमे यरलवाः। तथाच वचना-
न्तरमपि-“अदौ” घोषवदक्षरान्तरस्थवान्मध्यं पुनः स्थापयेदन्ते दीर्घविसर्जनीयसहितं नाम
प्रयत्नात्कृतम् ॥ इति ॥

४ कण्डिका ] गोभिलगृह्यसूत्रे- २०७
कृदन्तम् । अथच कृतं-पूर्वेषान्तेन पितामहादीनान्नामस्वेवैकमिति(१) दाक्षि-
णात्याः ॥ १४ ॥
एतदतद्धितम् ॥ १५ ॥
एतदिति- नाम्नःपरामर्शः । अतद्धितम् न विद्यते तद्धितस्तन्नामा प्रत्यय-
विशेषोयत्र तत् तद्धितान्तभिन्नम् । ननु कृतन्नाम दध्यादित्यनेनैवैतत्सिद्धमिति
चेत्सत्यम् । सर्वथा तद्धितस(२)म्बन्धनिरासार्थमेतदिति पृथगभिहितम् । तथाच
महाभाष्यं “नाम कृतङ्कुर्यान्न तद्धितम्-”ति । तथाच पुंसोनाम-बलि-
ध्वंसी(३)-विश्वम्भरः । इत्येवम् ॥ १५ ॥
अयुग्दान्तᳪस्त्रीणाम् ॥ १६ ॥
स्त्रीणां पुनरयुक्-अयुग्माक्षरम् । दान्तं-दाकारान्तन्नाम दध्यादित्यनुवर्त्तते।
अयमेव विशेषः । सर्वमन्यत्पूर्ववत् । तथाच महाभाष्यं “द्व्यक्षरं चतुरक्षरं वा
नामे”-ति । तदेतत्स्त्रीपुंसयोर्यथायोगमभिसम्बन्धनीयमयुग्मयुग्मोपलक्षणार्थम्।
तथाच स्त्रीनाम “यशोदा” इत्येवमादि । अत्रान्येऽपि विशेषाः “स्त्रीणां सुखो-
द्यमक्रूरम्’-त्यादि मन्वादिषु द्रष्टव्याः ॥ १६ ॥
मात्रे चैव प्रथमन्नामधेयमभिधाय यथार्थम् ॥ १७ ॥


(१) तथाच महाभाष्यम् “घोषवदाद्यन्तरन्तस्थं त्रिपुरुषानूकमनरि प्रतिष्ठितं तद्धि-
प्रतिष्ठितमम्भवति । द्व्यक्षरं चतुरक्षरं वा नाम कृतङ्कुर्यान्न तद्धितम्” इति । त्रिपुरु-
षानूकमिति । त्रिपुरुषानुगतं कायति उच्चारयति यत्तदित्यर्थः । “कैगै शब्दे” (भ्वा० प०)
कप्रत्यये कृताकारलोपमेतत् ॥ “अनुकः कामुकोऽमिकः” इत्यभिधानात्त्रिपुरुषाननुकामयते-
ऽभिधातुमभिलषतीत्यर्थे निपातितः पाणिनिना “अनुकाभिकाभीकः कमिते ( ५।२।७४ )
ति । दीर्घमध्यता चार्षवचनात् ॥
(२) अत्र चन्द्रकान्तभाष्ये-दीर्घाभिनिष्टानान्तत्वसूत्रणादेव तद्धितान्तत्वे सिद्धे
पुनरुपादानन्नियमार्थम् । एतदेवनामातद्धितान्तं नपुनरन्यदिति । तेन “यत्तद्गुह्यमेव भव-
ति” इति । “अभिवादनीयं नामधेयङ्कल्पयित्वा” इति चैवमादिनाम्नां तद्धितान्तःत्वमपि
स्यादिति ॥
(३) केचित्त्वत्राचक्षते-दीर्घाभिनिष्ठानान्तमित्यत्रान्तशब्दो “दशान्तः पट” इति
वदवयवार्थः । तथाच दीर्घान्तं नाम “गोविन्दशर्म्मा” इत्यादिरूपम् । विसर्गाञ्च
“गोविन्दः” इत्यादिरूपम् । यद्वा “हरिशर्म्मा”-“हरिदेवः” इत्येवम् । अतएव कर्म्म-
प्रदीपे “गिरिशर्म्मैवमुक्तवान्” इति । तथाच मनुः “माङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य
बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ शर्म्मवद्ब्राह्मणस्य स्याद्राज्ञो
रक्षासमन्वितम् । वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥” इति । अत्र माङ्गल्य-
मित्यनेनामङ्गलसम्बन्धव्युदासोऽभिमतः । एवं पुष्टिर्धनस्य ॥ शङ्खः “शर्म्मान्तं ब्राह्मण-
स्योक्तं वर्म्मान्तं क्षत्रियस्य च । धनान्तञ्चैव वैश्यस्य दासान्तञ्चान्त्यजन्मनः” ॥
इत्येवमादि ।

१०८ नामकरणविधिः । [ २ प्रपाठके-
तच्च नामधेयं प्रथमं-पूर्वं मात्रे कुमारस्य । आख्याय-कथयित्वा यथार्थम्।
तत्कर्मसमाप्तङ्कुर्यादित्यर्थः । चशब्दात्पुरुषनाम्नः स्त्रीनाम्नश्च प्रथमम्मात्रे
कथनम् । एवकारोमात्रे प्रथमनिवेदनार्थः ॥ १७ ॥
गौर्दक्षिणा ॥ १८ ॥
नामधेयकर्मणः ॥ १८ ॥
( अथ जन्मदिनादिकृत्यम् )
कुमारस्य मासि मासि संवत्सरे सावँत्सरिकेषु वा पर्वस्वग्नीन्द्रौ
द्यावापृथिवी विश्वान्देवाꣳश्च यजेत ॥ १६ ॥
जननादित्युपक्रमात् कुमारस्य जन्मतिथौ वक्ष्यमाणा देवता यजेत् । तत्र
समयविशेषमाह-मासि मासीति । प्रतिमासमित्यर्थः । तेन संवत्सरपर्यन्तं
यागः । ऊर्ध्वं संवत्सराज्जननमास एवैकस्मिन्वर्षान्ते जन्मतिथौ संवत्सरे
“वा पूर्णे” इति वाक्यशेषः । अत्रापि जन्ममासे जन्मतिथौ यजेतेति द्रष्टव्यम् ।
वा-अथवा सावँत्सरिकेषु पर्वसु । यजेत । संवत्सरस्येमानि सावँत्सरिकानि
तेषु “कालाट्ठञ्” (पा०४।३।११) इति ठञ्प्रत्येक आदिवृद्धिः । पर्वसु-त्रयाणा-
मृतूनां शरच्छिशिरग्रीष्माणा(१)मवसानतिथिषु कार्त्तिकी फाल्गुनी आषाढीषु ।
अथवा द्वावत्र कालविकल्पौ । संवत्सरपर्यन्तं मासि मासि कुमारस्य जन्म-
तिथौ यजेत । सावँत्सरिकेषु वा पर्वसूक्तरूपेषु यजेत। कतमाः पुनस्ता देवता-
उच्यन्ते-अग्नीन्द्रौ। द्यावापृथिवी द्यावापृथिव्यौ(२) एते द्वन्द्वदेवते । विश्वा-
न्देवांश्चेति । विश्वेभ्योदेवेभ्य इत्येवम् ॥ १९ ॥
दैवतामिष्ट्वा तिथिन्नक्षत्रञ्च यजेत ॥ २० ॥
जन्मतिथेर्देवतम् इष्ट्वा जन्मतिथिं, जन्मनक्षत्रस्य दैवतामिष्ट्वा जन्मन्क्षत्र-
ञ्च यजेत ॥ २० ॥
( अथ प्रोषितागतकर्म )
विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्याम्पाणिभ्याम्मूर्द्धानम्परिगृह्य
जपेत् यदा वा पिता म इति विद्यात्, उपेतस्य वा
“अङ्गादङ्गात्सम्भवसी”ति ॥ २१ ॥
( मं० ब्रा० १।५।१६-१८ )
विप्रोष्य प्रवासादागत्य गृहम् । पिता पुत्रस्येति सम्बन्धपदोपादानात् ।
( १ ) एतच्च “त्र्यूतुः सव्ँवँत्सर” इति मतेन, बोध्यम् । यत्र च मार्गादिमासचतुष्टय-
स्यैक ऋतुरेवमग्रेऽपि बोध्यम् ॥
( २ ) द्यावापृथिवीचेत्यर्थे द्वन्द्वे “दिवोद्यावे-” ( पा० ६।३।२९ ) ति द्यावादेशः ।

८ कण्डिका ] गोभिलगृह्यसूत्रे- ३०९

मूर्द्धानमुत्तानाभ्यां पाणिभ्याम्परिगृह्य “अङ्गादङ्गादि-”ति ऋचं जपेत् । यदा वा
कुमारः । “अयम्मे पिता” इति विजानीया(ञ्ज्ञातुंशक्नुया-)त्तदा जपेत् ।
शक्त्यर्थेऽत्र लिङ् । ( पा० ३।३।७२) वा-अथवा उपेतस्य उपनीतस्य (कृतो-
पनयनस्य) कुमारस्य मूर्द्धानमुक्तदिशा परिगृह्य जपेत् । त इमे अत्र त्रयः काल-
विकल्पाः ।। ऋचो यथा—
“अङ्गादङ्गात्संस्रवसि हृदयादधिजायसे ।
प्राणन्ते प्राणेन सन्दधामि जीव मे यावदायुषम्” ।। १६ ।।
“अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।
वेदोवै पुत्रनामासि स जीव शरदः शतम्” ।। १७ ।।
“अश्मा भव परशुर्भव हिरण्यमस्तृतम्भव ।
आत्मासि पुत्र मा मृथा स जीव शरदःशतम्” ।। १८ ।।
इति । आसामर्थाः । ‘हेपुत्र ! यस्त्वं मम ‘अङ्गादङ्गात्’ सर्वेभ्योऽङ्गेभ्यः ।
“नित्यवीप्सयोः” ( पा० ८।१।४ ) इति द्वित्वं ‘संस्रवसि’ संस्रुतोऽसि । वर्त्त-
मानसमीपे भूते लट् । ( पा० ३।३।१३१ ) एवमग्रेऽपि । तथा ‘हृदयात्’ सर्व-
गात्रेभ्यः प्रधानभूतात् ‘अधिजायसे’ उत्पन्नोऽसि । तस्येत्थम्भूतस्य ‘ते’ तव ‘प्राणं’
प्राणवायुं ‘प्राणेन’ एव ‘सन्दधामि’ सततमविच्छिन्नं करोमि । तत्सन्धानात्
‘मे’ मम सुतस्त्वं ‘यावदायुषम्’ पुरुषायुषम् । शरदादित्वाष्टच् (पा० ५।४।१०७)
समासान्तः । ( शतवर्ष ) व्याप्य ( शतवर्षपर्यन्तं ) ‘जीव’ ।। १६ ।।
अत्र वेदशब्दोवेदाध्येतरि वर्त्तते । यथा कठशब्दः कठाध्येतरीति गुणवि-
ष्णुः । मन्त्रार्थः पूर्ववत् ।। ‘शतं शरदः’ शतवर्षाणि । “संवत्सरोवत्सरोऽब्दो-
हायनोऽस्त्री शरत्समाः” इत्यमरः । शतमित्येकत्वं “विंशत्याद्याः सदैकत्वे सर्वाः
संख्येयसंख्ययोर्”-त्यमरात् । अत्र सर्वा इति संख्यापरं प्रकरणात् । सञ्जीवेति
पाठे सुखेनजीवेत्यर्थः । समिति सुखेऽर्थेऽव्ययम् ।। १७ ।।
हेपुत्र ! ‘त्वम्’ ‘अश्मा’ पाषाणइवदृढोनिर्व्याधिश्च ‘भव’ । ‘परशुः’ कुठार
इव च्छेदकः परेषाम्भव । न तु च्छेद्यः । तथा ‘हिरण्यं’ सुवर्णमिव हितारमणञ्च
‘भव’ । यत् ‘अस्तृतम्’ अन्यैस्ताम्रादिभिरल्प(१)द्रव्यैराच्छादितं न भवति तत्
“स्तृञ्आच्छादने” ( क्र्या० उ० ) क्तः । ततोनञ्समासः ‘आत्माऽसि’ अह-
मिव त्वमतो ‘मा मृथाः’ मा म्रियस्व । किन्तु स इत्थम्भूतस्त्वम् ‘शतं शरदः’
शतवर्षाणि ‘जीव’ प्राणिहि । सञ्जीवेतिपाठे सुखेन प्राणिहीत्या(२)शास्यते
।। १८ ।। इति ।। २१ ।।


( १ ) अल्पत्वमिह ततो हीनता । अत एवापद्रव्यैरिति गुणविष्णुभाष्यम् ।
अप शब्दोऽत्र हीनार्थेः ।
( २ ) सर्वोऽपि ह्यात्मभूतञ्चिरजीविनमाशास्ते किं पुनरात्मानम् ।
२७ गो० गृ०सू०

२१० प्रोषितागतकर्मविधिः । [ २ प्रपाठके-
“पशूनान्त्वा हिङ्कारेणाभिजिघ्रामि”-इत्यभिजिघ्रद्यथार्थम् ॥२२॥
(सं० ब्रा० २।५।१९ )
पशूनां त्वेति। अत्राऽन्तेऽसाविति मन्त्रब्राह्मणे पठ्यते । अनेनाभिजिघ्रद्य
आभिमुख्येनाघ्राय । मूर्द्धानमिति प्रकृतेनाभिसम्बन्धनीयम् । यथार्थमिति च
कर्मणः परिसमाप्तिरुच्यते । तेन वामदेव्यगानमिदानीङ्कर्त्तव्यम् । अत्रापि
मन्त्रे-अन्तेऽसाविति सर्वनाम्नि सम्बोधनविभक्त्या पुत्रनाम प्रयोक्तव्यम् ॥ तदि-
दम्प्रोषितागतकर्मेत्युच्यते । मन्त्रार्थस्तु—हेपुत्र ! अहं पिता ‘त्वा’ त्वां ‘पशू-
नां’ गवां ‘हिङ्कारेण’ हिङ्कृतेन गोजात्युचितशब्देन । (तत्पूर्वकम्) प्रकृत्यादित्वात्
( पा० २।३।१८ वा० ) तृतीया ‘अभिजिघ्रामि’ चुम्बामि । यथा गावोवनादा-
गताः स्वपुत्रकानभिजिघ्रन्ति-तथाऽहमपि त्वामिति ॥ १९ ॥ २२ ॥
एवमेवापरेषाम् ॥ २३ ॥
अपरेषाम्-कनिष्ठानामप्येवमेव मूर्द्धालम्भनन्तदभिघ्राणञ्च कर्त्तव्यम् ॥२३॥
यथाज्येष्ठं यथोपलम्भं वा ॥ २४ ॥
यथाज्येष्ठम्-ज्येष्ठमनतिक्रम्य । योयोवयसा ज्येष्ठस्तस्य तस्य प्रथमं कर्त्त-
व्यम् । तदेतत्सर्वेषां युगपदुपस्थितौ । अन्यथा तु यथोपलम्भम् । उपलब्धि-
क्रमेण योयः पूर्वं सन्निधानमागच्छति तस्य तस्य वेति व्यवस्थितोविकल्पोवा-
शब्दार्थः ॥ २४ ॥
स्त्रियास्तूष्णीं मूर्द्धन्यभिजिघ्रणम्मूर्द्धन्यभिजिघ्रणम् ॥ २५ ॥
इतिश्रीमद्गोभिलीये गृह्यसूत्रे द्वितीयप्रपाठकेऽष्टमी कण्डिका ॥ २ ॥ ८ ॥ ॐ ॥
ऋजुरुत्त(१)रार्थः । अन्ते द्विर्वचनं प्रकरणसमाप्त्यर्थम् ॥ २५ ॥
इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्याया “मृदुला” ऽऽख्यायाम्मुकुन्दशर्म्मसङ्कलि-
तायां द्वितीयप्रपाठकस्याष्टमी कण्डिका ॥ २ ॥ ८ ॥ * ॥
( १) ननु तूष्णीमभिजिघ्रणमित्युक्त्वा मूर्द्धालम्भः समन्त्रक इति कुतो न ज्ञायेतेति
चेन्न । पुत्रेति मन्त्रलिङ्गविरोधात् । तत एवाभिजिघ्रणमात्रं समन्त्रकं प्राप्तमिति तूष्णी-
मित्युकम् । एतेन न केवलं प्रोषितागतकर्मण्येव स्त्रिया। अपि तु जातकर्मादिकमपि। तेन
संस्कारपरिपाटी स्त्रीणामपि कार्या । परममन्त्रिकेति तदर्थः । तथा च मनुः-संस्कारान-
भिधाय “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः” इति । इत्थमावृज्जातकर्मादिः । याज्ञव-
ल्क्योऽपि- “अमन्त्रिकाः क्रियास्तासां विवाहस्तु समन्त्रकः” इति । अत्र चन्द्र-
कान्तः। तस्मान्मन्त्रलिङ्गविरोधादेव मूर्द्धाऽऽलम्भोऽमन्त्रकः सिद्धः । अतोऽभिजि-
घ्राणमात्रस्य तूष्णींस्त्वंसुत्रितमातएवामन्त्रकं तूष्णीमित्यनयोरर्थभेदं द्रष्टव्य आसीत् ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१५
( अथ नवमी कण्डिका- )
अथातस्तृतीये वर्षे चूड़ाकरणम् ॥ १ ॥
अथेति(१) पूर्वप्रकृतार्थम् । अथ=पूर्वप्रकृताज्जन्मनस्तृतीये वर्षे प्रवर्त्तमाने
उदगयनादीनां(२) समुच्चयोपलब्धौ चूड़ायाः शिखायाः करणं स्थापनं(३)
“संस्कारविधिना कर्त्तव्यमि”ति सूत्रशेषः । “शिखाचूड़ा केशपाशी” इत्यमरः ।
कपुष्णिका कपुच्छलाख्याः केशाश्चूड़ा इति कथ्यन्त इतिभाष्यकृतः । अतः
शब्दोहेत्वर्थः । यस्मात्
“सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखोव्युपवीतश्च यत्करोति न तत्कृतम् ॥”
( १ ) अत्रनामकरणान्तेऽन्नप्राशनं संस्कारविधिना पद्धतिषु बीरेश्वरादिभिर्लिखि-
तम् । समयोऽपि-षष्ठे मासि अष्टमे वा यथाकुलाचारमित्येवंनिर्दिष्टः । यथाच नामकर-
णान्ते ब्रह्मपुराणम्-“ततोऽन्नप्राशनं कार्यं मासि षष्ठे यथाविधि । अष्टमे वापि कर्त्तव्यं
यद्देष्टं मङ्गलंफुले ॥” इति । तदत्राचार्येणालिखनन्तस्य काम्यत्वं व्यनक्ति । काम्यकर्मा-
णि चानेन पृथक्सूत्रितानि यथोपयोगन्तथाच वक्ष्यति “अथातःकाम्यमि” ( ४।५।१ )-
ति । किन्त्वेतन्मुरारिमिश्रादिभिः प्रत्युक्तम् । तथाचोक्तब्राह्मणवचनान्ते “षष्ठे मासेऽन्न-
प्राशनम्” इति पारस्करीयम् । “षष्ठेमासेऽन्नप्राशनं जातेषु दन्तेषु वे”-ति गौड़ाक्षीयञ्च-
वचनमुपन्यस्य शङ्कितम् । ननु गोभिलाचार्येणाकथनादस्मिन्कल्पेऽन्नप्राशनं कर्त्तव्यमेव
नेति चेन्न-उक्तयुक्तैरेव । ( २।७।२१ सू० ) । नचेतिकर्त्तव्यताबोधकाभावादेवाकरण-
मिति वाच्यम् । बोरेश्वरादिभिस्तस्याः प्रतिपादनात् । नच तल्लिखितान्नप्राशने “अन्नं
वा एकच्छन्दस्यमि”-त्यादिमन्त्रैर्होमे प्रमाणाभावः । मन्त्रलिङ्गस्यैव प्रमाणत्वात् ।
नच तन्मन्त्राणां सूत्रकारेणान्यत्र विनियुक्तत्वान्निराकाङ्क्षत्वेन मन्त्रलिङ्गमात्रमकिञ्चि-
त्करमिति वाच्यम् । एकमन्त्रस्यापि बहुत्र विनियोगदर्शनात् । सकलशिष्टाचाराच्चेति-
दिक् । कश्चित्तु-अस्मिन्कालेऽन्नप्राशनं न संस्कारकं नामकरणेन सह पूर्वापरक्रमानियमाद्बर्षे
नामकरणे तत्पूर्वमेवतत्करणात् । अत एव हिरण्यगर्भमहादाने सामवेदेऽन्नप्राशनं नास्ती-
त्युक्तं निबन्धिभिः । अपितु “भारद्वाजीमांसेन वाक्प्रसरण्कामस्ये”-त्याद्युक्तफलेन का-
म्यमिति । तन्न । एवं निष्क्रमणमपि संस्कारकन्नभवेत् । हिरण्यगर्भे तु षोड़शक्रियान्त-
गतञ्चेत्युक्तम् । अन्यथा यजुर्वेदिनां नामकरणस्य न संस्कारता स्यादिति ।
भाष्यकृतस्तु-सूत्रानुक्तमन्नप्राशनं परशाखोक्तक्रमेण कर्त्तव्यम् । “यन्नाम्नातं स्वशा-
खायामि-”ति कात्यायनवचनात् । “तथाप्यश्ववृयुभिर्गृह्णीयादि”-ति श्रुतेश्च । सति स-
म्भवे

२१२ चूड़ाकरणविधिः । [ २ प्रपाठके-
तथा—
"गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकञ्चैनो द्विजानामपमृज्यते ॥"
इति मनुराह । भाष्यकृतस्तु-अत्रातः शब्दः स्मृत्यन्तरोक्तकाललाभायेत्या-
हुः(१) । तथाच मनुः—
"चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
प्रथमाब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥" इति ।
एतेन—
"ततः संवत्सरे पूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा कर्त्तव्यं स्मृतिदर्शनात् ॥"
इति यमवचने-द्वितीये वेत्यत्र पूर्णे इत्यनुषङ्गस्तेन तृतीयाब्दलाभः । नचैवं
तृतीये वेति व्यर्थम् । तस्य तृतीयाब्दचरमावयवादिप्रशस्तपरत्वात् । अन्यथा
पक्षत्रयानुपपत्तिः । तथा च लौगाक्षिः-"तृतीये भूयिष्ठे गते चूडा कार्या"इति ॥
याज्ञवल्क्यः "चूडाकार्या यथाकुलम्"इत्याह । एवञ्चोक्तकालानां विकल्पः शा-
खाभेदाऽपेक्षया व्यवस्थित इति कल्पतरुः ॥ अस्योपनीत्या सहचरणे तु—
"आद्येऽब्दे कुर्वते केचित्पञ्चमेऽब्दे तृतीयके ।
उपनीत्या सहैवेति विकल्पाः कुलधर्मतः" ।
इति प्रयोगपारिजातोक्तं वचनमेव मानम् ॥ १ ॥
पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ २ ॥
निगद्व्याख्यातमेतत् ॥ २ ॥
तत्रैतान्युपक्लृप्तानि भवन्ति ॥ ३ ॥
तत्र-तस्मिन्नुपलिप्ते भूमिभागे । एतान्यनुपदवक्ष्यमाणानि । उपसमीपे-
ऽग्नेःक्लृप्तानि आसादितानि भवन्ति । कर्तुरनियमः ॥ ३ ॥
कानि पुनस्तानि ? कस्यां वा दिश्यग्नेरासादयितव्यानीत्युच्यते—
एकविꣳशतिर्दर्भपिञ्जल्य उष्णोदककꣳस औदुम्बरः क्षुरः आदर्शो-
वा क्षुरपाणिर्नापित इति दक्षिणतः ॥ ४ ॥
दर्भपिञ्जल्यः । पवित्रलक्षणलक्षिताः पूर्वमुक्ताः ( १।७।६ ) ताः सप्त सप्त
कृत्वा स्थानत्रय आसादयितव्याः । उष्णमुदकं यस्मिन्सः कंसः कांस्यपात्रम् ।
उदुम्बरस्ताम्रम् । "उदुम्बरस्तु देहल्यां वृक्षभेदेचषण्डके ।
( १ ) अत्रारुचिबीजन्तु वक्ष्यमाणकल्पतरुकारव्याख्यानमेव । कातीयकल्पेहि 'यथा-
मङ्गलं सर्वेषाम्' इत्युक्तम् ॥ तेन सामगानान्तृतीय एव वर्षे चूडाकरणं गोभिलीयानाम-
विस्थितम् ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१३
कुष्ठभेदेऽपि च पुमांस्तान्ने तु स्यान्नपुंसकम्" इति मेदिनी । तस्यायमौ-
दुम्बरः । “प्रोद्घृत्य प्रच्छिन्दन्” इत्यग्रिम[१६] सूत्रे छेदनस्याशङ्क्यमानत्वात् ।
नहि काष्ठेन तत्सम्भवति । तदभावे-आदर्शो वा । आसमन्ताद्दृश्यते मुखमत्रे-
त्यधिकरणे घञ्, आदर्शो दर्पणः “आदर्शोदर्पणः प्रोक्त” इत्यमरमाला “दर्पणे
मुकुरादर्शौ” इत्यमरश्च । क्षुरेति । क्षुरं पाणौ करे यस्य स तथाविधोनापितः ।
इति-एतानि । दक्षिणतः । अर्थात्कग्नेः ॥ ४ ॥
आनडुहगोमयः । कृसरः स्थालीपाको वृथापक इत्युत्तरतः ॥ ५ ॥
आनडुहः । अच्छिन्नमुष्कवृष(१)सम्बन्धी गोमयः । कृसरश्चासम्यक्पक्वौ
तिलतण्डुलौ । “कृसरस्तु(२)तिलौदनः” इत्यमरः ॥ स्थालीपाकश्चरुः । स ख-
ल्वयं वृथापकः । अवघातादिसर्वसंस्काररहितः । कर्मण्यव्याप्रियमाणश्चेति
वृथात्वम्पाकस्य । इति एतद्द्वयम् । उत्तरतोऽग्नेरासादयितव्यम् ॥ ५ ॥
व्रीहियवैस्तिलमाषैरिति पृथक्पात्राणि पूरयित्वा पुरस्ता-
दुप(नि)दध्युः ॥ ६ ॥
व्रीहियवैरिति द्वन्द्वनिर्देशेनाभिधानान्मिलिताभ्यां व्रीहियवाभ्यामेवं तिल-
माषाभ्याम्पात्रद्वयं पूरणीयम् । पृथक् पात्राणीति बहुवचननिर्देशाच्चतुर्भिः पृथ-
ग्भूतैः पात्रचतुष्टयमित्येवं षट्पात्राणामासादनं सिध्यति । एवमेव वीरपद्ध-
तिस्वरसोऽपि । पुरस्तात्पूर्वस्यान्दिश्यग्नेः । उप(नि)दध्युः-स्थापयेयुः ॥ ६ ॥
कृसरोनापिताय सर्वबीजानि चेति ॥ ७ ॥
“दातव्यानी”ति शेषः । इतिनाऽऽ(३)द्यर्थकेनान्यदपि पारितोषिकन्देयमि-
त्युपदिशति । एतानि च प्रसङ्गादत्राऽभिहितानि प्रदानन्तु प्रतिपत्तिरूपतयाऽ-
स्य कर्मान्त एव, वेतनदानस्य तदैवोचितत्वादिति भाष्यकारादयः ॥ ७ ॥
अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य पश्चादग्नेरुदगग्रेषु दर्भेषु
प्राङ्मुखोपविशति ॥ ८ ॥
अथेत्यानन्तर्यार्थम् । आज्यसंस्कारानन्तरमित्यर्थः । माता-मातृस्थानीया-


( १ ) अनड्डान् शब्दोऽभिधाने “उक्षाभद्रोबलोवर्द” इत्येवं पर्याये वृषभनाम्नि पठि-
तः । अनः शकटं वहतीति तदर्थः । “अनः क्लीबे जले शोके मातृस्यन्दनयोरपी”ति रभ-
सः । तथाभूतश्चाच्छिन्नमुष्क एव भवतीति ॥
( २ ) वीरपद्धतौ तु-ततः सत्यनामन्यग्नौ तिलतण्डुलमुद्गसाधितं स्थालीपाकं पचे-
दित्युक्तम् ॥
( ३ ) “ज्वलितिकसन्तेभ्योनः” ( ३।१।१४० ) । इति पाणिनीये तथादर्शनात् ॥
अमरकोशेऽपि “इति हेतुप्रकरणप्रकाशादिसमाप्तिषु” इति ॥

२१४ चूड़ाकरणविधिः। [ २ प्रपाठके-
ऽन्यापि(१)। प्राची-प्राङ्मुखी ॥ ८ ॥
अथ यस्तत्करिष्यन्भवति पश्चात्प्राङवतिष्ठते ॥ ९ ॥
अथेति-किञ्चित्पूर्वप्रकृतं स्मारयति । किन्तत् ? व्याहृतिभिर्होमं, तथाच
पूर्वसूत्रम् “व्याहृतिभिर्होमोयथापाणिग्रहणे तथा चूड़ाकरणे०” इत्यादि ।
( १।२।२७।२८ ) तेनात्र पुरस्ताच्चोपरिष्टाच्च चतस्र आहुतयो भवन्ति ॥ यः
कश्चित्पित्रादिस्तत्कर्म करिष्यन्भवति स महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतस्र
आहुतीर्हुत्वाऽथानन्तरं गृहीतकुमाराया मातुः पश्चात्प्राङ्-प्राङ्मुखः । अव-
तिष्ठते-ऊर्ध्वजानुस्तिष्ठेत् ॥ ९ ॥
अथ जपत्या-“यमगात्सविता क्षुरेणे”ति सवितारं मनसा
ध्यायन्नापितम्प्रेक्षमाणः ॥ १० ॥
( मं० ब्रा० १।६।१ )
अथ-तथाविधावस्थानन्तरमेव । सवितारं-सूर्य्यम् । मनसा-श्रद्धादि-
गुणयुक्तेन । अन्यथा ध्यानस्य मानसिकत्वप्रसिद्धेर्म्मनसेत्यनर्थकं स्यात् ।
तथा च न्यायः “सिद्धस्योपन्यासोविशेषावगतिकरः” इति । ध्यायन्-चिन्त-
यन् । नापितं क्षुरपाणि प्रेक्षमाणोऽवलोकयन् “आयमगादि”-त्येतन्मन्त्रं ज-
पति-जपेत् । मन्त्रार्थस्तु-हे कुमार ! ‘अयं’ नापितः । साक्षात् ‘सविता’ सर्व-
भूतानाम्प्रसविता देवः सूर्यः । ‘क्षुरेण’ उपलक्षितः । उपलक्षणेऽत्र ( पा० २।३।
२१ ) तृतीया । ‘आगात्’ आगतः । त्वच्चूड़ाकरणाय । आङोव्यवहितप्रयोगः
( पा० १।४।८२ ) छान्दसः ॥ १ ॥ इति ॥ १० ॥
“उष्णेन वाय उदकेनैधी-”ति वायुं मनसा ध्यायन्तु-
ष्णोदककंसं प्रेक्षमाणः ॥ ११ ॥
( मं० ब्रा० १।६।२ )
जपतीत्यनुवर्त्तते । वायुं श्रद्धापूतेन मनसा चिन्तयन्नुष्णोदककंसम् । उ-
ष्णोदकयुक्तं कांस्यपात्रं प्रेक्षमाणोऽवलोकयन् “उष्णेन वायो०” इति-इमम्म-
न्त्रञ्जपेदित्यर्थः । मन्त्रार्थस्तु-हे ‘वायो’ ! ‘उष्णेनोदकेन’ गृहीतेन कुमारस्य
शिरः । प्लावयितुम् ‘एधि’ आगच्छ “अडितश्च” ( पा० ६।४।१०३ )
इति हेर्धिः ॥ २ ॥ इति ॥ ११ ॥
दक्षिणेन पाणिनाऽप आदाय दक्षिणाङ्कपुष्णिकामुन्दति
“आप उन्दन्तु जीवसे” इति ॥ १२ ॥
( मं० ब्रा० १।६।३ )
( १ ) उत्तरसूत्रे यः कश्चिदित्युक्तेरत्रापि तथाऽभ्युपगमस्याजानिकाचारपरिगृहीत-
त्वात् ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१५
अपः प्रकृतादुष्णोदककांस्यपात्रात् । आदाय गृहीत्वा कपुष्णिकाम् । मूर्ध्नो-
भयतः केशान् । “कपुष्णिकाऽभितः केशा(१)मूर्द्धिन, पश्चात्कपुच्छलम्” इति-
च्छन्दोगपरिशिष्टात् । उन्‍दति-उन्दयति-क्लेदयति “उन्‍दी क्लेदने” (रु० प०)
अन्तर्भावितण्यर्थः । क्वचित्तथैव पाठः । अत्र करणमन्त्रमाह-आप इति ।
अस्यार्थः । वायुनाऽऽनीताः ‘आपः’ एनं कुमारम् ‘जीवसे’ जीवितुम् ( जीवना-
यास्य ) “तुमर्थे सेऽसेनि”-( पा० ३।४।९ ) त्यादिनाऽसे प्रत्यया । “अव्य-
यकृत्तोभावे” इति महाभाष्यानुशासनात् ॥ १२ ॥
“विष्णोर्दंष्ट्रोऽसी”त्यौदुम्बरं क्षुरं प्रेक्षतेऽादर्शं वा ॥ १३ ॥
( मं० ब्रा० १।६।४ )
औदुम्बरं-ताम्रमयम् । “औदुम्बरम्भवेत्ताम्रं फलाद्यौ यज्ञशाखिनः” इत्य-
जयः । प्रेक्षते-अवलोकयति ।। अवलोकयेदितिविधिरत्र (पा०३।४।७) लेडर्थः ।
एवमग्रेऽपि । मन्त्रार्थस्तु-हेक्षुर ! त्वं ‘विष्णोः’ ‘दंष्ट्रः’ दंष्ट्रा बृहद्दन्तः ‘असि’ भ-
वसि ।। पुंस्त्वमार्षम् ॥ १३ ॥
“ओषधे त्रायस्वैनमि”-ति सप्त दर्भपिञ्जलीर्दक्षिणायां कपुष्णि-
कायामभिशिरोग्रां निदधाति ॥ १४ ॥
( मं० ब्रा० १।६।५ )
आसादितानामेकविंशतिदर्भपिञ्जलीनां ( सप्तशः पृथक् स्थापितानाम् । )
मध्यात् सप्त दर्भपिञ्जलीर्गृहीत्वा कुमारस्य दक्षिणायाम्(२) कपुष्णिकायाम् जू-
टिकायाम् “ओषधे त्रायस्वैनम्” इति मन्त्रेण निदधाति-स्थापयेत् । क-
थम् ? अभिशिरोग्राः । शिरसोऽभीत्यभिशिरः । अव्ययीभावः ( पा०२।१।१४ )
समासः । अग्राणि यासान्तान्तथाविधाः “कृत्वेति” शेषः । मन्त्रार्थस्तु-हे ‘ओष-
धे !’ कुशतृण ! ( ओषध्यधिष्ठातृदेवते ! ) ‘एनं’ कुमारं ‘त्रायस्व’ रक्ष ।
“त्रैङ्पालने” ( भ्वा० आ० ) प्रार्थनायां लोट् इति ॥ ५ ॥ १४ ॥
ता वामेन पाणिना निगृह्य दक्षिणेन पाणिनाौदुम्बरं क्षुरं
गृहीत्वाऽऽदर्शं वाऽभिनिदधाति “स्वधिते मैनँहिंसीरि”तिः॥१५॥
( मं० ब्रा० १।६।६ )
ता दर्भपिञ्जलीर्दक्षिणकपुष्णिकाञ्च निगृह्य-सर्वतोभावेन गृहीत्वा अभि-
निदधाति-संलग्नां धारयति । “स्वधिते मैनं हिं सीरि-”ति मन्त्रेण ।


( १ ) कं शिरः पुष्णाति । शीतातपादिभ्योरक्षणेनेति शेषः ॥
( २ ) अत्र दक्षिणशब्दोभागं विशिनष्टीति न सर्वनामताऽस्य । एवमग्रे ( १९ सू०)
उत्तरशब्दोऽपि न द्विवचन इति वक्ष्यते । तथाचामरः “वामे शरीरं सव्यं स्यादपसव्य-
न्तु दक्षिणम्” इति ॥

२१६ | चूडाकरणविधिः । | [ २ प्रपाठके-
मन्त्रार्थस्तु-'स्वधिते !' हे(१)ताम्रक्षुर ! त्वम् 'एनं' कुमारं 'मा हिंसीः' न हिंसि-
ष्यसि । भविष्यति माङि लुङ् ( पा० ३।३।१७५ ) "न माङ्योगे" ( पा०६।४।
७४ ) इत्यडभावः ॥ १५ ॥
निधाय च—
“येन पूषा बृहस्पते”रिति त्रिः प्राञ्चम्प्रोहत्यप्र(वि)च्छिन्दन्त्स-
कृद्यजुषा द्विस्तूष्णीम् ॥ १६ ॥
( मं० ब्रा० १।६।७ )
त्रिः-वारत्रयम् । प्रोहति-प्रेरयति क्षुरम् । अप्रच्छिन्दन्-केशच्छेदमकू-
र्वन् । क्वचिदविच्छिन्दन् इतिपाठः । अर्थतस्तौल्यमेव । तत्र प्रकारमाह-सकृदि-
ति । यजुषा-“येने”त्युक्तेनैव । द्वि-र्द्विवारं, तूष्णीम्-अमन्त्रकमेव । यजुर्यथा-
“येन पूषा बृहस्पतेर्वायोरिन्द्रस्य चावपत् ।
तेन ते वपामि ब्रह्मणा जीवात्वे जीवनाय दीर्घायुष्याय बलाय वर्चसे”॥७॥
इति । अस्यार्थः । हे कुमार ! 'येन' स्वधितिना 'पूषा' देवः 'बृहस्पतेर्वायो-
रिन्द्रस्य च' कपुष्णिकाम् 'अवपत्' भद्रङ्कृतवान्(२) । 'तेन' स्वधितिना 'ते'
तव कपुष्णिकाम । 'वपामि' भद्रङ्करोमि । किमर्थम् ? 'जीवातवे' एतदेव-
विवृणोति 'जीवनाय' अस्यैवार्थः 'दीर्घायुष्याय बलाये'ति । 'वर्चसे' तेजोवृद्ध्य-
र्थम् (३) । इति ॥ १६ ॥
अथायसेन प्रच्छिद्यानुडुहे गोमये निदधाति ॥ १७ ॥
अथेति-पूर्वप्रकृतार्थम् । यः पूर्वप्रकृतक्षुरपाणिर्नापितस्तदीयेनायसेन
लौहमयेन क्षुरेण प्रच्छिद्य-प्रकर्षेण पिञ्जलीभिः सहैव दक्षिणां कपुष्णिकां
( जूटिकां ) छित्वा । आनडुहे-गोमये । पूर्वमग्नेरुत्तरतः समासादिते । निद-
धाति-स्थापयेत् । मन्त्रानुपदेशादमन्त्रकमेव ॥ १७ ॥
एतयैवाऽऽवृता कपुच्छलम् ॥ १८ ॥
अतिदिशति-एतयैवेति । अनन्तरोक्तयैवाऽऽवृता-परिपाट्या (प्रक्रियया)
कपुच्छलम् । “संस्कुर्यादि”ति शेषः । कपुच्छलन्तु शिरः पश्चाद्भागस्थाः केशा
उक्त-( २।९।१२ ) वचनात् ॥
( १ ) यद्यपि स्वधितिशब्दो वज्रपर्याये ( निघं० २।२०।१६ ) पठ्यते । लोके तु
"द्वयोः कुठारः स्वधिति"रिति कुठारपर्यायेऽभिधाने ( अमरे ) न तु क्षुरे । तथापि ताम्र-
क्षुरस्यैव स्वधिति सञ्ज्ञा शब्दार्णवे "औदुम्बरःक्षुरः प्रोक्तः स्वधितिरि" ॥
( २ ) केशानच्छिन्दन् "क्षौरन्तु भद्राकरणम्मुण्डनं वपनं त्रिषु" इत्यमरः ॥
( ३ ) तादर्थ्ये चतुर्थी ( पा० २।३।१३ वा० ) ।