गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
९२ दर्शपूर्णमासविधिः । [ १ प्रपाठके
अङ्गिराः—
“इध्मः समानवृक्षाणां द्विप्रादेशः प्रमाणतः ।”
कात्यायनोऽपि—
“समिधोऽष्टादशेध्मस्य प्रवदन्ति मनीषिणः ।
दर्शं च पौर्णमासे च क्रियास्वन्यासु विशतिम् ॥” इति ।
तथा—
“मूलमध्याग्रदेशेषु ईषत्सिक्तांस्तु निर्वपेत् ।”
इति । अयञ्च सेको घृतादिनैव । अत एवोक्तं वीरेश्वरादिभिः स्वस्वपद्धतौ
“मूलमध्याग्रक्रमेणघृताक्तानि”ति । स्थौल्यादिकन्तु यथोक्तं ( २।२।७ ) धर्म्मा-
न्तरमिध्मस्य । समित्समानमेव ग्राह्यम् । तथाच समित्स्वरूपमुक्त्वा कात्यायनः—
“प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्त्तितम् ।
एवं विधाः स्युरेवेह समिधः सर्वकर्म्मसु ॥”
इति । इह गृह्यकर्म्मणि । समिध्यतेऽग्निरेभिरिति व्युत्पत्त्या समिध इध्मा
एवं विधा एव समित्समाना एवेत्यर्थ इति मुरारिमिश्राः । आज्यमिति । अन-
(१)क्त्यनेनेत्याज्यं सर्पिरादि । संस्करुते-संस्कुर्याद्वक्ष्यमाणेन विधिना ॥ १९ ॥
किन्तदाज्यन्तदाह—
सर्पिस्तैलं दधि पयो यवागूं वा ॥ २० ॥
सर्पिर्घृतम् “घृतमाज्यं हविस्सर्पिः” इत्यमरः । तैलम् तिलस्नेहम् । यवा-
गूः । भृष्टयवचूर्णं षड्गुणजले ( दुग्धे वा ) सिद्धं द्रवद्रव्यम् । यूयते मिश्रय-
तेऽसाविति “युमिश्रणे” (अ०प०) इत्यस्मात्कर्म्मणि ( उ० ३।८१ ) अगूच्प्र-
त्ययः । “यवागूः षड्गुणजले सिद्धा स्यात्कृशरा घना” इति शार्ङ्गधरीये
(म०खं०२अ०) अत्र पूर्वपूर्वासम्भवे उत्तरोत्तरोपादानमिति द्रष्टव्यम् ॥ सर्व-
मेतदाज्यमुच्यते तदाह गृह्यासङ्ग्रहे कात्यायनः—
“अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा ।
ऋतुभिरेव यत्पूतन्तदाज्यमितरद् घृतम् ॥
घृतं वा यदि वा तैलं पयो वा यदि यावकम् ।
आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते ॥” इति ।
यावकम् । यवागूः ॥ २० ॥
आज्यसंस्कारप्रकारमाह—
तत एव वर्हिषः प्रादेशमात्रं पवित्रे कुरुते ॥ २१ ॥
( १ ) “अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) इत्यस्मात् “अञ्जेः संज्ञा-
याम्” ( पा० ३।१।१०९ वा० ) इति क्यपि बाहुलकाद्वृद्धिः । तेनाञ्जन-(स्निग्धीकरण)
साधनमुच्यते । यत्तु इज्यत अनेनेति आज्यमिति चन्द्रकान्तभाष्यादावुक्तन्तदर्थसङ्गति-
मनुसृत्य व्याख्यानमात्रम् ॥
तत—स्तृतादेवेत्यर्थे इति कौमुदी। तत्रायमाशयः। तत्पदस्य पूर्वप्रक्रान्त-
वाचकत्या स्तृतस्य चाव्यवहितोपस्थितत्वात्तत्परामर्शौचित्यात्। न च विनि-
युक्तविनियोगविरोधः। औपदेशिकत्वात्। यथा "व्रीहीन्प्रोक्षती"त्यादौ प्रो-
क्षितानामेव व्रीहीणामवघातान्वयः। न च तत्र "प्रोक्षिता व्रीहयोऽवघाताय
कल्पन्त" इति स्मरणात्सामानाधिकरण्यानुरोधात्तथोपदेशोगम्यत इति न दोष
इति वाच्यम्। अत्रापि तत्पदस्य प्रक्रान्तवाचकत्वोपदेशसत्त्वात्। अत एव
“न तर्हि बर्हिष इवे"ति कुसुमाञ्जलौ वर्द्धमानचरणैर्बर्हिष इवेति व्यतिरेके
दृष्टान्त इत्युक्तम्। धीरवीरादिपद्धतिरप्येवमेव। भाष्यकृतस्तु—तत एव वि-
स्तीर्णशेषादेवेति व्याचक्षते—
“स्तृतेभ्यो न प्रचिनुयाद्यातयामं स्तृतं स्मृतम्”
इति स्तृतनिषेधात्तेन च स्तरणक्रिययैकदा नियमादृष्टजननात्तैनैव पवित्रकरणे
विनियुक्तविनियोगविरोधाच्चानास्तृतादेव ग्रहणमुचितमिति तेषामाशयः। प्रादे-
शमात्रे—विस्तृततर्जन्यङ्गुष्ठप्रमाणे । प्रमाणेऽर्थे मात्रच्प्रत्ययः (पा० ५।२।३७)
पवित्रे कुरुते इति द्विवचनन्दलापेक्षम्। प्रादेशमात्रस्य वर्हिर्द्वयस्य खल्वत्र पवि-
त्राकरणमुपदिश्यते। न हि द्विदलपवित्रस्य द्वित्वं शक्यते वक्तुम्। वर्हिषः प्रादे-
शमात्र इत्यभिधानात्। तथाच कर्म्मप्रदीपे कात्यायनः—
“अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च।
प्रादेशमात्रं विज्ञेयम्पवित्रं यत्र कुत्रचित्॥”
एतदेव हि पिञ्जल्या लक्षण समुदाहृतम्।
आज्यस्योत्पवनार्थंयँत्तदप्येतावदेवतु॥” इति।
“समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति”
इति च ब्राह्मणम्। अत एव शुभकर्म्मनिर्णये— “नन्वनन्तर्गर्भिणं साग्रं
कौशं द्विदलमेवचे”ति कात्यायनवचनादेतावद्विशेषणयुक्तं कुशपत्रद्वयं पवित्र-
पदार्थस्तत्र च द्विवचनविभक्त्यर्थद्वित्वान्वयात्पत्रचतुष्टयन्तावल्लभ्यते तथाचाचा-
रविरोध इति चेन्मैवम्। "प्रादेशमात्रे पवित्रे कुरुते" इत्यत्र पवित्रपदस्य शक्यै-
कदेशपत्रमात्रपरत्वात्। मुख्यपरत्वे हि सूत्रे प्रादेशमात्रे इति विशेषणं व्यर्थ-
मापद्येत विशिष्टशक्तपदादेव तल्लाभसम्भवात्। किञ्च “पवित्रे स्थ” इति
मन्त्रलिङ्गात् प्रकृतसूत्राच्च पत्रचतुष्टयविनियोगशङ्कामाभूदिति पवित्रलक्षणम-
भिधाय कात्यायनेनोक्तम् “आज्यस्योत्पवनार्थंयँत्तदप्येतावदेव तु” इति। ननु-
विनिगमनाविरहात् कथन्तदनुरोधेन सूत्रादौ मुख्यार्थत्याग इति चेन्न तस्य सू-
त्रतात्पर्य्योन्नायकत्वात्। तदुक्तम्—
“अस्पष्टानां विधिं सम्यग्दर्शयिष्ये प्रदीपवत्”
इति। एवञ्चाचारोपष्टब्धं "पवित्रमन्तरा कृत्वे"ति गृह्यसङ्ग्रहवचनमपि
शङ्गच्छते । एवञ्च “पवित्रे स्थो वैष्णव्यावि”त्यादि मन्त्रस्थपवित्रपदान्तरं
यत्र यत्र द्विवचनविभक्तिरस्ति तत्र तत्र पवित्रपदं शक्यैकदेशदलपरमेव श्रोत्रि-
यपदवत् । देवस्त्वेति मन्त्रस्थ पवित्रपदञ्च मुख्यपरमेव, अनुपपत्त्यभावात् ।
अतएव तत्र पवित्रेणेत्येकवचनमपि सङ्गच्छते इति दिक् ॥ कश्चित्तु—‘‘कौश-
न्द्विदलमेवचे’’ति पवित्रलक्षणे दलपदं न पत्रपरमपि तु तदुभयपार्श्वपरमि-
त्येकमेव पवित्रपदार्थस्तथा च न द्विवचनानुपपत्तिरिति प्रकृते समाधानमाह
तन्न—एवमप्यर्घ्यादावेकपात्रात्मकपवित्रदानापत्तावाचारविरोधस्य “आज्यस्यो-
त्पवनार्थं यत्तद्दष्येतावदेव तु” इति परिशिष्टवचनविरोधस्य, सूत्र “प्रादे-
शमात्रे” इति विशेषणवैय्यर्थ्यस्य चापरिहारादिति मुरारिमिश्राः प्राहुः ॥ २१ ॥
ओषधिमन्तर्द्धाय
७ कण्डिका ] गोभिलगृह्यसूत्रे- ६५
तदेव हस्तघटितं प्रशस्तं हव्यकव्ययोः ॥"
इति । उदगग्राभ्यां पवित्राभ्यां-पवित्रघटितदलाभ्यामित्यर्थः । उत्पूनाति
ऊर्द्ध्वं शोधयति ॥ २४ ॥
कथमिति ? तत्प्रकारमाह-
अङ्गुष्ठाभ्याञ्चोपकनिष्ठिकाभ्याञ्चाङ्गुलिभ्यामभिसंगृह्य प्राक्-
शस्त्रिरुत्पुनाति "देवस्त्वासवितोत्पुनात्वच्छिद्रेण पवित्रेण
वसोः सूर्य्यस्य रश्मिभि"रिति सकृद्यजुषा द्विस्तूष्णीम् ॥२५॥
तथाचैकहस्तानामिकाङ्गुष्ठाभ्यां मूलदेशे अपरहस्तानामिकाङ्गुष्ठाभ्यामग्रदे-
शेऽभिसंगृह्य-अर्थात्पवित्रे गृहीत्वोत्तराग्राभ्यान्ताभ्यामाज्यमादाय **"देवस्त्वे"**ति
यजुषा प्राङ्मुखं प्राकशः । त्रिरिति । मन्त्रेण सकृदुत्पुनाति ऊर्ध्वन्नीत्वा क्षिप-
ति । द्विस्तूष्णीमित्यर्थः ॥ अत्र व्यस्तहस्तानामिकाङ्गुष्ठाभ्याम्पवित्रग्रहणमिति
पद्धतिकृतोधीरे श्वरादयः ॥ मन्त्रार्थस्तु हे आज्य ! 'त्वा' त्वां 'सविता' 'देवः'
आभ्याम् 'अच्छिद्रेण' अच्छिद्राभ्यामव्यवच्छिन्नाभ्याम् 'पवित्रेण' पवित्राभ्या-
म् । 'उत्' अधिकं 'पुनातु' अज्ञातकेशकीटादिदोषमपनयतु । किञ्च वसु तेजः
रश्मिर्वा ( निघं० १।५।१० ) तत्प्रधानत्वात्सोऽपि ( सूर्य्यः ) तथोच्यते । तस्य
'वसोः' तेजानिधेः 'सूर्य्यस्य 'रश्मिभिः' किरणैः "किरणप्रग्रहौरश्मी" इत्यमरः।
त्वामुत्पुनात्विति सम्बन्धः । अभिधानभेदाभिप्रायेण सविता(१)सूर्यादन्यः ।
पवित्रेणेति व्यत्ययेन एकवचनम् ॥ २५ ॥
अथैने अद्भिैरभ्युक्ष्योग्नावप्युत्सृजेत् ॥ २६ ॥
अथानन्तरमेवाविमुञ्चन्नेव एने पवित्रे सव्येन गृहीत्वा दक्षिणेन अद्भिः
प्रणीताजलेनाभ्युक्ष्य दक्षिणेनैवाग्नावपि उत्सृजेन्निः क्षिपेदित्यर्थः ॥ २६ ॥
अथैतदाज्यमधिभ्रित्योदुद्वासयेत् ॥ २७ ॥
अथोत्पवनानन्तरम् । एतद् अनन्तरोक्तं सर्पिरादिरूपमाज्यम् । अधिश्श्रि-
त्य-अग्नेरुपरि कृत्वा प्रतप्य उदगुत्तरस्यामग्नेः कुशोपरि उद्वासयेत् । अवतार्य
स्थापयेत् । अत्र चाधिश्रयणन्दधिभिन्नानामेवाज्यानान्न तु दध्नोऽपि तत्र निषे-
धात् । तथाच कात्यायनः-
"आज्यानां सर्पिरादीनां संस्कारे विधिचोदिते ।
अनधिश्रयणन्दध्नः शेषाणां श्रपणं स्मृतम् ॥"
इति । तथा-
"यथा सीमन्तिनी नारी पूर्वगर्भेण संस्कृता ।
( १ ) मन्त्रमयीवैं देवता इति हि कर्ममीमांसकानामालाभ्रः । तस्य शब्दात्मिका
इत्यर्थः । अत एव चणकमसूरादयोऽपि देवतास्तेषामान्नायन्ते । तदधिष्ठात्र्यो देवता इति
हि तत्त्वविदः प्राहुः ॥
एवमाज्यस्य संस्कारः पूर्वैर्गोवोत्तरह्य तु ॥”
इति । एवञ्च यत्किञ्चिदवशिष्टे संस्कृते घृतादौ पुनर्घृतान्तरप्रवेशने तत्र
न संस्कारान्तरापेक्षा । सर्वापचारे पुनस्तदपेक्षैव तत्र संस्काराभावादिति द्रष्ट-
व्यम् ॥ वारत्रयमेवमाज्यसंस्कार इति पद्धतिकृतोधीरोश्वरादयः ॥
एवमाज्यस्य संस्करणकल्पोभवतीति ॥ २८ ॥
इति गो० गृ० प्र० प्र० के सप्तमी कण्डिका ॥ १ ॥ ७ ॥ ॐ ॥
एवमनेन प्रकारेण आज्यस्य संस्करणकल्पोभवति । यत्र यत्राज्यं संस्कृ-
यते तत्र तत्रैवकत्तर्व्यमित्यर्थः । इतिः कण्डिकापरिसमाप्त्यर्थः । स्रुवादिसंस्कार-
समुच्चयार्थो वा । तथाच गृह्यान्तरम्-“स्रुवं प्रतप्य दर्भैः सम्मृज्याभ्युक्ष्य पुनः
प्रतप्य निदध्यात्” इति । कर्म्मप्रदीपोप्याह--
“तेषां प्राक्शः कुशैः कार्य्यः सम्प्रमार्गोऽजुहूवता ।
प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा ॥”
इति ॥ २८ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायाम्मृदुलाख्यायां मुकुन्दशर्म्मकृतायाम्प्रथ-
मप्रपाठकस्य सप्तमी कण्डिका ॥ १ ॥ ७ ॥ * ॥
अथाष्टमी कण्डिका -
पूर्वमाज्यमपरः स्थालीपाकः ॥ १ ॥
पूर्वापरदेशत्वाद्द्वयोरपि पूर्वापरव्यपदेशः । पूर्वस्यान्दिश्याज्यम् आसाद-
यितव्यम् । अपरस्याञ्च स्थालीपाक आसादयितव्य इति शेषः । पूर्वं खल्वग्ने-
रुत्तरतः समासादितयोरनयोरिदानीङ्क्रियासौकर्यार्थमग्नेः पश्चिमतः पूर्वापरभावेन
समासादनमिति बोद्धव्यम् । तथाच गृह्यान्तरम्--“होत्रग्न्योरन्तरा आज्यह-
विषी आसादयेत्” इति । इदानीं हविषः पश्चिमतः समासादनादेव वक्ष्यत्या-
चार्य्यः “अथैतद्धविरुच्छिङ्घमुदगुद्वास्य” इति ॥ १ ॥
पर्युक्ष्य स्थालीपाक आज्यमानीय मेक्षणेनोपघात ँहोतुमेवोपक्रमते २
“अदितेऽनुमन्यस्व” इत्येवमादिनाऽग्निं पर्युक्ष्यस्थालीपाके चरौ आज्य-
मानीय--प्रक्षिप्य मेक्षणेन यथोक्तेन ( १।५।१९ सू० ) उपघातम्--उपघात-
नामा यथा भवति होमस्तथा होतुमेवोपक्रमते--प्रारभेत इत्यर्थः । विद्ध्यर्थेऽत्र-
लेट् । एवकारोऽवधारणार्थः । नान्यत् किञ्चिदभिघारणादिकं कुर्य्यादिति तदर्थः ।
“चरावाज्यमानीय प्रपद्विरूपाक्षौ जपित्वा समिधमाधाय जुहुयादेव” इति
भट्टभाष्यम् । तदनेनोपघातहोमे अभिघारणादिकमाज्यभागौ च न भवतीति
सूचयति । द्विविधः खलु होमो याज्ञिकप्रसिद्धः।उपघातः उपस्तीर्णाभिघारितश्च ।
चरावाज्यं निःक्षिप्य विनैवाभिघारणादिकयँद्धूयते स उपघातः । यश्च
स्रुचि स्रुवेणाज्येनाभिघार्य्य चरुमवदाय पुनराज्येनाभिघार्य्य हूयते सउपस्ती-
र्णाभिघारित इत्याख्यायते । स्रुवेण स्रुचि यदाज्य प्रथमङ्गृह्यते तदुपस्तीर्णं,
हविरवदायानन्तरं यदाज्यन्दीयते तदभिघारितम इति व्यपदिश्यते । यथाचो-
पस्तीर्णाभिघारितं होतव्यन्तदनुपदं व्युत्पादयिष्यते । यथाचोपघातहोमस्तदत्र
सूत्र्यते । तथा च गृह्यासङ्ग्रहः—
पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः ।
हूयते चानुपस्तीर्य्य उपघातः स उच्यते ॥
यद्युपघातञ्जुहुयाच्चरावाज्यं समावपेत् ।
मेक्षणेनच होतव्यं नाज्यभागौ न स्विष्टकृत् ॥ ”
इति । तदेवमुपघातमिति पारिभाषिकी संज्ञा होमविशेषस्य । स खल्वयमु-
पघातहोमः समशनीयचरु—पितृयज्ञचर्वोरन्यत्रापि बहुदैवत्ये चरौ आन्वष्ट-
क्यचरौ च भवति । तदाह कर्म्मप्रदीपः—
“चरौ समशनीये तु पितृयज्ञचरौ तथा ।
होतव्यं मेक्षणेनान्यदुपस्तीर्णाभिघारितम् ॥ ”
इति । “चरौ तु बहुदैवत्ये होमस्तस्योपघातवत्” इति चस्मरणम् । वक्ष्य-
ति चान्वष्टक्ये “कंसे चरुं समादाय मेक्षणेनोपघातञ्जुहुयात्” इति ॥ “त-
त्रान्वष्टक्यपितृयज्ञयोः क्षिप्रहोमधर्मः । समशनीयेतु ब्रह्मोपवेशनादितन्त्रधर्म”
इति भट्टनारायणोपाध्यायाः । वृषोत्सर्गहोमस्य तु बहुदैवत्येऽपि नोपघातत्वं,
तदाह कर्म्मप्रदीपः—
“एतेभ्य एव जुहुयान्मेक्षणेनावदाय च ।
स्रुच्याहुतीश्चरोः पृथक् सिञ्चेदाज्याभिघारितम्” इति ।
“चतुर्गृहीतं कृत्वाज्यमाभिरूग्भिः पृथक् पृथक् ॥
स्वाहाकारावसानाभि-र्जुहुयाद्विधिवत्सदा ॥ ” इति च ॥ २ ॥
यद्युवा उपस्तीर्णाभिघारितञ्जुहुयात्
आज्यभागावेव प्रथमौ जुहुयात् ॥ ३ ॥
उ-इति वितर्कार्थको निपातः । वै-इति निश्चयार्थः । यद्युपस्तीर्णाभिघारितं
यथानुषदोक्तलक्षणं जुहुयात्(१) । तर्हि आज्यभागावेव प्रथमौ जुहुयात् । यद्वा
तर्ह्येवाज्यभगौ प्रथमौ जुहुयादित्येवमवध्रियत एवकारेण । तदिमावाज्य-
भागौ उपघातहोमे न भवत इति दर्शयति । मुरारिमिश्रास्तु-उपस्तीर्णाभि-
( १ ) अत्र जुहूषेद्दिति चन्द्रकान्तभाष्यादौ पाठः । होतुमिच्छेदिति तदर्थः ।
१३ गो०गृ० सू०
२८ अथ दर्शपौर्णमासविधिः । [ १ प्रपाठके-
घारितं लक्षयित्वा तथा वा जुहुयात् । एवकारोभिन्नक्रमस्तथा चोभयोरपि
कल्पयोराज्यभागौ प्रथमौ जुहुयादेवेत्यर्थः । विकल्पश्च मेक्षणहोमेन सह व्यव-
स्थितः । व्यवस्थामाह कात्यायनः ।
“चरौ समशनीये तु पितृयज्ञचरौ तथा ।
होतव्यं मेक्षणेनान्यदुपस्तीर्णाभिघारितम्” इति ॥ ३ ॥
अथ कथमाज्यभागौ जुहुयात्तदुच्यते—
चतुर्गृहीतमाज्यं गृहीत्वा पञ्चावत्तन्तु भृगूणाम् ।
अग्नये स्वाहेत्युत्तरतः सोमाय स्वाहेति दक्षिणतः प्राक्शो जुहुयात् ४
चतुः कृत्वोगृहीतम् स्रुवेण(१) । सुची(२)ति शेषः । गृहीत्वा कृत्वा (३) ।
“अग्नये स्वाहा” इति मन्त्रेणाग्नेरुत्तरभागे प्राक्शः प्राग्गतं (४) यथा स्यात्त-
था स्रुचैव जुहुयात् । एवं ( तथैव गृहीत्वा ) “सोमाय स्वाहा” इत्यग्नेर्दक्षिणभागे
प्राग्गतञ्जुहुयात् । अन्यास्त्वाहुतयोऽग्नेर्म्मध्यभागे होतव्या इत्यर्थादवगम्यते ।
तथा च साङ्ख्यायनगृह्यम्— “उत्तरमाग्नेयं दक्षिणे सौम्यम्मध्येऽन्या आहुतयः”
इति । वक्ष्यति चाचार्य्यः “अग्नये स्वाहेति मध्ये जुहुयात्” इति ॥ अत्रा-
ज्यग्रहणे—गोत्रकृतां व्यवस्थामाह पञ्चावत्तन्विति । पञ्चावत्तं—पञ्चकृत्वोव-
दानेन गृहीतन्तु भृगूणाम् भृगुगोत्रापत्यानाम् । अत्र “अत्रिभृगुकुत्सवसि-
ष्ठगौतमाङ्गिरोभ्यश्च” (पा० २।४।६५) इति गोत्रप्रत्ययस्याणोलुक् । भृगुगो-
त्राणां भार्गवप्रवराणाञ्चेति भवदेवभट्टः । भार्गवप्रवराणामिति भट्टनारायणो-
पाध्यायाः । तन्त्रान्तरकारास्तु स्मरन्ति—
“जामदग्न्या वत्सविदा वार्ष्टिषेणास्तथैव च ।
भार्गवाश्च्यवना और्वाः पञ्चावत्तिन ईरिताः ॥” इति ॥ ४ ॥
अथ हविष उपस्तीर्यावद्यति ॥ ५ ॥
अथानन्तरम् । उपस्तीर्य—प्रकृतत्वादाज्यं स्रुवेण स्रुचि निधाय । हविषः
इत्यवयवलक्षणा षष्ठी । तथाच हविषोऽवयवं मेक्षणेन अवद्यति—अवदाय स्रु-
चि गृह्णातीत्यर्थः ॥ ५ ॥
( १ ) आज्यधारणे तस्य गुणत्वात् ।
( २ ) अत्र मुरारिमिश्राः स्रुचैव जुहुयात् कुतः ? होमार्थत्वादेव तस्या इत्याहुः ।
जुहूः प्रदाने गुणभूतेति तान्त्रिकसमयात् । “यस्य पर्णमयी जुहूर्भवति न स पापꣳ श्लो-
कं शृणोति यस्य खादिरी न सोऽन्नात्परिहीयते” इति च श्रवणात् । पर्णमयी—पलाशम-
यी । तथाचोक्तं “द्रव्यसंस्कारकर्मसु फलार्थवादः स्यात्” ( जै० सू०.४।३।१ ) इति ।
“अनेन गृहीतं जुह्वा जुहोति” इति च गृह्यान्तरम् ॥
( ३ ) “अश्वालम्भनमालभेत” इत्यादिष्विहापि प्रत्ययार्थमात्रविवक्षा द्रष्टव्या ॥
( ४ ) प्राङ्मुख इति मुरारिमिश्राः ।
८ कण्डिका ] गोभिलगृह्यसूत्रे— ९९
कथमवद्यतीत्युच्यते—
मध्यात्पूर्वाद्धाच्चतुरवत्ती चेद्भवति, मध्यात्पूर्वाद्धात्
पश्चाद्धादिति पञ्चावत्ती चेद्भवतीति ॥ ६ ॥
मध्यात् — चरोर्म्मध्यप्रदेशात् । पूर्वाद्धात् — चरोरित्येव । चशब्दश्च समुच्च-
यार्थोलुप्तवद्द्रष्टव्यः । तथाचान्यत्राप्युक्तम् “विनापि चं समुच्चयो द्योत्यते गाम-
श्वं पुरुषम्पशुमिति यथे ” ति । तथाच गृह्यान्तरं “मध्यात्पूर्वाद्धाच्च हविषोऽव-
द्यति” इति । चतुःकृत्वोऽवत्तान्यवदानानि सन्त्यस्येति (१) मत्वर्थ इनिः ।
( पा० ५।२।११५ ) एवमग्रेऽपि । चेद्यदि अवदाता भवति तर्हि मध्यात्पूर्वाद्धा-
च्चावद्यतीति गतेन सम्बन्धः । चेत्-यदि पुनः पञ्चावत्ती अवदाता भवति,
तदा चरोर्म्मध्यात् — पूर्वाद्धात् पश्चाद्धात्-अपराद्धाच्च(२) अवद्यतीत्यर्थः ।
इति-एवमवदानं भवतीति मन्तव्यम् ॥ ६ ॥
अभिघारयत्यवदानानि ॥ ७ ॥
अवदानानि—यथा श्रुचि गृहीतानि हवींषि अभिघारयति-आज्यस्रुवेणा-
प्लावयति । बहुवचनं वक्ष्यमाणत्रिर्होमापेक्षया । व्यक्तिभेदापेक्षया वा ॥ ७ ॥
प्रत्यनक्त्यवदानस्थानान्ययातयामतायै ॥ ८ ॥
अवदानानां स्थानानि येभ्योऽवद्यति तानि मेक्षणेनानक्ति-अङ्क्तानि करोतीत्यर्थः । बहु-
वचनं पूर्ववद्व्याख्येयम् । प्रति प्रत्येकम् अनक्ति — अक्तानि करोति । आज्यस्रु-
वेणाप्लावयतीत्यर्थः । किमर्थम् ? अयातयामतायै । यज्ञायोग्यता यातयामते-
त्युच्यते(३) । न यातयामताऽयातयामता तस्यै । एतदुक्तं भवति । मेक्षणक्षतेन
यातयामता चरोरुत्पद्यते । आज्याप्लावनेन पुनरयातयामता तस्य भवतीति ॥८॥
एवं खल्ववदाय—
अग्नये स्वाहेति मध्ये जुहुयात् ॥ ६ ॥
मध्ये-अग्नेरेव ॥ ९ ॥
( १ ) यद्यपि “न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेतदर्थप्रतिपत्तिकर” इति
न्यायᳲपाणिनीयैराहतस्तथाप्येष “कृष्णसर्पवान्वल्मीक.” इत्यादौ व्यभिचरित इत्यु-
पेक्षितोऽत्र तस्य परिग्रहः ॥
( २ ) पश्चिमाद्धात् । “अपरस्यार्द्धे पश्चभावो वक्तव्य” ( पा० २।२।१८ वा० )
इति साधुः ॥
( ३ ) तथाच “यो ह वा अविहितार्षेयच्छन्दोदैवतमन्त्रेण यजति याजयति अधी-
तेऽध्यापयति × × × ×वा यातयामान्यस्य च्छन्दांसि भवन्ती”ति ॥ उद्धृत्य शिष्ट-
मुच्छिष्टमित्येष दोषोऽपनीयते प्रत्यञ्जनेनेति वदन्ति ॥
२०७ दर्शपूर्णमासविधिः । [ १ प्रपाठके
कति जुहुयादित्युच्यते—
सकृद्वा त्रिर्वैतेन कल्पेन ॥ १० ॥
एतेन कल्पेन-अनन्तरोक्तयाऽऽवृता ( परिपाट्या ) इत्यादरार्थमुक्तम्
सकृद्वा त्रिर्वा जुहुयात् । वाशब्दद्वयन्तुल्यवद्विकल्पार्थम् । त्रित्वपक्षे च—"ए-
का देया तिस्रोदेया" (१)इत्यादिवच्छ्रेयोभूयस्त्वं कल्पयितव्यम् । अन्ये-
त्वाहुः अभावविकल्पोऽयं, त्रित्वपक्षाशक्तौ सकृत् ॥ १० ॥
अथ स्विष्टकृत उपस्तीर्यावद्यत्युत्तरार्द्धपूर्वाद्धत् ।
सकृदेव भूयिष्ठमवद्य द्विरभिघारयेत् ॥ ११ ॥
अथ—प्रधानहोमानन्तरं स्विष्टकृतः(२) अर्थे । अवद्यति अवदाय(३) स्रु-
चि गृह्णाति । किङ्कृत्वा ? उपस्तीर्य—सकृदाज्यं स्रुवेण स्रुचि निधाय ।
कथम् ? चरोरुत्तरार्द्धपूर्वाद्धत्-अपराजिताया ( ऐशान्या ) दिशः । सकृदेक-
वारमेव भूयिष्ठं बहुतरं यथा स्यात्तथा अवद्य-हविर्द्विरभिघारयेत् । आज्य-
स्रुवेण वारद्वयमाप्लावयेत् । एवं किल चत्वार्यवदानानि सम्पद्यन्ते । सकृदुप-
स्तरणमवदानं हविषोद्विरभिघारणञ्चेति ॥ ११ ॥
यद्यु पञ्चावत्ती स्याद्विरुपस्तीर्यावदाय द्विरभिघारयेत् ॥ १२ ॥
उ वितर्के(४) । यदि पुनरयं यजमानः पञ्चावत्ती(५) स्यात् तर्हि द्विरु-
पस्तीर्थ अवदाय हविर्द्विरभिघारयेत्—द्विवारमाप्लावयेत् । पञ्चावदानसम्पत्त्य-
र्थम् ॥ पञ्चावत्तिनस्तु—
"जामदग्न्या विदा वत्सा वार्षिषेणास्तथैव च ।
भार्गवाश्च्यवना और्वाः पञ्चावत्तिन ईरिताः" ॥
इति गोभिल गृह्यभाष्योक्ता बोध्याः ॥ १२ ॥
न प्रत्यवनक्त्यवदानस्थानान्ययातयामतायै ॥ १३ ॥
स्विष्टकृतोऽर्थेऽवद्य होमान्तरकर्त्तव्यताभावात्तदर्थ-मयातयामतायै प्रत्यवने-
जनमवदानस्थानस्य नोपयुज्यत इति न प्रत्यवनक्तीति समासार्थः । अत्र "मश-
काय धूम" इतिवन्निवृत्त्यर्थं (६)भाक्तमिदमयातयामताया इति । केचित्तु-
( १ ) कात्यायनोऽपि "यत्र स्यात्कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं
ब्रुवते तत्र कृच्छ्राच्छ्रेयोविशिष्यते" इति ॥
( २ ) चतुर्थ्यन्तपाठे तादर्थ्यं चतुर्थी बोध्या ॥
( ३ ) द्यतिरत्र खण्डने ( दि० प० ॥
( ४ ) "यद्युवा" इति पाठे सोऽयं निपातसमुदायो यद्यर्थ इति भाष्यम् ॥
( ५ ) अत्र "कृष्णसर्पवान्वल्मीक" इतिवन्मत्वर्थीय इनिर्बोद्ध्यः । पञ्च-संख्याकम्
। ग्रस्तमवदानमस्यास्तीति कर्त्तरि षष्ठ्यर्थे इनिः ॥ ( ६ ) लाक्षणिकम् ।
८ कण्डिका ] गोभिलगृह्यसूत्रे--- १०१
संहितापाठे षष्ठ्यन्तं पठन्ति । तत्र निवृत्त्यर्थमित्यस्याध्याहारः क्लेशः । पञ्च-
म्यन्तत्वे तु हेतौ पञ्चमी "विभाषा" ( पा० २।३।८५ ) इति योगविभागाद्बो-
ध्या । यातयामं पर्युषितम् ॥ १३ ॥
अग्नये स्विष्टकृते स्वाहेत्युत्तरपूर्वार्द्धे जुहुयात् ॥ १४ ॥
उत्तरपूर्वार्द्धे-अग्नेरेव । ऐशान्यामिति तदर्थः ॥ १४ ॥
महाव्याहृतिभिराज्येनाभिजुहुयात् ॥ १५ ॥
भू-र्भुवः-स्वरिति तिस्रोमहाव्याहृतयः प्रसिद्धाः । कर्म्मप्रदीपोऽप्याह—
“भूराद्यास्तिस्र एवेता महाव्याहृतयोऽव्ययाः”
इति । ताभिः स्रुवेण (१)कृत्वाऽऽज्येनाभिस्रुव्येन जुहुयात् । स खल्वयम-
हाव्याहृतिहोमश्चरुहोमे पश्चादेव । तथैवोपदेशात् । आज्याहुतिषु तु पुरस्ता-
त्परस्ताच्च कर्त्तव्य इति वक्ष्यत्युपरिष्टात् ॥ १५ ॥
प्राक्स्विष्टकृत आवापः ॥ १६ ॥
स्विष्टकृत—स्तद्धोमात्प्राक्” आउप्यत इत्यावापः । प्रधानहोमः “कर्त्तव्यः”
इति शेषः । मुख्यहोममात्रे-स्विष्टकृत्तदन्ते महाव्याहृतिहोमः । ततः कर्मापवर्ग-
विहितां समिधमाधाय प्रायश्चित्तहोम आज्येनाज्यतन्त्रेण कार्यः । हविषोऽना-
देशात् । स च यद्यपि “सर्वस्यैव प्रायश्चित्तिः” इति श्रुतेरुल्लिखितुमुचितः ।
भट्टभाष्येऽपि “एतत्सर्वं प्रायचित्तं क्षिप्रहोमवर्ज्जं सर्वत्रैव स्यादि”त्युक्तन्तथा-
प्यर्थं प्रकृतहोमवैगुण्य एव तत्प्रशमनार्थोविधीयते, इति नाऽसाववैगुण्ये
कर्त्तव्य इति नात्र सूत्रित आचार्येण । अनियतत्वादिति द्रष्टव्यम् ।
अत्र मुख्यहोमेऽकृते यदि चरुर्नष्टोदुष्टोवा भवति तदान्यः पाक्यः । मु-
ख्ये कृते चेन्नाशदुष्टी स्यातान्तदाऽऽज्येनैव स्विष्टकृद्धोम इति सरलाकार आह ।
चन्द्रकान्तस्तु—“एकदेशद्रव्योत्पत्तौ विद्यमानसंयोगात्” (४-१-२८) इति
जैमिनीयसिद्धान्तात्स्विष्टकृद्धोमस्य प्रतिपत्तिरूपत्वात्प्रतिपत्तेश्च प्रतिपाद्याभावे
लोप एवाकरणे निरूपित इत्येवमाह । मुख्यहोमार्थमवत्ते हविषि नष्टे दुष्टे वा
खल्वाज्येन होतव्यम् । न पुनरवदातव्यं न वान्यत्पाच्यं कुतः ? “निर्देशाद्वाऽ-
न्यदागम्यते” ( ४।४।२ ) इति जै० सिद्धान्तात् । “यस्य सर्वाणि हवींषि नश्ये-
युर्दुष्येयुरपहरेयुर्वा, आज्येन ता देवताः परिसंख्याय यजेरन्” इति च हविषो-
नाशे आज्यविधानात् । “तत्र सर्वशब्दस्य निमित्तविशेषणत्वेनाविवक्षितत्वान्ना-
शमात्रे सर्वत्राज्यस्य विधिः” इत्यधिकरणमालायां माधवाचार्याः ।
स खल्वयं प्रायश्चित्तहोमः व्यस्तसमस्तमहाव्याहृतिभिर्वा । “अज्ञातमि”
( १ ) द्रवद्द्रव्यकत्वात् ॥
१०२ दर्शपूर्णमासविधिः । [१ प्रपाठके
त्यादिना मन्त्रेण वा प्राजापत्यमन्त्रेण वा कर्त्तव्यः । "तस्मादेतामेव जुहुयादपि-
वाऽऽज्ञातं यदनाज्ञातमि"-त्येवमादिकायां श्रुतौ विकल्पोपदेशात् । व्यक्तमाह
कर्मप्रदीपः—
"यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मकोऽभवेत् ।
चतस्रस्तत्र विज्ञेयास्त्रीपाणिग्रहणे यथा ॥
अपि वाज्ञाऽऽतमित्येषा प्राजापत्याऽपि वाऽऽहुतिः ।
होतव्या त्रिविकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥" इति ॥
तदत्र त्रिविकल्प इत्यनेन कल्पान्तरस्य प्रतिषेधोऽवगम्यते ।
केचिदत्र "पाहिनो यज्ञ एनसे स्वाहा" । इत्यादिकमधिकं प्रायश्चित्तहो-
ममाचक्षते । तदसारम् । इह तस्यानुपदेशात् । यदपि शाठ्यायनकं ग्रन्थान्तर-
मत्राधीयते । तदप्यप्रमाणम् । अनार्षत्वात् । परिशिष्टमध्यान्तःपातित्वासम्भ-
वाच्चेति भट्टनारायणोपाध्यायाः । शाठ्यायनहोमस्य समूलत्वेऽपि शाखान्तरी-
यवचनमिति(१)तत्त्वकारः ॥ १६ ॥
गणेष्वेकं परिसमूहनमिध्मोबर्हिः पर्युक्षणमाज्यभागौ च ॥ १७ ॥
गणेषु-एकदा क्रियमाणेष्वनेकहोमेषु । एकम् एव परिसमूहनम् । एकशब्दः
परस्तादपि प्रत्येकमनुषञ्जनीयः । अनेनैव सूत्रशेषोव्याख्यातः । प्रत्येकं तन्त्रविधा-
ने प्राप्ते यानि तन्त्रेण कर्त्तुं शक्यन्ते तेषान्तन्त्रभाव इहोपदिश्यते । परिकीर्त्तन-
ञ्च परिसमूहनादीनामुदाहरणप्रपञ्चार्थं न परिसंख्यानार्थं, तेनोलूखलमुसला-
दिकमपि एकमेव भवतीति द्रष्टव्यम् । गणेषु इति सामान्यतोऽभिधानाद्भिन्नदे-
वताकेष्वपि होमेषु एकदा क्रियमाणेष्वेकमेव परिसमूहनादिकमित्यवगम्यते ।
तथा च गृहान्तरम्—
"पाकयज्ञात्समासाद्य एकाज्यानेकबर्हिषः ।
एकस्विष्टकृतः कुर्यान्नानापि सति दैवते" ॥
इति ॥ १७ ॥
सर्वेभ्यः समवदाय सकृदेव सौविष्टकृतं जुहोति ॥ १८ ॥
गणेष्विति सम्बध्यते । सकृदेकवारं न पृथक्पृथगित्यर्थः । उपलक्षणमेतत् ।
महाव्याहृत्याद्यपि सकृदेव भवतीति सरलाकारः ॥ १८ ॥
(१) अत्र मुरारि मिश्रः—क्रियार्थस्य मेक्षणस्य तदनन्तरमेव प्रतिपत्तिर्मा भूदिति
हुत्वेति । व्याहृतिभिरपि हुत्वेत्यर्थः ॥ अनुप्रहरेत्-जुहुयात् । अनुप्रहरतिशब्दोहोमव-
चनः । तथाच श्रौतसूत्रम् "अष्टावष्टौ शकलानि आहवनीयेऽनुप्रहरेयुर्देवकृतस्येति" (ला०
२।११।१४) ।
८ कण्डिका ] गोभिलगृह्यसूत्रे- १०३
हुत्वैतन्मेक्षणमनुप्रहरेत् ॥ १९ ॥
एतदिति सन्निकृष्टं सौविष्टकृतं परामृश्यते । मेक्षणमुक्तलक्षणम् । अनु-
प्रहरेत् अग्नौ क्षिपेत् । सेयङ्गमार्थस्य मेक्षणस्य अनन्तरमेव कर्म्मणः प्रतिप-
त्तिराख्याता । अन्येत्त्वाहुः-महाव्याहृतिभिरपि हुत्वा मेक्षणमनुप्रहरेन्न स्विष्ट-
कृद्धोमानन्तरमेवेति । स खल्वयं मेक्षणप्रक्षेपोऽन्यत्रङ्गकेषु होमेषु प्रत्येयः ।
तत्र चरुशेषस्य तस्मै प्रतिपादयितव्यस्य वक्ष्यमाणत्वात् । अन्यत्र च मेक्षणेनै-
वोद्धृत्य तद्भोजनस्य सूत्रणात् । न चानुप्रहितेनैव मेक्षणेनोद्धरणन्तस्माद्यथोक्त
एवार्थः ॥ १९ ॥
प्रक्षाल्य वैनेनोद्धृत्य(१) भुञ्जीत ॥ २० ॥
प्रक्षाल्य वा मेक्षणम् । एनेन-मेक्षणेनोद्धृत्यचरुशेषं भुञ्जीत यजमानः ।
तथा च यत्र हौत्रं ब्रह्मत्वञ्च स्वयमेव करोति सोऽस्य विषयः । यत्र चान्योब्र-
ह्मा भवति तत्र वक्ष्यति “अथैतद्बविरुच्छिष्टम्” ( १।९।१। ) इत्यादि ॥ अन-
न्वादेशेप्येनादेशश्छान्दसः(२) ॥ २० ॥
न स्रुवमग्नौ प्रहरेदित्येक आहुः ॥ २१ ॥
स्रुवमग्नौ न क्षिपेदित्येके आचार्या वदन्ति । अस्मादेवावगम्यते स्रुव-
मग्नौ क्षिपेदिति-अन्ये वदन्तीति । तस्मादत्र विकल्पः ॥ २१ ॥
आग्नेय एवाऽनाहिताग्नेरुभयोर्दर्शपूर्णमासयोःस्थालीपाकः स्यात् ॥२२॥
अनाहिताग्नेः । श्रौताग्निरहितः स्मात्तग्निरित्यवगन्तव्यम् । स्पष्टम
न्यत् ॥ २२ ॥
आग्नेयो वाऽग्नीषोमीयो वा माहेन्द्रो वा अमावास्यायाम् ॥ २३ ॥
ऋज्वर्थं सूत्रम् ॥ २३ ॥
ऐन्द्रो वा ऐन्द्राग्नो वा माहेन्द्रो वा अमावास्यायाम् ॥ २४ ॥
आहिताग्नेरेव । ऋजुरक्षरार्थः । अत्रैके विनिवेशविकल्पमाहुः । ऐन्द्रमा-
हेन्द्रौ सोमयाजिनः । ऐन्द्राग्नस्त्वसोमयाजिनः । अत्राप्येकेनेष्टवत ऐन्द्रो, बहु-
भिरिष्टवतोमाहेन्द्र इति । अन्ये तु इच्छाविकल्पमाहुः ॥ २४ ॥
अपिवाऽऽहिताग्नेरप्युभयोर्दर्शपूर्णमासयोराग्नेय एव स्यात् ॥ २५॥
ऋज्वर्थम् ॥ २५ ॥
समिधमाधायानुपर्युक्ष्य यज्ञवास्तु करोति ॥ २६ ॥
( १ ) उद्धृत्येति पाठो मुरारिमिश्रै रेव धृतः ॥
( २ ) अत्र केचित् एनः प्रकृत्यन्तरमिति पठन्ति । अग्रेऽप्येवं क्वचिद्दृश्यते पाठः ।
'!
Let's check line 10:
“कर्म्मावृत्तौ तु मन्त्रस्याऽप्यावृत्तिर्गृह्यकर्म्मणि”
Yes, double 'म्' in 'कर्म्मावृत्तौ' and 'कर्म्मणि'.
Line 11:
इत्यभियुक्तवचनात् । यत्र खल्वनावृत्तिरिष्यते मन्त्राणां, प्रायेण तत्रो-
Line 12:
त्तरत्र तूष्णीमिति करोति । सकृद्यजुषा द्विस्तूष्णीमित्येवम् ।। मन्त्रार्थस्तु- 'वयः'
Line 13:
पक्षिणः । “वि-विष्किरपतत्रयः” इति पक्षिपर्यायेऽमरः । 'अक्तं' घृतेनाभ्यक्त-
Line 14:
मिदं तृणं 'रिहाणाः' लिहानाः । आस्वादयन्तः लिह्येर्वर्णव्यत्ययः । 'व्यन्तु'
Line 15:
खादन्तु इति ॥ २७ ॥
Line 6:
ततस्तस्मादाहृतादेव (१)बर्हिष इति नियमादन्यद्वर्हिर्व्यवच्छिद्यते । कुशमु-
Line 7:
ष्टिम् अनियतसंख्याकं कुशमादायाज्ये-यथोक्ते । हविषि-चरौ वा त्रिरवदध्या-
Line 8:
द्वारत्रयमञ्जयेत् । अग्रा
गान्ध in गन्धपुष्प (L7): न्ध has a small circle/loop.
- In L12, it looks like
न्द्याorन्धा? It isन्द्याorन्धा? - Wait, what should it be in Katyayana?
- "गान्धाद्यङ्गे" or "नान्दी"?
- Wait! "नान्द्याद्यङ्गे वास्त्वन्ते ब्रह्मणे वाससी तथा"?
- Look at the first letter: is it
गाorना? - Look at
गाinगन्ध: top has a loop? No,गhas a loop on the left leg, right leg goes down. - Look at
नाinनाय(L19):नाhas a loop on the left, then horizontal, then vertical. - In L12, the first letter is
गा! Wait, doesगhave a loop at the bottom? Yes. - Wait, is it
ना? Look atगान्द्याद्यङ्गेvsनान्द्याद्यङ्गे: - In Sanskrit ritual, "नान्द्याद्यङ्गे" (in an anga of Nandi-shraddha etc.)? No, Nandi-mukha is very common!
- Wait, look at the first letter again: is the loop
'? No, 'राहैनं' with an anusvara!
Wait, look at line 30:
"तान्प्रजापतिराहैनं मा कृध्वं विषमं समम् ।"
Wait, between 'राहैन' and 'मा', what is that character?
It's 'ं' (anusvara) or 'न' + '्'?
Wait, look at: 'र' 'ा' 'ह' 'ै' 'त्' 'य'?
"राहैनं मा कृध्वं" -> in some texts it is "राह नैवं मा कृध्वं" or "राहैनं मा कृध्वं"!
Wait, look at the letters:
'ह' with ऐ-कार = 'है'
then 'त्' + 'य' = 'त्य'? "राह्रैत्य"?
Wait, look at line 30: "तानप्रजापतिराह्रैत्य" -> "तान् प्रजापतिराह्रैत्य"? "आहैत्य" = आह + इत्य?
"आहैत्य" (āha + itya -> not standard) or "आहैतं"?
Wait, look at the characters:
'ह' has ऐ-कार: 'है'।
Next character has a 'त' on top and 'य' below: 'त्य'!
Yes, it literally says: "तान्प्रजापतिराहैत्य मा कृध्वं विषमं समम् ।"
Wait, could it be "आहैत्य"? Yes, printer error for "आ
९ कण्डिका ] गोभिलगृह्यसूत्रे— १०७
निषिद्धातिरिक्तेन तं तितर्पयिषेद्दिति गतेन सम्बध्यते । प्रतिपत्तिस्त्वेवमेतस्य
वचनादन्नान्तरमुपादद्येम् । चरुशेषप्रदानादनन्तरमन्यदप्यन्नं प्रयच्छेदिति वा
वर्णनीयम् ॥ ४ ॥
अथ ब्राह्मणान्भक्तेनोपेप्सेत् ॥ ५ ॥
अथ स्वपाकसिद्ध्यनन्तरं ब्राह्मणान्ब्रह्मातिरिक्तान्भक्तेन उपेप्सेत् तर्पयितु
मिच्छेत् । अपवर्गेऽभिरूपभोजनं ब्रह्मणस्तर्पणेनैव मामंस्तेति पुनरसूत्रयत् ॥५॥
पूर्णपात्रोदक्षिणा तं ब्रह्मणे दद्यात् ॥ ६ ॥
पूर्णपात्रः पूर्णपात्रं पुंस्त्वं छान्दसम् । वक्ष्यमाणलक्षणम् दक्षिणा इत्युत्स-
र्गः । तं ब्रह्मणे दद्यात् । दक्षिणा ग्रहणं ब्रह्मणोऽभावेऽप्यन्यस्मै दानार्थम् । स्वयं
कर्मकरणेऽपि तथैवाम्नायते । व्यतिरेके च वैगुण्यं, यथाह कर्म्मप्रदीपः—
“ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता ।
कर्म्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत् ॥
विदध्याद्धौत्रमन्यश्चेद्वक्षिणार्द्धहरोभवेन् (१) ।
स्वयञ्चेदुभयङ्कुर्यादन्यस्मै प्रतिपादयेत् ॥”
इति । अत्र पूर्णपात्रादिपदाद्दक्षिणाविशेषालाभे मूल्यादिकमपि सङ्गृह्णाति ।
तथा च मैत्रावरुणीयपरिशिष्टम् “दक्षिणाभावे मूलानां भक्ष्याणान्दक्षिणान्द-
दाति” इति । अत्र विशेषश्चन्द्रकान्तभाष्यादौ द्रष्टव्यः ॥ ६ ॥
कंसं चमसं वाऽन्नस्य पूरयित्वा कृतस्य वाऽकृतस्य वाऽपि
वा फलानामेवैतं पूर्णपात्रमित्याचक्षते ॥ ७॥
कंसं कांस्यभाजनं वर्
असम्भवे पुनरेतस्याह कर्म्मप्रदीपः—
“यावता बहुभोक्तुस्तृप्तिः पूर्णेन जायते ।
नावराद्धंन्ततः कुर्यात्पूर्णपात्रमिति स्थितिः ॥” इति ॥ ७ ॥
ब्रह्मैवैक ऋत्विक् ॥ ८ ॥
दर्शपौर्णमासप्रस्तावादेवमुच्यते । तेन सायम्प्रातर्होमवैश्वदेवादीनामब्रह्मत्वे-
ऽपि न क्षतिः । अयमर्थः । सर्वकर्म्मस्वेक एव ब्रह्मा ऋत्विक् कर्त्तव्योन पुनः
कर्म्मभेदे नाना । तदनेन ( यजमानेन ) ऋत्विगत्याज्योभवतीत्युपदिशति ।
तथाच स्मरणम्—
“ऋत्विग्याज्यमदुष्टश्चेद्यँस्त्यजेदनपकारिणम् ।
अदुष्टमृत्विजं याज्यो विनेयौ तावुभावपि ॥
क्रमागतेष्वेव धर्म्मो वृतेष्वृत्विक्षु च स्वयम् ।
यादृच्छिके तु संयोज्ये तत्त्यागे नास्ति किल्विषम् ॥”
इति ॥ ८ ॥
पाकयज्ञेषु स्वयं होता भवति ॥ ६ ॥
एकाग्नौ ये यज्ञास्ते पाकयज्ञा उच्यन्ते । तथाच लाट्यायनः—“पाकयज्ञा
इत्याचक्षते एकाग्नौ यज्ञान्” इति । तेषु स्वयं होमे फलातिशयः स्मर्यते—
“स्वयं होमे फलञ्चैतत् तदन्येननजायते” इति ॥
अन्यो होता तु नानेन व्यवच्छिद्यते—तथाच कर्म्मप्रदीपः—
“निःक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजन्तथा ।
प्रवसेत्कार्यवान्विप्रो वृथैव न चिरङ्क्वचित्” ॥
इति । “जुहुयाद्वा हावयेद्वे”ति समान्यतःसूत्रणाच्च ॥ ९ ॥
पूर्णपात्रोऽवमः पाकयज्ञानां दक्षिणा ॥ १० ॥
पुंस्त्वमत्र पूर्ववत् । अवमः अधमः । “रेफयाप्यावमाधमाः” इत्यमरः
सर्वतोऽल्पः ॥ १ ॥
अपरिमितं परार्ध्यम् ॥ ११ ॥
अपरिमितं बहु,परार्द्ध्यं प्रशस्तम् । “परार्द्द्याग्रचप्राग्रहरप्राग्राग्राग्रीयमग्रि-
मम्” इतिकोशेऽभिधानात् । “परावराधमोत्तमपूर्वाच्च” ( पा० ४।३।५ )
इति यत्प्रत्यः शैषिकः । परार्द्धमन्तिमा संख्या तत्रभवम् ॥ ११ ॥
अस्मिन्नथ श्रुतिर्दृष्टान्तयति—
अपि ह सुदाः पैजवन ऐन्द्राग्निना स्थालीपाकेनेष्ट्वा शतं
सहस्राणि ददौ ॥ १२ ॥
अपिरन्यानपि समुच्चिनोति । सुदाः शोभनदाता । कर्त्तर्र्यखुन (उ०४।१८४)
९ कण्डिका ] गोभिलगृह्यसूत्रे- २०९
पैजवनः पिजवनपुत्रोऽपि । शतमित्यादि संख्यामात्राभिधाने गा एव, तथाच
द्राह्मायणसूत्रम् “संख्यामात्रे च दक्षिणा गावः” इति ॥ १२ ॥
अथ यदि गृहेऽग्नो सायम्प्रातर्होमयोर्वा दर्शपूर्णमासयोर्वा हव्यं
वा होतारं वा नाधिगच्छेत् कथं कुर्यादिति ? ॥ १३ ॥
स्वयमशक्तौ दैवाद्यदि गृहेऽग्नौ यावज्जीवं कर्त्तव्ययोस्सायम्प्रातर्होमयो-
(१)र्हव्यादिकन्नाधिगच्छेन्न प्राप्नुयात्तदा कथङ्कुर्यादिति प्रश्ने—
उत्तरयति—
आ सायमाहुतेः प्रातराहुतिर्नात्येत्याप्रातराहुतेः सायमाहुतिराऽमा-
वास्यायाः पौर्णमासनात्येत्यापौर्णमास्याआमावास्यम् ॥१४॥
आसायमाहुतेः सायमाहुतिपर्यन्तम् । मर्यादायामाङ् । नात्येति नातिक्रा-
मति । तत्र प्रायश्चित्तमात्रं स्मर्यते—
“स्वकाले सायमाहुत्या अप्राप्तौ होतृहव्ययोः ।
प्राक्च्यातराहुतेः कालः प्रायश्चित्ते कृतेसति ॥
प्राक्सायमाहुतेः प्रातर्होमकालानतिक्रमः ।
प्राक्पौर्णमासाद्दर्शस्य प्राग्दर्शादितरस्य च ॥”
इति । प्रायश्चित्तञ्च महाव्याहृतिहोमरूपमन्यत्र दृष्टमिहापि सामान्येन ।
एतेनैव सूत्रशेषोव्याख्यातः । तदिदं प्रदर्शनार्थम्परिकीर्त्तनं सायमाहुत्यादीनां,
न नियमार्थम् । कुतः स्मृत्यन्तरदर्शनात् । तथाचोक्तम्—
“मुख्यकाले यदा ऽवश्यङ्कर्म कर्त्तुं न शक्यते ।
गौणकालेऽपि कर्त्तव्यं गौणोऽप्यत्रेदृशोभवेत् ॥
आसायमाहुतेः कालात्कालः स्यात्प्रातराहुतेः ।
प्रातराहुतिकालात्प्राक् कालः स्यात्सायमाहुतेः ॥”
इत्यादि—एवम्—
“गौणेषु तेषु कालेषु कर्मचोदितमाचरन् ।
प्रायश्चित्तप्रकरणप्रोक्तां निष्कृतिमाचरेत् ॥”
इति । वैश्वदेवस्य पुनरतिक्रमेऽभोजनेऽपि प्रायश्चित्तानन्तरमेव कालान्त-
रे तदनुष्ठितिः स्मर्य्यते—
“वैश्वदैवे त्वतिक्रान्ते अहोरात्रमभोजनम् ।
प्रायश्चित्तमथो कृत्वा पुनः सन्तनुयाद्व्रतम् ॥”
इति । प्रथमवैश्वदेवातिक्रमे दिवा अभोजनं, द्वितीये रात्रावभोजनमिति
( १ ) प्रदर्शनमेतद्गृह्यदेवस्यापि दैवादन्यस्मात्कारणाद्धव्यं हवनीयं वस्तु—इत्येवमर्थः
११० दर्शपूर्णमासविधिः । [१ प्रपाठक
परिशिष्टप्रकाशः । वैश्वदेवद्रव्यातिक्रमे तु विशेषमाह कर्मप्रदीपः—
"परेणाग्नौ हुते स्वार्थं परस्याग्नौ हुते स्वयम् ।
पितृव्यज्ञात्यये चैव वैश्वदेवद्वयस्य च ॥
अनिष्वा नवयज्ञेन नवान्नप्राशने तथा ।
भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत् ॥”
इति । प्राक्सूर्यास्तमयात्प्रथमोवैश्वदेवोनात्येति । प्राक् च रात्रेः सार्द्धात्प्रह-
राद्द्वितीयः । यतस्तावानेव भोजनकालः पुरस्तादभिहितः ॥ १३ ॥ १४ ॥
एतेनैवावकाशेन हव्यं वा होतारं वा लिप्सोत ॥ १५ ॥
एतेनैवेति गौणकालपरामर्शः। लिप्सोत—लब्धुमिच्छेत। प्राप्तस्याप्यादरार्थ-
मभिधानम् । तथा लिप्सोत यथागौणकालोऽपि नातीयादिति ॥ तस्याप्यतिक्रमे
कर्मैव लुप्येत । यदा पुनर्लभ
९ कण्डिका ] गोभिलगृह्यसूत्रे— १११
स्याप्यालाभाद्धोममकुर्वतः प्रायश्चित्तम्भवति । तच्च प्रायश्चित्तम्पुनराधानमुक्तम् ।
यथाच स्मर्यते—
“होमद्वयात्यये दर्शपूर्णमासात्यये तथा ।
पुनरेवाग्निमादध्यादिति भास्करशासनम् ॥” इति ।
इति शब्दोऽत्रा(१)द्यार्थः अन्यान्यपि पुनराधाननिमित्तानि समुच्चिनोति ।
तानि च कर्मप्रदीपादिष्वनुसन्धेयानि । पुनराधानप्रकारश्च—
“पूर्वैव योनिः पूर्वाऽऽवृत्पुनराधानकर्म्मणि”
इत्यादिना कर्मप्रदीप एव वर्णितः ॥ १८ ॥
नाव्रतोब्राह्मणः स्यादिति ॥ १९ ॥
अव्रतोव्रतरहितोब्राह्मणोन स्यादल्पमपि कालम् । “मुहूर्त्तमपि नाव्रतोब्रा-
ह्मणःस्यादि”-ति पाठे व्यक्त एवार्थः । इति हेतौ । यस्मान्नाव्रतोब्राह्मणः
स्यात्तस्मात्पुनराधाननिमित्ते जातेऽविलम्बमेवादध्या